मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय १७

3
काशीखण्डः · 17

भौमगुरुशनिलोकवर्णनम्

शिवशर्मोवाच

शुक्रसंबंधिनी देवौ कथा श्रावि मया शुभा ॥

यस्याः श्रवणमात्रेण प्रीणिते श्रवणे मम

॥१॥

कस्य पुण्यनिधेर्लोकः शोकहृत्त्वेष निर्मलः ॥

एतदाख्यातुमुद्युक्तौ भवंतौ भवतां मम

॥२॥

धयित्वा श्रोत्रपात्राभ्यां वाणीममृतरूपिणीम् ॥

न तृप्तिमधिगच्छामि भवन्मुखसुखोद्गताम्

॥३॥

गणावूचतुः

लोहितांगस्य लोकोयं शिवशर्मन्निबोध ह ॥

उत्पत्तिं चास्य वक्ष्यावो भूसुतोयं यथाभवत्

॥४॥

पुरा तपस्यतः शंभोर्दाक्षायण्या वियोगतः ॥

भालस्थलात्पपातैकः स्वेदबिंदुर्महीतले

॥५॥

ततः कुमारः संजज्ञे लोहितांगो महीतलात् ॥

स्नेहसंवर्धितः सोथ धात्र्या धात्रीस्वरूपया

॥६॥

माहेय इत्यतः ख्यातिं परामेष गतः सदा ॥

ततस्तेपे तपोत्युग्रमुग्रपुर्यां पुरानघ

॥७॥

असिश्च वरणा चापि सरितौ यत्र शोभने ॥

द्युनद्योत्तरवाहिन्या मिलितेऽत्र जगद्धिते

॥८॥

सर्वगोपि हि विश्वेशो यत्र नित्यं प्रकाशते ॥

मुक्तये सर्वजंतूनां कालोज्ज्ञित स्ववर्ष्मणाम्

॥९॥

अमृतं हि भवंत्येव मृता यत्र शरीरिणः ॥

अनुग्रहं समासाद्य परं विश्वेश्वरस्य ह

॥१०॥

अपुनर्भवदेहास्ते येऽविमुक्रेतनुत्यजः ॥

विना सांख्येन योगेन विना नानाव्रतादिभिः

॥११॥

संस्थाप्य लिंगं विधिना स्वनाम्नांगारकेश्वरम् ॥

पांचमुद्रे महास्थाने कंबलाश्वतरोत्तरे

॥१२॥

ज्वलदंगारवत्तेजो यावत्तस्यशरीरतः ॥

विनिर्ययौ तपस्तावत्तेन तप्तं महात्मना

॥१३॥

ततोंगारक नाम्ना स सर्वलोकेषु गीयते ॥

तस्य तुष्टो महादेवो ददौ ग्रहपदं महत्

॥१४॥

अंगारक चतुर्थ्यां ये स्नात्वोत्तरवहांभसि ॥

अभ्यर्च्यांगारकेशानं नमस्यंति नरोत्तमाः

॥१५॥

न तेषां ग्रहपीडा च कदाचित्क्वापि जायते ॥

अंगांरकेन संयुक्ता चतुर्थी लभ्यते यदि

॥१६॥

उपरागसमं पर्व तदुक्तं कालवेदिभिः ॥

तस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम्

॥१७॥

श्रद्धया श्राद्धदा ये वै चतुर्थ्यंगारयोगतः ॥

तेषां पितॄणां भविता तृप्तिर्द्वादशवार्षिकी

॥१८॥

अंगारकचतुर्थ्यां तु पुरा जज्ञे गणेश्वरः ॥

अतएव तु तत्पर्व प्रोक्तं पुण्यसमृद्धये

॥१९॥

एकभक्तव्रती तत्र संपूज्य गणनायकम् ॥

किंचिद्दत्त्वा तमुद्दिश्य न विघ्नैरभिभूयते

॥२०॥

अंगारेश्वर भक्ता ये वाराणस्यां नरोत्तमाः ॥

तेऽस्मिन्नंगारके लोके वसंति परमर्द्धयः

॥२१॥

अगस्त्य उवाच

इत्थं कथयतोरेव रम्यां पुण्यवतीं कथाम् ॥

भगवद्गणयोः प्राप नेत्रातिथ्यं गुरोः पुरी

॥२२॥

नेत्रानंदकरीं दृष्ट्वा शिवशर्माऽथ तां पुरीम् ॥

पप्रच्छाचार्यवर्यस्य कस्येयं पूरनुत्तमा

॥२३॥

गणावूचतुः

सखे सुखं समाख्यावो नानाख्येयं तवाग्रतः ॥

अध्वखेदापनोदाय पुनरस्याः पुरः कथाम्

॥२४॥

विधेर्विधित्सतः पूर्वं त्रिलोकीरचनां मुदा ॥

आविरासुः सुताः सप्त मानसाः स्वस्यसंनिभाः

॥२५॥

मरीच्यत्र्यंगिरो मुख्याः सर्वे सृष्टिप्रवर्तकाः ॥

प्रजापतेरंगिरसस्तेष्वभूद्देवसत्तमः

॥२६॥

सुतश्चांगिरसो नाम बुद्ध्या विबुधसत्तमः ॥

शांतो दांतो जितक्रोधो मृदुवाङ्निर्मलाशयः

॥२७॥

वेदवेदार्थतत्त्वज्ञः कलासु कुशलोऽमलः ॥

पारदृश्वा तु सर्वेषां शास्त्राणां नीतिवित्तमः

॥२८॥

हितोपदेष्टा हितकृदहितात्यहितः सदा ॥

रूपवाञ्छीलसंपन्नो गुणवान्देशकालवित्

॥२९॥

सर्वलक्षणसंभार संभृतो गुरुवत्सलः ॥

तताप तापसीं वृत्तिं काश्यां स महतीं दधत

॥३०॥

महल्लिंगं प्रतिष्ठाप्य शांभवं भूरिभावनः ॥

अयुतं शरदां दिव्यं दिव्यतेजा महातपाः

॥३१॥

ततः प्रसन्नो भगवान्विश्वेशो विश्वभावनः ॥

आविर्भूय ततो लिंगान्महसां राशिरब्रवीत्

॥३२॥

प्रसन्नोस्मि वरं ब्रूहि यत्ते मनसि वर्तते ॥

इति शंभुं समालोक्य तुष्टावेति स हृष्टवान्

॥३३॥

आंगिरस उवाच

जय शंकर शांत शशांकरुचे रुचिरार्थद सर्वद सर्वशुचे ॥

शुचिदत्त गृहीत महोपहृते हृतभक्तजनोद्धततापतते

॥३४॥

ततसर्वहृदंबर वरदनते नतवृजिनमहावन दाहकृते ॥

कृतविविधचरित्रतनोसुतनो तनुविशिखविशोषणधैर्यनिधे

॥३५॥

निधनादि विवर्जितकृतनतिकृत्कृतिविहितमनोरथपन्नगभृत् ॥

नगभर्तृसुतार्पितवामवपुः स्ववपुःपरिपूरितसर्वजगत्

॥३६॥

त्रिजगन्मयरूपविरूपसुदृग्दृगुदंचनकुंचन कृतहुतभुक् ॥

भवभूतपतेप्रमथैकपते पतितेष्वपिदत्तकरप्रसृते

॥३७॥

प्रसूताखिलभूतलसंवरणप्रणवध्वनिसौधसुधांशुधर ॥

वरराजकुमारिकया परया परितः परितुष्ट नतोस्मि शिव

॥३८॥

शिवदेव गिरीश महेश विभो विभवप्रद गिरिश शिवेशमृड ॥

मृडयोडुपतिध्र जगत्त्रितयं कृतयंत्रणभक्तिविघातकृताम्

॥३९॥

न कृतांत त एष बिभेभि हरप्रहराशु महाघममोघमते ॥

नमतांतरमन्यदवैनि शिवं शिवपादनतेः प्रणतोस्मि ततः

॥४०॥

विततेऽत्र जगत्यखिलेऽघहरं हर तोषणमेव परं गुणवन् ॥

गुणहीनमहीन महावलयं प्रलयांतकमीश नतोस्मि ततः

॥४१॥

इति स्तुत्वा महादेवं विररामांगिरः सुतः ॥

व्यतरच्च महेशानः स्तुत्या तुष्टो वरान्बहून्

॥४२॥

श्रीमहादेव उवाच

बृहता तपसानेन बृहतां पतिरेध्यहो ॥

नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्योभव द्विज

॥४३॥

अस्माल्लिंगार्चनान्नित्यं जीवभूतोसि मे यतः ॥

अतो जीव इति ख्यातिं त्रिषु लोकेषु यास्यसि

॥४४॥

वाचां प्रपंचैश्चतुरैर्निष्प्रपंचो यतः स्तुतः ॥

अतो वाचां प्रपंचस्य पतिर्वाचस्पतिर्भव

॥४५॥

अस्य स्तोत्रस्य पठनादपि वागुदियाच्च यम् ॥

तस्य स्यात्संस्कृता वाणी त्रिभिर्वर्षैस्त्रिकालतः

॥४६॥

समुत्पन्ने महाकार्ये न स बुद्ध्या प्रहीयते ॥

यः पठिष्यत्यदः स्तोत्रं वायव्याख्यं दिनेदिने

॥४७॥

अस्यस्तोत्रस्य पठनान्नियतं मम संनिधौ ॥

न दुर्वृत्तौ प्रवृत्तिः स्यादविवेकवतां नृणाम्

॥४८॥

अदः स्तोत्रं पठञ्जंतुर्जातुपीडां ग्रहोद्भवाम् ॥

न प्राप्स्यति ततो जप्यमिदं स्तोत्रं ममाग्रतः

॥४९॥

नित्यं प्रातः समुत्थाय यः पठिष्यति मानवः ॥

इमां स्तुतिं हरिष्येऽहं तस्य बाधाः सुदारुणाः

॥५०॥

त्वत्प्रतिष्ठितलिंगस्य पूजां कृत्वा प्रयत्नतः ॥

इमां स्तुतिमधीयानो मनोवांछामवाप्स्यति

॥५१॥

इति दत्त्वा वराञ्छंभुः पुनर्ब्रह्माणमाह्वयत् ॥

सेंद्रान्देवगणान्सर्वान्सयक्षोरगकिन्नरान्

॥५२॥

तानागतान्समालोक्य शिवो व्रह्माणमब्रवीत् ॥

विधेविधेहि मद्वाक्यादमुं वाचस्पतिं मुनिम्

॥५३॥

गुरुं सर्वसुरेंद्राणां परितः स्वगुणैर्गुरुम् ॥

अभिषिंच विधानेन देवाचार्य पदे मुदे

॥५४॥

अतीव धिषणाधीशो ममप्रीतोभविष्यति ॥

महाप्रसाद इत्याज्ञां शिरस्याधाय तत्क्षणात्

॥५५॥

सुरज्येष्ठः सुराचार्यं चकारांगिरसं तदा ॥

देवदुंदुभयो नेदुर्ननृतुश्चाप्सरोगणाः

॥५६॥

गुरुपूजां व्यधुः सर्वे गीर्वाणा मुदिताननाः ॥

अभिषिक्तो वसिष्ठाद्यैर्मंत्रपूतेन वारिणा

॥५७॥

पुनरन्यं वरं प्रादाद्गिरीशः पतये गिराम् ॥

शृण्वांगिरस धर्मात्मन् देवेज्यकुलनंदन

॥५८॥

भवतास्थापितं लिंगं सुबुद्धिपरिवर्धनम् ॥

बृहस्पतीश्वर इति ख्यातं काश्यां भविष्यति

॥५९॥

गुरुपुष्यसमायोगे लिंगमेतत्समर्च्य च ॥

यत्करिष्यंति मनुजास्तत्सिद्धिमधियास्यति

॥६०॥

बृहस्पतीश्वरं लिंगं मया गोप्यं कलौ युगे ॥

अस्य संदर्शनादेव प्रतिभा प्रतिलभ्यते

॥६१॥

चंद्रेश्वराद्दक्षिणतो वीरेशान्नैर्ऋते स्थितम् ॥

आराध्य धिषणेशं वै गुरुलोके महीयते

॥६२॥

गुर्वंगना गमनजं पापं षण्मास सेवनात् ॥

अवश्यं विलयं याति तमः सूर्योदयाद्यथा

॥६३॥

अतएव हि गोप्तव्यं महापातकनाशनम् ॥

बृहस्पतीश्वरं लिंगं नाख्येयं यस्यकस्यचित्

॥६४॥

इति दत्त्वा वरान्देवस्तत्रैवांतर्हितो भवत् ॥

द्रुहिणो गुरुणा सार्धं सेंद्रोपेंद्रो बृहस्पतिम्

॥६५॥

अस्मिन्पुरेभिषिच्याथ विसृज्येंद्रादिकान्सुरान् ॥

अलंचकार स्वं लोकं विष्णुनाऽनुमतो द्विज

॥६६॥

अगस्त्य उवाच

अतिक्रम्य गुरोर्लोकं लोपामुद्रे ददर्श सः ॥

शिवशर्मा पुरी सौरेः प्रभामंडल मंडिताम्

॥६७॥

पृष्टौ तेन च तौ तत्र तां पुरीं प्रददर्शतुः ॥

द्विजेन द्विजवर्याय गणवर्यौ शुचिस्मिते

॥६८॥

गणावूचतुः

मारीचेः कश्यपाज्जज्ञे दाक्षायण्यां द्विजोष्णगुः ॥

तस्यभार्याभवत्संज्ञा पुत्री त्वष्टुः प्रजापतेः

॥६९॥

भर्तुरिष्टा ततस्तस्माद्रूपयौवनशालिनी ॥

संज्ञा बभूव तपसा सुदीप्तेन समन्विता

॥७०॥

आदित्यस्य हि तद्रूपं मंडलस्य तु तेजसा ॥

गात्रेषु परिदध्यौ वै नातिकांतमिवाभवत्

॥७१॥

न खल्वयमृतोंऽडस्थ इति स्नेहादभाषत ॥

तदा प्रभृति लोकेयं मार्तंड इति चोच्यते

॥७२॥

तेजस्त्वभ्यधिकं तस्य साऽसहिष्णुर्विवस्वतः ॥

येनातितापयामास त्रैलोक्यं तिग्मरश्मिभृत्

॥७३॥

त्रीण्यपत्यानि भो ब्रह्मन्संज्ञायां महसां निधिः ॥

आदित्यो जनयामास कन्यां द्वौ च प्रजापती

॥७४॥

वैवस्वतं मनुं ज्येष्ठं यमं च यमुनां ततः ॥

नातितेजोमयं रूपं सोढुं साऽलं विवस्वतः

॥७५॥

मायामयीं ततश्छायां सवर्णां निर्ममे स्वतः ॥

प्रांजलिः प्रणता भूत्वा संज्ञां छाया तदाब्रवीत्

॥७६॥

तवाज्ञाकारिणीं देवि शाधि मां करवाणि किम् ॥

संज्ञोवाच ततश्छायां सवर्णे शृणु सुंदरि

॥७७॥

अहं यास्यामि सदनं त्वष्टुस्त्वं पुनरत्र मे ॥

भवने वस कल्याणि निर्विशंकं ममाज्ञया

॥७८॥

मनुरेष यमावेतौ यमुना यम संज्ञकौ ॥

स्वापत्यदृष्ट्या द्रष्टव्यमेतद्बालत्रयं त्वया

॥७९॥

अनाख्येयमिदं वृत्तं त्वया पत्यौ शुचिस्मिते ॥

इत्याकर्ण्याथ सा त्वाष्ट्रीं देवीं छाया जगाद ह

॥८०॥

आकचग्रहणान्नाहमाशापाच्च कदाचन ॥

आख्यास्यामि चरित्रं ते याहि देवि यथासुखम्

॥८१॥

इत्यादिश्य सवर्णां सा तथेत्युक्ता सवर्णया ॥

पितुरंतिकमासाद्य नत्वा त्वष्टारमब्रवीत्

॥८२॥

पितः सोढुं न शक्नोमि तेजस्तेजोनिधेरहम् ॥

तीव्रं तस्यार्यपुत्रस्य काश्यपस्य महात्मनः

॥८३॥

निशम्योदीरितं तस्याः पित्रानिर्भर्त्सिता बहु ॥

भर्तुः समीपं याहीति नियुक्ता सा पुनःपुनः

॥८४॥

चिंतामवाप महतीं स्त्रीणां धिक्चेष्टितं त्विति ॥

निनिंद बहुधात्मानं स्त्रीत्वं चाति निनिंद सा

॥८५॥

स्वातंत्र्यं न क्वचित्स्त्रीणां धिगस्वातंत्र्यजीवितम् ॥

शैशवे यौवने प्रांते पितृभर्तृसुताद्भयम्

॥८६॥

त्यक्तं भर्तृगृहं मौग्ध्याद्धंत दुवृर्त्तया मया ॥

अविज्ञातापि चेद्यायामथ पत्युर्निकेतनम्

॥८७॥

तत्रास्ति सा सवर्णा वै परिपूर्णमनोरथा ॥

अथावतिष्ठे सात्रैव पित्रा निर्भर्त्सिताप्यहम्

॥८८॥

ततोति चंडश्चंडाशुः पित्रोरतिभयंकरः ॥

अहो यदुच्यते लोकैरुपाख्यानमिदं हि तत्

॥८९॥

स्फुटं दृष्टं मयाद्येति स्वकरांगारकर्ष(र्प?)णम् ॥

नष्टं भर्तृगृहं मौग्ध्याच्छ्रेयो वा न पितुर्गृहम्

॥९०॥

वयश्च प्रथमं चारु रूपं त्रैलोक्यकांक्षितम् ॥

सर्वाभिभवनं स्त्रीत्वं कुलं चातीव निर्मलम्

॥९१॥

पतिश्च तादृक्सर्वज्ञो लोकचक्षुस्तमोपहः ॥

सर्वेषां कर्मणां साक्षी सर्वः सर्वत्रसंचरः

॥९२॥

मह्यं श्रेयः कथं वा स्यादिति सा परिचिंत्य च ॥

अगच्छद्वडवा भूत्वा तपसे पर्यनिंदिता

॥९३॥

उत्तरांश्च कुरून्प्राप चरंती नीरसंतृणम् ॥

व्युत्तेपे च तपस्तीव्रं पतिमाधाय चेतसि ॥

तपोबलेन तत्पत्युः सहिष्ये तेज इत्यलम्

॥९४॥

मन्यमानोथ तां संज्ञां सवर्णायां तदा रविः ॥

सावर्णिं जनयामास मनुमष्टममुत्तमम्

॥९५॥

शनैश्चरं द्वितीयं च सुतां भद्रां तृतीयिकाम् ॥

सवर्णा स्वेष्वपत्येषु सापत्न्यात्स्त्रीस्वभावतः

॥९६॥

चकाराभ्यधिकं स्नेहं न तथा पूर्वजेष्वथ ॥

मनुस्तत्क्षांतवाञ्ज्येष्ठो भक्ष्यालंकारलालने

॥९७॥

कनिष्ठेष्वधिकं दृष्ट्वा सावर्ण्यादिषु नो यमः ॥

कदाचिद्रोषतो बाल्याद्भाविनोर्थस्य गौरवात्

॥९८॥

पदा संतर्जयामास यमः संज्ञासरूपिणीम् ॥

तं शशाप च सा क्रोधात्सावर्णेर्जननी तदा

॥९९॥

जिघांसता त्वया पाप मां यदंघ्रिः समुद्यतः ॥

अचिरात्तत्पतत्वेष तवेति भृशदुःखिता

॥१००॥

मातृशाप परित्रस्तो यमोपि पितुरग्रतः ॥

शशंस सर्वं तद्वृत्तं रक्षरक्षेत्युवाच च

॥१॥

मात्रासु तेषु सर्वेषु वर्तनीयं समं यतः ॥

तस्यां मयोद्यतः पादो न देहे परिपातितः

॥२॥

बाल्याद्वा यदि वा मोहात्तद्भवान्क्षंतुमर्हसि ॥

गोपते शापतो मातुर्मा पतत्वंघ्रिरेष मे

॥३॥

विवस्वानुवाच

अपराधसहस्रेपि जननी न शपेत्सुतम् ॥

तस्मात्किमपि भो बाल भविष्यत्यत्र कारणम्

॥४॥

येन त्वां साऽशपत्क्रोधाद्धर्मज्ञं सत्यवादिनम् ॥

मातृशापोन्यथाकर्तुं न शक्यः केनचित्क्वचित्

॥५॥

कृमयो मांसमादाय यास्यंत्यस्मान्महीतलम् ॥

इत्थं तु चरितार्थः स्याच्छापस्त्रातो भवानपि

॥६॥

इति पुत्रं समाश्वास्य रविरंतःपुरं ययौ ॥

चिरमालोक्य तां भार्यामुवाच सविता वचः

॥७॥

अयि भामिनि बालेषु समेष्वपि कुतस्त्वया ॥

विधीयतेऽधिकः स्नेहः सावर्ण्यादिष्वनादिषु

॥८॥

नाचचक्षे यदासाऽथ भास्वते परिपृच्छते ॥

तदात्मानं समाधाय सोज्ञासीत्सर्वमेव हि

॥९॥

ततो भगवते शप्तुमुद्यते सा शशंस ह ॥

यथावृत्तं तथा तथ्यं तुतोष भगवानपि

॥११०॥

तथ्यभाषणतस्तां तु रविर्ज्ञात्वा निरागसम् ॥

न शशाप च संक्रुद्धो ययौ च त्वष्टुरंतिकम्

॥११॥

त्वष्टापि च यथान्यायं सान्वयं तिग्मतेजसम् ॥

निर्दग्धुकामं कोपेन प्रागानर्च मुदा तदा ॥

विज्ञाय तदभिप्रायं त्वष्टोवाचाऽशु तं रविम्

॥१२॥

त्वष्टोवाच

तवातितेजसो भीता प्राप्योत्तरकुरून् रवे ॥

वडवारूपमास्थाय वने चरति शाद्वले

॥१३॥

द्रष्टा हि तां भवानद्य स्वां भार्यामार्यचारिणीम् ॥

अधृष्यां सर्वभूतानां तेजसा नियमेन च

॥१४॥

त्वष्ट्रा यत्तक्षितः सूर्यस्तस्यैवानुमतेन च ॥

भ्रमिमारोप्य यत्नेन सोतिकांततरोऽभवत्

॥१५॥

लब्धानुज्ञोऽथ सविता गत्वोत्तरकुरूनरम् ॥

साक्षात्तपोमयीं लक्ष्मीं चरंतीं च तपो महत्

॥१६॥

ददर्श वडवारूपां वाडवानलतेजसम् ॥

नीरसा नितृणान्येव वृण्वंतीं योगमायया

॥१७॥

अनेनसं स विज्ञाय तां त्वाष्ट्रीमश्वरूपिणीम् ॥

सहरिर्हरिरूपेण मुखेन समभावयद्

॥१८॥

त्वरमाणा च परितः परपूरुषशंकया ॥

सा तन्निरवमच्छुक्रं नासिकाभ्यां विवस्वतः

॥१९॥

देवौ तस्मादजायेतामश्विनौ भिषजांवरौ ॥

स्वरूपमनुरूपं च द्युमणिस्तामदर्शयत

॥१२०॥

तुतोष सापि तं दृष्ट्वा मित्रं नेत्रमुदावहम् ॥

पतिं पतिव्रता कां तं स्वांतसंतापहारिणम्

॥२१॥

निर्वृत्तिं च परां प्राप दुष्प्रापं तपसाथ किम् ॥

तप एव परं श्रेयस्तप एव परं धनम्

॥२२॥

तप एव हि देवत्वे कारणं परमं मतम् ॥

शिवशर्मन्यदेतद्वै दृश्यते चातिदीप्तिमत्

॥२३॥

ज्योतिश्चक्रस्वरूपं च व्योम्न्युपर्यध एव च ॥

तत्सर्वमिह जानीहि सुमहत्तापसं महः

॥२४॥

एवं शनैश्चरो जज्ञे सवर्णायां विवस्वतः ॥

सोऽथ वाराणसीं गत्वा सर्वत्रिदशवंदिताम्

॥२५॥

तप्त्वा तपोऽतिविपुलं लिंगं संस्थाप्य शांकरम् ॥

इमं लोकमवापोच्चैर्ग्रहत्वं च हरार्चनात

॥२६॥

शनैश्चरेश्वरं दृष्ट्वा वाराणस्यां सुशोभनम् ॥

शनिबाधा न जायेत शनिवारे तदर्चनात्

॥२७॥

विश्वेशाद्दक्षिणेभागे शुक्रेशादुत्तरेण हि ॥

शनैश्चरेशमभ्यर्च्य लोकेऽत्र परिमोदते

॥२८॥

श्रुत्वाऽध्यायमिमं पुण्यं ग्रहपीडा न जायते ॥

नोपसर्गभयं तस्य काश्यां निवसतः सतः

॥१२९॥

इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे भौमगुरुशनिलोकवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥