मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ८

3
काशीखण्डः · 8

जीवितेश कथामेतां पुण्यां पुण्यपुरीश्रिताम्

लोपामुद्रोवाच

जीवितेश कथामेतां पुण्यां पुण्यपुरीश्रिताम् ॥

न तृप्तिमधिगच्छामि श्रुत्वा त्वच्छ्रीमुखेरिताम्

॥१॥

मायापुर्यां मुक्तिपुर्यां शिवशर्मा द्विजोत्तमः ॥

मृतोपि मोक्षं नैवाप ब्रूहि तत्कारणं विभो

॥२॥

अगस्त्य उवाच

साक्षन्मोक्षो न चैतासु पुरीषु प्रियभाषिणि ॥

पुरोद्दिश्यामुमेवार्थमितिहासो मयाश्रुतः

॥३॥

शृणु कांते विचित्रार्थां कथां पापप्रणाशिनीम् ॥

पुण्यशीलसुशीलाभ्यां कथितां शिवशर्मणे

॥४॥

शिवशर्मोवाच

अयि विष्णुगणौ पुण्यौ पुंडरीकदलेक्षणौ ॥

किंचिद्विज्ञप्तुकामोहं प्रवृद्धकरसंपुटः

॥५॥

न नाम युवयोर्वेद्मि वेद्म्याकृत्या च किंचन ॥

पुण्यशीलसुशीलाख्यौ युवां भवितुमर्हथः

॥६॥

गणा वूचतुः

भगवद्भक्तियुक्तानां किमज्ञातं भवादृशाम् ॥

एतदेव हि नौ नाम यदुक्तं श्रीमता त्वया

॥७॥

यदन्यदपि ते चित्ते प्रष्टव्यं तदशंकितम् ॥

संपृच्छस्व महाप्राज्ञ प्रीत्या तत्प्रब्रवावहे

॥८॥

इति श्रुत्वा स वचनं भगवद्गणभाषितम् ॥

अतिप्रीतिकरं हृद्यं ततस्तौ प्रत्युवाच ह

॥९॥

दिव्य द्विज उवाच

क एष लोको ऽल्पश्रीकः स्वल्पपुण्यजनाकृतिः ॥

क इमे विकृताकारा ब्रूतमेतन्ममाग्रतः

॥१०॥

गणावूचतुः

अयं पिशाचलोकोत्र वसंति पिशिताशनाः ॥

दत्त्वानुतापभाजो ये नोनो कृत्वा ददत्यपि

॥११॥

शिवं प्रसंगतोभ्यर्च्य सकृत्त्वशुचिचेतसः ॥

अल्पपुण्याल्पलक्ष्मी काः पिशाचास्त इमे सखे

॥१२॥

ततो गच्छन्ददर्शाग्रे हृष्टपुष्टजनावृतम् ॥

पिचंडिलैः स्थूलवक्त्रैर्मेघगंभीरनिःस्वनैः

॥१३॥

लोकैरप्युषितं लोकं श्यामलांगैश्च लोमशैः ॥

गणौ कथयतां केमी को लोकः पुण्यतः कुतः

॥१४॥

गणावूचतुः

गुह्यकानामयं लोकस्त्वेते वै गुह्यकाः स्मृताः ॥

न्यायेनोपार्ज्य वित्तानि गूहयंति च ये भुवि

॥१५॥

स्वमार्गगाधनाढ्याश्च शूद्रप्रायाः कुटुंबिनः ॥

संविभज्य च भोक्तारः क्रोधासूयाविवर्जिताः

॥१६॥

न तिथिं नैव वारं च संक्रात्यादि न पर्व च ॥

नाधर्मं न च धर्मं च विदंत्येते सदा सुखाः

॥१७॥

एकमेव हि जानंति कुलपूज्यो हि यो द्विजः ॥

तस्मै गाः संप्रयच्छंति मन्यंते तद्वचःस्फुटम्

॥१८॥

समृद्धिभाजोह्यत्रापि तेन पुण्येन गुह्यकाः ॥

भुंजते स्वर्गसौख्यानि देववच्चाकुतोभयाः

॥१९॥

ततो विलोकयामास लोकं लोचनशर्मदम् ॥

केऽमी जनास्त्वसौ लोकः किंनामा वदतां गणौ

॥२०॥

गणावूचतुः

गांधर्वस्त्वेषलोकोऽमी गंधर्वाश्च शुभव्रताः ॥

देवानां गायनाद्येते चारणाः स्तुतिपाठकाः

॥२१॥

गीतज्ञा अतिगीतेन तोषयंति नराधिपान् ॥

स्तुवंति च धनाढ्यांश्च धनलोभेन मोहिता.

॥२२॥

राज्ञां प्रसादलब्धानि सुवासांसि धनान्यपि ॥

द्रव्याण्यपि सुगंधीनि कर्पूरादीन्यनेकशः

॥२३॥

ब्राह्मणेभ्यः प्रयच्छंति गीतं गायंत्यहर्निशम् ॥

श्रुतावेव मनस्तेषां नाट्यशास्त्रकृतश्रमाः

॥२४॥

तेन पुण्येन गांधर्वो लोकस्त्वेषां विशिष्यते ॥

ब्राह्मणास्तोषिता यद्वै गीतविद्यार्जितैर्धनैः

॥२५॥

गीतविद्याप्रभावेन देवर्षिर्नारदो महान् ॥

मान्यो वैष्णवलोके वै श्रीशंभोश्चातिवल्लभः

॥२६॥

तुंबुरुर्नारदश्चोभौ देवानामतिदुर्लभौ ॥

नादरूपी शिवः साक्षान्नादतत्त्वविदौ हि तौ

॥२७॥

यदि गीतं क्वचिद्गीतं श्रीमद्धरिहरांतिके ॥

मोक्षस्तु तत्फलं प्राहुः सान्निध्यमथवा तयोः

॥२८॥

गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् ॥

रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते

॥२९॥

अस्मिँल्लोके सदा कालं स्मृतिरेषा प्रगीयते ॥

तद्गीतमालया पूज्यौ देवौ हरिहरौ सदा

॥३०॥

इति शृण्वन्क्षणात्प्राप पुनरन्यन्मनोहरम् ॥

शिवशर्माथ पप्रच्छ किं संज्ञं नगरं त्विदम्

॥३१॥

गणावूचतुः

असौ वैद्याधरो लोको नाना विद्या विशारदाः ॥

एते विद्यार्थिनामन्नमुपानद्वस्त्रकंबलम्

॥३२॥

औषधान्यपि यच्छंति तत्पीडाशमनानि हि ॥

नानाकलाः शिक्षयंति विद्यागर्वविवर्जिताः

॥३३॥

शिष्यं पुत्रेण पश्यंति वस्त्र तांबूल भोजनैः ॥

अलंकृताश्च सत्कन्या धर्मादुद्वाहयंति च

॥३४॥

अभिलाषधिया नित्यं पूजयंतीष्टदेवताः ॥

एतः पुण्यैर्वसंतीह विद्याधर वरा इमे

॥३५॥

यावदित्थं कथां चक्रुस्तावत्संयमिनीपतिः ॥

धर्मराजोभिसंप्राप्तो देवदुंदुभि निःस्वनैः

॥३६॥

सोम्यमूर्तिर्विमानस्थो धर्मज्ञैः परिवारितः ॥

सेवाकर्मसु चतुरैर्भृत्यैस्त्रिचतुरैः सह

॥३७॥

धर्मराज उवाच

साधुसाधु महाबुद्धे शिवशर्मन्द्विजोत्तम ॥

कुलोचितं ब्राह्मणानां भवता प्रतिपादितम्

॥३८॥

वेदाभ्यासः कृतः पूर्वं गुरवश्चापि तोषिताः ॥

धर्मशास्त्रपुराणे षु दृष्टो धर्मस्त्वयाऽऽदृतः

॥३९॥

क्षालितं मुक्तिपुर्यद्भिराशुगंतृशरीरकम् ॥

कोविदोऽस्ति भवानेव जीविते जीवितेतरे

॥४०॥

कलेवरं पूतिगंधि सदैवाशुचिभाजनम् ॥

सुतीर्थपुण्य पण्येन सम्यग्विनिमितं त्वया

॥४१॥

अतएवाहि पांडित्यमाद्रिंयते विचक्षणाः ॥

अहःक्षेपं न क्षिपंति क्षणमेकं हि ते बुधाः

॥४२॥

निमेषान्पंचपान्मर्त्ये प्राणंति प्राणिनो ध्रुवम् ॥

तत्रापि न प्रवर्तेयुरघकर्मणि गर्हिते

॥४३॥

स्थिरापायः सदा कायो न धनं निधनेऽवति ॥

तन्मूढः प्रौढकार्ये किं न यतेत भवानिव

॥४४॥

सत्वरं गत्वरं चायुर्लोकः शोकसमाकुलः ॥

तस्माद्धर्मे मतिः कार्या भवतेव सुधार्मिकैः

॥४५॥

सत्कर्मणो विपाकोऽयं तव वंद्यौ ममाप्यहो ॥

यदेतौ भगवद्भक्तौ सखित्वं भवतो गतौ

॥४६॥

ममाज्ञा दीयतां तस्मात्साहाय्यं करवाणि किम् ॥

यत्कर्तव्यं मादृशैस्ते तत्कृतं भवतैवहि

॥४७॥

अद्य धन्यतरोस्मीह यद्दृष्टौ भगवद्गणौ ॥

सेवा सदैव मे ज्ञाप्या श्रीमच्चरणसन्निधौ

॥४८॥

ततः प्रस्थापितस्ताभ्यां प्राविशत्स्वपुरीं यमः ॥

अप्राक्षीच्च ततो विप्रस्तौ गणौ प्रस्थिते यमे

॥४९॥

शिवशर्मोवाच

साक्षादयं धर्मराजो ननु सौम्यतराकृतिः ॥

धर्म्याण्येव वचांस्यस्य मनः प्रीतिकराणि च

॥५०॥

पुरी संयमनी सेयमतीव शुभलक्षणा ॥

आकर्ण्य यस्य नामापि पापिनोऽतीव बिभ्यति

॥५१॥

यमरूपं वर्णयंति मर्त्यलोकेऽन्यथा जनाः ॥

अन्यथाऽयं मया दृष्टो ब्रूतं तत्कारणं गणौ

॥५२॥

केन पश्यंत्यमुं लोकं निवसंति तथात्र के ॥

इदमेवास्य किं रूपं किं चान्यच्च निवेद्यताम्

॥५३॥

गणावूचतुः

शृणु सौम्य सुसौम्योऽसौ दृश्यतेत्र भवादृशैः ॥

धर्ममूर्तिः प्रकृत्यैव निःशंकैः पुण्यराशिभिः

॥५४॥

अयमेव हि पिंगाक्षः क्रोधरक्तांतलोचनः ॥

दंष्ट्राकरालवदनो विद्युल्ललनभीषणः

॥५५॥

ऊर्ध्वकेशोऽतिकृष्णांगः प्रलयांबुदनिःस्वनः ॥

कालदंडोद्यतकरो भुकुटी कुटिलाननः

॥५६॥

आनयैनं पातयैनं बधानामुंच दुर्दम ॥

घातयैनं सुदुर्वृत्तं मूर्ध्नि तीव्रमयोघनैः

॥५७॥

आताडयैनं दुर्वृत्तं धृत्वा पादौ शिलातले ॥

उत्पाटयास्य नेत्रे त्वं निधाय चरणं गले

॥५८॥

एतस्य गल्लावुत्फुल्लौ क्षुरेणाशुवि पाटय ॥

पाशेन कंठं बद्धास्य समुल्लंबय भूरुहे

॥५९॥

विदारयास्य मूर्धानं करपत्रेण दारुवत् ॥

पार्ष्णिघातैर्घ्नतास्यास्यं समुच्चूर्णय दारुणैः

॥६०॥

परदारप्रसृमरं करं छिंध्यस्य पापिनः ॥

परदारगृहं यातुः पादौ चास्य विखंडय

॥६१॥

सूचीभी रोमकूपेषु तनुं व्यधिहि सर्वतः ॥

दातुः परकलत्रांगे नखपंक्ती दुरात्मनः

॥६२॥

परदारमुखाघ्रातुर्मुखे निष्ठीवयास्य हि ॥

वक्तुः परापवादस्य कीलं तीक्ष्णं मुखे क्षिप

॥६३॥

भर्जयैनं चणकवत्तप्तवालुक कर्परैः ॥

भ्राष्ट्रे विकटवक्त्रत्वं परसंतापकारिणम्

॥६४॥

दोषारोपं सदाकर्तुरदोषे क्रूरलोचन ॥

निमज्जयास्य वदनं पूयशोणितकर्दमे

॥६५॥

अदत्तपरवस्तूनां गृह्णतः करपल्लवम् ॥

आप्लुत्याप्लुत्य तैलेन तप्तांगारे पचोत्कट

॥६६॥

अपवादं गुरोर्वक्तुर्निंदाकर्तुः सुपर्वणाम् ॥

तप्तलोहशलाकाश्च मुखे भीषण निक्षिप

॥६७॥

परमर्म स्पृशश्चास्य परच्छिद्रप्रकाशितुः ॥

सुतप्तायोमयाञ्च्छंकून्सर्वसंधिषु रोपय

॥६८॥

अन्ये न दीयमाने स्वे निषेद्धुःपापकारिणः ॥

आच्छेत्तुः परवृत्तीनां जिह्वां छिंध्यस्य दुर्मुख

॥६९॥

देवस्वभोक्तुः क्रोडास्य ब्राह्मणस्वस्यभोजिनः ॥

विदार्योदरमस्याशु विट्कीटैः परिपूरय

॥७०॥

न देवार्थे न विप्रार्थे नातिथ्यर्थे पचेत्क्वचित् ॥

तममुं स्वार्थपक्तारं कुंभीपाके पचांधक

॥७१॥

उग्रास्य शिशुहंतारममुं विश्रंभघातिनम् ॥

कृतघ्नं नय वेगेन महारौरव रौरवम्

॥७२॥

ब्रह्मघ्नं चांधतामिस्रे सुरापं पूयशोणिते ॥

कालसूत्रे हेमचौरमवीचौ गुरुतल्पगम्

॥७३॥

तत्संसर्गिणमावर्षमसिपत्रवने तथा ॥

एतान्महापातकिनस्तप्ततैलकटाहके

॥७४॥

आप्लुत्याप्लुत्य दुर्दंष्ट्रकाकोलैर्लोहतुंडकैः ॥

संतोद्यमानान्पापिष्ठान्नित्यं कल्पं निवासय

॥७५॥

स्त्रीघ्नं गोघ्नं च मित्रघ्नं कूटशाल्मलिपादपे ॥

उल्लंबय चिरंकालमूर्ध्वपादमधोमुखम्

॥७६॥

त्वचमस्य च संदंशैस्त्रोटय त्वं महाभुज ॥

आश्लेषितुर्मित्रपत्न्या भुजावुत्पाटया शुच

॥७७॥

ज्वालाकीले महाघोरे नरकेऽमुं नि पातय ॥

यो वह्निना दाहयति परक्षेत्रं परालयम्

॥७८॥

कालकूटे च गरदं कूटसाक्ष्याभिवादिनम् ॥

मानकूटं तुलाकूटं कंठमोटे निपातय

॥७९॥

लालापिबेच दुष्प्रेक्ष्य तीर्थासुष्ठीविनं(?) नय ॥

आमपाके च गर्भघ्नं शूलपाकेऽन्यतापिनम्

॥८०॥

रसविक्रयिणं विप्रमिक्षुयंत्रे प्रपीडय ॥

प्रजापीडाकरं भूपमंधकूपे निपातय

॥८१॥

गोतिलांश्च तुरंगांश्च विक्रेतारं द्विजाधमम् ॥

मातुलान्याः सुरायाश्च विक्रेतारं हलायुध

॥८२॥

मुसलोलूखले वैश्यं कंडयैनं पुनःपुनः ॥

शूद्रं द्विजावमंतारं द्विजाग्रे मंचसेविनम्

॥८३॥

अधोमुखे च नरके दीर्घग्रीवप्रपीड्य

॥८४॥

शूद्रं ब्राह्मणजेतारं वैश्यं बाह्मणमानिनम् ॥

क्षत्रियं याजकं चापि विप्रं वेदविवर्जितम्

॥८५॥

लाक्षालवणमांसानां सतैलविषसर्पिषाम् ॥

आयुधेक्षुविकाराणां विक्रेतारं द्विजाधमम्

॥८६॥

पाशपाणेकशापाणे बद्ध्वैतांश्चरणेदृढम् ॥

घातयंतौ कशाघातैर्नयतं तप्तकर्दमे

॥८७॥

इमां स्त्रियं श्लेषयाशु पुंश्चलीं कुलकल्मषाम् ॥

तेनोपपतिना सार्धं तप्तायसमयेन च

॥८८॥

स्वयं गृहीत्वा नियमं यस्त्यजेदजितेंद्रियः ॥

तं प्रापय दुराधर्षं बहुभ्रमरदंशके

॥८९॥

इत्यादिजल्पन्दुर्वृत्तैः श्रूयते दूरतो यमः ॥

स्वकर्मशंकितैः पापै र्दृश्यतेति भयंकरः

॥९०॥

ये प्रजाः पालयंतीह पुत्रानेव निजौरसान् ॥

दंडयंति च धर्मेण भूपास्तेऽस्य सभासदः

॥९१॥

वर्णाश्रमाश्च यद्राष्ट्रे ऽनुतिष्ठंति निजां क्रियाम् ॥

कालेनापन्ननिधना भूपास्तेऽस्य सभासदः

॥९२॥

नैव दीनो न दुर्वृत्तो नापद्ग्रस्तो न शोकभाक् ॥

येषां राष्ट्रे प्रदृश्यंते भूपास्तेऽस्य सभासदः

॥९३॥

ब्राह्मणाः क्षत्रिया वैश्याः स्वधर्म निरताः सदा ॥

अन्येपि ये संयमिनः संयमिन्यां वसंति ते

॥९४॥

उशीनरः सुधन्वा च वृषपर्वा जयद्रथः ॥

रजिः सहस्रजित्कुक्षिर्दृढधन्वा रिपुंजयः

॥९५॥

युवनाश्वो दंतवक्त्रो नाभागो रिपुमंगलः ॥

करंधमो धर्मसेनः परमर्दः परांतकः

॥९६॥

एते चान्ये च बहवो राजानो नीतिवर्तिनः ॥

धर्माधर्मविचारज्ञाः सुधर्मायां समासते

॥९७॥

अन्यच्च ते प्रवक्ष्यावो येन पश्यंति भास्करिम् ॥

दंडपाशोद्यतकरान्दूतानुग्राननान्क्वचित्

॥९॥

गोविंदमाधवमुकुंद हरेमुरारे शंभो शिवेश शशिशेखर शूलपाणे ॥

दामोदराच्युत जनार्दन वासुदेव त्याज्या भटाय इति संततमामनंति

॥९९॥

गंगाधरांधकरिपो हरनीलकंठ वैकुंठ कैटभरिपो कमठाब्जपाणे ॥

भूतेशखंडपरशोमृडचंडिकेश त्याज्या भटाय इति संततमामनंति

॥१००॥

विष्णोनृसिंहमधुसूदनचक्रपाणे गौरीपते गिरिश शंकर चंद्रचूड ॥

नारायणासुरनिबर्हणशार्ङ्गपाणे त्याज्या भटाय इति संततमामनंति

॥१॥

मृत्युंजयोग्रविषमेक्षणकामशत्रो श्रीकांतपीतवसनांबुद नीलशौरे ॥

ईशानकृत्तिवसनत्रिदशैकनाथ त्याज्या भटाय इति संततमामनंति

॥२॥

लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्यश्रीकंठदिग्वसन शांतपिनाकपाणे ॥

आनंदकंद धरणीधर पद्मनाभ त्याज्या भटाय इति संततमामनति

॥३॥

सर्वेश्वर त्रिपुरसूदन देवदेव ब्रह्मण्यदेवगरुडध्वज शंखपाणे ॥

त्र्यक्षोरगाभरणबालमृगांकमौले त्यज्या भटाय इति संततमामनंति

॥४॥

श्रीरामराघवरमेश्वररावणारे भूतेशमन्मथरिपो प्रमथाधिनाथ ॥

चाणूरमर्दनहृषीकपतेमुरारे त्याज्या भटाय इति संततमामनति

॥५॥

शूलिन्गिरीश रजनीश कलावतं सकंसप्रणाशन सनातनकेशिनाश ॥

भर्गत्रिनेत्रभवभूतपते पुरारे त्याज्या भटाय इति संततमामनंति

॥६॥

गोपीपते यदुपते वसुदेवसूनो कर्पूरगौरवृषभध्वजभालनेत्र ॥

गोवर्धनोद्धरणधर्मधुरीणगोप त्याज्या भटाय इति संततमामनंति

॥७॥

स्थाणो त्रिलोचन पिनाकधरस्मरारे कृष्णानिरुद्धकमलाकरकल्मषारे ॥

विश्वेश्वर त्रिपथगार्द्रजटाकलाप त्याज्या भटाय इति संततमामनंति

॥८॥

अष्टोत्तराधिकशतेनसुचारुनाम्नां संदर्भितां ललितरत्नकदंबकेन ॥

सन्नायकां दृढगुणां द्धिजकंठगां यः कुर्यादिमां स्रजमहो स यमं न पश्येत्

॥९॥

इत्थं द्विजेंद्र निजभृत्यगणान्सदैव संशिक्षयेदवनिगान्स हि धर्मराजः ॥

अन्येपि ये हरिहरांकधरा धरायां ते दूरतः पुनरहो परिवर्जनीयाः

॥११०॥

अगस्तिरुवाच

यो धर्मराजरचितां ललितप्रबंधां नामावलिं सकलकल्मषबीजहंत्रीम् ॥

धीरोत्र कौस्तुभभृतः शशिभूषणस्य नित्यं जपेत्स्तनरसं स पिबेन्न मातुः

॥११॥

इति शृण्वन्कथां रम्यां शिवशर्माप्रियेऽनघाम ॥

प्रहृष्टवक्त्रः पुरतो ददर्शाप्सरसापुरीम्

॥११२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे यमलोकवर्णनंनामाऽष्टमोऽध्यायः ॥ ८ ॥