मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ४३

3
काशीखण्डः · 43

दिवोदासं नरपतिं कथं देवस्त्रिलोचनः

अगस्तिरुवाच

दिवोदासं नरपतिं कथं देवस्त्रिलोचनः ॥

काशीं संत्याजयामास कथमागाच्च मंदरात् ॥

एतदाख्यानमाख्याहि श्रोतॄणां प्रमुदे भगोः

॥१॥

स्कंद उवाच

मंदरं गतवान्देवो ब्रह्मणो वाक्य गौरवात् ॥

तपसा तस्य संतुष्टो मंदरस्यैव भूभृतः

॥२॥

गते विश्वेश्वरे देवे मंदरं गिरिसुंदरम् ॥

गिरिशेन समं जग्मुरपि सर्वे दिवौकसः

॥३॥

क्षेत्राणि वैष्णवानीह त्यक्त्वा विष्णुरपि क्षितेः ॥

प्रयातो मंदरं यत्र देवदेव उमाधवः

॥४॥

स्थानानि गाणपत्यानि गणेशोपि ततो व्रजत् ॥

हित्वाहमपि विप्रेंद्र गतवान्मंदरं प्रति

॥५॥

सूरः सौराणि संत्यज्य गतश्चायतनादरम् ॥

स्वंस्वं स्थानं क्षितौ त्यक्त्वा ययुरन्येपि निर्जराः

॥६॥

गतेषु देवसंघेषु पृथिव्याः पृथिवीपतिः ॥

चकार राज्यं निर्द्वंद्वं दिवोदासः प्रतापवान्

॥७॥

विधाय राजधानीं स वाराणस्यां सुनिश्चलाम् ॥

एधां चक्रे महाबुद्धिः प्रजाधर्मेण पालयन्

॥८॥

सूर्यवत्स प्रतपिता दुर्हृदां हृदि नेत्रयोः ॥

सोमवत्सुहृदामासीन्मानसेषु स्वकेष्वऽपि

॥९॥

अखंडमाखंडलवत्कोदंडकलयन्रणे ॥

पलायमानैरालोकिशत्रुसैन्यबलाहकैः

॥१०॥

स धर्मराजवज्जातो धर्माधर्मविवेचकः ॥

अदंड्यान्मण्डयन्राजा दंड्यांश्च परिदंडयन्

॥११॥

धनंजय इवाधाक्षीत्परारण्यान्यनेकशः ॥

पाशीव पाशयांचक्रे वैरिचक्रं विदूरगः

॥१२॥

सोभूत्पुण्यजनाधीशो रिपुराक्षसवर्धनः ॥

जगत्प्राणसमानश्च जगत्प्राणनतत्परः

॥१३॥

राजराजः स एवाभूत्सर्वेषां धनदः सताम् ॥

स एव रुद्रमूर्तिश्च प्रेक्षिष्ट रिपुभी रणे

॥१४॥

विश्वेषां स हि देवानां तपसा रूपधृग्यतः ॥

विश्वेदेवास्ततस्तं तु स्तुवंति च भजंति च

॥१५॥

असाध्यः स हि साध्यानां वसुभ्यो वसुनाधिकः ॥

ग्रहाणां विग्रहधरो दस्रतोऽजस्ररूपभाक्

॥१६॥

मरुद्गणानगणयंस्तुषितांस्तोषयन्गुणैः ॥

सर्वविद्याधरो यस्तु सर्वविद्याधरेष्वपि

॥१७॥

अगर्वानेव गंधर्वान्यश्चक्रे निजगीतिभिः ॥

ररक्षुर्यक्षरक्षांसि तद्दुर्गं स्वर्गसोदरम्

॥१८॥

नागानागांसि चक्रुश्च तस्य नागबलीयसः ॥

दनुजामनुजाकारं कृत्वा तं च सिषेविरे

॥१९॥

जाता गुह्यचरा यस्य गुह्यकाः परितो नृषु ॥

संसेविष्यामहे राजन्नसुरास्त्वां स्ववैभवैः

॥२०॥

वयं यतस्त्वद्विषये सुरावासोऽपि दुर्लभः ॥

अशिक्षयत्क्षितिपतेरिह यस्य तुरंगमान् ॥

आशुगश्चाशुगामित्वं पावमाने पथिस्थितः

॥२१॥

अगजान्यस्य तु गजान्नगवर्ष्मसुवर्ष्मणः ॥

अजस्र दानिनो दृष्ट्वा भवन्नन्येपि दानिनः

॥२२॥

सदोजिरे च बोद्धारो योद्धारश्चरणाजिरे ॥

न यस्य शास्त्रैर्विजिता न शस्त्रैः केनचित्क्वचित्

॥२३॥

न नेत्रविषये जाता विषये यस्यभूभृतः ॥

सदा नष्टपदा द्वेष्यास्तदाऽनष्टपदाः प्रजाः

॥२४॥

कलावानेक एवास्ति त्रिदिवेपि दिवौकसाम् ॥

तस्य क्षोणिभृतः क्षोण्यां जनाः सर्वे कलालयाः

॥२५॥

एक एव हि कामोस्ति स्वर्गे सोप्यंगवर्जितः ॥

सांगोपांगाश्च सर्वेषां सर्वे कामा हि तद्भुवि

॥२६॥

तस्योपवर्तनेप्येको न श्रुतो गोत्रभित्क्वचित् ॥

स्वर्गे स्वर्गसदामीशो गोत्रभित्परिकीर्तितः

॥२७॥

क्षयी च तस्य विषये कोप्याकर्णि न केनचित् ॥

त्रिविष्टपे क्षपानाथः पक्षेपक्षे क्षयीष्यते

॥२८॥

नाके नवग्रहाः संति देशास्तस्याऽनवग्रहाः

॥२९॥

हिरण्यगर्भः स्वर्लोकेप्येक एव प्रकाशते ॥

हिरण्यगर्भाः सर्वेषां तत्पौराणामिहालयाः

॥३०॥

सप्ताश्व एकः स्वर्लोके नितरां भासतेंऽशुमान् ॥

सदंशुकाः प्रतिदिनं बह्वश्वास्तत्पुरौकसः

॥३१॥

सदप्सरा यथास्वर्भूस्तत्पुर्यपिसदप्सराः ॥

एकैव पद्मा वैकुंठे तस्य पद्माकराः शतम्

॥३२॥

अनीतयश्च तद्ग्रामानाराजपुरुषाः क्वचित् ॥

गृहेगृहेत्र धनदा नाक एकोऽलकापतिः

॥३३॥

दिवोदासस्य तस्यैवं काश्यां राज्यं प्रशासतः ॥

गतं वर्षं दिनप्रायं शरदामयुताष्टकम्

॥३४॥

गीर्वाणा विप्रतीकारमथ तस्य चिकीर्षवः ॥

गुरुणा मंत्रयांचक्रुर्धर्मवर्त्मानुयायिनः

॥३५॥

भवादृशामिव मुने प्रायशो धर्मचारिणाम् ॥

विबुधा विदधत्येव महतीरापदांततीः

॥३६॥

यद्यप्यसौ धराधीशो व्याधिनोद्दुर्धराध्वरैः ॥

तानध्वरभुजोऽत्यंतं तथापि सुहृदो न ते

॥३७॥

स्वभाव एव द्युसदां परोत्कर्षासहिष्णुता ॥

बलि बाण दधीच्याद्यैरपराद्धं किमत्र तैः

॥३८॥

अंतराया भवंत्येव धर्मस्यापि पदेपदे ॥

तथापि न निजो धर्मो धर्मधीभिर्विमुच्यते

॥३९॥

अधर्मिणः समेधंते धनधान्यसमृद्धिभिः ॥

अधर्मादेव च परं समूलं यांत्यधोगतिम्

॥४०॥

प्रजाः पालयतस्तस्य पुत्रानिव निजौरसान् ॥

रिपुंजयस्य नाल्पोपि बभूवाधर्मसंग्रहः

॥४१॥

षाड्गुण्यवेदिनस्तस्य त्रिशक्त्यूर्जितचेतसः ॥

चतुरोपायवित्तस्य न रंध्रं विविदुः सुराः

॥४२॥

बुद्धिमंतोपि विबुधा विप्रतीकर्तुमुद्यताः ॥

मनागपि न संशेकुरपकर्तुं तदीशितुः

॥४३॥

एकपत्नीव्रताः सर्वे पुमांसस्तस्य मंडले ॥

नारीषु काचिन्नैवासीदपतिव्रतधर्मिणी

॥४४॥

अनधीतो न विप्रोभूदशूरोनैव बाहुजः ॥

वैश्योनभिज्ञो नैवासीदर्थोपार्जनकर्मसु

॥४५॥

अनन्यवृत्तयः शूद्रा द्विजशुश्रूषणं प्रति ॥

तस्य राष्ट्रे समभवन्दिवोदासस्य भूपतेः

॥४६॥

अविप्लुत ब्रह्मचर्यास्तद्राष्ट्रे ब्रह्मचारिणः ॥

नित्यं गुरुकुलाधीना वेदग्रहणतत्पराः

॥४७॥

आतिथ्यधर्मप्रवणा धर्मशास्त्रविचक्षणाः ॥

नित्यसाधुसमाचारा गृहस्थास्तस्य सर्वतः

॥४८॥

तृतीयाश्रमिणो यस्मिन्वनवृत्तिकृतादराः ॥

निःस्पृहा ग्रामवार्तासु वेदवर्त्मानुसारिणः

॥४९॥

सर्वसंगविनिर्मुक्ता निर्मुक्ता निष्परिग्रहाः ॥

वाङ्मनःकर्मदंडाढ्या यतयो यत्र निःस्पृहाः

॥५०॥

अन्येनुलोमजन्मानः प्रतिलो मभवा अपि ॥

स्वपारंपर्यतो दृष्टं मनाग्वर्त्म न तत्यजुः

॥५१॥

अनपत्या न तद्राष्ट्रे धनहीनोपि कोपि न ॥

अवृद्धसेवी नो कश्चिदकांडमृतिभाक्च न

॥५२॥

न चाटा नैव वाचाटा वंचका नो न हिंसकाः ॥

न पाषंडा न वै भंडा न रंडा न च शौंडिकाः

॥५३॥

श्रुतिघोषो हि सर्वत्र शास्त्रवादः पदेपदे ॥

सर्वत्र सुभगालापा मुदामंगलगीतयः

॥५४॥

वीणावेणुप्रवादाश्च मृदंगा मधुरस्वनाः ॥

सोमपानं विनान्यत्र पानगोष्ठी न कर्णगा

॥५५॥

मांसाशिनः पुरोडाशे नैवान्यत्र कदाचन ॥

न दुरोदरिणो यत्र नाधमर्णा न तस्कराः

॥५६॥

पुत्रस्य पित्रोः पदयोः पूजनं देवपूजनम् ॥

उपवासो व्रतं तीर्थं देवताराधनं परम्

॥५७॥

नारीणां भर्तृपद् योरर्चनं तद्वचःश्रुतिः ॥

समर्चयंति सततमनुजा निजमग्रजम्

॥५८॥

सपर्ययंति मुदिता भृत्याः स्वामिपदांबुजम् ॥

हीनवर्णैरग्रवर्णो वर्ण्यते गुणगौरवैः

॥५९॥

वरिवस्यंति भूयोपि त्रिकालं काशिदेवताः ॥

सर्वत्र सर्वे विद्वांसः समर्च्यंते मनोरथैः

॥६०॥

विद्वद्भिश्च तपोनिष्ठास्तपोनिष्ठैर्जितेंद्रियाः ॥

जितेंद्रियैर्ज्ञाननिष्ठा ज्ञानिभिः शिवयोगिनः

॥६१॥

मंत्रपूतं महार्हं च विधियुक्तं सुसंस्कृतम् ॥

वाडवानां मुखाग्नौ च हूयतेऽहर्निशं हविः

॥६२॥

वापीकूपतडागानामारामाणां पदेपदे ॥

शुचिभिर्द्रव्यसंभारैः कर्तारो यत्र भूरिशः

॥६३॥

यद्राष्ट्रे हृष्टपुष्टाश्च दृश्यंते सर्वजातयः ॥

अनिंद्यसेवा संपन्ना विनामृगयु सौनिकान्

॥६४॥

इत्थं तस्य महीजानेः सर्वत्र शुचिवर्तिनः ॥

उन्मिषंतोप्यनिमिषा मनाक्छिद्रं न लेभिरे

॥६५॥

अथोवाचामर गुरुर्देवानपचिकीर्षुकान् ॥

तस्मिन्राजनि धर्मिष्ठे वरिष्ठे मंत्रवेदिषु

॥६८॥

गुरुरुवाच

संधिविग्रहयानास्ति सं श्रयं द्वैधभावनम् ॥

यथा स राजा संवेत्ति न तथात्रापि कश्चन

॥६७॥

उपायोप्येक एवास्ति चतुर्ष्विह दिवौकसः ॥

भेदो नाम स चेत्सिध्येत्तपोबलिनि तत्र हि

॥६८॥

तेन यद्यपि भूभर्त्रा भूमेर्देवा विवासिताः ॥

तथापि भूरिशस्तत्र संत्यस्मत्पक्षपातिनः

॥६९॥

कालो निमिषमात्रोपि यान्विना न सुखं व्रजेत् ॥

अस्माकमपि तस्यापि संति ते तत्र मानिताः

॥७०॥

अंतर्बहिश्चरा नित्यं सर्वविश्रंभ भूमयः ॥

समागतेषु तेष्वत्र सर्वं नः सेत्स्यति प्रियम्

॥७१॥

समाकर्ण्य च ते सर्वे त्रिदशा गीष्पतीरितम् ॥

निर्णीतवंतस्तस्यार्थं तस्मादंतर्बहिश्चरान् ॥

अभिनंद्याथ तं सर्वे प्रोचुरित्थं भवेदिति

॥७२॥

ततः शक्रः समाहूय वीतिहोत्रं पुरःस्थितम् ॥

ऊचे मधुरया वाचा बहुमानपुरःसरम्

॥७३॥

हव्यवाहन या मूर्तिस्तव तत्र प्रतिष्ठिता ॥

तामुपासंहर क्षिप्रं विषयात्तस्य भूपतेः

॥७४॥

समागतायां तन्मूर्तौ सर्वानष्टाग्रयः प्रजाः ॥

हव्यकव्यक्रियाशून्या विरजिष्यंति राजनि

॥७५॥

प्रजासु च विरक्तासु राज्यकामदुघासु वै ॥

कृच्छ्रेणोपार्जितोऽपार्थो राजशब्दो भविष्यति

॥७६॥

प्रजानां रंजनाद्राजा येयं रूढिरुपार्जिता ॥

तस्यां रूढ्यां प्रनष्टायां राज्यमेव विनंक्ष्यति

॥७७॥

प्रजाविरहितो राजा कोशदुर्गबलादिभिः ॥

समृद्धोप्यचिरान्नश्येत्कूलसंस्थ इव द्रुमः

॥७८॥

त्रिवर्गसाधनाहेतुः प्राक्प्रजैव महीपतेः ॥

क्षीणवृत्त्यां प्रजायां वै त्रिवर्गः क्षीयते स्वयम्

॥७९॥

क्षीणे त्रिवर्गे संक्षीणा गतिर्लोकद्वयात्मिका

॥८०॥

इतींद्रवचनाद्वह्निरह्नाय क्षोणिमंडलात् ॥

आचकर्ष निजां मूर्तिं योगमाया बलान्वितः

॥८१॥

निन्ये न केवलं त्रेतां जाठराग्निमपि प्रभुः ॥

वज्रिणो वचसा वह्निर्निजशक्तिसमन्वितम्

॥८२॥

वह्नौ स्वर्लोकमापन्ने जाते मध्यंदिने नृपः ॥

कृतमाध्याह्निकस्तूर्णं प्राविशद्भोज्यमंडपम्

॥८३॥

महानसाधिकृतयो वेपमानास्ततो मुहुः ॥

क्षुधार्तमपि भूपालमिदं मंदं व्यजिज्ञपन्

॥८४॥

सूपकारा ऊचुः

अत्यहस्करतेजस्क प्रतापविजितानल ॥

किंचिद्विज्ञप्तुकामाः स्मोप्यकांडेरणपंडित

॥८५॥

यदि विश्रुणयेद्राजन्भवानभयदक्षिणाम् ॥

तदा विज्ञापयिष्यामः प्रबद्धकरसंपुटाः

॥८६॥

भ्रूसंज्ञयाकृतादेशाः प्रशस्तास्येनभूभुजा ॥

मृदु विज्ञापयांचक्रुः पाकशालाधिकारिणः

॥८७॥

न जानीमो वयं नाथ त्वत्प्रतापभयार्दितः ॥

कुसृत्याथ कया विद्वान्नष्टो वैश्वानरः पुरात्

॥८८॥

कृशानौ कृशतां प्राप्ते कथं पाकक्रिया भवेत् ॥

तथापि सूर्यपाकेन सिद्धा पक्तिर्हि काचन

॥८९॥

प्रभोरादेशमासाद्य तामिहैवानयामहे ॥

मन्यामहे च भूजाने पक्तिरद्यतनी शुभा

॥९०॥

श्रुत्वांधसिकवाक्यं स महासत्त्वो महामतिः ॥

नृपतिश्चिंतयामास देवानां वै कृतं त्विदम्

॥९१॥

क्षणं संशीलयंस्तत्र ददर्श तपसोबलात् ॥

न केवलं जहौ गेहं हुतभुक्चौदरीर्दरीः

॥९२॥

अप्यहासीदितोलोकाज्जगाम च सुरालयम् ॥

भवत्विह हि का हानिरस्माकं ज्वलने गतै

॥९३॥

तेषामेवविचाराच्च हानिरेषा सुपर्वणाम् ॥

तद्बलेन च किं राज्यं मयेदमुररीकृतम्

॥९४॥

पितामहेन महतो गौरवात्प्रतिपादितम् ॥

इति चिंतयतस्तस्य मध्यलोकशतक्रतोः

॥९५॥

पौराः समागता द्वारि सह जानपदैर्नरैः ॥

द्वास्थेन चाज्ञया राज्ञस्ततस्तेंतः प्रवेशिताः

॥९६॥

दत्त्वोपदं यथार्हं ते प्रणेमुः क्षोणिवज्रिणम् ॥

केचित्संभाषिता राज्ञादरसोदरया गिरा

॥९७॥

केचिच्च समुदा दृष्ट्या केचिच्च करसंज्ञया ॥

विसर्जिता सना राज्ञा बहुमानपुरःसरम्

॥९८॥

तेजिरे भेजिरे सर्वे रत्नार्चिः परिसेविते ॥

विजितामोदसंदोहे सुरानोकहसौरभैः ॥

राज्ञः शतशलाकस्थच्छत्रस्यच्छाययाशुभे

॥९९॥

विशांपतिरथोवाच तन्मुखच्छाययेरितम् ॥

विज्ञाय तदभिप्रायमलंभीत्या पुरौकसः

॥१००॥

विकारकारिभिर्लेखैर्यदिनीतोऽनलो भुवः ॥

एतावतैव किं सिद्धयेन्मयि तेषां पराभवः

॥१॥

चिकीर्षुरहमेवासं पौराः कार्यमिदंपुरा ॥

परं ह्युपेक्षितप्रायं दिष्ट्या तैः स्मारितं चिरात्

॥२॥

गतोऽनलोऽभवद्भद्रं जगत्प्राणोपि यात्वितः ॥

वरुणः पुष्पवंताभ्यामविलंबं प्रयात्वितः

॥३॥

अहमेव हि पर्जन्यो भविष्यामि तपोबलात् ॥

मुदे जनपदानां च सर्वसस्यसमृद्धिदः

॥४॥

तपोयोगबलेनाहमात्मानं परिकल्प्य च ॥

त्रिधावह्निस्वरूपेण पक्तीष्टिव्युष्टिकृत्तमः

॥५॥

अंतर्बहिश्च यो द्वेधा नभस्वत्पदवी दधत् ॥

सर्वेषामेव वेत्स्यामि त्वंतःकरणचेष्टितम्

॥६॥

विधाय चांभसीं मूर्तिं सर्वजीवैकजीवनीम् ॥

प्रजाः संजीवयिप्यामि किं जडैर्विषये मम

॥७॥

यदा खे तमसा पौरा ग्रस्येते शशिभास्करौ ॥

तदा न किं विना ताभ्यां जीवामः क्षितिमंडले

॥८॥

श्रियं चांद्रमसीं प्राप्य ह्लादयिष्याम्यहं प्रजाः ॥

निशाचरेण किमिह क्षयिणा च कलंकिना

॥९॥

अस्मत्कुले मूलभूतो भास्करो मान्य एव नः ॥

स तिष्ठतु सुखेनात्र यातायातं करोतु च

॥११०॥

स एको जगतामात्मा विशेषात्कुलदेवता ॥

सोपकर्तुं न वेत्त्येव तस्येदं व्रतमुत्तमम्

॥११॥

इति नरपतिवाक्सुधारसौघं श्रुतिपुटकैः परिपीय पौरवर्गः ॥

विकसितवदनांबुजो जगामनिजनिजमालयमाधिमुक्तचित्तः

॥१२॥

क्षितिपतिरपि तत्तथा विधाय तपसोसाध्यमिहास्ति किं त्रिलोक्याम् ॥

अतिवह्न्यर्कमसौ दधच्चतेजो द्युसदां शल्यमिवोच्चकैर्बभूव

॥१३॥

इति श्रीस्कांदे महापुरण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे दिवोदासप्रतापवर्णनंनाम त्रिचत्वारिंशोध्यायः ॥ ४३ ॥