उत्तरार्धेऽनुक्रमणिका
सूत उवाच
इदं स्कांदमहं श्रुत्वा काशीखंडमनुत्तमम् ॥
नितरां परितृप्तोस्मि हृदि चापि विधारितम्
॥१॥अनुक्रमणिकाध्यायं तथा माहात्म्यमुत्तमम् ॥
पाराशर्य समाचक्ष्व यथापूर्वमिदं भवेत्
॥२॥व्यास उवाच
सूतावधेहि धर्मात्मञ्जातूकर्ण्य निशामय ॥
शुकवैशंपायनाद्याः शृण्वंत्वपि च बालकाः
॥३॥अनुक्रमणिकाध्यायं माहात्म्यं चापि खंडजम् ॥
प्रवक्ष्याम्यघनाशाय महापुण्यप्रवर्धनम्
॥४॥विंध्यनारदसंवादः प्रथमे परिकीर्तितः ॥
सत्यलोकप्रभावश्च द्वितीयः समुदाहृतः
॥५॥अगस्तेराश्रमपदे देवानामागमस्ततः ॥
पतिव्रता चरित्रं च प्रस्थानं कुंभसंभवः
॥६॥तीर्थप्रशंसा च ततः सप्तपुर्यस्ततः स्मृताः ॥
संयमिन्याः स्वरूपं च ब्रध्नलोकस्ततः परम्
॥७॥इंद्राग्न्योर्लोकसंप्राप्तिस्ततश्च शिवशर्मणः ॥
अग्नेः समुद्भवस्तस्मात् क्रव्याद्वरुणसंभवः
॥८॥गंधवत्यलकापुर्योरीशयोस्तु समुद्भवः ॥
चंद्रलोकपरिप्राप्तिः शिवशर्मद्विजन्मनः
॥९॥उडुलोक कथा तस्मात्ततः शुक्रसमुद्भवः ॥
माहेय गुरुसौरीणां लोकानां वर्णनं ततः
॥१०॥सप्तर्षीणां ततो लोका ध्रुवस्य च तपस्ततः ॥
ततो ध्रुवपदप्राप्तिर्ध्रुवलोक स्थितिस्ततः.
॥११॥दर्शनं सत्यलोकस्य तस्य वै शिवशर्मणः ॥
चतुर्भुजाभिषेकश्च निर्वाणं शिवशर्मणः
॥१२॥स्कंदागस्त्योश्च संवादो मणिकर्ण्याः समुद्भवः ॥
ततस्तु गंगामाहात्म्यं ततो दशहरास्तवः
॥१३॥प्रभावश्चापि गंगाया गंगानामसहस्रकम् ॥
वाराणस्याः प्रशंसाथ भैरवाविर्भवस्ततः
॥१४॥दंडपाणेः समुद्भूतिर्ज्ञानवाप्युद्भवस्ततः ॥
आख्यानं च कलावत्याः सदाचारस्ततः परम्
॥१५॥ब्रह्मचारि प्रकरणं ततः स्त्रीलक्षणानि च ॥
कृत्याकृत्यप्रकरणमविमुक्तेशवर्णनम्
॥१६॥ततो गृहस्थधर्माश्च ततो योगनिरूपणम् ॥
कालज्ञानं ततः प्रोक्तं दिवोदासस्य वर्णनम्
॥१७॥काश्याश्च वर्णनं तस्माद्योगिनीवर्णनं ततः ॥
लोलार्कस्य समाख्यानमुत्तरार्ककथा ततः
॥१८॥सांबादित्यस्य महिमा द्रुपदादित्य शंसनम् ॥
ततस्तु गरुडाख्यानमरुणार्कादयस्ततः
॥१९॥दशाश्वमेधिकं तीर्थं मंदराच्च गणागमः ॥
पिशाचमोचनाख्यानं गणेशप्रेषणं ततः
॥२०॥मायागणपतेश्चाथ ढुंढिप्रादुर्भवस्ततः ॥
विष्णुमायाप्रपंचोथ दिवोदासविसर्जनम्
॥२१॥ततः पंचनदोत्पत्तिर्बिंदुमाधवसंभवः ॥
ततो वैष्णवतीर्थानां माहात्म्यपरिवर्णनम्
॥२२॥प्रयाणं मंदरात्काशीं वृषभध्वजशूलिनः ॥
जैगीषव्येन संवादो ज्येष्ठस्थाने महेशितुः
॥२३॥ततः क्षेत्ररहस्यस्य कथनं पापनाशनम् ॥
अथातः कंदुकेशस्य व्याघ्रेशस्य समुद्भवः
॥२४॥ततः शैलेश्वरकथा रत्नेशस्य च दर्शनम् ॥
कृत्तिवासः समुत्पत्तिस्ततश्चायतनागमः
॥२५॥देवतानामधिष्ठानं दुर्गासुरपराक्रमः ॥
दुर्गाया विजयश्चाथ तत ओंकारवर्णनम्
॥२६॥पुनरोंकारमाहात्म्यं त्रिलोचनसमुद्भवः ॥
त्रिलोचनप्रभावोथ केदाराख्यानमेव च
॥२७॥ततो धर्मेशमहिमा ततः पक्षिकथा शुभा ॥
ततो विश्वभुजाख्यानं दुर्दमस्य कथा ततः
॥२८॥ततो वीरेश्वराख्यानं वीरेश महिमा पुनः ॥
गंगातीर्थैश्च संयुक्ता कामेश महिमा ततः
॥२९॥विश्वकर्मेश महिमा दक्षयज्ञसमुद्भवः ॥
सत्या देहविसर्गश्च ततो दक्षेश्वरोद्भवः
॥३०॥ततो वै पार्वतीशस्य महिम्नः परिकीर्तनम् ॥
गंगेशस्याथ महिमा नर्मदेशसमुद्भवः
॥३१॥सतीश्वरसमुत्पत्तिरमृतेशादि वणर्नम् ॥
व्यासस्य हि भुजस्तंभो व्यासशापविमोक्षणम्
॥३२॥क्षेत्रतीर्थकदंबं च मुक्तिमंडप संकथा ॥
विश्वेशाविर्भवश्चाथ ततो यात्रापरिक्रमः
॥३३॥एतदाख्यानशतकं क्रमेण परिकीर्तितम् ॥
यस्य श्रवणमात्रेण सर्वखंड श्रुतेः फलम् ॥
अनुक्रमणिकाध्यायेप्यस्ति यात्रापरिक्रमः
॥३४॥सूत उवाच
यात्रा परिक्रमं ब्रूहि जनानां हितकाम्यया ॥
यथावत्सिद्धिकामानां सत्यवत्याः सुतोत्तम
॥३५॥व्यास उवाच
निशामय महाप्राज्ञ लोमहर्षण वच्मि ते ॥
यथा प्रथमतो यात्रा कर्तव्या यात्रिकैर्मुदा
॥३६॥सचैलमादौ संस्नाय चक्रपुष्करिणीजले ॥
संतर्प्यदेवासपितॄन्ब्राह्मणांश्च तथार्थिनः
॥३७॥आदित्यं द्रौपदीं विष्णुं दंडपाणिं महेश्वरम् ॥
नमस्कृत्य ततो गच्छेद्द्रष्टुं ढुंढिविनायकम्
॥३८॥ज्ञानवापीमुपस्पृश्य नंदिकेशं ततोर्चयेत् ॥
तारकेशं ततोभ्यर्च्य महाकालेश्वरं ततः
॥३९॥ततः पुनर्दंडपाणिमित्येषा पंचतीर्थिका
॥४०॥दैनंदिनी विधातव्या महाफलमभीप्सुभिः ॥
ततो वैश्वेश्वरी यात्रा कार्या सर्वार्थ सिद्धिदा
॥४१॥द्विसप्तायतनानां च कार्या यात्रा प्रयत्नतः ॥
कृष्णां प्रतिपदं प्राप्य भूतावधि यथाविधि
॥४२॥अथवा प्रतिभूतं च क्षेत्रसिद्धिमभीप्सुभिः ॥
तत्तत्तीर्थकृतस्नानस्तत्तल्लिंगकृतार्चनः
॥४३॥मौनेन यात्रां कुर्वाणः फलं प्राप्नोति यात्रिकः ॥
ओंकारं प्रथमं पश्येन्मत्स्योदर्यां कृतोदकः
॥४४॥त्रिविष्टपं महादेवं ततो वै कृत्तिवाससम् ॥
रत्नेशं चाथ चंद्रेशं केदारं च ततो व्रजेत्
॥४५॥धर्मेश्वरं च वीरेशं गच्छेत्कामेश्वरं ततः ॥
विश्वकर्मेश्वरं चाथ मणिकर्णीश्वरं ततः
॥४६॥अविमुक्तेश्वरं दृष्ट्वा ततो विश्वेशमर्चयेत् ॥
एषा यात्रा प्रयत्नेन कर्तव्या क्षेत्रवासिना
॥४७॥यस्तु क्षेत्रमुषित्वा तु नैतां यात्रां समाचरेत् ॥
विघ्नास्तस्योपतिष्ठंते क्षेत्रोच्चाटनसूचकाः
॥४८॥अष्टायतन यात्रान्या कर्तव्या विघ्रशांतये ॥
दक्षेशः पार्वतीशश्च तथा पशुपतीश्वरः
॥४९॥गंगेशो नर्मदेशश्च गभस्तीशः सतीश्वरः ॥
अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः
॥५०॥दृश्यान्येतानि लिंगानि महापापोपशांतये ॥
अपरापि शुभा यात्रा योगक्षेमकरी सदा
॥५१॥सर्वविघ्रोपहंत्री च कर्तव्या क्षेत्रवासिभिः ॥
शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्वकम्
॥५२॥स्नानं तु संगमे कृत्वा द्रष्टव्यः संगमेश्वरः ॥
स्वलीन तीर्थे सुस्नातः पश्येत्स्वलीनमीश्वरम्
॥५३॥स्नात्वा मंदाकिनी तीर्थे द्रष्टव्यो मध्यमेश्वरः ॥
पश्येद्धिरण्यगर्भेशं तत्र तीर्थे कृतोदकः
॥५४॥मणिकर्ण्यां ततः स्नात्वा पश्येदीशानमीश्वरम् ॥
ततः कूपमुपस्पृश्य गोप्रेक्षमवलोकयेत्
॥५५॥कापिलेय ह्रदे स्नात्वा वीक्षेत वृषभध्वजम् ॥
उपशांतशिवं पश्येत्तत्कूपविहितोदकः
॥५६॥पंचचूडाह्रदे स्नात्वा ज्येष्ठस्थानं ततोर्चयेत् ॥
चतुःसमुद्रकूपे तु स्नात्वा देवं समर्चयेत्
॥५७॥देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते ॥
शुक्रेश्वरं ततः पश्येत्तत्कूपविहितोदकः
॥५८॥दंडखाते ततः स्नात्वा व्याघ्रेशं पूजयेत्ततः ॥
शौनकेश्वरकुंडे तु स्नानं कृत्वा ततोर्चयेत्
॥५९॥जंबुकेशं महालिंगं कृत्वा यात्रामिमां नरः ॥
क्वचिन्न जायते भूयः संसारे दुःखसागरे
॥६०॥समारभ्य प्रतिपदं यावत्कृष्णा चतुर्दशी ॥
एतत्क्रमेण कर्तव्यान्ये तदायतनानि वै
॥६१॥इमां यात्रां नरः कृत्वा न भूयोप्यभिजायते ॥
अन्या यात्रा प्रकर्तव्यैका दशायतनोद्भवा
॥६२॥आग्नीध्र कुंडे सुस्नातः पश्येदाग्नीध्रमीश्वरम् ॥
उर्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम्
॥६३॥आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः ॥
लांगलीशमथालोक्य ततस्तु त्रिपुरांतकम्
॥६४॥ततो मनःप्रकामेशं प्रीतिकेशमथो व्रजेत् ॥
मदालसेश्वरं तस्मात्तिलपर्णेश्वरं ततः
॥६५॥यात्रैकादशलिंगानामेषा कार्या प्रयत्नतः ॥
इमां यात्रां प्रकुर्वाणो रुद्रत्वं प्राप्नुयान्नरः
॥६६॥अतः परं प्रवक्ष्यामि गारी यात्रामनुत्तमाम् ॥
शुक्लपक्षे तृतीयायां या यात्रा विष्वगृद्धिदा
॥६७॥गोप्रेक्षतीर्थे सुस्नाय मुखनिर्मालिकां व्रजेत् ॥
ज्येष्ठावाप्यां नरः स्नात्वा ज्येष्ठागौरीं समर्चयेत्
॥६८॥सौभाग्यगौरी संपूज्या ज्ञानवाप्यां कृतोदकैः ॥
ततः शृंगारगौरीं च तत्रैव च कृतोदकः
॥६९॥स्नात्वा विशालगंगायां विशालाक्षीं ततो व्रजेत् ॥
सुस्नातो ललितातीर्थे ललितामर्चयेत्ततः
॥७०॥स्नात्वा भवानीतीर्थेथ भवानीं परिपूजयेत् ॥
मंगला च ततोभ्यर्च्या बिंदुतीर्थकृतोदकैः
॥७१॥ततो गच्छेन्महालक्ष्मीं स्थिरलक्ष्मीसमृद्धये ॥
इमां यात्रां नरः कृत्वा क्षेत्रेस्मिन्मुक्तिजन्मनि
॥७२॥न दुःखैरभिभूयेत इहामुत्रापि कुत्रचित् ॥
कुर्यात्प्रतिचतुर्थीह यात्रां विघ्नेशितुः सदा
॥७३॥ब्राह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे ॥
भौमे भैरवयात्रा च कार्या पातकहारिणी
॥७४॥रविवारे रवेर्यात्रा षष्ठ्यां वारविसंयुजि ॥
तथैव रविसप्तम्यां सर्वविघ्नोपशांतये
॥७५॥नवम्यामथवाष्टम्यां चंडीयात्रा शुभा मता ॥
अंतर्गृहस्य वै यात्रा कर्तव्या प्रतिवासरम्
॥७६॥प्रातःस्नानं विधायादौ नत्वा पंचविनायकान् ॥
नमस्कृत्वाथ विश्वेशं स्थित्वा निर्वाणमंडपे
॥७७॥अंतर्गृहस्य यात्रा वै करिष्ये घौघशांतये ॥
गृहीत्वा नियमं चेति गत्वाथ मणिकर्णिकाम्
॥७८॥स्नात्वा मौनेन चागत्य मणिकर्णीशमर्चयेत् ॥
कंबलाश्वतरौ नत्वा वासुकीशं प्रणम्य च
॥७९॥पर्वतेशं ततो दृष्ट्वा गंगाकेशवमप्यथ ॥
ततस्तु ललितां दृष्ट्वा जरासंधेश्वरं ततः
॥८०॥ततो वै सोमनाथं च वाराहं च ततो व्रजेत् ॥
ब्रह्मेश्वरं ततो नत्वा नत्वागस्तीश्वरं ततः
॥८१॥कश्यपेशं नमस्कृत्य हरिकेशवनं ततः ॥
वैद्यनाथं ततो दृष्ट्वा ध्रुवेशमथ वीक्ष्य च
॥८२॥गोकर्णेश्वरमभ्यर्च्य हाटकेशमथो व्रजेत् ॥
अस्थिक्षेप तडागे च दृष्ट्वा वै कीकसेश्वरम्
॥८३॥भारभूतं ततो नत्वा चित्रेगुप्तेश्वरं ततः ॥
चित्रघंटां प्रणम्याथ ततः पशुपतीश्वरम्
॥८४॥पितामहेश्वरं गत्वा ततस्तु कलशेश्वरम् ॥
चंद्रेशस्त्वथ वीरेशो विद्येशोग्नीश एव च
॥८५॥नागेश्वरो हरिश्चंद्रश्चिंतामणिविनायकः ॥
सेनाविनायकश्चाथ द्रष्टव्यः सर्वविघ्नहृत्
॥८६॥वसिष्ठवामदेवौ च मूर्तिरूपधरावुभौ ॥
द्रष्टव्यौ यत्नतः काश्यां महाविघ्नविनाशिनौ
॥८७॥सीमाविनायकं चाथ करुणेशं ततो व्रजेत् ॥
त्रिसंध्येशो विशालाक्षी धर्मेशो विश्वबाहुका ॥
आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः
॥८८॥चतुर्वक्त्रेश्वरं लिंगं ब्राह्मीशस्तु ततः परः ॥
ततो मनःप्रकामेश ईशानेशस्ततः परम्
॥८९॥चंडीचंडीश्वरौ दृश्यौ भवानीशंकरौ ततः ॥
ढुंढिं प्रणम्य च ततो राजराजेशमर्चयेत्
॥९०॥लांगलीशस्ततोभ्यर्च्यस्ततस्तु नकुलीश्वरः ॥
परान्नेशमथो नत्वा परद्रव्येश्वरं ततः
॥९१॥प्रतिग्रहेश्वरं वापि निष्कलंकेशमेव च ॥
मार्कंडेयेशमभ्यर्च्य ततश्चाप्सरसेश्वरम्
॥९२॥गंगेशोर्च्यस्ततो ज्ञानवाप्यां स्नानं समाचरेत् ॥
नंदिकेशं तारकेशं महाकालेश्वरं ततः
॥९३॥दंडपाणिं महेशं च मोक्षेशं प्रणमेत्ततः ॥
वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः
॥९४॥विनायकांस्ततः पंच विश्वनाथं ततो व्रजेत् ॥
. ततो मौनं विसृज्याथ मंत्रमेतमुदीरयेत्
॥९५॥अंतर्गृहस्य यात्रेयं यथावद्या मया कृता ॥
न्यूनातिरिक्तया शंभुः प्रीयतामनया विभुः
॥९६॥इति मंत्रं समुच्चार्य क्षणं वै मुक्तिमंडपे ॥
विश्रम्य यायाद्भवनं निष्पापः पुण्यवान्नरः
॥९७॥संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्वतः ॥
कार्या यात्रा प्रयत्नेन महापुण्य समृद्धये
॥९८॥नभस्य पंचदश्यां च कुलस्तंभं समर्चयेत् ॥
दुःखं रुद्रपिशाचत्वं न भवेद्यस्य पूजनात्
॥९९॥श्रद्धापूर्वमिमा यात्रा कर्तव्याः क्षेत्रवासिभिः ॥
पर्वस्वपि विशेषेण कार्या यात्राश्च सर्वतः
॥१००॥न वंध्यं दिवसं कुर्याद्विनायात्रां क्वचित्कृती ॥
यात्राद्वयं प्रयत्नेन कर्तव्यं प्रतिवासरम्
॥१॥आदौ स्वर्गतरंगिण्यास्ततो विश्वेशितुर्ध्रुवम् ॥
यस्य वंध्यं दिनं यातं काश्यां निवसतः सतः
॥२॥निराशाः पितरस्तस्य तस्मिन्नेव दिनेऽभवन् ॥
स दष्टः कालसर्पेण स दृष्टो मृत्युना स्फुटम्
॥३॥स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः ॥
सर्वतीर्थेषु सस्नौ स सर्वयात्रां व्यधात्स च ॥
मणिकर्ण्यां तु यः स्नातो यो विश्वेशं निरैक्षत
॥४॥सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनःपुनः ॥
दृश्यो विश्वेश्वरो नित्यं स्नातव्या मणिकर्णिका
॥५॥व्यास उवाच
सूत स्कांदमिदं श्रुत्वा काशीमाहात्म्यमुत्तमम् ॥
नरो न निरयं याति कृत्वाप्यघसहस्रकम्
॥६॥स्नात्वा सर्वाणि तीर्थानि यच्छ्रेयः समुपार्ज्यते ॥
काशीखंडस्य श्रवणात्तत्स्यात्सूत न संशयः
॥७॥दत्त्वा दानानि सर्वाणि कृत्वा यज्ञाननेकशः ॥
तत्पुण्यं लभते मर्त्यस्तदा तच्छ्रवणाद्ध्रुवम्
॥८॥तप्त्वा तपांसि चोग्राणि प्राप्यते यन्महत्फलम् ॥
श्रवणादस्य खंडस्य लभते तन्न संशयः
॥९॥अधीत्य चतुरो वेदान्सांगान्यत्फलमाप्यते ॥
काशीखंडं समाकर्ण्य तत्फलं लभ्यते नरैः
॥११०॥गययां श्राद्धदानाच्च यथा तृप्यंति पूर्वजाः ॥
तथैतच्छ्रवणान्नृणां तृप्नुवंति पितामहाः
॥११॥तैश्च सर्वपुराणानि श्रुतानि स्थिरबुद्धिभिः ॥
काशीखंडं श्रुतं यैश्च सर्वेषां श्रेयसां पदम्
॥१२॥श्रुताश्च सर्वधर्मास्तैर्महापुण्येकराशिभिः ॥
श्रुतं यैः स्थिरचेतोभिः काशीमाहात्म्यमुत्तमम्
॥१३॥इदमेव हि देवेज्या परमा परिकीर्तिता ॥
जपेत्तत्खंडमखिलं श्रोतव्यं श्रद्धया द्विजाः
॥१४॥शृणुयादेकमपि य आख्यानं काशिखंडजम् ॥
श्रुतानि तेन सर्वाणि धर्मशास्त्राण्यसंशयम्
॥१५॥महाधर्मैकजननं महार्थप्रतिपादकम् ॥
कारणं सर्वकामाप्तेः काशीखंडमिदं स्मृतम्
॥१६॥एतच्छ्रवणतः पुंसां कैवल्यं नैव दूरतः ॥
तुष्यंति सर्वे पितरः श्रुत्वैतत्खंडमुत्तमम्
॥१७॥प्रीणंत्यमर्त्याः सर्वेपि ब्रह्मविष्णुशिवादयः ॥
मुनयः परिमोदंते माद्यंति सनकादयः
॥१८॥हृष्टः सर्वो भवेदेव भूतग्रामश्चतुर्विधः ॥
महिमश्रवणादस्माद्वाराणस्या न संशयः
॥१९॥य इदं श्रावयेद्विद्वान्समस्तं त्वर्धमेव वा ॥
पादमात्रं तदर्धं वा त्वेकं व्याख्यानमुत्तमम्
॥१२०॥स नमस्यः प्रयत्नेन संपूज्यस्त्विष्टदेववत् ॥
तस्मै देयं प्रयत्नेन विश्वेश प्रीतये सदा
॥२१॥तस्मिंस्तुष्टे हि संतुष्टो विश्वेशो नात्र संशयः ॥
यत्रैतत्पठ्यते खंडं परानंदसमाश्रयम्
॥२२॥न तत्र प्रभवेत्कश्चिदमंगलसमुद्भवः ॥
य इदं शृणुयाद्विद्वान्यश्चेदं श्रावयेत्सुधीः
॥२३॥यः पठेदपि पुण्यात्मा ते सर्वे रुद्रमूर्तयः ॥
य एतत्पुस्तकं रम्यं लेखयित्वा समर्पयेत्
॥२४॥अखिलानि पुराणानि तेन दत्तानि नान्यथा ॥
अत्राख्यानानि यावंति श्लोका यावंत एव हि
॥२५॥तथा पदानि यावंति वर्णा यावंत एव हि ॥
यावंत्यपि च मात्राणि यावंत्यः पदपंक्तयः
॥२६॥गुणे सूत्राणि यावंति यावंतः पटतंतवः ॥
चित्ररूपाणि यावंति रम्यपुस्तकसंचके
॥२७॥तावद्युगसहस्राणि दाता स्वर्गे महीयते ॥
एतद्द्वादशकृत्वो यः शृणुयात्खंडमुत्तमम्
॥२८॥ब्रह्महत्यापि तस्याशु नश्येच्छंभोरनुग्रहात् ॥
अपुत्रः शृणुयाद्यस्तु सुस्नातः श्रद्धयान्वितः
॥२९॥तस्य पुत्रो भवत्येव शंभोराज्ञा प्रभावतः ॥
किं बहूक्तेन सूतेह यस्य यस्य मनोरथः
॥१३०॥यो यस्तं तं स ससदा श्रुत्वैतत्प्राप्नुयात्कृती ॥
शृणुयाद्दूरदेशेपि यः काशीखंडमुत्तमम्
॥३१॥स काशीवासपुण्यस्य भाजनं स्याच्छिवाज्ञया ॥
एतच्छ्रवणतः पुंसां सर्वत्र विजयो भवेत् ॥
सौभाग्यं चापि सर्वत्र प्राप्नुयान्निर्मलाशयः
॥३२॥यस्य विश्वेश्वरस्तुष्टस्तस्यैतच्छ्रवणे मतिः ॥
जायते पुण्ययुक्तस्य महानिर्मलचेतसः
॥३३॥सर्वेषां मंगलानां च महामंगलमुत्तमम् ॥
गृहेपि लिखितं पूज्यं सर्वमंगलसिद्धये
॥१३४॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धेऽनुक्रमणिकानाम शततमोऽध्यायः ॥ १०० ॥
श्रीकाशीखण्डोत्तरार्धं सम्पूर्णम् ॥
समाप्तं चेदं चतुर्थं काशीखंडम्
॥४॥नाग प्रकाशक, दिल्ली द्वारा ई. सन् १९८७ मध्ये पुनर्मुद्रितस्य स्कन्द पुराण काशीखंडस्य अयं युनिकोड रूपांतरणं indsenz ओ.सी.आर. सांफ्टवेयर द्वारा आषाढे अधिक मासे कृष्ण प्रतिपदा तिथ्यां २०७२ विक्रमीय संवत्सरे (3-7-2015ई.) पूर्णीकृतम्