शृणु सुश्रोणि सुभगे वैश्वानरसमुद्भवम्
अगस्तिरुवाच
शृणु सुश्रोणि सुभगे वैश्वानरसमुद्भवम् ॥
पुण्यशीलसुशीलाभ्यां यथोक्तं शिवशर्मणे
॥१॥अथ कालेन तद्योषिदंतर्वत्नी बभूव ह ॥
विधिवद्विहिते तेन गर्भाधानाख्य कर्मणि
॥२॥ततः पुंसवनं तेन स्पंदनात्प्राग्विपश्चिता ॥
गृह्योक्तविधिना सम्यक्कृतं पुंस्त्वविवृद्धये
॥३॥सीमन्तोथाष्टमे मासि गर्भरूपसमृद्धिकृत् ॥
सुखप्रसव सिद्ध्यै च तेनाकारि क्रियाविदा
॥४॥अथातः सत्सुतारासु ताराधिप वराननः ॥
केंद्रे गुरौ शुभे लग्ने सुग्रहेष्वयुगेषु च
॥५॥अरिष्टं दीपयन्दीप्त्या सर्वारिष्टविनाशकृत् ॥
तनयो नाम तस्यां तु शुचिष्मत्यां बभूव ह
॥६॥सद्यः समस्तसुखदो भूर्भुवःस्वर्निवासिनाम् ॥
गंधवाहागन्धवाहादिग्वधूमुखवासनाः
॥७॥इष्टगन्धप्रसूनौघैर्ववर्षुस्ते घनाघनाः ॥
देवदुन्दुभयो नेदुः प्रसेदुः सर्वतोदिशः
॥८॥परितः सरितः स्वच्छा भूतानां मानसैः सह ९ ॥
तमोऽताम्यत्तु नितरां रजोपि विरजोभवत्
॥९॥सत्त्वाः सत्त्वसमायुक्ता वसुधासीच्छुभा तदा ॥
कल्याणी सर्वतो वाणी प्राणिनः प्रीणयंत्यभूत्
॥१०॥तिलोत्तमोर्वशीरंभा प्रभा विद्युत्प्रभा शुभा ॥
सुमंगला शुभालापा सुशीलाड्या(?) वरांगनाः
॥११॥क्वणत्कंकण पात्राणि कृत्वा करतलं मुदा ॥
मुक्तमुक्ताफलाढ्यानि यक्षकर्दमवंति च
॥१२॥वज्रवैदूर्य दीपानि हरिद्रा लेपनानि च ॥
गारुत्मतैकरूपाणि शंखशुक्तिदधीनि च
॥१३॥पद्मरागप्रवालाख्यरत्नकुंकुमवंति च ॥
गोमेदपुष्परागेंद्र नीलसन्माल्यभांजि च
॥१४॥विद्याधर्यश्च किन्नर्यस्तथाऽमर्यः सहस्रशः ॥
चामर व्यग्रहस्ताग्र मंगलद्रव्यपाणयः
॥१५॥गंधर्वोरगयक्षाणां सुवासिन्यः शुभस्वराः ॥
गायंत्यो ललितं गीतं तत्राजग्मुरनेकशः
॥१६॥मरीचिरत्रि पुलहः पुलस्त्यः क्रतुरंगिराः ॥
वसिष्ठः कश्यपश्चाहं विभांडो मांडवीसुतः
॥१७॥लोमशो लोमचरणो भरद्वाजोथ गौतमः ॥
भृगुस्तु गालवो गर्गो जातूकर्ण्यः पराशरः
॥१८॥आपस्तंबो याज्ञवल्क्य दक्षवाल्मीकिमुद्गलाः ॥
शातातपश्च लिखितः शिलादः शंखउंछभुक्
॥१५॥जमदग्निश्च संवर्तो मतंगो भरतोंशुमान् ॥
व्यासः कात्यायनः कुत्सः शौनकः सुश्रुतः शुकः
॥२०॥ऋष्यशृंगोथ दुर्वासा रुचिर्नारदतुंबुरू ॥
उत्तंको वामदेवश्च च्यवनोसितदेवलौ
॥२१॥शालंकायनहारी तौ विश्वामित्रोथभार्गवः ॥
मृकंडः सह पुत्रेण दाल्भ्य उद्दालकस्तथा
॥२२॥धौम्योपमन्युवत्साद्या मुनयो मुनिकन्यकाः ।
तच्छांत्यर्थं समाजग्मुर्धन्यं विश्वानराश्रमम्
॥२३॥ब्रह्मा बृहस्पतियुतो देवो गरुडवाहनः ॥
नंदि भृंगि समायुक्तो गौर्या सह वृषध्वजः
॥२४॥महेंद्रमुख्या गीर्वाणा नागाः पातालवासिनः ॥
रत्नान्यादाय बहुशः ससरित्का महाब्धयः
॥२५॥स्थावरा जंगमं रूपं धृत्वा याताः सहस्रशः ॥
महामहोत्सवे तस्मिन्बभूवाकालकौमुदी
॥२६॥जातकर्म स्वयं चक्रे तस्य देवः पितामहः ॥
श्रुतिं विचार्य तद्रूपां नाम्ना गृहपतिस्त्वयम्
॥२७॥इति नाम ददौ तस्मै देयमेकादशेहनि ॥
नामकर्मविधानेन तदर्थं श्रुतिमुच्चरन्
॥२८॥अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः ॥
अग्ने गृहपतेभिद्युम्नमभि सह आयच्छस्व
॥२९॥अग्ने गृहपते स्थित्या परामपि निदर्शयन् ॥
चतुर्निगममंत्रोक्तैराशीर्भिरभिनंद्य च
॥३०॥कृत्वा बालोचितां रक्षां हरेण हरिणा सह ॥
निर्ययौ हंसमारुह्य सर्वेषां प्रपितामहः
॥३१॥अहोरूपमहो तेजस्त्वहो सर्वांगलक्षणम् ॥
अहो शुचिष्मतीभाग्यमाविरासीत्स्वयं हरः
॥३२॥अथवा किमिदं चित्रं शर्वभक्तजनेष्वहो ॥
आविर्भवेत्स्वयं रुद्रो यतोरुद्रास्तदर्चकाः
॥३३॥इति स्तुवंतस्त्वन्योन्यं जग्मुः सर्वे यथागतम् ॥
विश्वानरं समापृच्छ्य संप्रहृष्टतनूरुहाः
॥३४॥अतः पुत्रं समीहंते गृहस्थाश्रमवासिनः ॥
पुत्रेण लोकाञ्जयति श्रुतिरेषा सनातनी
॥३५॥अपुत्रस्य गृहं शून्यमपुत्रस्यार्जनं वृथा ॥
अपुत्रस्यान्वयश्छिन्नो नापवित्रं ह्यपुत्रतः
॥३६॥न पुत्रात्परमो लाभो न पुत्रात्परमं सुखम् ॥
न पुत्रात्परमं मित्रं परत्रेह च कुत्रचित्
॥३७॥औरसः क्षेत्रजः क्रीतो दत्तः प्राप्तः सुतासुतः ॥
आपत्सुरक्षितश्चान्यः पुत्राः सप्तात्र कीर्तिताः
॥३८॥एषामन्यतमः कार्यो गृहस्थेन विपश्चिता ॥
पूर्वपूर्वः सुतः श्रेयान्हीनःस्यादुत्तरोत्तरः
॥३९॥गणावूचतुः
निष्क्रमोथ चतुर्थेऽस्य मासि पित्राकृतो गृहात् ॥
अन्नप्राशनमब्दार्धे चूडाब्दे चार्थवत्कृता
॥४०॥कर्णवेधं ततः कृत्वा श्रवणर्क्षे सकर्मवित् ॥
ब्रह्मतेजोभिवृद्ध्यर्थं पंचमेऽब्दे व्रतं ददौ
॥४१॥उपाकर्म ततः कृत्वा वेदानध्यापयत्सुधीः ॥
त्र्यब्दं वेदान्सविधिनाऽध्यैष्ट सांगपदक्रमान्
॥४२॥विद्याजातं समस्तं च साक्षिमात्राद्गुरोर्मुखात् ॥
विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान्
॥४३॥ततोथ नवमे वर्षे पित्रोः शुश्रूषणे रतम् ॥
वैश्वानरं गृहपतिं दृष्ट्वा कामचरो मुनिः
॥४४॥विश्वानरोटजं प्राप्य देवर्षिर्नारदः सुधीः ॥
पप्रच्छ कुशलं तत्र गृहीतार्घासनः क्रमात्
॥४५॥नारद उवाच
विश्वानर महाभाग शुचिष्मति शुभव्रते ॥
कुरुते युवयोर्वाक्यमयं गृहपतिः शिशुः
॥४६॥नान्यत्तीर्थं न वा देवो न गुरुर्न च सत्किया ॥
विहाय पित्रोर्वचनं नान्यो धर्मः सुतस्य हि
॥४७॥न पित्रोरधिकं किंचित्त्रिलोक्यां तनयस्य हि ॥
गर्भधारणपोषाभ्यां पितुर्माता गरीयसी
॥४८॥अंभोभिरभिषिच्यस्वं जननीचरणच्युतैः ॥
प्राप्नुयात्स्वर्धुनीशुद्ध कबंधाधिकशुद्धताम्
॥४९॥संन्यस्ताखिलकर्मापि पितुर्वंद्यो हिमस्करी ॥
सर्ववंद्येन यतिना प्रसूर्वंद्या प्रयत्नतः
॥५०॥इदमेव तपोत्युग्रमिदमेवपरं व्रतम् ॥
अयमेव परो धर्मो यत्पित्रोः परितोषणम्
॥५१॥मन्येमान्यो नाधमस्य तथान्यस्य यथा युवाम् ॥
सुखाकारैर्विनीतस्य शिशोर्गृहपतेरहम्
॥५२॥वैश्वानरसमभ्येहि ममोत्संगे निषीद भो ॥
लक्षणानि परीक्षेहं पाणिं दर्शय दक्षिणम्
॥५३॥इत्युक्तो मुनिना बालः पित्रोराज्ञामवाप्य सः ॥
प्रणम्य नारदं श्रीमान्भक्त्याप्रह्व उपाविशत्
॥५४॥ततो दृष्ट्वास्य सर्वांगं तालुजिह्वाद्विजानपि ॥
आनीय कुंकुमारक्तं सूत्रं च त्रिगुणीकृतम्
॥५५॥स्मृत्वा शिवौ गणाध्यक्षमूर्ध्वीभूतमुदङ्मुखम् ॥
मुनिः परिममौ बालमापादतलमस्तकम्
॥५६॥तिर्यगूर्ध्वं समो माने योष्टोत्तरशतांगुलः ॥
स भवेत्पृथिवीपालो बालोऽयं ते यथा द्विज
॥५७॥पंचसूक्ष्मः पंचदीर्घः सप्तरक्तः षडुन्नतः ॥
त्रिपृथुर्लघुगंभीरो द्वात्रिंशल्लक्षणस्त्विति
॥५८॥पंचदीर्घाणि शस्यानि यथादीर्घायुषोस्य वै ॥
भुजौ नेत्रे हनुर्जानु नासाऽस्य तनयस्य ते
॥५९॥ग्रीवाजंघा मेहनैश्च त्रिभिर्ह्रस्वोयमीडितः ॥
स्वरेण सत्त्वनाभिभ्यां त्रिगंभीरः शिशुः शुभः
॥६०॥त्वक्केशांगुलिदशनाः पर्वाण्यंगुलिजान्यपि ॥
तथास्य पंचसूक्ष्माणि दिक्पालपदभाग्यथा
॥६१॥वक्षः कुक्ष्यलकं स्कंध करं वक्त्रं षडुन्नतम् ॥
तथाऽत्र दृश्यते बाले महदैश्वर्यभाग्यथा
॥६२॥पाण्योस्तले च नेत्रांते तालुजिह्वाधरौष्ठकम् ॥
सप्तारुणं च सनखमस्मिन्राज्यसुखप्रदम्
॥६३॥ललाटकटिवक्षोभिस्त्रिविस्तीर्णो यथाह्यसौ ॥
सर्वतेजोतिरैश्वर्यं तथा प्राप्स्यति नान्यथा
॥६४॥कमठीपृष्ठकठिनावकर्मकरणौ करौ ॥
राज्यहेतू शिशोरस्य पादौ चाध्वनि कोमलौ
॥६५॥अच्छिन्ना तर्जनीं व्याप्य तथा रेखास्य दृश्यते ॥
कनिष्ठा पृष्ठनिर्याता दीर्घायुष्यं यथार्पयेत्
॥६६॥पादौ सुमांसलौ रक्तौ समौ सूक्ष्मौ सुशौभनौ ॥
समगुल्फौ स्वेदहीनौ स्निग्धावैश्वर्यसूचकौ
॥६७॥स्वल्पाभिः कररेखाभिरारक्ताभिः सदासुखी ॥
लिंगेन कृशह्रस्वेन राजराजो भविष्यति
॥६८॥उत्कंटासनगुल्फास्फिग्नाभिरस्यापि वर्तुला ॥
दक्षिणावर्तमरुणं महदैश्वर्यसूचिका
॥६९॥धारैका मूत्रयत्यस्मिन्दक्षिणावर्तिनी यदि ॥
गंधश्च मीनमधुनोर्यदि वीर्ये तदा नृपः
॥७०॥विस्तीर्णौ मांसलौ स्निग्धौ स्फिचावस्य सुखोचितौ ॥
वामावर्तौ सुप्रलंबौ दोषौ दिग्रक्षणोचितौ
॥७१॥श्रीवत्सवज्रचक्राब्ज मत्स्यकोदंडदंडभृत् ॥
तथास्य करगा रेखा यथा स्यात्त्रिदिवस्पतिः
॥७२॥द्वात्रिंशद्दशनश्चायं करकंबु शिरोधरः ॥
कौंचदुंदुभिहंसाभ्र स्वरः सर्वेश्वराधिकः
॥७३॥मधुपिंगलनेत्रोऽसौ नैनं श्रीस्त्यजति क्वचित् ॥
पंचरेखललाटस्तु तथा सिंहोदरः शुभः
॥७४॥ऊर्ध्वरेखांकितपदो निःश्वसन्पद्मगंधवान् ॥
अच्छिद्रपाणिः सुनखो महालक्षणवानयम्
॥७५॥किंतु सर्वगुणोपेतं सर्वलक्षणलक्षितम् ॥
संपूर्णनिर्मलकलं पातयेद्विधुवद्विधिः
॥७६॥तस्मात्सर्वप्रयत्नेन रक्षणीयस्त्वसौ शिशुः ॥
गुणोपि दोषतां याति वक्रीभूते विधातरि
॥७७॥शंकेऽस्य द्वादशेवर्षे प्रत्यूहो विद्युदग्नितः ॥
इत्युक्त्वा नारदो धीमान्स जगाम यथागतम्
॥७८॥विश्वानरः सपत्नीकस्तच्छ्रुत्वा नारदेरितम् ॥
तदैव मन्यमानोभूद्वज्रपातं सुदारुणम्
॥७९॥हाहतोस्मीति वचसा हृदयं समताडयत् ॥
मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः
॥८०॥शुचिष्मत्यपि दुःखार्ता रुरोदातीव दुःसहम् ॥
आर्तस्वरेण हारावैरत्यंत व्याकुलेद्रिया
॥८१॥हाशिशो हागुणनिधे हा पितुर्वाक्यकारक ॥
हा कुतो मंदभाग्याया जठरे मे समागतः
॥८२॥त्वदेकपुत्रां हापुत्रकोऽत्र मां त्रायते पुरा ॥
त्वदृते त्वद्गुणोर्म्याढ्ये पतितां शोकसागरे
॥८३॥हा बाल हा विमल हा कमलायताक्ष हा लोकलोचनचकोर कुरंगलक्ष्मन् ॥
हा तात तात नयनाब्ज मयूखमालिन्हा मातुरुत्सवसहस्रसुखैकहेतो
॥८४॥हा पूर्णचंद्रमुख हा सुनखांगुलीक हा चाटुकारवचनामृतवीचिपूर ॥
दुःखैः कियद्भिरहहां गमयात्वमाप्तः किं किं कृतं गृहपते न मया त्वदाप्त्यै
॥८५॥नोप्तो बलिर्न बत कासु च देवता सुतीर्थानि कानि न मयाध्युषितानि वत्स ॥
के के मया न नियमौषधमंत्रयंत्राः संसाधितास्तव कृते सुकृतैकलभ्य
॥८६॥संसारसागरतरे हर दुःखभारं सारं मुखेंदुमभिदर्शय सौख्यसिंधो ॥
पुन्नामतीव्रनरकार्णव वाडवाग्नेस्संजीवयस्व पितरं निजवाक्सुधोक्षैः
॥८७॥किंदेवता अहह जन्ममहोत्सवेऽस्य ज्ञात्वेति भाविमिलिता युगपत्समस्ताः ॥
एकस्थ सर्वगुण शील कलाकलाप सौंदर्यलक्षणपरीक्षणपूर्णहर्षाः
॥८८॥शंभो महेश करुणाकर शूलपाणे मृत्युंजयस्त्वमिति वेदविदो वदंति ॥
त्वद्दत्त बालतनये यदि कालकालः स्यादेवमत्र वद कस्य भवेन्न पातः
॥८९॥हा हंतहंतभवता भव तापहारी कस्माद्विधेऽत्र विदधे बहुभिः प्रयत्नैः ॥
बालो विशालगुणसिंधुमगाधमध्यं सद्रत्नसारमखिलं सविधं विधाय
॥९०॥हा कालबालकवती किमुतेन राज्ञी त्वत्कालतां न हृतवान्नसुताननेंदुः ॥
बालेति कोमलमृणाल लतांगलीलं दंभोलिनिष्ठुरकठोरकुठारदंष्ट्रः
॥९१॥इत्थं विलप्य बहुशो नयनांबुधारासंपातजात तटिनी शतमुत्तरंगम् ॥
सा तोकशोकजनितानल तापतप्ता प्रोच्छ्वस्यदीर्घविपुलोष्णमहो शुशोष
॥९२॥आकर्ण्य तत्करुणवत्परिदेवितानि तानि द्रुमा व्रततयः कुसुमाश्रुपातैः ॥
प्रायो रुदंति पततां विरुतार्तरावैरालोल्यमौलिमसकृत्पवनच्छलेन
॥९३॥रुण्णं तया किल तथा बहुमुक्तकंठमार्तस्वरैः प्रतिरवच्छलतो यथोच्चैः ॥
तद्दुःखतोनुरुरुदुर्गिरिकंदरास्याः सर्वा दिशः स्थगितपत्रिमृगागमा हि
॥९४॥श्रुत्वार्तनादमिति विश्वनरोपि मोहं हित्वोत्थितः किमिति किंत्विति किंकिमेतत् ॥
उच्चैर्वदन्गृहपतिः क्व समे बहिस्थः प्राणोंतरात्मनिलयः सकलेंद्रियेशः
॥९५॥अगस्त्य उवाच
ततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ ॥
स्मित्वोवाच ततो मातस्त्रासस्त्वीदृक्कुतो हि वाम्
॥९६॥न मांकृत वपुस्त्राणं भवच्चरणरेणुभिः ॥
कालः कलयितुं शक्तो वराकी चंचलाल्पिका
॥९७॥प्रतिज्ञां शृणुतं तातौ यदि वां तनयो ह्यहम् ॥
करिष्येहं तथा तेन विद्युन्मत्तस्त्रसिष्यति
॥९८॥मृत्युंजयं समाराध्य सर्वज्ञं सर्वदं सताम् ॥
कालकालं महाकालं कालकूटविषादिनम्
॥९९॥इति श्रुत्वा वचस्तस्य जरितौ द्विजदंपती ॥
अकालामृतवर्षौघ शांततापौ तदोचतुः
॥१००॥अपयोदपयोवृष्टिरदुग्धाब्धिः सुधोदयः ॥
अनिंदुः कौमुदीकांतिः कुतो नौ सुखयत्यलम्
॥१॥पुनर्ब्रूहिपुनर्ब्रूहि कीदृक्कीदृक्पुनःपुनः ॥
कालः कलयितुं नालं वराकी चंचलाल्पिका
॥२॥आवयोस्तापनाशाय महोपायस्त्वयेरितः ॥
मृत्युंजयस्य देवस्य समाराधनलक्षणः
॥३॥तद्गच्छ शरणं तात नातः परतरं हितम् ॥
मनोरथपथातीत कारिणः कालहारिणः
॥४॥किं न श्रुतं त्वया तात श्वेतकेतु यथा पुरा ॥
पाशितं कालपाशेन ररक्ष त्रिपुरांतकः
॥५॥शिलादतनयं मृत्युग्रस्तमष्टाब्दमर्भकम् ॥
शिवो निजजनं चक्रे नंदिनं विश्वनंदिनम्
॥६॥क्षीरोदमथनोद्भूतप्रलयानलसंनिभम् ॥
पीत्वा हालाहलं घोरमरक्षद्भुवनत्रयम्
॥७॥जालंधरं महादर्पं हृतत्रैलोक्यसंपदम् ॥
चरणांगुष्ठरेखोत्थचक्रेणनिजघानयः
॥८॥य एकेषु निपातोत्थ ज्वलनैस्त्रिपुरं पुरा ॥
विधाय पत्रिणं विष्णुं ज्वालयामास धूर्जटिः
॥९॥अंधकं यस्त्रिशूलाग्रप्रोतं वर्षायुतं पुरा ॥
त्रैलोक्यैश्वर्यसंमूढं शोषयामास भानुना
॥११०॥कामं दृष्टिनिपातेन त्रैलोक्यविजयोर्जितम् ॥
निनायानंगपदवीं वीक्षमाणेष्वजादिषु
॥११॥तं ब्रह्माद्येककर्तारं मेघवाहनमच्युतम् ॥
प्रयाहि पुत्र शरणं विश्वरक्षामणिं शिवम्
॥१२॥पित्रोरनुज्ञां प्राप्येति प्रणम्य चरणौ तयोः ॥
प्रदक्षिणमुपावृत्य बह्वाश्वास्य विनिर्ययौ
॥१३॥स प्राप्य काशीं दुष्प्रापां ब्रह्मनारायणादिभिः ॥
महासंवर्तसंवृत्त तापाद्विश्वेशपालिताम्
॥१४॥फिरस्वर्धुन्या हारयष्ट्येव राजितां कंठभूमिषु ॥
विचित्रगुणशालिन्याहारनीहारगौरया
॥१५॥बहुसंसारसंतापसंतप्तजनतोद्भवम् ॥
वारयंतीं वरणया छिंदंतीमसिधारया
॥१६॥यल्लभ्यते च कैवल्यं सुदृढाष्टांगयोगतः ॥
विकासयंतीं तत्सम्यक्काशिकांयांजगुर्बुधाः
॥१७॥संसारतापतप्ताभ्यां लोचनाभ्यां स दृष्टवान् ॥
कर्णाकर्णप्रकीर्णाभ्यां प्राग्ययौ मणिकर्णिकाम्
॥१८॥तत्र स्नात्वा विधानेन दृष्ट्वा विश्वेश्वरं विभुम् ॥
त्रैलोक्यप्राणिसंत्राणकारिणं प्रणनाम ह
॥१९॥आलोक्यालोक्य तल्लिंगं तुतोष हृदये बहु ॥
परमानंदकंदाख्यं स्फुटमेतन्न संशयः
॥१२०॥अहो न मत्तो धन्योस्ति त्रैलोक्ये सचराचरे ॥
यदद्राक्षिषमद्याहं श्रीमद्विश्वेश्वरं विभुम्
॥२१॥त्रिलोकीसारसर्वस्वं पिंडीभूतमिदं किल ॥
किं वा पीयूषपिंडोयमुद्गतः क्षीरनीरधेः
॥२२॥आत्मावबोधमहसः किमसौ प्रथमांकुरः ॥
ब्रह्मानंद सुकंदो वा किमु ब्रह्मरसायनम्
॥२३॥योगिहृत्पद्मनिलयं यदनाकारमुच्यते ॥
तदाकारत्वमापेदे किमिदं लिंगकैतवात्
॥२४॥ब्रह्मांडभांडमथवा नाना रत्नौघपूरितम् ॥
अथवा मोक्षवृक्षस्य फलमेतन्नसंशयः
॥२५॥निर्वाणलक्ष्म्याः किमथ केशपाशः सुपुष्पयुक ॥
कैवल्यमल्लीवल्ल्याः किंस्तबकः स्तावकार्थदः
॥२६॥निःश्रेयसश्रियः किंवाऽऽनंदक्रीडनकंदुकः ॥
अपवर्गो दयाद्रेः किमुदियाय सुधाकरः
॥२७॥संसारमोहतिमिरभिदुरःकिमसौ रविः ॥
किमु कल्याणरमणीरम्यशृंगारदर्पणः
॥२८॥आज्ञातं नभवेदन्यत्सर्वेषां देहधारिणाम् ॥
अनेककर्मबीजानां बीजपूरोऽयमद्भुतः
॥२९॥विश्वेषां विश्वबीजानां कर्माख्यानां लयो यतः ॥
अस्मिन्निर्वाणदे लिंगे विश्वलिंगमिदं ततः
॥१३०॥मम भाग्योदयेनैव नारदेन महर्षिणा ॥
तदागत्य तथोक्तं यत्कृतकृत्योस्म्यहं ततः
॥३१॥इत्यानंदामृतरसैर्विधायसहि पारणम् ॥
ततःशुभेऽह्नि संस्थाप्य लिंगं सर्वहितप्रदम्
॥३२॥जग्राह नियमान्घोरान्दुष्करानकृतात्मनाम् ॥
अष्टोत्तरशतैः कुंभैः पूर्णैर्गंगामृतोद्रवैः
॥३३॥संस्नाप्य वाससा पूतैः पूतात्मा प्रत्यहं शिवम् ॥
नीलोत्पलमयीं मालां समर्पयति सोऽन्वहम्
॥३४॥अष्टाधिकसहस्रैस्तु सुमनोभिर्विनिर्मिताम् ॥
सपक्षार्धेन षण्मासं कंदमूलफलाशनः
॥३५॥शीर्णपर्णाशनः पक्षे त्वाषण्मासं बभूव सः ॥
षण्मासं वायुभक्षोभूत्षण्मासं जलबिंदुभुक्
॥३६॥एवं वर्षद्वयं तस्य व्यतिक्रांतं तथा सतः ॥
जन्मतो द्वादशे वर्षे तद्वचो नारदेरितम्
॥३७॥सत्यं करिष्यन्निवतमभ्यगात्कुलिशायुधः ॥
उवाच च वरं ब्रूहि दद्मि तन्मनसि स्थितम्
॥३८॥अहं शतक्रतुर्विप्र प्रसन्नोस्मि शुभव्रतैः ॥
इत्याकर्ण्य महेंद्रस्य वाक्यं मुनिकुमारकः
॥३९॥उवाच मधुरं धीरः कीरवन्मधुराक्षरम् ॥
मघवन्वृत्रशत्रो त्वां जाने कुलिशपाणिनम्
॥१४०॥नाहं वृणे वरं त्वत्तः शंकरो वरदोस्ति मे
॥४१॥इंद्र उवाच
न मत्तः शंकरोस्त्वन्यो देवदेवोस्म्यहं शिशो ॥
विहाय बालिशत्वं त्वं वरयाचस्व मां वरम्
॥४२॥ब्राह्मण उवाच
गच्छाहल्यापतेऽसाधो गोत्रारे पाकशासन ॥
न प्रार्थये पशुपतेरन्यदेवांतरं स्फुटम्
॥४३॥इति तस्य वचः श्रुत्वा क्रोधसंरक्तलोचनः ॥
उद्यम्य कुलिशं घोरं भीषयामास बालकम्
॥४४॥स दृष्ट्वा बालको वज्रं विद्युज्ज्वालाशताकुलम् ॥
स्मरन्नारदवाक्यं च मुमूर्च्छ भयविह्वलः
॥४५॥अथ गौरीपतिः शंभुराविरासीत्तमोनुदः ॥
उत्तिष्ठोत्तिष्ठ भद्रं ते स्पर्शैः संजीवयन्निव
॥४६॥उन्मील्य नेत्रकमले सुप्ते इव दिवाक्षये ॥
अपश्यदग्रे चोत्थाय शंभुमर्कशताधिकम्
॥४७॥भाले लोचनमालोक्य कंठे कालं वृषध्वजम् ॥
वामांगसंनिविष्टाद्रितनयं चं द्रशेखरम्
॥४८॥कपर्देन विराजंतं त्रिशूलाजगवायुधम् ॥
स्फुरत्कर्पूरगौरांगं परिणद्ध गजाजिनम्
॥४९॥परिज्ञाय महादेवं गुरुवाक्यत आगमात् ॥
हर्ष बाष्पाकुलः सन्न कठो रोमांचकंचुकः
॥१५०॥क्षणंस्थगितवत्तस्थौ चित्रकृत्रिमपुत्रकः ॥
यथातथा सुसंपन्नो विस्मृत्यात्मानमेव च
॥५१॥न स्तोतुं न नमस्कर्तुं किंचिद्विज्ञप्तुमेव च ॥
यदासनशशाकालं तदा स्मित्वाऽऽह शंकरः
॥५२॥ईश्वर उवाच
शिशो गृहपते शक्राद्वज्रोद्यतपरादहो ॥
ज्ञातो भीतोसि मा भैषीर्जिज्ञासा ते कृता मया
॥५३॥मम भक्तस्य नो शक्रो न वज्रं नांतकोपि वा ॥
प्रभवेदिंद्ररूपेण मयैव त्वं हि भाषितः
॥५४॥वरं ददामि ते भद्र त्वमग्निपदभाग्भव ॥
सर्वेषामेव देवानां वदनं त्वं भविष्यसि
॥५५॥सर्वेषामेव भूतानां त्वमग्नेंऽतश्चरो भव ॥
धर्मराजेंद्रयोर्मध्ये दिगीशो राज्यमाप्नुहि
॥५६॥त्वयेदं स्थापितं लिंगं तव नाम्ना भविष्यति ॥
अग्नीश्वरं इति ख्यातं सर्वतेजोभिबृंहणम्
॥५७॥अग्नीश्वरस्य भक्तानां न भयं विद्युदग्निजम् ॥
अग्निमांद्य भयं नैव नाकालमरणं क्वचित्
॥५८॥अग्नीश्वरं समभ्यर्च्य काश्यां सर्वसमृद्धिदम् ॥
अन्यत्रापि मृतो दैवादग्निलोके महीयते
॥५९॥ततः काशीं पुनः प्राप्य कल्पांते मोक्षमाप्नुयात् ॥
वीरेश्वरस्य पूर्वेण गंगायाः पश्चिमे तटे
॥१६०॥अग्नीश्वरं समाराध्य वह्निलोके वसेन्नरः ॥
पितृभ्यां स्वजनैः सार्धं मित्रबंधुसमायुतः
॥६१॥विमानमिदमारुह्य प्रयाह्येव दिशःपते ॥
इत्युक्त्वानीय तद्बंधून् पित्रोश्च परिपश्यतोः ॥
दिक्पतित्वेऽभिषिच्याग्निं तत्र लिंगे शिवोविशत्
॥६२॥गणावूचतुः
इत्थमग्निस्वरूपं ते शिवशर्मन्प्रवर्णितम् ॥
किमन्यच्छ्रोतुकामोसि कथयावस्तदीरय
॥१६३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वाद्धें वह्निलोकवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥