मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ६०

3
काशीखण्डः · 60

बिंदुमाधवाविर्भावः

स्कंद उवाच

उक्ता पंचनदोत्पत्तिर्मित्रावरुणनंदन ॥

इदानीं कथयिष्यामि माधवाविष्कृतिं पराम्

॥१॥

यां श्रुत्वा श्रद्धया धीमान्पापेभ्यो मुच्यते क्षणात् ॥

न च श्रिया वियुज्येत संयुज्येत वृषेण च

॥२॥

आगत्य मंदरादद्रेरुपेंद्रश्चंद्रशेखरम् ॥

आपृच्छ्य तार्क्ष्यरथगः क्षणाद्वाराणसीं पुरीम्

॥३॥

दिवो दासं महीपालं समुच्चाट्य स्वमायया ॥

स्थित्वा पादोदके तीर्थे केशवाख्य स्वरूपतः

॥४॥

महिमानं परं काश्यां विचार्य सुविचार्य च ॥

दृष्ट्वा पंचनदं तीर्थं परां मुदमवाप ह

॥५॥

उवाच च प्रसन्नात्मा पुंडरीकविलोचनः ॥

अगण्या अपि वैकुंठ गुणा विगणिता मया

॥६॥

क्व क्षीरनीरधौ संति तावंतो निर्मला गुणाः ॥

यावंतो विजयं तेत्र काश्यां पंचनदे ह्रदे

॥७॥

श्वेतद्वीपेपि सामग्री क्व गुणानां गरीयसी ॥

ईदृशी यादृशी काश्यां धूतपापेस्ति पावनी

॥८॥

मुदे कौमोदकी स्पर्शस्तथा न मम जायते ॥

धूतपापांबु संपर्को यथा भवति सर्वथा

॥९॥

न क्षीरनीरधिजया सुखं मे श्लिष्टगात्रया ॥

तथा भवेद्यथात्र स्यात्स्पृष्टया धूतपापया

॥१०॥

इत्थं पंचनदे तीर्थे क्षीरनीरधिजाधवः ॥

संप्रेष्य तार्क्ष्यं त्र्यक्षाग्रे वृत्तांतविनिवेदितुम्

॥११॥

आनंदकाननभवं दिवोदास क्षमापतेः ॥

संवर्णयन्गुणग्रामं पुण्यं पांचनदोद्भवम्

॥१२॥

सुखोपविष्टः संहृष्टः सुदृष्टिर्विष्टरश्रवाः ॥

दृष्टवांस्तपसा जुष्टमपुष्टांगं तपोधनम्

॥१३॥

स ऋषिस्तं समभ्येत्य पुंडरीकाक्षमच्युतम् ॥

उपोपविष्टकमलं वनमालाविराजितम्

॥१४॥

शंखपद्मगदाचक्र चंचत्करचतुष्टयम् ॥

कौस्तुभोद्भासितोरस्कं पीतकौशेयवाससम्

॥१५॥

सुनीलेंदीवररुचिं सुस्निग्ध मधुराकृतिम् ॥

नाभीह्रदलसत्पद्म सुपाटलरदच्छदम्

॥१६॥

दाडिमीबीजदशनं किरीटद्योतितांबरम् ॥

देवेंद्रवंदितपदं सनकादिपरिष्टुतम्

॥१७॥

दिव्यर्षिभिर्नारदाद्यैः परिगीतमहोदयम् ॥

प्रह्लादाद्यैर्भागवतैः परिनंदितमानसम्

॥१८॥

धृतशार्ङ्गधनुर्दंडं दंडिताखिलदानवम् ॥

मधुकैटभहंतारं कंसविध्वंससूचकम्

॥१९॥

कैवल्यं यत्परं ब्रह्म निराकारमगोचरम् ॥

तं पुं मूर्त्या परिणतं भक्तानां भक्तिहेतुतः

॥२०॥

वेदाविदुर्यदाकारं नैवोपनिषदोदितम् ॥

ब्रह्माद्या न च गीर्वाणाश्चक्रे नेत्रातिथिं सतम्

॥२१॥

प्रणनाम मुदायुक्तः क्षितिविन्यस्तमस्तकः ॥

स ऋषिस्तं हृषीकेशमग्निबिंदुर्महातपाः

॥२२॥

तुष्टाव परया भक्त्या मौलिबद्धकरांजलिः ॥

अध्यस्तविस्तीर्णशिलं बलिध्वंसिनमच्युतम्

॥२३॥

तत्र पंचनदाभ्याशे मार्कंडेयादि सेविते ॥

गोविंदमग्निबिंदुः स स्तुतवांस्तुष्टमानसः

॥२४॥

अग्निबिंदुरुवाच

ओं नमः पुंडरीकाक्ष बाह्यांतः शौचदायिने ॥

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्

॥२५॥

नमामि ते पदद्वंद्वं सर्वद्वंद्वनिवारकम् ॥

निर्द्वंद्वया धिया विष्णो जिष्ण्वादि सुरवंदित

॥२६॥

यं स्तोतुं नाधिगच्छंति वाचो वाचस्पतेरपि ॥

तमीष्टे क इह स्तोतुं भक्तिरत्र बलीयसी

॥२७॥

अपि यो भगवानीशो मनःप्राचामगोचरः ॥

समादृशैरल्पधीभिः कथं स्तुत्यो वचः परः

॥२८॥

यं वाचो न विशंतीशं मनतीह मनो न यम् ॥

मनो गिरामतीतं तं कः स्तोतुं शक्तिमान्भवेत्

॥२९॥

यस्य निःश्वसितं वेदाः स षडंगपदक्रमाः ॥

तस्य देवस्य महिमा महान्कैरवगम्यते

॥३०॥

अतंद्रितमनोबुद्धींद्रिया यं सनकादयः ॥

ध्यायंतोपि हृदाकाशे न विंदंति यथार्थतः

॥३१॥

नारदाद्यैर्मुनिवरैराबाल ब्रह्मचारिभिः ॥

गीयमानचरित्रोपि न सम्यग्योधिगम्यते

॥३२॥

तंसूक्ष्मरूपमजमव्ययमेकमाद्यं बह्माद्यगोचरमजेयमनंतशक्तिम् ॥

नित्यं निरामयममूर्तमचिंत्यमूर्तिं कस्त्वां चराचर चराचरभिन्न वेत्ति

॥३३॥

एकैकमेव तव नामहरेन्मुरारे जन्मार्जिताघमघिनां च महापदाढ्यम् ॥

दद्यात्फलं च महितं महतो मखस्य जप्तं मुकुंदमधुसूदनमाधवेति

॥३४॥

नारायणेति नरकार्णव तारणेति दामोदरेति मधुहेति चतुर्भुजेति ॥

विश्वंभरेति विरजेति जनार्दनेति क्वास्तीह जन्म जपतां क्व कृतांतभीतिः

॥३५॥

ये त्वां त्रिविक्रम सदा हृदि शीलयंति कादंबिनी रुचिर रोचिषमंबुजाक्षम् ॥

सौदामनीविलसितांशुकवीतमूर्ते तेपि स्पृशंति तव कांतिमचिंत्यरूपाम्

॥३६॥

श्रीवत्सलांछनहरेच्युतकैटभारे गोविंदतार्क्ष्य रथकेशवचक्रपाणे ॥

लक्ष्मीपते दनुजसूदन शार्ङ्गपाणे त्वद्भक्तिभाजि न भयंक्वचिदस्ति पुंसि

॥३७॥

यैरर्चितोसि भगवंस्तुलसीप्रसूनैर्दूरीकृतैणमदसौरभदिव्यगंधैः ॥

तानर्चयंति दिवि देवगणाःसमस्ता मंदारदामभिरलं विमलस्वभावान्

॥३८॥

यद्वाचि नाम तव कामदमब्जनेत्र यच्छ्रोत्रयोस्तव कथा मधुराक्षराणि ॥

यच्चित्तभित्तिलिखितं भवतोस्ति रूपं नीरूपभूपपदवी नहि तैर्दुरापा

॥३९॥

ये त्वां भजंति सततं भुविशेषशायिंस्ताञ्छ्रीपते पितृपतींद्र कुबेरमुख्याः ॥

वृंदारका दिवि सदैव सभाजयंति स्वर्गापवर्गसुखसंततिदानदक्ष

॥४०॥

ये त्वां स्तुवंति सततं दिवितान्स्तुवंति सिद्धाप्सरोमरगणा लसदब्जपाणे ॥

विश्राणयत्यखिलसिद्धिदकोविना त्वां निर्वाणचारुकमलां कमलायताक्ष

॥४१॥

त्वं हंसि पासि सृजसि क्षणतः स्वलीला लीलावपुर्धर विरिंचिनतांघ्रियुग्म ॥

विश्वं त्वमेव परविश्वपतिस्त्वमेव विश्वस्यबीजमसि तत्प्रणतोस्मि नित्यम्

॥४२॥

स्तोता त्वमेव दनुजेंद्ररिपो स्तुतिस्त्वं स्तुत्यस्त्वमेव सकलं हि भवानिहैकः ॥

त्वत्तो न किंचिदपि भिन्नमवैमि विष्णो तृष्णां सदा कृणुहि मे भवजांभवारे

॥४३॥

इति स्तुत्वा हृषीकेशमग्निबिंदुर्महातपाः ॥

तस्थौ तूष्णीं ततो विष्णुरुवाच वरदो मुनिम्

॥४४॥

श्रीविष्णुरुवाच

अग्निबिंदो महाप्राज्ञ महता तपसांनिधे ॥

वरं वरय सुप्रीतस्तवादेयं न किंचन

॥४५॥

अग्निबिंदुरुवाच

यदि प्रीतोसि भगवन्वैकुंठेश जगत्पते ॥

कमलाकांत तद्देहि यदिह प्रार्थयाम्यहम्

॥४६॥

कृतानुज्ञोथ हरिणा भ्रूभंगेन स तापसः ॥

कृतप्रणामो हृष्टात्मा वरयामास केशवम्

॥४७॥

भगवन्सर्वगोपीह तिष्ठ पंचनदे ह्रदे ॥

हिताय सर्व जंतूनां मुमुक्षूणां विशेषतः

॥४८॥

लक्ष्मीशे न वरो मह्यमेष देयोऽविचारतः ॥

नान्यं वरं समीहेहं भक्तिं च त्वपदांबुजे

॥४९॥

इति श्रुत्वा वरं तस्याग्निबिंदोर्मधुसूदनः ॥

प्रीतः परोपकारार्थं तथेत्याहाब्धिजापतिः

॥५०॥

श्रीविष्णुरुवाच

अग्निबिंदो मुनिश्रेष्ठ स्थास्याम्यहमिह ध्रुवम् ॥

काशीभक्तिमतां पुंसां मुक्तिमार्गं समादिशन्

॥५१॥

मुने पुनः प्रसन्नोस्मि वरं ब्रूहि ददामि ते ॥

अतीव मम भक्तोसि भक्तिस्तेस्तु दृढा मयि

॥५२॥

आदावेव हि तिष्ठासुरहमत्र तपोनिधे ॥

ततस्त्वया समभ्यर्थि स्थास्याम्यत्र सदैव हि

॥५३॥

प्राप्य काशीं सुदुर्मेधाः कस्त्यजेज्ज्ञानवान्यदि ॥

अनर्घ्यं प्राप्य माणिक्यं हित्वा काचं क ईहते

॥५४॥

अल्पीयसा श्रमेणेह वपुषो व्ययमात्रतः ॥

अवश्यं गत्वरस्याशु यथामुक्तिस्तथा क्व हि

॥५५॥

विनिमय्य जराजीर्णं देहं पार्थिवमत्र वै ॥

प्राज्ञाः किमु न गृह्णीयुरमृतं नैर्जरं वपुः

॥५६॥

न तपोभिर्न वा दानैर्न यज्ञैर्बहुदक्षिणैः ॥

अन्यत्र लभ्यते मोक्षो यथा काश्यां तनु व्ययात्

॥५७॥

अपि योगं हि युंजाना योगिनो यतमानसाः ॥

नैकेनजन्मना मुक्ताः काश्यां मुक्ता वपुर्व्ययात्

॥५८॥

इदमेव महादानमिदमेव महत्तपः ॥

इदमेव व्रतं श्रेष्ठं यत्काश्यां म्रियते तनुः

॥५९॥

स एव विद्वाञ्जगति स एव विजितेंद्रियः ॥

स एव पुण्यवान्धन्यो लब्ध्वा काशीं न यस्त्यजेत्

॥६०॥

तावत्स्थास्याम्यहं चात्र यावत्काशी मुने त्विह ॥

प्रलयेपि न नाशोस्याः शिवशूलाग्र सुस्थितेः

॥६१॥

इत्याकर्ण्य गिरं विष्णोरग्निबिंदुर्महामुनिः ॥

प्रहृष्टरोमा प्रोवाच पुनरन्यं वरं वृणे

॥६२॥

मापते मम नाम्नात्र तीर्थे पंचनदे शुभे ॥

अभक्तेभ्योपि भक्तेभ्यः स्थितो मुक्तिं सदादिश

॥६३॥

येत्र पंचनदे स्नात्वा गत्वा देशांतरेष्वपि ॥

नरा पंचत्वमापन्ना मुक्तिं तेभ्योपि वै दिश

॥६४॥

येतु पंचनदे स्नात्वा त्वां भजिष्यंति मानवाः ॥

चलाचलापि द्वैरूपा मा त्याक्षीच्छ्रीश्च तान्नरान्

॥६५॥

श्रीविष्णुरुवाच

एवमस्त्वग्निबिंदोत्र भवता यद्वृतंमुने ॥

त्वन्नाम्नोऽर्धेन मे नाम मया सह भविष्यति

॥६६॥

बिंदुमाधव इत्याख्या मम त्रैलोक्यविश्रुता ॥

काश्यां भविष्यति मुने महापापौघ घातिनी

॥६७॥

ये मामत्र नराः पुण्याः पुण्ये पंचनदे ह्रदे ॥

सदा सपर्ययिष्यंति तेषां संसारभीः कुतः

॥६८॥

वसुस्वरूपिणी लक्ष्मीर्लक्ष्मीर्निर्वाणसंज्ञिका ॥

तत्पार्श्वगा सदा येषां हृदि पंचनदे ह्यहम्

॥६९॥

यैर्न पंचनदं प्राप्य वसुभिः प्रीणिता द्विजाः ॥

आशुलभ्यविपत्तीनां तेषां तद्वसुरोदिति

॥७०॥

त एव धन्या लोकेस्मिन्कृतकृत्यास्त एव हि ॥

प्राप्य यैर्मम सांनिध्यं वसवो मम सात्कृताः

॥७१॥

बिंदुतीर्थमिदं नाम तव नाम्ना भविष्यति ॥

अग्निबिंदो मुनिश्रेष्ठ सर्वपातकनाशनम्

॥७२॥

कार्तिके बिंदुतीर्थे यो ब्रह्मचर्यपरायणः ॥

स्नास्यत्यनुदिते भानौ भानुजात्तस्य भीः कुतः

॥७३॥

अपि पापसहस्राणि कृत्वा मोहेन मानवः ॥

ऊर्जे धर्मनदे स्नातो निष्पापो जायते क्षणात् ॥

'७४ ॥

यावत्स्वस्थोस्ति देहोयं यावन्नेंद्रियविक्लवः ॥

तावद्व्रतानि कुर्वीत यतो देहफलं व्रतम्

॥७५॥

एकभक्तेन नक्तेन तथैवायाचितेन च ॥

उपवासेन देहोयं संशोध्यो शुचिभाजनम्

॥७६॥

कृच्छ्रचांद्रायणादीनि कर्तव्यानि प्रयत्नतः ॥

अशुचिः शुचितामेति कायो यद्व्रतधारणात्

॥७७॥

व्रतैः संशोधिते देहे धर्मो वसति निश्चलः ॥

अर्थकामौ सनिर्वाणौ तत्र यत्र वृष स्थितिः

॥७८॥

तस्माद्व्रतानि सततं चरितव्यानि मानवैः ॥

धर्मसान्निध्य कर्तृणि चतुर्वर्गफलेप्सुभिः

॥७९॥

सदा कर्तुं न शक्नोति व्रतानि यदि मानवः ॥

चातुर्मास्यमनुप्राप्य तदा कुर्यात्प्रयत्नतः

॥८०॥

भूशय्या ब्रह्मचर्यं च किंचिद्भक्ष्यनिषेधनम् ॥

एकभक्तादि नियमो नित्यदानं स्वशक्तितः

॥८१॥

पुराणश्रवणं चैव तदर्थाचरणं पुनः ॥

अखंडदीपोद्बोधश्च महापूजेष्टदैवते

॥८२॥

प्रभूतांकुरबीजाढ्ये देशे चापि गतागतम् ॥

यत्नेन वर्जयेद्धीमान्महाधर्मविवृद्धये

॥८३॥

असंभाष्या न संभाष्याश्चातुर्मास्य व्रतस्थितैः ॥

मौनं चापि सदा कार्यं तथ्यं वक्तव्यमेव वा

॥८४॥

निष्पावांश्च मसूरांश्च कोद्रवान्वर्जयेद्व्रती ॥

सदा शुचिभिरास्थेयं स्प्रष्टव्यो नाव्रती जनः

॥८५॥

दंतकेशांबरादीनि नित्यं शोध्यानि यत्नतः ॥

अनिष्टचिंता नो कार्या व्रतिना हृद्यपि क्वचित्

॥८६॥

द्वादशस्वपि मासेषु व्रतिनो यत्फलं भवेत् ॥

चातुर्मास्यव्रतभृतां तत्फलं स्यादखंडितम्

॥८७॥

चतुर्ष्वपि च मासेषु न सामर्थ्यं व्रते यदि ॥

तदोर्जे व्रतिना भाव्यमप्यब्दफलमिच्छता

॥८८॥

अव्रतः कार्तिको येषां गतो मूढधियामिह ॥

तेषां पुण्यस्य लेशोपि न भवेत्सूकरात्मनाम्

॥८९॥

कृच्छ्रं वा चातिकृच्छ्रं वा प्राजापत्यमथापि वा ॥

संप्राप्ते कार्तिके मासि कुर्याच्छक्त्याति पुण्यवान्

॥९०॥

एकांतरं व्रतं कुर्यात्त्रिरात्र व्रतमेव वा ॥

पंचरात्रं सप्तरात्रं संप्राप्ते कार्तिके व्रती

॥९१॥

पक्षव्रतं वा कुर्वीत मासोपोषणमेव वा ॥

नोर्जो वंध्यो विधातव्यो व्रतिना केनचित्क्वचित्

॥९२॥

शाकाहारं पयोहारं फलाहारमथापि वा ॥

चरेद्यवान्नाहारं वा संप्राप्ते कार्तिके व्रती

॥९३॥

नित्यनैमित्तिकं स्नानं कुर्यादूर्जे व्रती नरः ॥

ब्रह्मचर्यं चरेदूर्जे महाव्रतफलार्थवान्

॥९४॥

बाहुलं ब्रह्मचर्येण यः क्षिपेच्छुचिमानसः ॥

समस्तं हायनं तेन ब्रह्मचर्यकृतं भवेत्

॥९५॥

यस्तु कार्तिकिकं मासमुपवासैः समापयेत् ॥

अप्यब्दमपि तेनेह भवेत्सम्यगुपोषितम् ॥

शाकाहारपयोहारैरूर्जों यैरतिवाहितः ॥

अखंडिता शरत्तेन तदाहारेण यापिता

॥९७॥

पत्रभोजी भवेदूर्जे कांस्यं त्याज्यं प्रयत्नतः ॥

यो व्रती कांस्यभोजी स्यान्न तद्व्रतफलं लभेत्

॥९८॥

कांस्यस्य नियमे दद्यात्कांस्यं सर्पिः प्रपूरितम् ॥

ऊर्जे न भक्षयेत्क्षौद्रमतिक्षुद्रगतिप्रदम्

॥९९॥

मधुत्यागे घृतं दद्यात्पायसं च सशर्करम् ॥

अभ्यंगेऽभ्यवहारे च तैलमूर्जे विवर्जयेत्

॥१००॥

भूयात्स नारकी देही तत्राभ्यंगाद्यतोनघ ॥

तैलत्यागे तिलान्दद्याद्द्रोणमात्रान्स कांचनान्

॥१॥

कार्तिके मत्स्यभोजी यः स तैमीं योनिमृच्छति ॥

बाहुले मांसभोजी यः स कृमिःपूयशोणिते

॥२॥

मांसाशिनोपि ये भूपास्त्यजेयुस्तेपि कार्तिके ॥

मत्स्यमांसानि संत्यज्य कार्त्तिके व्रततत्परः

॥३॥

मत्स्यमांसादनाद्दोषाद्बहिर्भवति निश्चितम् ॥

नियमे मत्स्यमांसानां दद्यात्कार्तिकिके व्रती ॥

कूश्मांडानि समाषाणि दशस्वर्णयुतान्यपि

॥४॥

कार्तिके मीनभोजी यः सोश्नात्यमृतमेवहि ॥

सुघंटां सतिलां मौनी सहिरण्यां प्रदापयेत्

॥५॥

कार्तिके लवणं त्यक्तं येन व्रतभृता सता ॥

त्यक्ताः सर्वे रसास्तेन तत्त्यागी गां प्रदापयेत्

॥६॥

भूशय्यां कार्तिके कुर्वन्न भुवं संस्पृशेद्व्रती ॥

पर्यंकं भूशयो दद्यात्सतूलं सोपधानकम्

॥७॥

दीपं यः कार्तिके दद्यादखंडं घृतवर्तिकम् ॥

मोहांध तमसं प्राप्य स न गच्छति दुर्गतिम्

॥८॥

यः कुर्यात्कार्तिके मासे रजन्यां दीपकौमुदीम् ॥

तामिस्रं चांधतामिस्रं न स पश्येत्कदाचन

॥९॥

पापांधकारसंक्रुद्धः कार्तिके दीपदानतः ॥

क्रोधांधकारितमुखं भास्करिं स न वीक्षते

॥११०॥

स उद्द्योतमयं पश्येत्त्रैलोक्यं सचराचरम् ॥

प्रबोधयेन्ममाग्रे यो दीपं सोज्वलवर्तिकम्

॥११॥

पंचामृतानां कलशैरूर्जे मां स्नापयेन्नरः ॥

क्षीराब्धितटमासाद्य वसेत्कल्पं स पुण्यवान्

॥१२॥

प्रतिक्षपं कार्तिकिके कुर्वञ्ज्योत्स्नां प्रदीपजाम् ॥

ममाग्रे भक्तिसंयुक्तो गर्भध्वांतं न संविशेत्

॥१३॥

आज्यवर्तिकमूर्जे यो दीपं मेग्रे प्रबोधयेत् ॥

बुद्धिभ्रंशं न चाप्नोति महामृत्युभये सति

॥१४॥

कार्तिके मासि मे यात्रा यैः कृता भक्तितत्परैः ॥

बिंदुतीर्थे कृतस्नानैस्तेषां मुक्तिर्न दूरतः

॥१५॥

व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम ॥

दामोदरगृहाणार्घ्यं दनुजेंद्रनिषूदन

॥१६॥

स्नाने नैमित्तिके कृष्ण कार्तिके पापशोषणे ॥

गृह्णात्वर्घ्यं मया दत्तं राधया सहितो भवान्

॥१७॥

इमौ मंत्रौ समुच्चार्य योर्घ्यं मह्यं प्रयच्छति ॥

सुवर्णरत्न पुष्पांबु युजा शंखेन पुण्यवान्

॥१८॥

सुवर्णपूर्णपृथिवी संकल्पोदकपूर्वकम् ॥

तेन दत्ता भवेत्सम्यक्सुपात्राय सुपर्वणि

॥१९॥

एकादशीं समासाद्य प्रबोधकरणीं मम ॥

बिंदुतीर्थकृतस्नानो रात्रौ जागरणान्वितः

॥१२०॥

दीपान्प्रोबोध्य बहुशो ममालंकृत्य शक्तितः ॥

तौर्यत्रिकविनोदेन पुराणश्रवणादिभिः

॥२१॥

महामहोत्सवं कृत्वा यावत्पूर्णा तिथिर्भवेत् ॥

तत्रान्नदानं बहुशः कृत्वामत्प्रीतये नरः

॥२२॥

महापातकयुक्तोपि न विशेत्प्रमदोदरम् ॥

बिंदुमाधवनामानं यो मामत्र समर्चयेत्

॥२३॥

बिंदुतीर्थकृतस्नानो निर्वाणं स हि विंदति ॥

आदिमाधवनामाहं पूज्यः सत्ययुगे मुने

॥२४॥

अनंतमाधवो ज्ञेयस्त्रेतायां सर्वसिद्धिदः ॥

श्रीदमाधवसंज्ञोहं द्वापरे परमार्थकृत्

॥२५॥

कलौ कलिमलध्वंसी ज्ञेयोहं बिंदुमाधवः ॥

कलौ कल्मषसंपन्ना न मां विंदंति मानवाः

॥२६॥

ममैव मायया मूढा भेदवादपरायणाः ॥

मम भक्तिं प्रकुर्वाणा ये विश्वेशं द्विषंति वै

॥२७॥

विद्विषो मम ते ज्ञेयाः पिशाचपदगामिनः ॥

पैशाचीं योनिमाप्यापि कालभैरवशासनात्

॥२८॥

त्रिंशद्वर्ष सहस्राणि उषित्वा दुःखसागरे ॥

विश्वेशानुग्रहादेव ततो मोक्षमवाप्नुयुः

॥२९॥

तस्माद्द्वेषो न कर्तव्यो विश्वेशे परमात्मनि ॥

विश्वेश द्वेषिणां पुंसां प्रायश्चित्तं यतो नहि

॥१३०॥

मनसापि हि विश्वेशं विद्विषंतीह येऽधमाः ॥

अध्यासतेंधतामिस्रं मृतास्तेन्यत्र संततम्

॥३१॥

शिवनिंदापरा ये च ये पाशुपतनिंदकाः ॥

विद्विषो मम ते ज्ञेया पततो नरकेऽशुचौ

॥३२॥

अष्टाविंशति कोटीषु नरकेषु क्रमेण हि ॥

कल्पं कल्पं वसेयुस्ते ये विश्वेश्वरनिंदकाः

॥३३॥

विश्वेशानुग्रहं प्राप्य मुनेहमपि मुक्तिदः ॥

मद्भक्तैस्तद्विशेषेण सेव्यो विश्वेश्वरोऽनिशम्

॥३४॥

इयं वाराणसी ज्ञेया मुने पाशुपतस्थली ॥

तस्मात्पशुपतिः सेव्यः काश्यां निश्रेयसार्थिभिः

॥३५॥

अत्र पंचनदे तीर्थे स्नाति विश्वेश्वरः स्वयम् ॥

ऊर्जे सदैव सगणः सस्कंदः सपरिच्छदः

॥३६॥

ब्रह्मा सवेदः समखो ब्रह्माण्याद्याश्च मातरः ॥

सप्ताब्धयः ससरितः स्नांत्यूर्जे धूतपापके

॥३७॥

सचेतना हि यावंतस्त्रैलोक्ये देहधारिणः ॥

तावंतः स्नातुमायांति कार्तिके धूतपापके

॥३८॥

यैर्न पंचनदे स्नातं प्राप्य कार्तिकिकं शुभम् ॥

जलबुदुदवत्तेषां वृथाजन्म शरीरिणाम्

॥३९॥

आनंदकाननं पुण्यं पुण्यं पांचनदं ततः ॥

ततोपि मम सान्निध्यमग्निबिंदो महामुने

॥१४०॥

अनेनैवानुमानेन विद्धि पंचनदस्य वै ॥

महिमानं महाप्राज्ञ सर्वतीर्थोत्तमोत्तमम्

॥४१॥

श्रुत्वापि यं महाप्राज्ञो महापापैः प्रमुच्यते ॥

विष्णोर्मुखादिति श्रुत्वा सोग्निबिंदुर्महामुनिः

॥४२॥

पुनः प्रणम्य पप्रच्छ बिंदुमाधवमच्युतम्

॥४३॥

अग्निबिंदुरुवाच

भगवञ्छ्रोतुमिच्छामि बिंदुमाधव तद्वद ॥

कतिधा तव रूपाणि काश्यां संति जनार्दन

॥४४॥

भविष्याण्यपि कानीह तानि मे कथयाच्युत ॥

यानि संपूज्यते भक्ताः प्राप्स्यंति कृतकृत्यताम्

॥१४५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे बिंदुमाधवाविर्भावोनाम षष्टितमोऽध्यायः ॥ ६० ॥