भगवद्दर्शनम्
गणावूचतुः
औत्तानपादिर्निर्गत्य ततः काननतो द्विज ॥
रम्यं मधुवनं प्राप यमुनायास्तटे महत
॥१॥आद्यं भगवतः स्थानं तत्पुण्यं हरिमेधसः ॥
पापोपि जंतुस्तत्प्राप्य निष्पापो जायते ध्रुवम्
॥२॥जपन्स वासुदेवाख्यं परंब्रह्म निरामयम् ॥
अपश्यत्तन्मयं विश्वं ध्यानस्तिमितलोचनः
॥३॥हरिर्हरित्सु सर्वासु हरिर्हरिमरीचिषु ॥
शिवामृगमृगेंद्रादि रूपः काननगो हरिः
॥४॥जले शालूरकूर्मादि रूपेण भगवान्हरिः ॥
हरिरश्वादिरूपेण मंदुरास्वपि भूभुजाम्
॥५॥अनंतरूपः पाताले गगनेऽनंतसंज्ञकः ॥
एकोप्यनंततां यातो रूपभेदैरनंतकैः
॥६॥देवेषु यो वसेन्नित्यं देवानां वसतिर्हि यः ॥
स वासुदेवः सर्वत्र दीव्येद्यद्वासनावशात्
॥७॥विष्लृव्याप्तावयंधातुर्यत्रसार्थकतां गतः ॥
ते विष्णुनाम स्वरूपे हि सर्वव्यापनशीलिनि
॥८॥सर्वेषां च हृषीकाणामीशनात्परमेश्वरः ॥
हृषीकेश इति ख्यातो यः स सर्वत्रसंस्थितः
॥९॥न च्यवंतेपि यद्भक्ता महति प्रलये सति ॥
अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः
॥१०॥इदं चराचरं विश्वं यो बभार स्वलीलया ॥
भृत्यास्वरूपसंपत्त्या सोऽत्र विश्वंभरोऽखिलम्
॥११॥तस्येक्षणे समीक्षेते नान्यद्विप्णुपदादृते ॥
निरीक्ष्यः पुंडरीकाक्षो नान्यो नियमतो ह्यतः
॥१२॥नान्य शब्दग्रहौ तस्य जातौ शब्दग्रहावपि ॥
विना मुकुंद गोविंद दामोदर चतुर्भुज
॥१३॥गोविंदचरणार्थार्चां तत्प्रियंकर्मवै विना ॥
शंखचक्रांकितौ तस्य नान्यकर्मकरौकरौ
॥१४॥निर्द्वंद्वचरणद्वंद्वं तन्मनो मनुते हरेः ॥
हित्वान्यन्मननं सर्वं निश्चलत्वमवाप ह
॥१५॥चरणौ विष्णुशरणौ हित्वा नारायणांगणम् ॥
तस्य नो चरतोन्यत्र चरतो विपुलं तपः
॥१६॥वाणीप्रमाणी क्रियते गोविंदगुणवर्णने ॥
जोषं समासता तेन महासारं तपस्यता
॥१७॥नितांतकमलाकांत नामधेयसुधारसम् ॥
रसयंती न रसना तस्यान्यरसस्पृहा
॥१८॥श्रीमुकुंद पदद्वंद्व पद्मामोदप्रमोदितम् ॥
गंधांतरं न तद्घ्राणं परिजिघ्रत्यशीघ्रगम्
॥१९॥त्वगिंद्रियं मधुरिपोः परिस्पृश्य पदद्वयम् ॥
सर्वस्पर्शसुखं प्राप तस्य भूजानिजन्मनः
॥२०॥शब्दादिविषयाधारं सारं दामोदरं परम् ॥
ध्रुवेंद्रियाणि संप्राप्य कृतार्थान्यभवंस्तदा
॥२१॥लुप्तानि सर्वतेजांसि तत्तपस्तपनोदये ॥
चंद्रसूर्यानलर्क्षाणां प्रदीपित जगत्त्रये
॥२२॥इंद्र चंद्राग्नि वरुण समीरण धनाधिपाः ॥
यम नैर्ऋतमुख्याश्च जाताः स्वपदशंकिताः
॥२३॥वैमानिकास्तथाऽन्येपि वसुमुख्या दिवौकसः ॥
ततो धुवात्समुत्त्रेसुः स्वाधिकारैधिताधयः
॥२४॥यत्र यत्र ध्रुवः पादं मिनोति पृथिवीतले ॥
धरा तस्य भराक्रांता विनमेत्तत्र तत्र वै
॥२५॥अहो तदंगसंगीनि त्यक्त्वा जाड्यं जलान्यपि ॥
रसवंति पदस्थानि स्फुरंत्यन्यत्र तद्भयात्
॥२६॥यावंति विष्वक्तेजांसि सिद्धरूपगुणानि च ॥
नेत्रातिथीनि तावंति तत्तपस्तेजसाऽभवन्
॥२७॥अहो निजगुणस्पर्शः सततं मातरिश्वना ॥
दूरदेशांतरस्थोपि तत्त्वचो विषयीकृतः
॥२८॥व्योम्नापि शब्दगुणिना ध्रुवाराधनबुद्धिना ॥
शब्दजातस्त्वशेषोपि तत्कर्ण शरणीकृतः
॥२९॥आराधितोऽनुदिवसं सभूतैरपि पंचभिः ॥
तप एव परं मेने गोविंदार्पित मानसः
॥३०॥कौस्तुभोद्भासितहृदः पीतकौशेयवाससः ॥
ध्यानात्तेजोमयं विश्वं तेनैक्षि नृपसूनुना
॥३१॥मरुत्वतातिमहती चिंताऽप्ता तत्तपोभयात् ॥
मत्पदं चेदकांक्षिष्यदहरिष्यद्ध्रुवं धुवः
॥३२॥समर्थस्त्वप्सरोवर्गो नियंतुं यमिनां यमान् ॥
स तु यूनि प्रभवति नात्र बाले करोमि किम्
॥३३॥तपस्विनां तपो हंतुं द्वौ मत्साहाय्यकारिणौ ॥
कामक्रौधौ न तावस्मिन्प्रभवेतां शिशौ ध्रुवे
॥३४॥एक एव किलोपायो बाले मे प्रभविष्यति ॥
भूतालिं भीषणाकारां प्रहिणोमीह तद्भिये
॥३५॥बालत्वाद्भीषितो भूतैस्तपस्त्यक्ष्यत्यसौ ध्रुवम् ॥
इति निश्चित्य भूतालिं प्रेषयामास वासवः
॥३६॥भल्लूकाकारसर्वांग उष्ट्रलंबशिरोधरः ॥
कश्चिद्दुर्दर्शदशनस्त्वभ्यधावत्तमर्भकम्
॥३७॥तं व्याघ्रवदनः कश्चिद्व्यादाय विकटाननम् ॥
द्विपोच्च देहसंस्थानो मुहुर्गर्जन्समभ्यगात्
॥३८॥रयात्तु मांसकं भुंजन्कश्चिद्विकटदंष्ट्रकः ॥
रोषात्तमभिदुद्राव दृष्ट्वा संतर्जयन्निव
॥३९॥अतितीक्ष्णैर्विषाणाग्रैस्तटानुच्चान्विदारयन् ॥
खुराग्रैर्दलयन्भूमिं महोक्षोऽभिजगर्जतम्
॥४०॥कश्चिद्धि पन्नगी भूय फटाटोपभयानकः ॥
अतिलोलद्विरसनः पुस्फूर्जनिकषाचितम्
॥४१॥कश्चिच्च महिषाकारः क्षिपञ्शृंगाग्रतो गिरोन् ॥
लांगूलताडितधरः श्वसन्वेगात्तमाप्तवान्
॥४२॥कश्चिद्दावानलालीढ खर्जूरद्रुमसन्निभम् ॥
बिभ्रदूरुद्वयंभूतो व्यात्तास्यस्तमभीषयत्
॥४३॥मौलिजैरभ्रसंघर्षं कुर्वन्दीर्घकृशोदरः ॥
निमग्नपिंगनयनः कश्चिद्भीषयति स्म तम्
॥४४॥कृपाणपाणिर्भग्नास्यो वामहस्तकपालधृत् ॥
प्रचंडं क्ष्वेडयन्कश्चिदभ्यधावत्तमर्भकम्
॥४५॥विशाल सालमादाय कुर्वन्किल किलारवम् ॥
कश्चित्तमभितो याति कालो दंडधरो यथा
॥४६॥तमः संकेतसदनं व्याघ्रं वै वदनं महत् ॥
कृतांतकं दराकारं बिभ्रत्कश्चित्तमभ्यगात्
॥४७॥उलूकाकारतां धृत्वा फूत्कारैरतिदारुणैः ॥
हृदयाकंपनैः कश्चिद्भीषयामास तं ध्रुवम्
॥४८॥यक्षिणी काचिदानीय रुदंतं कस्यचिच्छिशुम् ॥
अपिबद्रुधिरं कोष्ठाच्चखादास्थि मृणालवत्
॥४९॥पिपासिताद्य रुधिरं तेपि पास्याम्यहं धुव ॥
यथास्य बालस्य तथा चर्वित्वास्थीनि वादिनी
॥५०॥अनीय तृणदारूणि परिस्तीर्य समंततः ॥
दावाग्निं ज्वालयामास काचिद्वात्याविवर्धितम्
॥५१॥वेताली रूपमास्थाय भंक्त्वा काचित्तरून्गिरीन् ॥
रुरोध गगनाध्वानं कंपयंती च तं भृशम्
॥५२॥अन्या सुनीतिरूपेण तमभिप्रेक्ष्य दूरतः ॥
रुरोदातीवदुःखार्ता वक्षोघातं मुहुर्मुहुः
॥५३॥उवाच च वचश्चाटु बहुमाया विनिर्मितम् ॥
कारुण्यपूर्ण वात्सल्यमतीवातन्वती सती
॥५४॥त्वदेकशरणां वत्स बत मृत्युर्जिघांसति ॥
रक्षरक्ष गतासुं मां शरणागतवत्सल
॥५५॥प्रतिग्रामं प्रतिपुरं प्रत्यध्वं प्रतिकाननम् ॥
प्रत्याश्रमं प्रतिगिरिं श्रांता त्वद्वीक्षणातुरा
॥५६॥यदा प्रभृति रे बाल निरगात्तपसे भवान् ॥
तदेव दिनमारभ्य निर्गताऽहं त्वदीक्षणे
॥५७॥तैस्तैः सपत्नीदुर्वाक्यैर्दुनोपि त्वं यथार्भक ॥
तथाऽहमपि दूनास्मि नितरां तद्वचोऽग्निना
॥५८॥न निद्रामि न जागर्मि नाश्नामि न पिबाम्यहम् ॥
ध्यायामि केवलं त्वाऽहं योगिनीव वियोगिनी
॥५९॥निद्रादरिद्रनयना स्वप्नेपि न तवाननम् ॥
आनंदि सर्वथा यन्मे मंदभाग्या विलोकये
॥६०॥त्वदाननप्रतिनिधिर्विधुर्विधुरया मया ॥
उदित्वरोपिनालोकि तापं वै त्यक्तुकामया
॥६१॥त्वदालापसमालापं कलयन्किलकाकलीम् ॥
कोकिलोपि मयाकर्णि नालकाकीर्णकर्णया
॥६२॥त्वदंगसंगमधुरो ध्रुवधूपितयामया ॥
नानिलोपि मयालिंगि क्वचिद्विश्रांतया भृशम्
॥६३॥के देशाः काश्च सरितः के शैलास्त्वत्कृते ध्रुव ॥
मया चरणचारिण्या राजपत्न्या न लंघिताः
॥६४॥अध्रुवं सर्वमेवैतत्पश्यंत्यंधीकृतास्म्यहम् ॥
धात्रीं त्रायस्व मां पुत्र प्राप्य त्वंमेंऽधयष्टिताम्
॥६५॥मृदुलानि तवांगानि क्वेमानि क्व तपस्त्विदम् ॥
परुषं पुरुषैः साध्यं परुषांगैर्नरर्षभ
॥६६॥अनेन तपसा वत्स त्वयाऽऽप्यं किमनेनसा ॥
धराधीशतनूजत्वादधिकं तद्वदाधुना
॥६७॥अनेन वयसा बाल खेलनीयं त्वयाऽनिशम् ॥
बालक्रीडनकैरन्यैः सवयः शिशुभिः समम्
॥६८॥ततः कौमारमासाद्य वयोऽभिध्यानशीलिना ॥
भवता सर्वविद्यानां भाव्यं वै पारदृश्वना
॥६९॥वयोथ चतुरं प्राप्य योषास्रक्चंदनादिकान् ॥
निर्वेक्ष्यसि बहून्भोगानिंद्रियार्थान्कृतार्थयन्
॥७०॥उत्पाद्याथ बहून्पुत्रान्गुणिनो धर्मवत्सलान् ॥
परिसंक्रामितश्रीकस्तेष्वथो त्वं तपश्चर
॥७१॥इदानीमेव तपसि बाल्ये वयसि कः श्रमः ॥
पादांगुष्ठकरीषाग्निः कदा मौलिमवाप्स्यति
॥७२॥विपक्षपरिभूतेन हृतमानेन केनचित् ॥
परिभ्रष्टश्रिया वापि तप्तव्यं तेषु को भवान्
॥७३॥हृतमानेन तप्तव्यं निशम्येति वचो ध्रुवः ॥
दीर्घमुष्णं हि निःश्वस्य पुनर्दध्यौ हरिं हृदि
॥७४॥जनयित्रीमनाभाष्य भूतभीतिं विहाय च ॥
ध्रुवोऽच्युतध्यानपरः पुनरेव बभूव ह
॥७५॥सापि भूतावली भीतिंबहुभीषणभूषणा ॥
दर्शयंती तमभितोऽद्राक्षीच्चक्रं सुदर्शनम्
॥७६॥परितः परिवेषाभं सूर्यस्योच्चैः स्फुरत्प्रभम् ॥
रक्षणाय च रक्षोभ्यस्तस्याधोक्षज निर्मितम्
॥७७॥भूतावली तमालोक्य स्फुरच्चक्रसुदर्शनम् ॥
ज्वालामालाकुलं तीव्रं रक्षंतं परितो ध्रुवम्
॥७८॥अतीव निष्कंपहृदं गोविदार्पितचेतसम् ॥
तपोंकुरमिवोद्भिद्य मेदिनीं समुदित्वरम्
॥७९॥सापि प्रत्युतभीतातं ध्रुवं ध्रुवविनिश्चयम् ॥
नमस्कृत्य यथायातं याताव्यर्थमनोरथा
॥८०॥गर्जत्कादंबिनीजालं व्योम्नि वै व्याकुलं यथा ॥
वृथा भवति संप्राप्य मनागनिललोलताम्
॥८१॥अथ जंभारिणा सार्धं भीताः सर्वे दिवौकसः ॥
संमंत्र्य त्वरिता जग्मुर्ब्रह्माणं शरणं द्विज
॥८२॥नत्वा विज्ञापयामासुः परिष्टुत्या पितामहम् ॥
वच्रोऽवसरमालोक्य पृष्टागमनकारणाः
॥८३॥देवा ऊचुः
धातरुत्तानपादस्य तनयेन सुवर्चसा ॥
तपता तापिताः सर्वे त्रिलोकी तलवासिनः
॥८४॥सम्यक्संविद्महे तात धुवस्य न मनीषितम् ॥
पदं परिजिहीर्षुः स कस्यास्मासु महातपाः
॥८५॥इति विज्ञापितो देवैर्विहस्य चतुराननः ॥
प्रत्युवाचाथ तान्सर्वान्ध्रुवतो भीतमानसान्
॥८६॥ब्रह्मोवाच
न भेतव्यं सुरास्तस्माद्ध्रुवाद्ध्रुवपदैषिणः ॥
व्रजंतु विज्वराः सर्वे न स वः पदमिच्छति
॥८७॥न तस्माद्भगवद्भक्ताद्भेतव्यं केनचित्क्वचित् ॥
निश्चितं विष्णुभक्ता ये न ते स्युः परतापिनः
॥८८॥आराध्य विष्णुं देवेशं लब्ध्वा तस्मात्स्वकांक्षितम् ॥
भवतामपि सर्वेषां पदानि स्थिरयिष्यति
॥८९॥निशम्येति च गीर्वाणाः प्रणीतं ब्रह्मणो वचः ॥
प्रणिपत्य स्वधिष्ण्यानि प्रहृष्टाः परिवव्रजुः
॥९०॥अथ नारायणो देवस्तं दृष्ट्वा दृढमानसम् ॥
अनन्यशरणं बालं गत्वा तार्क्ष्यरथोऽब्रवीत्
॥९१॥श्रीविष्णुरुवाच
प्रसन्नोस्मि महाभाग वरं वरय सुव्रत ॥
तपसोऽस्मान्निवर्तस्व चिरं खिन्नोसि बालक
॥९२॥वचोऽमृतं समाकर्ण्य पर्युन्मील्य विलोचने ॥
इंद्रनीलमणिज्योतिः पटलीं पर्यलोकयत्
॥९३॥प्रत्यग्रविकसन्नीलोत्पलानां निकुरंबकैः ॥
प्रोत्फुल्लितां समंताच्च रोदसी सरसीमिव
॥९४॥लक्ष्मीदेवीकटाक्षोघैः कटाक्षितमिवाखिलम् ॥
धुवस्तदानिरैक्षिष्ट द्यावाभूम्योर्यदंतरम्
॥९५॥प्रोद्यत्कादंबिनीमध्य विद्युद्दामसमानरुक् ॥
पुरः पीतांबरः कृष्णस्तेन नेत्रातिथीकृतः
॥९६॥नभो निकष पाषाणो मेरुकांचन रेखितः ॥
यथातथा ध्रुवेणैक्षि तदा गरुडवाहनः
॥९७॥सुनीलगगनं यद्वद्भूषितं तु कलावता ॥
पीतेन वाससा युक्तं स ददर्श हरिं तदा
॥९८॥दंडवत्प्रणिपत्याथ परितः परिलुठ्य च ॥
रुरोद दृष्ट्वेव चिरं पितरं दुःखितः शिशुः
॥९९॥नारदेन सनंदेन सनकेन सुसंस्तुतः ॥
अन्यैः सनत्कुमाराद्यैर्योगिभिर्योगिनां वरः
॥१००॥कारुण्यवाष्पनीरार्द्र पुंडरीकविलोचनः ॥
ध्रुवमुत्थापयांचक्रे चक्री धृत्वा करेण तम्
॥१॥हरिस्तु परिपस्पर्श तदंगं धूलिधूसरम् ॥
कराभ्यां सुकठोराभ्यां नित्यं शास्त्रपरिग्रहात्
॥२॥स्पर्शनाद्देवदेवस्य सुसंस्कृतमयी शुभा ॥
वाणी प्रवृत्ता तस्यास्यात्तुष्टावाथ ध्रुवो हरिम्
॥१०३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ध्रुवाख्याने भगवद्दर्शननाम विंशतितमोऽध्यायः ॥ २० ॥