मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ९८

3
काशीखण्डः · 98

शृणु सूत महाभाग यथा स्कंदेन भाषितः

व्यास उवाच

शृणु सूत महाभाग यथा स्कंदेन भाषितः ॥

महामहोत्सवः शंभोः पृच्छते कुंभसंभवे

॥१॥

स्कंद उवाच

निशामय महाप्राज्ञ शंभु प्रावेशिकीं कथाम् ॥

त्रैलोक्यानंदजननीं महापातकतंकिनीम्

॥२॥

मंदरादागतः शंभुश्चैत्रे दमनपर्वणि ॥

प्राप्याप्यानंदगहनमितश्चेतश्चचार ह

॥३॥

मोक्षलक्ष्मीविलासेथ प्रासादे सिद्धिमागते ॥

देवो विरजसः पीठादंतर्गेहं विवेश ह

॥४॥

ऊर्जशुक्लप्रतिपदि बुधराधासमायुजि ॥

चंद्रे सप्तमराशिस्थे शेषेषूच्चग्रहेषु च

॥५॥

वाद्यमानेषु वाद्येषु प्रसन्नासु हरित्सु च ॥

ब्राह्मणानां श्रुतिरव न्यक्कृतान्यरवांतरे

॥६॥

प्रतिशब्दित भूर्लोक भुवर्लोकांतराध्वनि ॥

सर्वं प्रमुदितं चासीच्छंभोः प्रावेशिकोत्सवे

॥७॥

जगुर्गंधर्वनिकरा ननृतुश्चाप्सरोगणाः

॥२८॥

चारणास्तु स्तुतिं कुर्युर्जर्हृषुर्देवतागणाः

॥८॥

ववुर्गंधवहा वाता ववृषुः कुसुमैर्घनाः ॥

सर्वे मंगलनेपथ्याः सर्वे मंगलभाषिणः

॥९॥

स्थावरा जंगमाः सर्वे जाता आनंदमेदुराः ॥

सुरासुरेषु सर्वेषु गंधर्वेषूरगेषु च

॥१०॥

विद्याधरेषु साध्येषु किन्नरेषु नरेषु च ॥

स्त्रीपुंजातेषु सर्वेषु रेजुश्चत्वार एव च

॥११॥

निष्प्रत्यूहं च नितरां पुरुषार्थाः पदेपदे ॥

धूपधूमभरैर्व्योम यद्रक्तं तु तदा मुने

॥१२॥

नाद्यापि नीलिमानंतं परित्यजति कर्हिचित् ॥

नीराजनाय ये दीपास्तदा सर्वे प्रबोधिताः

॥१३॥

तेषां ज्योतींषि खेद्यापि राजंते तारकाच्छलात् ॥

प्रतिसौधं पताकाश्च नानाकारा विचित्रिताः

॥१४॥

रम्यध्वजप्रभाधौता रेजुः प्रति शिवालयम् ॥

क्वचिद्गायंति गीतज्ञाः क्वचिन्नृत्यंति नर्तकाः

॥१५॥

चतुर्विधानि वाद्यानि वाद्यंते च क्वचित्क्वचित् ॥

प्रत्यध्वं चंदनरसच्छटा पिच्छिलभूमयः

॥१६॥

हरित श्वेत मांजिष्ठ नील पीत बहुप्रभाः ॥

प्रत्यंगणं शुभाकारा रंगमालाश्चकाशिरे

॥१७॥

रत्नकुट्टिमभूभागा गोपुराग्रेषु रेजिरे ॥

सुधोज्ज्वला हर्म्यमालाः सौधनामप्रपेदिरे

॥१८॥

अचेतनान्यपि तदा चेतनानीव संबभुः ॥

यानि कानीह कीर्त्यंते मंगलानि घटोद्भव

॥१९॥

तेषामेव हि सर्वेषां तत्तु जन्मदिवाभवत् ॥

आगत्य देवदेवोथ मुक्तिमंडपमाविशत्

॥२०॥

अथाभिषिक्तश्चतुराननेन महर्षिवृंदैः सह देवदेवः ॥

शुभासनस्थः सहितो भवान्या कुमारवृंदैः परितो वृतश्च

॥२१॥

रत्नैरसंख्यैर्बहुभिर्दुकूलैर्माल्यैर्विचित्रैर्लसदिष्टगंधैः ॥

अपूपुजन्देवगणा महेशं तदा मुदाते च महोरग्रेंद्राः

॥२२॥

रत्नाकरैश्चापि गिरींद्रव्यैर्यथा स्वमन्यैरपि पुण्यधीभिः ॥

संपूजितः कुंभज तत्र शंभुर्नीराजितो मातृगणैरथेशः

॥२३॥

संतोष्य सर्वान्प्रथमं मुनींद्रान्स्वैस्वैर्हृदिस्थैश्च चिराभिलाषैः ॥

ब्रह्माणमाभाष्य शिवोथ विष्णुं जगाद सर्वामरवृंदवंद्यः

॥२४॥

इतो निषीदेति समानपूर्वं त्वं मे समस्तप्रभुतैकहेतुः ॥

दूरेपि तिष्ठन्निकटस्त्वमेव त्वत्तो न कश्चिन्मम कार्यकर्ता

॥२५॥

त्वया दिवोदास नरेंद्रवर्यः सदूपदेशैश्च तथोपदिष्टः ॥

यथा स सिद्धिं परमामवाप समीहितं मे निखिलं च सिद्धम्

॥२६॥

विष्णो वरं ब्रूहि य ईप्सितस्ते नादेयमत्रास्ति किमप्यहो ते ॥

इदं मयाऽऽनंदवनं यदाप्तं हेतुस्तु तत्रत्वमसौ गणेशः

॥२७॥

न मे प्रियं किंचन विष्टपत्रये तथा यथेयं परसौख्यभूमिः ॥

वाराणसी ब्रह्मरसायनस्य खनिर्जनिर्यत्र न दीर्घशायिनाम्

॥२८॥

श्रुत्वेति वाक्यं जगदीशितुश्च प्रोवाच विष्णुर्वरदं महेशम् ॥

यदि प्रसन्नोसि पिनाकपाणे तदा पदाद्दूरमहं न ते स्याम्

॥२९॥

श्रुत्वेति वाक्यं मधुसूदनस्य जगाद तुष्टो नितरां पुरारिः ॥

सदा मुरारे मम सन्निधौ त्वं तिष्ठस्व निर्वाणरमाश्रयेत्र

॥३०॥

आदावनाराध्य भवंतमत्र यो मां भजिष्यत्यपि भक्तियुक्तः ॥

समीहितं तस्य न सेत्स्यति ध्रुवं परात्परान्मेंबुज चक्रपाणे

॥३१॥

सर्वत्र सौख्यं मम मुक्तिमंडपे संतिष्ठमानस्य भवेदिहाच्युत ॥

न तत्तु कैलासगिरौ सुनिर्मले न भक्तचेतस्यपि निश्चलश्रियि

॥३२॥

निमेषमात्रं स्थिरचित्तवृत्तयस्तिष्ठंति ये दक्षिणमंडपेत्र मे ॥

अनन्यभावा अपि गाढमानसा न ते पुनर्गर्भदशामुपासते

॥३३॥

संस्नाय ये चक्रसरस्यगाधे समस्ततीर्थैक शिरोविभूषणे ॥

क्षणं विशंतीह निरीहमानसा निरेनसस्ते मम पार्षदा हि

॥३४॥

स्मरंति ये मामपवर्गमंडपे किंचिद्यथाशक्ति ददत्यपि स्वम् ॥

शृण्वंति पुण्याश्च कथाः क्षणं स्थिरास्ते कोटिगोदानफलं भजंति

॥३५॥

उपेंद्रतप्तानि तपांसि तैश्चिरं स्नाता हि ते चाखिलतीर्थसार्थकैः ॥

स्नात्वेह ये वै मणिकर्णिका ह्रदे समासते मुक्तिजनाश्रयेक्षणम्

॥३६॥

तीर्थानि संतीह पदेपदे हरे तुला क्व तेषां मणिकर्णिकायाः ॥

कतीहनो संति शुभाश्च मंडपाः परंपरोमुक्तिरमाश्रयोयम्

॥३७॥

कैवल्यमंडपस्यास्य भविष्ये द्वापरे हरे ॥

लोके ख्यातिर्भवित्रीयमेष कुक्कुटमंडपः

॥३८॥

हरिरुवाच

भालनेत्रसमाख्याहि कथं निर्वाणमंडपः ॥

तथा ख्यातिमसौ गंता यथा देवेन भाषितम्

॥३९॥

देवदेव उवाच

महानंदो द्विजो नाम भविष्योत्र चतुर्भुज ॥

अग्रवेदीसमाचारस्त्यक्ततीर्थप्रतिग्रहः

॥४०॥

अदांभिकोऽक्रूरमनाः सदैवातिथिवल्लभः ॥

अथ यौवनमासाद्य पितर्युपरते स हि

॥४१॥

विषमेषु शरैस्तीव्रैः कारितस्त्वपदे पदम् ॥

जहार कस्यचिद्भार्या मैत्रीं कृत्वा तु तेन वै

॥४२॥

तया च प्रेरितोऽपेयं पपौ चापि विमोहितः ॥

अभक्ष्यभक्षणरुचिरभून्मदनमोहितः

॥४३॥

वैष्णवान्धनिनो दृष्ट्वा क्षणं वैष्णववेषभृत् ॥

शैवान्निंदति मूढात्मा नरकत्राणकारणम्

॥४४॥

शिवभक्तान्समालोक्य किंचिच्च परिदित्सुकान् ॥

गर्हयेद्वैष्णवान्सर्वाञ्शैवलिंगोपजीवकः

॥४५॥

इति पाखंडधर्मज्ञः संध्यास्नानपराङ्मुखः ॥

विशालतिलकः स्रग्वी शुद्धधौतांबरोज्वलः

॥२७॥

शिखी चोपग्रहकरः सर्वेभ्योऽसत्प्रतिग्रही ॥

तस्यापत्यद्वयं जातमुन्मत्तपथवर्तिनः

॥४७॥

एवं तस्य प्रवृत्तस्य कश्चित्पर्वतदेशतः ॥

समागमिष्यति धनी तीर्थयात्रार्थसिद्धये

॥४८॥

स्नात्वा स चक्रसरसि कथयिष्यति चेति वै ॥

अहमस्ति धनोदित्सुर्जात्या चांडालसत्तमः

॥४९॥

अस्ति कश्चित्प्रतिग्राही यस्मै दद्यामहं धनम् ॥

इति तस्य वचः श्रुत्वा कैश्चिच्चांगुलिसंज्ञया

॥५०॥

उद्दिष्ट उपविष्टोसौ यो जपेद्ध्यानमुद्रया ॥

एष प्रतिग्रहं त्वत्तो ग्रहीष्यति न चेतरः

॥५१॥

इति तेषां वचः श्रुत्वा स गत्वा तत्समीपतः ॥

दंडवत्प्रणिपत्याथ तं बभाषे तदांत्यजः

॥५२॥

मामुद्धर महाविप्र तीर्थं मे सफलीकुरु ॥

किंचिद्वस्त्वस्ति मे तत्त्वं गृहाणानुग्रहं कुरु

॥५३॥

अथाक्षमालिकां कर्णे कृत्वा ध्यानं विसृज्य च ॥

कियद्धनं तवास्तीह पप्रच्छ करसंज्ञया

॥५४॥

तस्य संज्ञां स वै बुद्ध्वा प्रोवाचाति प्रहृष्टवत् ॥

संतृप्तिर्यावता ते स्यात्तावद्दास्यामि नान्यथा

॥५५॥

इति तद्वचनं श्रुत्वा त्यक्त्वा मौनमुवाच ह ॥

सानंदः स महानंदो निःस्पृहोस्मि प्रतिग्रहे

॥५६॥

परं तेऽनुग्रहार्थं तु करिष्यामि प्रतिग्रहम् ॥

किंच मे वचनं त्वं चेत्करिष्यस्युत्तमोत्तम

॥५७॥

यावदस्त्यखिलं वित्तं तन्मध्ये न्यस्य कस्यचित् ॥

न स्तोकमपि दातव्यं तदाऽऽदास्यामि नान्यथा

॥५८॥

चांडाल उवाच

यावदस्ति मयानीतं विश्वेशप्रीतये वसु ॥

तावत्तुभ्यं प्रदास्यामि विश्वेशस्त्वं यतो मम

॥५९॥

ये वसंतीह विश्वेश राजधान्यां द्विजोत्तम ॥

क्षुद्राक्षुद्रा जंतुमात्रा विश्वेशां शास्त एव हि

॥६०॥

परोद्धरणशीला ये ये परेच्छाप्रपूरकाः ॥

परोपकृतिशीला ये विश्वेशां शास्त एव हि

॥६१॥

इति तद्वचनं श्रुत्वा प्रहृष्टेंद्रियमानसः ॥

उवाच पार्वतीयं तं सोऽग्रजन्मांत्यजं तदा

॥६२॥

आयाहि दर्भानादेहि कुरूत्सर्गं त्वरान्वितः ॥

तथेति स चकाराशु पार्वतीयो महामनाः

॥३३॥

विश्वेशः प्रीयतां चेति प्रोच्य यातो यथागतः ॥

स च द्विजो द्विजैरन्यैर्धिक्कृतोपि वसन्निह

॥६४॥

बहिर्निर्गतमात्रस्तु बहुभिः परिभूयते ॥

चांडालब्राह्मणश्चैष चांडालात्त धनस्त्वसौ

॥६५॥

असावेव हि चांडालः सर्वलोकबहिष्कृतः ॥

इत्थं तमनुधावंति थूत्कुर्वंतः परितो हरे

॥६६॥

स च तद्भयतो गेहात्काकभीतदिवांधवत् ॥

न निःसरेत्क्वचिदपि लज्जाकृति नतास्यकः

॥६७॥

स एकदा संप्रधार्य गृहिण्या लोकदूषितः ॥

जगाम कीकटान्देशांस्त्यक्त्वा वाराणसीं पुरीम्

॥६८॥

मध्ये मार्गं स गच्छन्वै लक्षितस्तु सकांचनः ॥

अपि कार्पटिकांतस्थः स रुद्धो मार्गरोधिभिः

॥६९॥

नीत्वा ते तमरण्यानीं तस्कराः सपरिच्छदम् ॥

उल्लुंठ्य धनमादाय समालोच्य परस्परम्

॥७०॥

प्रोचुर्भूरिधनं चैतज्जीर्यत्यस्मिन्न जीवति ॥

असौ धनी प्रयत्नेन वध्यः सपरिचारकः

॥७१॥

संप्रधार्येति तेप्राहुः स्मर्तव्यं स्मर पांथिक ॥

त्वां वयं घातयिष्यामो निश्चितं सपरिच्छदम्

॥७२॥

निशम्येति मनस्येव कथयामास स द्विजः ॥

अहो प्रतिगृहीतं मे यदर्थं वसु भूरिशः

॥७३॥

कुटुंबमपि तन्नष्टं नष्टश्चापि प्रतिग्रहः ॥

जीवितं चापि मे नष्टं नष्टा काशीपुरीस्थितिः

॥७४॥

युगपत्सर्वमेवाशु नष्टं दुर्बुद्धिचेष्टया ॥

न काश्यां मरणं प्राप्तं तस्माद्दुष्टप्रतिग्रहात्

॥७५॥

प्रांते कुटुंबस्मरणात्तथाकाशीस्मृतेरपि ॥

चोरैर्हतोपि स तदा कीकटे कुक्कुटोऽभवत्

॥७६॥

सा कुक्कुटी सुतौ तौ तु ताम्रचूडत्वमापतुः ॥

प्रांते काशीस्मरणतो जाता जातिस्मृतिः परा

॥७७॥

इत्थं बहुतिथेकाले गते कार्पटिकोत्तमाः ॥

तस्मिन्नेवाध्वनि प्राप्ताश्चत्वारो यत्र कुक्कुटाः

॥७८॥

वाराणस्याः कथां प्रोच्चैः कुर्वंतोऽन्योन्यमेव हि ॥

काशीकथां समाकर्ण्य तदा ते चरणायुधाः

॥७९॥

जातिस्मृतिप्रभावेण तत्संगेन तु निर्गताः ॥

तैश्च कार्पटिकश्रेष्ठेः पथि दृष्ट्वा कृपालुभिः

॥८०॥

तंदुलादिपरिक्षेपैः प्रापिताः क्षेत्रमुत्तमम् ॥

ते तु क्षेत्रं समासाद्य चत्वारश्चरणायुधाः

॥८१॥

चरिष्यंतोऽत्र परितो मुक्तिमंडपमुत्तमम् ॥

जिताहारान्सनियमान्कामक्रोधपराङ्मुखान्

॥८२॥

प्रहासान्मत्कथालापाँल्लाभमोहविवर्जितान् ॥

स्वर्धुनीस्नानसंक्लिन्न सुनिर्मलशिरोरुहान्

॥९३॥

मन्नामोच्चारणपरान्मत्कथार्पितसुश्रुतीन् ॥

मद्दत्तचित्तसद्वृत्तीन्दृष्ट्वा क्षेत्रनिवासिनः

॥८४॥

मानयामासुरथ तान्कुक्कुटान्साधुवर्त्मनः ॥

प्राक्तनां वासनायोगात्संप्रधार्य परस्परम् ॥

क्रमेणाहारमाकुंच्य प्राणांस्त्यक्ष्यंति चात्र वै

॥८५॥

पश्यतां सर्वलोकानां विष्णो ते मदनुग्रहात् ॥

विमानमधिरुह्याशु कैलासं प्राप्य मत्पदम्

॥८६॥

निर्विश्य सुचिरं कालं दिव्यान्भोगाननुत्तमान् ॥

ततोऽत्र ज्ञानिनो भूत्वा मुक्तिं प्राप्स्यंति शाश्वतीम्

॥८७॥

ततो लोकास्तददारभ्य कथयिष्यंति सर्वतः ॥

मुक्तिमंडपनामैतदेष कुक्कुटमंडपः

॥८८॥

चरित्रमपि वै तेषां ये स्मरिष्यंति मानवाः ॥

मुक्तिमंडपमासाद्य श्रेयः प्राप्स्यंति तेपि हि

॥८९॥

इति यावत्कथां शंभुर्भविष्यामग्रतो हरेः ॥

अकरोत्तुमुलो नादो घंटानां तावदुद्गतः

॥९०॥

अथनंदिनमाहूय देवदेव उमाधवः ॥

प्रोवाच नंदिन्विज्ञायागत्य ब्रूहि कुतो रवः

॥९१॥

अथ नंदी समागत्य प्रोवाच वृषभध्वजम् ॥

नमस्कृत्य प्रहृष्टास्यः प्रबद्धकरसंपुटः

॥९२॥

नंद्युवाच

देवदेव त्रिनयन किमपूर्वं ब्रवीमि ते ॥

मोक्षलक्ष्मीविलासोऽत्र कैश्चित्कैश्चित्समर्च्यते

॥९३॥

अथ स्मित्वाब्रवीच्छंभुः सिद्धं नस्तु समीहितम् ॥

उत्थाय देवदेवेशः सह देव्या सुमंगलः

॥९४॥

ब्रह्मणा हरिणा सार्धं ततोऽगाद्रंगमंडपम् ॥

स्कंद उवाच ॥

श्रुत्वाध्यायमिमं पुण्यं परमानंदकारणम् ॥

नरः परां मुदं प्राप्य कैलासं प्राप्स्यति ध्रुवम्

॥९५॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे मुक्तिमंडपगमनं नामाष्टनवतितमोऽध्यायः ॥ ९८ ॥