शिवशर्मन्नुदर्कं ते कथयावो निशामय
गणावूचतुः
शिवशर्मन्नुदर्कं ते कथयावो निशामय ॥
त्वमत्र वैष्णवे लोके भुक्त्वा भोगान्सुपुष्कलान्
॥१॥ब्रह्मणो वत्सरं पूर्णं रममाणोऽप्सरोगणैः ॥
सुतीर्थमरणोपात्त पुण्यशेषेण वै पुनः
॥२॥भविष्यसि महीपालो नगरे नंदिवर्धने ॥
राज्यं प्राप्यासपत्नं च समृद्धबलवाहनम्
॥३॥कृष्टिभिर्हृष्टपुष्टैश्च रम्यहाटकभूषणैः ॥
संजुष्टमिष्टापूर्तानां धर्माणां नित्यकर्तृभिः
॥४॥सदासंपन्नसस्यं च सूर्वरक्षेत्रसंकुलम् ॥
सुदेशं सुप्रजं सुस्थं सुतृणं बहुगोधनम्
॥५॥देवतायतनानां च राजिभिः परिराजितम् ॥
सुयूपा यत्र वै ग्रामाः सुवित्तर्द्धि विराजिताः
॥६॥सुपुष्प कृत्रिमोद्यानाः ससदाफलपादपाः ॥
सपद्मिनीककासारा यत्र राजंति भूमयः
॥७॥सदंभा निम्नगाराजिर्न यत्र जनता क्वचित् ॥
कुलान्येव कुलीनानि न चान्यायधनानि च
॥८॥विभ्रमो यत्र नारीषु नविद्वत्सु च कर्हिचित् ॥
नद्यः कुटिलगामिन्यो न यत्र विषये प्रजाः
॥९॥तमोयुक्ताः क्षपा यत्र बहुलेषु न मानवाः ॥
रजोयुजः स्त्रियो यत्र न धर्मबहुला नराः
॥१०॥धनैरनंधो यत्रास्ति मनो नैव च भोजनम् ॥
अनयः स्यंदनं यत्र न च वै राजपूरुषः
॥११॥दंडः परशुकुद्दाल वालव्य जनराजिषु ॥
आतपत्रेषु नान्यत्र क्वचित्क्रोधापराधजः
॥१२॥अन्यत्राक्षिकवृंदेभ्यः क्वचिन्न परिदेवनम् ॥
आक्षिका एव दृश्यंते यत्र पाशकपाणयः
॥१३॥जाड्यवार्ता जलेष्वेव स्त्रीमध्या एव दुर्बलाः ॥
कठोरहृदया यत्र सीमंतिन्यो न मानवाः
॥१४॥औषधेष्वेव यत्रास्ति कुष्ठयोगो न मानवे ॥
वेधोप्यंतःसुरत्नेषु शूलं मूर्तिकरेषु वै
॥१५॥कंपःसात्त्विकभावोत्थो न भयात्क्वापि कस्यचित् ॥
संज्वरः कामजो यत्र दारिद्र्यं कलुषस्य च
॥१६॥दुर्लभत्वं सदा कस्य सुकृतेन च वस्तुनः ॥
इभा एव प्रमत्ता वै युद्धं वीच्योर्जलाशये
॥१७॥दानहानिर्गजेष्वेव द्रुमेष्वेव हि कंटकाः ॥
जनेष्वेव विहारा हि न कस्यचिदुरःस्थली
॥१८॥बाणेषु गुणविश्लेषो बंधोक्तिः पुस्तके दृढा ॥
स्नेहत्यागः सदैवास्ति यत्र पाशुपते जने
॥१९॥दंडवार्ता सदा यत्र कृतसंन्यासकर्मणाम् ॥
मार्गणाश्चापकेष्वेव भिक्षुका ब्रह्मचारिणः
॥२०॥यत्र क्षपणका एव दृश्यंते मलधारिणः ॥
प्रायो मधुव्रता एव यत्र चंचलवृत्तयः
॥२१॥इत्यादि गुणवद्देशे त्वयिराज्यं प्रशासति ॥
धर्मेण राजधर्मज्ञ शौंडीर्यगुणशालिनि
॥२२॥सौभाग्यभाजि रूपाढ्ये शौर्यौदार्यगुणान्विते ॥
सीमंतिनीनां रम्याणां लावण्यवर्जित सुश्रियाम्
॥२३॥राज्ञीनामयुतंभावि कुमाराणां शतत्रयम् ॥
वृद्धकाल इति ख्यात उग्रः परपुरंजयः
॥२४॥विजितानेकसमरः श्रीसंतर्पितमार्गणः ॥
अनेकगुणसंपूर्णः पूर्णचंद्रनिभद्युतिः
॥२५॥संततावभृथक्लिन्न मूर्धजः क्षितिषर्षभः ॥
प्रजापालनसंपन्नः कोशप्रीणितभूसुरः
॥२६॥पदारविंदं गौविंदं हृदि ध्यायन्नतंद्रितः ॥
वासुदेवकथालापपरिक्षिप्त दिनक्षपः
॥२७॥कदाचिदुपविष्टःसन्मध्ये राजसभं द्विज ॥
दूरात्कार्पटिकैर्दृष्टो वाराणस्याः समागतैः
॥२८॥तत्कर्मभाविसदृशैस्तदात्वमभिनंदितः ॥
तैः सर्वै राजशार्दूलस्याशीर्वादैरनेकशः
॥२९॥श्रीमद्विश्वेश्वरो देवो विश्वेषां जगतां गुरुः ॥
काशीनाथस्तुते कुर्यात्कुमतेरपवर्जनम्
॥३०॥नैःश्रेयसीं च संपत्तिं यो देयात्स्मरणादपि ॥
काशीनाथः स ते दिश्याज्ज्ञानं मलविवर्जितम्
॥३१॥येन पुण्येन ते प्राप्तं राज्यं प्राज्यमकंटकम् ॥
तत्पुण्यशेषतोभूयाद्विश्वनाथे मतिस्तव
॥३२॥यस्य प्रसादात्सुलभमायुः पुत्रांबरागनाः ॥
समृद्धयः स्वर्गमोक्षौ स विश्वेशः प्रसीदतु
॥३३॥नामश्रवणमात्रेण यस्य विश्वेशितुर्विभोः ॥
महापातकविच्छेदः स विश्वेशोऽस्तु ते हृदि
॥३४॥त्वं वृद्धकालो भूपालः श्रुत्वेत्याशीः परंपराम् ॥
स्मरिष्यसीदं वृत्तांतं पुलकांकवपुस्तदा
॥३५॥आकारगोपनं कृत्वा तेभ्यो दत्त्वा धनं बहु ॥
सुमुहूर्तमनुप्राप्य सुते राज्यं विधाय च
॥३६॥अनंगलेखया राज्ञ्या ततः काशीं गमिष्यसि ॥
दत्त्वा दानानि भूरीणि प्रीणयित्वाऽर्थिनो जनान्
॥३७॥स्वनाम्ना तत्र संस्थाप्य लिंगं निर्वाणकारणम् ॥
प्रासादं तत्र कृत्वोच्चैस्तदग्रे कूपमुत्तमम्
॥३८॥विधाय विधिवत्तत्र कलशारोपणादिकम् ॥
मणिमाणिक्य चांपेय दुकूलेभाश्वगोधनम्
॥३९॥महाध्वजपताकाश्च च्छत्रचामरदर्पणम् ॥
देवोपकरणं भूरि विश्राण्य श्रमवर्जितः
॥४०॥व्रतोपवासनियमैः परिक्षीणकलेवरः ॥
मध्याह्ने निर्जने तत्र द्रक्ष्यस्येकं तपोधनम्
॥४१॥अतीवजीर्णवपुषं परिपिंगजटान्वितम् ॥
मूर्तिमंतंमिव प्रांशुं धर्मं जनमनोहरम्
॥४२॥भारं शरीरयष्टेश्च दृढयष्ट्यां समर्प्य च ॥
गर्भागाराद्विनिष्क्रम्याभ्यायांतंरंगमंडपे
॥४३॥उपविश्य समीपे ते प्रक्ष्यत्येवमनुक्रमात् ॥
कोसि त्वं किमिहासि त्वं द्वितीय इव कस्त्वयम्
॥४४॥प्रासादः कारितः केन जानास्येष ततो वद ॥
अस्य लिंगस्य किं नाम प्रायो जाने न वार्धकात्
॥४५॥पृष्टस्त्वमिति ते नाथ तदा वृद्ध तपस्विना ॥
कथयिष्यस्यहं राजा वृद्धकाल इति श्रुतः
॥४६॥दाक्षिणात्य इह प्राप्तस्त्वेतया सह कांतया ॥
ध्यायामि लिंगमेतच्च प्रार्थयामि न किंचन
॥४७॥प्रासादस्यास्य जटिल स्वयंकारयिता शिवः ॥
विशेषतोऽस्यलिंगस्य नाम नो वेद्मि निश्चितम्
॥४८॥इति श्रुत्वा नरपतेर्वाक्यंप्राह जटाधरः ॥
सत्यमुक्तं त्वयैकं हि लिंगनाम न वेत्सि यत्
॥४९॥पश्येयं त्वामहं नित्यमुपविष्टं सुनिश्चलम् ॥
श्रुतो भविष्यति तव प्रासादो येन कारितः
॥५०॥ममाग्रे तत्समाचक्ष्व यदि जानासि तत्त्वतः ॥
आकर्ण्येति वचस्तस्य पुनः प्राह भवानिति
॥५१॥कर्ता कारयिता शंभुः किमतथ्यं ब्रवीम्यहम् ॥
अथवा चिंतया किं मे तपस्विन्ननया विभो
॥५२॥इति त्वयि स्थिते जोषं स पुनर्वृद्धतापसः ॥
पिपासुरस्मि पानीयमानीयाशु प्रयच्छ मे
॥५३॥इति तेन च नुन्नस्त्वं वार्यानीय च कूपतः ॥
पाययिष्यसि तं वृद्धं तापसं तत्क्षणाच्च सः
॥५४॥तदंबुपानतो भूयात्सुपार्वण शशिप्रभः ॥
तरुणो रूपसंपन्नः कोशोन्मुक्तोरगो यथा
॥५५॥जाताश्चर्येण भवता पुनरेवाभ्यभाषि सः ॥
कः प्रभावो हि भगवन्नेष येन भवान्पुनः
॥५६॥परित्यज्यात्र जरसं न वो भ्राजसि सांप्रतम् ॥
अस्ति चेदवकाशस्ते ततो ब्रूहि तपोधन
॥५७॥तपोधन उवाच
वृद्धकालक्षितिपते जाने त्वां सुमहामते ॥
इमामपि च जानेऽहं तव पत्नीं पतिव्रताम्
॥५८॥जन्मनोऽस्मादियं राजन्नासीद्विप्रस्य कन्यका ॥
तुर्वसोर्वेदवपुषः शुभाचारा शुभानना
॥५९॥तेन दत्ता विवाहार्थं नैध्रुवाय महात्मने ॥
स च कालवशं प्राप्तो नैध्रुवोऽप्राप्तयौवनः
॥६०॥वैधव्यं पालयंत्येषा मृताऽवंत्यां शुभव्रता ॥
तेन पुण्येन संजाता पांड्यस्य नृपतेः सुता
॥६१॥परिणीता त्वया राजन्पतिव्रतरता सदा ॥
त्वया सहेह संप्राप्ता मुक्तिं प्राप्स्यत्यनुत्तमाम्
॥६२॥अयोध्यायामथावंत्यां मथुरायामथापि वा ॥
द्वारवत्यां च कांच्यां वा मायापुर्यामथो नृप
॥६३॥अपि पातकिनो ये च कालेन निधनं गताः ॥
ते हि स्वर्गादिहागत्य काश्यां मोक्षमवाप्नुयुः
॥६४॥अवैमि त्वामपि नृपद्विजोऽभूः पूर्वजन्मनि ॥
माथुरः शिवशर्माख्यो मायापुर्यां भवान्मृतः
॥६५॥तत्पुण्यात्प्राप्य वैकुंठं भुक्त्वा भोगान्मनोरमान् ॥
तत्पुण्यशेषात्क्षितिपो जातस्त्वं नंदिवर्धने
॥६६॥वृद्धकालावनीपाल तेनैव सुकृतेन च ॥
मोक्षक्षेत्रमिदं प्राप्तो मुक्तिं प्राप्स्यस्यनुत्तमाम्
॥६७॥अन्यच्च शृणु राजेंद्र त्वया यत्समुदीरितम् ॥
कर्ता कारयिता शंभुः प्रासादस्येति तत्स्फुटम्
॥६८॥सुकृतं नैव सततमाख्यातव्यं कदाचन ॥
कृतं मयेति कथनात्पुण्यं क्षयति तत्क्षणात्
॥६९॥तस्मात्सर्वप्रयत्नेन गोपनीयं निधानवत् ॥
सुकृतं कीर्तनाद्व्यर्थं भवेद्भस्महुतं तथा
॥७०॥निश्चितं विश्वनाथेन प्रेरितेन त्वयाऽनघ ॥
कृतं हि कृतकृत्येन प्रासादादिह वेद्म्यहम्
॥७१॥वृद्धकालेश्वरं नाम लिंगमेतन्महीपते ॥
जानीह्यनादिसंसिद्धं निमित्तं किंतु वै भवान्
॥७२॥दर्शनात्स्पर्शनात्तस्य पूजनाच्छ्रवणान्नतेः ॥
वृद्धकालेशलिंगस्य सर्वं प्राप्नोति वांछितम्
॥७३॥कूपः कालोदको नाम जराव्याधिविघातकृत् ॥
यदीय जलपानेन मातुःस्तन्यमपानवान्
॥७४॥कृतकूपोदकस्नानः कृतैतल्लिंगपूजनः ॥
वर्षेण सिद्धिमाप्नोति मनोभिलषितां नरः
॥७५॥न कुष्ठं न च विस्फोटा नरंघा न विचर्चिका ॥
पीतात्स्पृष्टात्प्रतिष्ठंति कफः कालतमोदकात्
॥७६॥नाग्निमांद्यं नैव शूलं न मेहो न प्रवाहिका ॥
न मूत्रकृच्छ्रं ना पामा पानायस्यास्य सेवनात्
॥७७॥भूतज्वराश्च ये केचिद्ये केचिद्विषमज्वराः ॥
ते क्षिप्रमुपशाम्यंति ह्येतत्कूपोदसेवनात्
॥७८॥तवाग्रतो मम जरा पलितं च यथाविधि ॥
एतत्कूपोदपानेन क्षणान्नष्टं नवोऽभवम्
॥७९॥वृद्धकालेश्वरे लिंगे सेवितेन दरिद्रता ॥
नोपसर्गा न वा रोगा न पापं नाघजं फलम्
॥८०॥उत्तरे कृत्तिवासस्य वाराणस्यां प्रयत्नतः ॥
वृद्धकालेश्वरं लिंगं द्रष्टव्यं सिद्धिकामुकैः
॥८१॥इत्युक्त्वा तं महीपालं हस्ते धृत्वा तपोधनः ॥
सानंगलेखा राज्ञीकं तस्मिँल्लिंगे लयं ययौ
॥८२॥महाकाल महाकाल महाकालेति कीर्तनात् ॥
शतधा मुच्यते पापैर्नात्र कार्या विचारणा
॥८३॥इत्थं भवित्री ते मुक्तिः कैटभारातिदर्शनात् ॥
भोगान्भुक्त्वा बहुविधान्वैकुंठ नगरे शुभे
॥८४॥इति संहृष्टतनूरुहः स विप्रो भगवत्तद्गणवक्त्रतो निशम्य ॥
स्वमुदर्कमथार्ककोटिरम्यं हरिलोकं परिलोकयांचकार
॥८५॥मैत्रावरुणिरुवाच
लोपामुद्रे स विप्रेंद्रो भोगान्भुक्त्वा मनोरमान् ॥
मायापुर्यां कृतप्राणत्याग पुण्यबलेन च
॥८६॥वैकुंठलोकादागत्य पत्तने नंदिवर्धने ॥
भौमानि भुक्त्वा सौख्यानि पुत्रानुत्पाद्य सुंदरान्
॥८७॥तेषु राज्यं विनिक्षिप्य प्राप्य वाराणसीं पुरीम् ॥
विश्वेश्वरं समाराध्य निर्वाणपदमीयिवान्
॥८८॥एतत्पुण्यतमाख्यानं विप्रस्य शिवशर्मणः ॥
श्रुत्वा पापविनिर्मुक्तो ज्ञानं परममृच्छति
॥८९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धे शिवशर्मनिर्वाणप्रापणं नाम चतुर्विंशोध्यायः ॥ २४ ॥