मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ५

3
काशीखण्डः · 5

अगस्त्यप्रस्थानम्

पराशर उवाच

ततो ध्यानेन विश्वेशमालोक्य स मुनीश्वरः ॥

सूत प्रोवाच तां पुण्यां लोपामुद्रामिदं वचः

॥१॥

अयि पश्य वरारोहे किमेतत्समुपस्थितम् ॥

क्व तत्कार्यं क्व च वयं मुनिमार्गानुसारिणः

॥२॥

येन गोत्रभिदा गोत्रा विपक्षा हेलया कृताः ॥

भवेत्कुंठितसामर्थ्यः स कथं गिरिमात्रके

॥३॥

कल्पवृक्षोंऽगणे यस्य कुलिशं यस्य चायुधम् ॥

सिद्ध्यष्टकं हि यद्द्वारि स सिद्ध्यै प्रार्थयेद्द्विजम्

॥४॥

क्रियंते व्याकुलाः शैला अहो दावाग्निना प्रिये ॥

तद्वृद्धिस्तंभने शक्तिः क्व गतासाऽऽशुशुक्षणेः

॥५॥

नियन्ता सर्वभूतानां योसौ दण्डधरः प्रभुः ॥

स किं दंडयितुं नालमेकं तं ग्रावमात्रकम्

॥६॥

आदित्या वसवो रुद्रास्तुषिताः स मरुद्गणाः ॥

विश्वेदेवास्तथा दस्रौ ये चान्येपि दिवौकसः

॥७॥

येषां दृक्पातमात्रेण पतंति भुवनान्यपि ॥

ते किं समर्था नो कांते नगवृद्धिनिषेधने

॥८॥

आज्ञातं कारणं तच्च स्मृतं वाक्यं सुभाषितम् ॥

काशीमुद्दिश्य यद्गीतं मुनिभिस्तत्त्वदर्शिभिः

॥९॥

अविमुक्तं न मोक्तव्यं सर्वथैव मुमुक्षुभिः ॥

किंतु विघ्ना भविष्यंति काश्यां निवसतां सताम्

॥१०॥

उपस्थितोयं कल्याणि सोंऽतरायो महानिह ॥

न शक्यतेऽन्यथाकर्तुं विश्वेशो विमुखो यतः

॥११॥

काशीद्विजाशीर्भिरहो यदाप्ता कस्तां मुमुक्षुर्यदिवामुमुक्षुः ॥

ग्रासं करस्थं स विसृज्य हृद्यं स्वकूर्परं लेढि विमूढचेताः

॥१२॥

अहो जना बालिशवत्किमेतां काशीं त्यजेयुः सुकृतैकराशिम् ॥

शालूककंदः प्रतिमज्जनं किं लभेत तद्वत्सुलभा किमेषा

॥१३॥

भवांतरा वर्जित पुण्यराशिं कृच्छैर्महद्भिर्ह्यवगम् यकाशीम् ॥

प्राप्यापि किं मूढधियोन्यतो वै यियासवो दुर्गतिमुद्यियासवः

॥१४॥

क्व काशिका विश्वपदप्रकाशिका क्व कार्यमन्यत्परितोतिदुःखम् ॥

तत्पंडितोन्यत्र कुतः प्रयाति किं याति कूष्मांडफलं ह्यजास्ये

॥१५॥

काशीं प्रकाशीं कृतपुण्यराशिं हा शीघ्रनाशी विसृजेन्नरः किम् ॥

नूनं स्वनूनं सुकृतं तदीयं मदीयमेवं विवृणोति चेतः

॥१६॥

नरो न रोगी यदिहाविहाय सहायभूतां सकलस्य जंतोः ॥

काशीमनाशी सुकृतैकराशिमन्यत्र यातुं यततां न चान्यः

॥१७॥

वित्रस्तपापां त्रिदशैर्दुरापां गंगां सदापां भवपाशशापाम् ॥

शिवाविमुक्ताममृतैकशुक्तिं भुक्ताविमुक्तानपरित्यजन्ति

॥१८॥

हंहो किमंहो निचिताः प्रलब्धा बंहीयसायास भरेण काशीम् ॥

प्रभूतपुण्यद्रविणैकपण्यां प्राप्यापि हित्वा क्व च गंतुमुद्यताः

॥१९॥

अहो जनानां जडता विहाय काशीं यदन्यत्र न यंति चेतः ॥

परिस्फुरद्गांगजलाभिरामां कामारिशूलाग्रधृतां लयेपि

॥२०॥

रेरे भवे शोकजलैकपूर्णे पापेस्मलोकाः पतिताब्धिमध्ये ॥

विद्राणनिद्राणविरोधिपापां काशीं परित्यज्यतरिं किमर्थम्

॥२१॥

न सत्पथेनापि न योगयुक्त्या दानैर्नवा नैव तपोभिरुग्रैः ॥

काशी द्विजाशीर्भिरहो सुलभ्या किंवा प्रसादेन च विश्वभर्तुः

॥२२॥

धर्मस्तु संपत्तिभरैः किलोह्यतेप्यर्थो हि कामैर्बहुदानभोगकैः ॥

अन्यत्रसर्वं स च मोक्ष एकः काश्यां न चान्यत्र तथायथात्र

॥२३॥

क्षेत्रं पवित्रं हि यथाऽविमुक्तं नान्यत्तथायच्छ्रुतिभिः प्रयुक्तम् ॥

न धर्मशास्त्रैर्न च तैःपुराणैस्तस्माच्छरण्यं हि सदाऽविमुक्तम्

॥२४॥

सहोवाचेति जाबालिरारुणेसिरिडामता ॥

वरणापिंगला नाडी तदंतस्त्वविमुक्तकम्

॥२५॥

सा सुषुम्णा परानाडी त्रयं वाराणसीत्वसौ ॥

तदत्रोत्क्रमणे सर्वजंतूनां हि श्रुतौ हरः

॥२६॥

तारकं ब्रह्मव्याचष्टे तेन ब्रह्म भवंति हि ॥

एवं श्लोको भवत्येष आहुर्वै वेदवादिनः

॥२७॥

भगवानंतकालेऽत्र तारकस्योपदेशतः ॥

अविमुक्तेस्थिताञ्जन्तून्मोचयेन्नात्र संशयः

॥२८॥

नाविमुक्तसमंक्षेत्रं नाविमुक्तसमा गतिः ॥

नाविमुक्तसमं लिंगं सत्यं सत्यं पुनःपुनः

॥२९॥

अविमुक्तं परित्यज्य योन्यत्र कुरुते रतिम् ॥

मुक्तिं करतलान्मुक्त्वा सोन्यां सिद्धिं गवेषयेत्

॥३०॥

इत्थं सुनिश्चित्य मुनिर्महात्मा क्षेत्रप्रभावं श्रुतितः पुराणात् ॥

श्रीविश्वनाथेन समं न लिंगं पुरी न काशी सदृशी त्रिकोट्याम्

॥३१॥

श्रीकालराजं च ततः प्रणम्य विज्ञापयामास मुनीशवर्यः ॥

आपृच्छनायाहमिहागतोस्मि श्रीकाशिपुर्यास्तु यतः प्रभुस्त्वम्

॥३२॥

हा कालराजप्रति भूतमत्र प्रत्यष्टमिप्रत्यवनीसुतार्कम् ॥

नाराधये मूलफलप्रसूनैः किं मय्यनागस्यपराधदृक्स्याः

॥३३॥

हा कालभैरव भवानभितो भयार्तान्माभैष्ट चे तिभणनैः स्वकरं प्रसार्य ॥

मूर्तिं विधाय विकटां कटुपापभोक्त्रीं वाराणसीस्थितजनान्परिपाति किं न

॥३४॥

हे यक्षराज रजनीकर चारुमूर्ते श्रीपूर्णभद्रसुतनायक दंडपाणे ॥

त्वं वै तपोजनितदुःखमवैपि सर्वं किं मां बहिर्नयसि काशिनिवासिरक्षिन्

॥३५॥

त्वमन्नदस्त्वं किल जीवदाता त्वं ज्ञानदस्त्वं किल मोक्षदोपि ॥

त्वमंत्यभूषां कुरुषे जनानां जटाकलापैरुरगेंद्रहारैः

॥३६॥

गणौ त्वदीयौ किल संभ्रमोद्भ्रमावत्रस्थवृत्तांत विचारकोविदौ ॥

संभ्रांतिमुत्पाद्यपरामसाधून्क्षेत्रात्क्षणं दूरयतस्त्वमुष्मात्

॥३७॥

शृणु प्रभो ढुंढिविनायक त्वं वाचं मदीयां तुरटाम्यनाथवत् ॥

त्वत्स्थाः समस्ताः किल विघ्नपूगाः किमत्र दुर्वृत्तवदास्थितोहम्

॥३८॥

शृण्वंत्वमी पंच विनायकाश्च चिंतामणिश्चापि कपर्दिनामा ॥

आशागजाख्यौ च विनायकौ तौ शृणोत्वसौ सिद्धिविनायकश्च

॥३९॥

परापवादो न मया किलोक्तः परापकारोपि मया कृतो न ॥

परस्वबुद्धिः परदारबुद्धिः कृता मया नात्र क एष पाकः

॥४०॥

गंगा त्रिकालं परिसेविता मया श्रीविश्वनाथोपि सदा विलोकितः ॥

यात्राः कृतास्ताः प्रतिपर्वसर्वतः कोयंविपाको मम विघ्नहेतुः

॥४१॥

मातर्विशालाक्षि भवानिमंगले ज्येष्ठेशिसौभाग्यविधानसुंदरि ॥

विश्वेविधे विश्वभुजे नमोस्तु ते श्रीचित्रघंटे विकटे च दुर्गिके

॥४२॥

साक्षिण्य एता किलकाशिदेवताः शृण्वंतु न स्वार्थमहं व्रजाम्यतः ॥

अभ्यर्थितो देवगणैः करो मि किं परोपकाराय न किं विधीयते

॥४३॥

दधीचिरस्थीनि न किं पुरा ददौ जगत्त्रयं किं न ददेऽर्थिने बलिः ॥

दत्तः स्म किं नो मधुकैटभौ शिरो बभूव तार्क्ष्योपि च विष्णुवाहनम्

॥४४॥

आपृच्छ्य सर्वान्समुनीन्मुनीश्वरः सबालवृद्धानपि तत्रवासिनः ॥

तृणानि वृक्षांश्चलताः समस्ताः पुरीं परिक्रम्य च निर्ययौ च

॥४५॥

प्रोषितस्य परितोपि लक्षणैर्नीचवर्त्मपरिवर्तिनोपि वा ॥

चंद्रमौलिमवलोक्य यास्यतः कस्य सिद्धिरिह नो परिस्फुरेत्

॥४६॥

वरं हि काश्यां तृणवृक्षगुल्मकाश्चरंति पापं न चरंति नान्यतः ॥

वयं चराणां प्रथमा धिगस्तु नो वाराणसींहाद्य विहाय गच्छतः

॥४७॥

असिं ह्युपस्पृश्य पुनःपुनर्मुनिः प्रासादमालाः परितो विलोकयन् ॥

उवाच नेत्रे सरले प्रपश्यतं काशीं युवां क्वक्व पुरी त्वियं बत

॥४८॥

स्वैरं हसंत्वद्य विधाय तालिकां मिथःकरेणापि करं प्रगृह्य ॥

सीमाचरा भूतगणा व्रजाम्यहं विहाय काशीं सुकृतैकराशिम्

॥४९॥

इत्थं विलप्य बहुशः स मुनिस्त्वगस्त्यस्तत्क्रौंचयुग्मवदहो अबलासहायः ॥

मूर्च्छामवाप महतीं विरही वजल्पन्हाकाशिकाशि पुनरेहि च देहि दृष्टिम्

॥५०॥

स्थित्वा क्षणं शिवशिवेति शिवेति चोक्त्वा यावःप्रियेति कठिनाहि दिवौकसस्ते ॥

किं न स्मरेस्त्रिजगती सुखदानदक्षं त्र्यक्षं प्रहित्यमदनं यदकारितैस्तु

॥५१॥

यावद्व्रजेत्त्रिचतुराणि पदानि खेदात्स्वेदोदबिंदुकणिकांचितभालदेशः ॥

प्रत्युद्गमाऽकरणतः किल मे विनाशस्तावद्धराभयवरादिव संचुकोच

॥५२॥

तपोयानमिवारुह्य निमेषार्धेन वै मुनिः ॥

अग्रे ददर्श तं विंध्यं रुद्धांबरमथोन्नतम्

॥५३॥

चकंपे चाचलस्तूर्णं दृष्ट्वैवाग्रस्थितम मुनिम् ॥

तमगस्त्यं सपत्नीकं वातापील्वल वैरिणम्

॥५४॥

तपःक्रोधसमुत्थाभ्यां काशीविरहजन्मना ॥

प्रलयानलवत्तीव्रं ज्वलंतं त्रिभिरग्निभिः

॥५५॥

गिरिः खर्वतरो भूत्वा विविक्षुरवनीमिव ॥

आज्ञाप्रसादः क्रियतां किंकरोस्मीति चाब्रवीत

॥५६॥

अगस्त्य उवाच

विंध्य साधुरसि प्राज्ञ मां च जानासि तत्त्वतः ॥

पुनरागमनं चेन्मे तावत्खर्वतरो भव

॥५७॥

इत्युक्त्वा दक्षिणामाशां सनाथामकरोन्मुनिः ॥

निजैश्चरणविन्यासैस्तया साध्व्या तपोनिधिः

॥५८॥

गते तस्मिन्मुनिवरे वेपमानस्तदा गिरिः ॥

पश्यत्युत्कंठमिव च गतश्चेत्साध्वभूत्ततः

॥५९॥

अद्याजातः पुनरहं न शप्तो यदगस्तिना ॥

न मया सदृशो धन्य इति मेने स वै गिरिः

॥६०॥

अरुणोपि च तत्काले कालज्ञो ऽश्वानकालयत् ॥

जगत्स्वास्थ्यमवापोच्चैः पूर्ववद्भानुसंचरैः

॥६१॥

अद्य श्वो वा परश्वो वाप्यागमिप्यति वै मुनिः ॥

इति चिंतामहाभारैर्गिरिराक्रांतवत्स्थितः

॥६२॥

नाद्यापि मुनिरायाति नाद्यापिगिरिरेधते ॥

यथा खलजनानां हि मनोरथमहीरुहः

॥६३॥

विवर्धिषति यो नीचः परासूयां समुद्वहन् ॥

दूरे तद्वृद्धिवार्ताऽस्तां प्राग्वृद्धेरपि संशयः

॥६४॥

मनोरथा न सिद्ध्येयुः सिद्धा नश्यंत्यपि ध्रुवम् ॥

खलानां तेन कुशलि विश्वं विश्वेशरक्षितम्

॥६५॥

विधवानां स्तना यद्वद्धृद्येव विलयंति च ॥

उन्नम्योन्नम्य तत्रोच्चैस्तद्वत्खलमनोरथाः

॥६६॥

भवेत्कूलंकपा यद्वदल्पवर्षेणकन्नदी ॥

खलर्धिरल्पवर्षेण तद्वत्स्यात्स्वकुलंकपा

॥६७॥

अविज्ञायान्य सामर्थ्यं स्वसामर्थ्यं प्रदर्शयेत ॥

उपहासमवाप्नोति तथैवायमिहाचलः

॥६८॥

व्यास उवाच

गोदावरीतटं रम्यं विचरन्नपि वै मुनिः ॥

न तत्याज च तं तापं काशीविरहजं परम्

॥६९॥

उदीची दिक्स्पृशमपि स मुनिर्मातरिश्वनम् ॥

प्रसार्य बाहू संश्लिष्य काश्याः पृच्छेदनामयम्

॥७०॥

लोपामुद्रे न सा मुद्रा कापीह जगतीतले ॥

वाराणस्याः प्रदृश्येत तत्कर्ता न यतो विधिः

॥७१॥

क्वचित्तिष्ठन्क्वचिज्जल्पन्क्वचिद्धावन्क्वचित्स्खलन् ॥

क्वच्चिचोपविशंश्चेति बभ्रामेतस्ततो मुनिः

॥७२॥

ततो व्रजन्ददर्शाग्रे पुण्यराशिस्तपोधनः ॥

चंचच्चंद्रगताभासां भाग्यवानिव सुश्रियम्

॥७३॥

विजित्यभानु नाभानुं दिवापि समुदित्वराम् ॥

निर्वापयंतीमिव तां स्वचेतस्तापसंततिम्

॥७४॥

तत्रागस्त्यो महालक्ष्मीं ददृशे सुचिरं स्थिताम्

॥७५॥

रात्रावब्जेषु संकोचो दर्शेष्वब्जः क्वचिद्व्रजेत् ॥

क्षीरोदे मंदरत्रासात्तदत्राध्युषितामिव

॥७६॥

यदारभ्य दधारैनां माधवो मानतः किल ॥

तदारभ्य स्थितां नूनं सपत्नीर्ष्यावशादिव

॥७७॥

त्रैलोक्यं कोलरूपेण त्रासयंतं महासुरम् ॥

विनिहत्य स्थितां तत्र रम्ये कोलापुरे पुरे

॥७८॥

संप्राप्याथ महालक्ष्मीं मुनिवर्यः प्रणम्य च ॥

तुष्टाव वाग्भिरिष्टाभिरिष्टदां हृष्टमानसः

॥७९॥

अगस्तिरुवाच

मातर्नमामि कमले कमलायताक्षि श्रीविष्णुहृत्कमलवासिनि विश्वमातः ॥

क्षीरोदजे कमलकोमलगर्भ गौरि लक्ष्मि प्रसीद सततं नमतां शरण्ये

॥८०॥

त्वं श्रीरुपेंद्रसदने मदनैकमातर्ज्योत्स्नासि चंद्रमसि चंद्रमनोहरास्ये।

सूर्ये प्रभासि च जगत्त्रितये प्रभासि लक्ष्मि प्रसीद सततं नमतां शरण्ये

॥८१॥

त्वं जातवेदसि सदा दह्नात्मशक्तिर्वेधास्त्वया जगदिदं विविधं विदध्यात् ॥

विश्वंभरोपि बिभृयादखिलं भवत्या लक्ष्मि प्रसीद सततं नमतां शरण्ये

॥८२॥

त्वत्त्यक्तमेतदमले हरते हरोपि त्वं पासि हंसि विदधासि परावरासि ॥

ईड्यो बभूव हरिरप्यमले त्वदाप्त्या लक्ष्मि प्रसीद सततं नमतां शरण्ये

॥८३॥

शूरः स एव स गुणी , बुधः धन्यो मान्यः स एव कुलशील कलाकलापैः ॥

एकः शुचिः स हि पुमान्सकलेपि लोके यत्रापतेत्तव शुभे करुणाकटाक्षः

॥८४॥

यस्मिन्वसेः क्षणमहोपुरुषे गजेऽश्वे स्त्रैणे तृणे सरसि देवकुले गृहेऽन्ने ॥

रत्ने पतत्त्रिणि पशौ शयने धरायां सश्रीकमेव सकले तदिहास्तिनान्यत्

॥८५॥

त्वत्स्पृष्टमेव सकलं शुचितां लभेत त्वत्त्यक्तमेव सकलं त्वशुचीह लक्ष्मि ॥

त्वन्नाम यत्र च सुमंगलमेव तत्र श्रीविष्णुपत्नि कमले कमलालयेऽपि

॥८६॥

लक्ष्मीं श्रियं च कमलां कमलालयां च पद्मां रमां नलिनयुग्मकरां च मां च।

क्षीरोदजाममृतकुंभकरामिरां च विष्णुप्रियामिति सदाजपतां क्व दुःखम्

॥८७॥

इति स्तुत्वा भगवतीं महालक्ष्मीं हरिप्रियाम् ॥

प्रणनाम सपत्नीकः साष्टांगं दंडवन्मुनिः

॥८८॥

श्रीरुवाच

उत्तिष्ठोत्तिष्ठ भद्रं ते मित्रावरुणसंभव ॥

पतिव्रते त्वमुत्तिष्ठ लोपामुद्रे शुभव्रते

॥८९॥

स्तुत्यानया प्रसन्नोहं व्रियतां यद्धृदीप्सितम् ॥

राजपुत्रि महाभागे त्वमिहोपविशामले

॥९०॥

त्वदंगलक्षणैरेभिः सुपवित्रैश्च ते व्रतैः ॥

निर्वापयितुमिच्छामि दैत्यास्त्रैस्तापितां तनुम्

॥९१॥

इत्युक्त्वा मुनिपत्नीं तां समालिंग्य हरिप्रिया ॥

अलंचकार च प्रीत्या बहुसौभाग्यमंडनैः

॥९२॥

पुनराह मुने जाने तव हृत्तापकारणम् ॥

सचेतनं दुनोत्येव काशीविश्लेषजोऽनलः

॥९३॥

यदा स देवो विश्वेशो मंदरं गतवान्पुरा ॥

तदा काशीवियोगेन जाता तस्येदृशी दशा

॥९४॥

तत्प्रवृत्तिं पुनर्ज्ञातुं ब्रह्माणं केशवं गणान् ॥

गणेश्वरं च देवांश्च प्रेषयामास शूलधृक्

॥९५॥

ते च काशीगुणान्सर्वे विचार्य च पुनःपुनः ॥

व्रजंत्यद्यापि न क्वापि तादृगस्ति क्व वा पुरी

॥९६॥

इति श्रुत्वाथ स मुनिः प्रत्युवाच श्रियं ततः ॥

प्रणिपत्य महाभागो भक्तिगर्भमिदं वचः

॥९७॥

यदि देयो वरो मह्यं वरयोग्योस्म्यहं यदि ॥

तदा वाराणसी प्राप्तिः पुनरस्त्वेष मे वरः

॥९८॥

ये पठिष्यंति च स्तोत्रं त्वद्भक्त्या मत्कृतं सदा ॥

तेषां कदाचित्संतापो मास्तु मास्तु दरिद्रता

॥९९॥

मास्तु चेष्टवियोगश्च मास्तु संपत्ति संक्षयः ॥

सर्वत्र विजयश्चास्तु विच्छेदो मास्तु संततेः

॥१००॥

श्रीरुवाच

एवमस्तु मुने सर्वं यत्त्वया परिभाषितम् ॥

एतत्स्तोत्रस्य पठनं मम सान्निध्य कारणम्

॥१॥

अलक्ष्मीः कालकर्णी च तद्गेहे न विशेत्क्वचित् ॥

गजाश्वपशुशांत्यर्थमेतत्स्तोत्रं सदा जपेत्

॥२॥

बालग्रहाभिभूतानां वालानांशांतिकृत्परम् ॥

भूर्जपत्रे लिखित्वा तु बध्नीयात्कंठदेशतः

॥३॥

इदं बीजरहस्यं मे रक्षणीयं प्रयत्नतः ॥

श्रद्धाहीने न दातव्यं न देयं चाशुचौ क्वचित्

॥४॥

अन्यच्च शृणु विप्रेंद्र भविष्ये द्वापरे भवान् ॥

एकोनत्रिंशके ब्रह्मन्सत्यव्यासो भविष्यति

॥५॥

तदा वाराणसीं प्राप्य सिद्धिं प्राप्स्यस्यभीप्सिताम् ॥

व्यस्य वेदान्पुराणानि धर्मा न्समुपदिश्य च

॥६॥

हितं च ते वदाम्येकं सांप्रतं तत्समाचर ॥

पश्य किंचिदितो गत्वा स्कंदमग्रे स्थितं प्रभुम्

॥७॥

वाराणस्या रहस्यं च यथाव च्छिवभाषितम् ॥

तव तुष्टिकरं ब्रह्मन्कथयिष्यति षण्मुखः

॥८॥

इति लब्ध्वा वरं सोथ महालक्ष्मीं प्रणम्य च ॥

ययावगस्तिर्यत्रास्ति कुमारशिखिवाहनः

॥१०९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहरुयां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे अगस्त्यप्रस्थानं नाम पंचमो ऽध्यायः ॥ ५ ॥