मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ९३

3
काशीखण्डः · 93

सतीश्वरप्रादुर्भावः

अगस्त्य उवाच

नर्मदेशस्य माहात्म्यं श्रुतं कल्मषनाशनम् ॥

इदानीं कथय स्कंद सतीश्वर समुद्भवम्

॥१॥

स्कंद उवाच

मित्रावरुणसंभूत कथयामि कथां शृणु ॥

यथा सतीश्वरं लिंगं काश्यामाविर्बभूव ह

॥२॥

पुरा तताप सुमहत्तपः शतधृतिर्मुने ॥

तपसा तेन देवेशः संतुष्टो वरदोऽभवत्

॥३॥

उवाच चापि ब्रह्माणं नितरां ब्राह्मणप्रियः ॥

सर्वज्ञनाथो लोकात्मा वरं वरय लोककृत्

॥४॥

ब्रह्मोवाच

यदि प्रसन्नो देवेश वरं दास्यसि वांछितम् ॥

तदा त्वं मे भव सुतो देवी दक्षसुताऽस्तु च

॥५॥

इति श्रुत्वा महादेवः सर्वदो ब्रह्मणो वरम् ॥

स्मित्वा देवीमुखं वीक्ष्य प्रोवाच चतुराननम्

॥६॥

ब्रह्मंस्त्वद्वांछितं भूयात्किमदेयं पितामह ॥

इत्युक्त्वा ब्रह्मणो भालादाविरासीच्छशांकभृत्

॥७॥

रुदन्स उत्तानशयो ब्रह्मणो मुखमैक्षत ॥

ततो ब्रह्मापि तं बालं रुदंतं प्रविलोक्य च

॥८॥

किं मां जनकमाप्यापि त्वं रोदिषि मुहुर्मुहुः ॥

श्रुत्वेति पृथुकः प्राह यथोक्तं परमेष्ठिना

॥९॥

नाम्ने रोदिमि मे स्रष्टुर्नाम देहि पितामह ॥

रोदनाद्रुद्र इत्याख्यां समाया डिंभको लभत्

॥१०॥

अगस्त्य उवाच

अर्भकत्वं गतोपीशः किं रुरोद षडानन ॥

यदि वेत्सि तदाचक्ष्व महत्कौतूहलं हि मे

॥११॥

स्कंद उवाच

सर्वज्ञस्य कुमारत्वात्किंचित्किंचिदवैम्यहम् ॥

रोदने कारणं वच्मि शृणु कुंभसमुद्भव

॥१२॥

मनसीति विचारोभूद्देवस्य परमात्मनः ॥

बुद्धिवैभवमस्याहो वीक्षितुं परमेष्ठिनः

॥१३॥

सत्यलोकाधिनाथस्य चतुरास्यस्य वेधसः ॥

इत्यानंदात्समुद्भूतो वाष्पपूरो महेशितुः

॥१४॥

अगस्त्य उवाच

किं बुद्धिवैभवं धातुः शंभुना मनसीक्षितम् ।

येनानंदाश्रु संभारो बाल्येप्यभवदीशितुः

॥१५॥

एतत्कथय मे प्राज्ञ सर्वज्ञानंदवर्धन ॥

श्रुत्वागस्त्युदितं वाक्यं तारकारिरुवाच ह

॥१६॥

देवे न मनसि ध्यातमिति कुंभजने मुने ॥

विनापत्यं जनेतारं क उद्धर्तुमिह प्रभुः

॥१७॥

एको मनोरथश्चायं द्वितीयोयं सुनिश्चितम् ॥

अपत्यत्वं गते चास्मिन्स्मर्तुरुत्पत्तिहारिणि

॥१८॥

क्षणंक्षणं समालोक्यमंगस्पर्शे क्षणंक्षणम् ॥

एकशय्यासनाहारं लप्स्यतेऽनेन क्षणेक्षणे !

॥१९॥

योयं न गोचरः क्वापि वाणीमनसयोरपि ॥

स मेऽपत्यत्वमासाद्य किं न दास्यति चिंतितम्

॥२०॥

योऽमुं सकृत्स्पृशेज्जंतुर्योमुं पश्येत्सकृन्मुदा ।

न स भूयोभिजायेत भवेच्चानंदमेदुरः

॥२१॥

गृहक्रीडनकं मे सौ यदि भूयात्कथंचन ॥

तदापरस्य सौख्यस्य निधानं स्यामसंशयम्

॥२२॥

विधेः समीहितं चेति नूनं ज्ञात्वा स सर्ववित् ॥

आनंदवाष्पकलितं चक्षुस्त्रयमदीधरत्

॥२३॥

श्रुत्वैत्यगस्तिः स्कंदस्य भाषितं पर्यमूमुदत् ॥

ननाम चांघ्री प्रोवाच जयसर्वज्ञनंदन

॥२४॥

विधेरपि मनोज्ञातं शंभोरपि मनोगतम् ॥

सम्यक्चित्तं त्वया ज्ञातं नमस्तुभ्यं चिदात्मने

॥२५॥

स्कंदोपि नितरां तुष्टःश्रोतुरानंददर्शनात् ॥

धन्योस्यगस्त्य धन्योसि श्रोतुं जानासि तत्त्वतः

॥२६॥

न मे श्रमो वृथा जातो ब्रुवतस्ते पुरः कथाम् ॥

इत्यगस्तिं समाभाष्य पुनः प्राह षडाननः

॥२७॥

देवे रुद्रत्वमापन्ने देवी दक्षसुताभवत् ॥

सापि तप्त्वा तपस्तीव्रं सती काश्यां वरार्थिनी

॥२८॥

ददर्श लिंगरूपेण प्रादुर्भूतं हरं पुरः ॥

अलं तप्त्वा महादेवि प्रोक्तवंतमिति स्फुटम्

॥२१॥

इदं सतीश्वरं लिंगं तव नाम्ना भविष्यति . ॥

यथा मनोरथस्तेऽत्र फलितो दक्षकन्यके

॥३०॥

तथैतल्लिंगमाराध्यान्यस्यापि हि फलिष्यति ॥

कुमारी प्राप्स्यति पतिं मनसोपि समुच्छ्रितम्

॥३१॥

एतल्लिंगं समाराध्य कुमारोपि वरांगनाम् ॥

यस्य यस्य हि यः कामस्तस्य तस्य हि स ध्रुवम्

॥३२॥

भविष्यति न संदेहः सतीश्वरसमर्चगात् ॥

सतीश्वरं समभ्यर्च्य यो यो यं यं समीहते

॥३३॥

तस्य तस्य स स क्षिप्रं भविष्यति मनोरथः

॥३४॥

इतोष्टमे च दिवसे त्वज्जनेता प्रजापतिः ॥

मह्यं दास्यति कन्यां त्वां सफलस्ते मनोरथः ॥

इत्युक्त्वा देवदेवेशस्तत्रैवांतर्हितोभवत्

॥३५॥

सापि स्वभवनं याता सती दाक्षायणी मुदा ॥

पितापि तस्मै प्रादात्तां रुद्राय दिवसेष्टमे

॥३६॥

स्कंद उवाव ॥

इत्थं सतीश्वरं लिंगं काश्यां प्रादुरभून्मुने ॥

स्मरणादपि लिंगं च दद्यात्सत्त्वगुणं परम्

॥३७॥

रत्नेशात्पूर्वतो भागे दृष्ट्वा लिंगं सतीश्वरम् ॥

मुच्यते पातकैः सद्यः क्रमाज्ज्ञानं च विंदति

॥३८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे सतीश्वरप्रादुर्भावो नाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥