मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ४५

3
काशीखण्डः · 45

स्वनेत्रदैर्घ्यनिर्माणं प्रशशंस फलान्वितम्

स्कंद उवाच

अथ तद्योगिनीवृंदं दूराद्दृष्टिं प्रसार्य च ॥

स्वनेत्रदैर्घ्यनिर्माणं प्रशशंस फलान्वितम्

॥१॥

दिव्यप्रासादमालानां पताकाश्चलपल्लवाः ॥

सादरं दूरमार्गस्थान्पांथानाह्वयतीरिव

॥२॥

चंचत्प्रासादमाणिक्यैर्विजृंभितमरीचिभिः ॥

सुनीलमपि च व्योमवीक्ष्यमाणं सुनिर्मलम्

॥३॥

देवत्वं माययाच्छाद्य वेषं कार्पटिकोचितम् ॥

विधाय काशीमविशद्योगिनीचक्रमक्रमम्

॥४॥

काचिच्चयोगिनी भूता काचिज्जाता तपस्विनी ॥

काचिद्बभूव सैरंध्री काचिन्मासोपवासिनी

॥५॥

मालाकारवधूः काचित्काचिन्नापितसुंदरी ॥

सूतिकर्मविचारज्ञा ऽपरा भैषज्यकोविदा

॥६॥

वैश्या च काचिदभवत्क्रयविक्रयचंचुरा ॥

व्यालग्राहिण्यभूत्काचिद्दासीधात्री च काचन

॥७॥

एका च नृत्यकुशला त्वन्या गानविशारदा ॥

अपरा वेणुवादज्ञा परा वीणाधराभवत्

॥८॥

मृदंगवादनज्ञान्या काचित्ताल कलावती ॥

काचित्कार्मणतत्त्वज्ञा काचिन्मौक्तिकगुंफिका

॥९॥

गंधभागविधिज्ञान्या काचिदक्षकलालया ॥

आलापोल्लासकुशला काचिच्चत्वरचारिणी

॥१०॥

वंशाधिरोहणे दक्षा रज्जुमार्गेण चेतरा ॥

काचिद्वातुलचेष्टाऽभूत्पथि चीवरवेष्टना

॥११॥

अपत्यदाऽनपत्यानां परा तत्रपुरेऽवसत् ॥

काचित्करांघ्रिरेखाणां लक्षणानि चिकेति च

॥१२॥

चित्रलेखन नैपुण्यात्काचिज्जनमनोहरा ॥

वशीकरणमंत्रज्ञा काचित्तत्र चचार ह

॥१३॥

गुटिकासिद्धिदा काचित्काचिदंजनसिद्धिदा ॥

धातुवादविदग्धान्या पादुकासिद्धिदा परा

॥१४॥

अग्निस्तंभ जलस्तंभ वाक्स्तंभं चाप्यशिक्षयत् ॥

खेचरीत्वं ददौ काचिददृश्यत्वं परा ददौ

॥१५॥

काचिदाकर्पणीं सिद्धिं ददावुच्चाटनं परा ॥

काचिन्निजांगसौंदर्य युवचित्तविमोहिनी

॥१६॥

चिंतितार्थप्रदा काचित्काचिज्ज्योतिः कलावती ॥

इत्यादि वेषभाषाभिरनुकृत्य समंततः

॥१७॥

प्रत्यंगणं प्रतिगृहं प्राविशद्योगिनीगणः ॥

इत्थमब्दंचरंत्यस्ता योगिन्योऽहर्निशं पुरि

॥१८॥

न च्छिद्रं लेभिरे क्वापि नृपविघ्नचिकीर्षवः ॥

ततः समेत्य ताः सर्वा योगिन्यो वंध्यवांछिताः ॥

तस्थुः संमंत्र्य तत्रैव न गता मंदरं पुनः

॥१९॥

प्रभुकार्यमनिष्पाद्य सदः संभावनैधितः ॥

कः पुरः शक्नुयात्स्थातुं स्वामिनो क्षतविग्रहः

॥२०॥

अन्यच्च चिंतितं ताभिर्योगिनीभिरिदं मुने ॥

प्रभुं विनापि जीवामो न तु काशीं विना पुनः

॥२१॥

प्रभूरुष्टोपि सद्भृत्ये जीविकामात्रहारकः ॥

काशीहरेत्कराद्भ्रष्टा पुरुषार्थचतुष्टयम्

॥२२॥

नाद्यापि काशीं संत्यज्य तदारभ्य महामुने ॥

योगिन्योन्यत्र तिष्ठंति चरंत्योपि जगत्त्रयम्

॥२३॥

प्राप्यापि श्रीमतीं काशीं यस्तितिक्षति दुर्मतिः ॥

स एव प्रत्युत त्यक्तो धर्मकामार्थमुक्तिभिः

॥२४॥

कः काशीं प्राप्य दुर्बुद्धिरपरत्र यियासति ॥

मोक्षनिक्षेप कलशीं तुच्छश्रीकृतमानसः

॥२५॥

विमुखोपीश्वरोस्माकं काशीसेवनपुण्यतः ॥

संमुखो भविता पुण्यं कृतकृत्याः स्म तद्वयम्

॥२६॥

दिनैः कतिपयैरेव सर्वज्ञोपि समेष्यति ॥

विना काशीं न रमते यतोऽन्यत्र त्रिलोचनः

॥२७॥

शंभोः शक्तिरियं काशी काचित्सर्वैरगोचरा ॥

शंभुरेव हि जानीयादेतस्याः परमं सुखम्

॥२८॥

इति निश्चित्य मनसि शंभोरानंदकानने ॥

अतिष्ठद्योगिनीवृंदं कयाचिन्माययावृतम्

॥२९॥

व्यास उवाच

इत्थं समाकर्ण्य मुनिः पुनः पप्रच्छ षण्मुखम् ॥

कानि कानि च नामानि तासां तानि वदेश्वर

॥३०॥

भजनाद्योगिनीनां च काश्यां किं जायते फलम् ॥

कस्मिन्पर्वणि ताः पूज्याः कथं पूज्याश्च तद्वद

॥३१॥

श्रुत्वेतिप्रश्नमौमेयो योगिनीसंश्रयं ततः ॥

प्रत्युवाच मुने वच्मि शृणोत्ववहितो भवान्

॥३२॥

स्कंद उवाच

नामधेयानि वक्ष्यामि योगिनीनां घटोद्भव ॥

आकर्ण्य यानि पापानि क्षयंति भविनां क्षणात्

॥३३॥

गजानना सिंहमुखी गृध्रास्या काकतुंडिका ॥

उष्ट्रग्रीवा हयग्रीवा वाराही शरभानना

॥३४॥

उलूकिका शिवारावा मयूरी विकटानना ॥

अष्टवक्त्रा कोटराक्षी कुब्जा विकटलोचना

॥३५॥

शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना ॥

ऋक्षाक्षी केकराक्षी च बृहत्तुंडा सुराप्रिया

॥३६॥

कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ॥

पाशहस्ता दंडहस्ता प्रचंडा चंडविक्रमा

॥३७॥

शिशुघ्नी पापहंत्री च काली रुधिरपायिनी ॥

वसाधया गर्भभक्षा शवहस्तांत्रमालिनी

॥३८॥

स्थूलकेशी बृहत्कुक्षिः सर्पास्या प्रेतवाहना ॥

दंदशूककरा क्रौंची मृगशीर्षा वृषानना

॥३९॥

व्यात्तास्या धूमनिःश्वासा व्योमैकचरणोर्ध्वदृक् ॥

तापनी शोषणीदृष्टिः कोटरी स्थूलनासिका

॥४०॥

विद्युत्प्रभा बलाकास्या मार्जारी कटपूतना ॥

अट्टाट्टहासा कामाक्षी मृगाक्षी मृगलोचना

॥४१॥

नामानीमानि यो मर्त्यश्चतुःषष्टिं दिनेदिने ॥

जपेत्त्रिसंध्यं तस्येह दुष्टबाधा प्रशाम्यति

॥४२॥

न डाकिन्यो न शाकिन्यो न कूष्मांडा न राक्षसाः ॥

तस्य पीडां प्रकुर्वंति नामानीमानि यः पठेत्

॥४३॥

शिशूनां शांतिकारीणि गर्भशांतिकराणि च ॥

रणे राजकुले वापि विवादे जयदान्यपि

॥४४॥

लभेदभीप्सितां सिद्धिं योगिनीपीठसेवकः ॥

मंत्रांतराण्यपि जपंस्तत्पीठे सिद्धिभाग्भवेत्

॥४५॥

बलिपूजोपहारैश्च धूपदीपसमर्पणैः ॥

क्षिप्रं प्रसन्ना योगिन्यः प्रयच्छेयुर्मनोरथान्

॥४६॥

शरत्काले महापूजां तत्र कृत्वा विधानतः ॥

हवींषि हुत्वा मंत्रज्ञो महतीं सिद्धिमाप्नुयात्

॥४७॥

आरभ्याश्वयुजःशुक्लां तिथिं प्रतिपदं शुभाम् ॥

पूजयेन्नवमीयावन्नरश्चिंतितमाप्नुयात्

॥४८॥

कृष्णपक्षस्य भूतायामुपवासी नरोत्तमः ॥

तत्र जागरणं कृत्वा महतीं सिद्धिमाप्नुयात्

॥४९॥

प्रणवादिचतुर्थ्यन्तैर्नामभिर्भक्तिमान्नरः ॥

प्रत्येकं हवनं कृत्वा शतमष्टोत्तरं निशि

॥५०॥

ससर्पिषा गुग्गुलुना लघुकोलि प्रमाणतः ॥

यां यां सिद्धिमभीप्सेत तांतां प्राप्नोति मानवः

॥५१॥

चैत्रकृष्णप्रतिपदि तत्र यात्रा प्रयत्नतः ॥

क्षेत्रविघ्नशांत्यर्थं कर्तव्या पुण्यकृज्जनैः

॥५२॥

यात्रा च सांवत्सरिकीं यो न कुर्यादवज्ञया ॥

तस्य विघ्नं प्रयच्छंति योगिन्यः काशिवासिनः

॥५३॥

अग्रे कृत्वा स्थिताः सर्वास्ताः काश्यां मणिकर्णिकाम् ॥

तन्नमस्कारमात्रेण नरो विघ्नैर्न बाध्यते

॥५४॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे षष्टियोगन्यागमनंनाम पंचचत्वारिंशोध्यायः ॥ ४५ ॥