शुक्रलोकवर्णनम्
गणावूचतुः
शिवशर्मन्महाबुद्धे शुक्रलोकोयमद्भुतः ॥
दानवानां च दैत्यानां गुरुरत्र वसेत्कविः
॥१॥पीत्वा वर्षसहस्रं वै कणधूमं सुदुःसहम् ॥
यः प्राप्तवान्महाविद्यां मृत्युसंजीविनीं हरात्
॥२॥इमां विद्यां न जानाति देवाचार्योति दुप्कराम् ॥
ऋते मृत्युंजयात्स्कंदात्पार्वत्या गजवक्त्रतः
॥३॥शिवशर्मोवाच
कोसौ शुक्र इति ख्यातो यस्यायं लोक उत्तमः ॥
कथं तेन च विद्याप्ता मृत्युसंजीवनी हरात् ॥
आचक्षाथामिदं देवौ यदि प्रीतिर्मयि प्रभू ॥
ततस्तौ स्माहतुर्देवौ शुक्रस्य परमां कथाम्
॥५॥यां श्रुत्वा चापमृत्युभ्यो हीयंते श्रद्धयायुताः ॥
भूतप्रेतपिशाचेभ्यो न भयं चापि जायते
॥६॥आजौ प्रवर्तमानायामंधकांधकवैरिणोः ॥
अनिर्भेद्य गिरिव्यूह वज्रव्यूहाधिनाथयोः
॥७॥अपसृत्य ततो युद्धादंधकः शुक्रसंनिधिम् ॥
अधिगम्य बभाषेदमवरुह्य रथात्ततः
॥८॥भगवंस्त्वामुपाश्रित्य वयं देवांश्च सानुगान् ॥
मन्यामहे तृणैस्तुल्यान्रुद्रोपेंद्रादिकानपि
॥९॥कुंजरा इव सिंहेभ्यो गरुडेभ्य इवोरगाः ॥
अस्मत्तो बिभ्यति सुरा गुरो युष्मदनुग्रहात्
॥१०॥वज्रव्यूहमनिर्भेद्यं विविशुर्देत्यदानवाः ॥
विधूय प्रमथानीकं ह्रदं तापार्दिता इव
॥११॥वयं त्वच्छरणं भूत्वा पर्वता इव निश्चलाः ॥
स्थित्वा चराम निःशंका ब्राह्मणेंद्र महाहवे
॥१२॥आप्तभावेन च वयं पादौ तव सुखप्रदौ ॥
सदाराः ससुताश्चैव शुश्रूषामो दिवानिशम्
॥१३॥अभिरक्षाभितो विप्र प्रसन्नः शरणागतान् ॥
पश्य हुंडं तुहुंडं च कुजंभं जंभमेव च
॥१४॥पाकं कार्तस्वनं चैव विपाकं पाकहारिणम् ॥
तं चन्द्रदमनं शूरं शूरामरविदारणम्
॥१५॥प्रमथैर्भीमविक्रांतैः क्रांतं मृत्युप्रमाथिभिः ॥
सूदितान्पतितांश्चैव द्राविडैरिव चंदनान्
॥१६॥या पीत्वा कणधूमं वै सहस्रं शरदां पुरा ॥
वरा विद्या त्वया प्राप्ता तस्याः कालोयमागतः
॥१७॥अथ विद्याफलं तत्ते दैत्यान्संजीवयिष्यतः ॥
पश्यंतु प्रमथाः सर्वे त्वया संजीवितानिमान्
॥१८॥इत्यंधकवचः श्रुत्वा स्थिरधीर्भार्गवोमुनिः ॥
किंचित्स्मितं तदा कृत्वा दानवाधिपमब्रवीत्
॥१९॥दानवाधिपते सर्वं तथ्यं यद्भाषितं त्वया ॥
विद्योपार्जनमेतद्धि दानवार्थं मया कृतम्
॥२०॥पीत्वा वर्षसहस्रं वै कणधूमं सुदुःसहम् ॥
एषा प्राप्तेश्वराद्विद्या बांधवानां सुखावहा
॥२१॥एतया विद्यया सोहं प्रमयैर्मथितान्रणे ॥
उत्थापयिष्ये ग्लानानि धान्यन्यंबुधरो यथा
॥२२॥निर्व्रणान्नीरुजः स्वस्थान्सुप्त्वेव पुनरुत्थितान् ॥
अस्मिन्मुहूर्ते द्रष्टासि दानवानुत्थितान्नृप
॥२३॥इत्युक्त्वा दानवपतिं विद्यामावर्तयत्कविः ॥
एकैकं दैत्यमुद्दिश्य त उत्तस्थुर्धृतायुधाः
॥२४॥वेदा इव सदभ्यस्ताः समये वा यथांबुदाः ॥
ब्राह्मणेभ्यो यथा दत्ताः श्रद्धयार्था महापदि
॥२५॥उज्जीवितांस्तु तान्दृष्ट्वा तुहुंडाद्यान्महासुरान् ॥
विनेदुः पूर्वदेवास्ते जलपूर्णा इवांबुदाः
॥२६॥शुक्रेणोजीवितान्दृष्ट्वा दानवांस्तान्गणेश्वराः ॥
विज्ञाप्यमेव देवेशे ह्येवं तेऽन्योन्यमब्रुवन्
॥२७॥आश्चर्यरूपे प्रमथेश्वराणां तस्मिंस्तथा वर्तति युद्धयज्ञे ॥
अमर्षितो भार्गवकर्मदृष्ट्वा शिलादपुत्रोभ्यगमन्महेशम्
॥२८॥जयेति चोक्त्वा जय योनिमुग्रमुवाच नंदी कनकावदातम् ॥
गणेश्वराणां रणकर्म देव देवैश्च सेंद्रैरपि दुष्करं यत्
॥२९॥तद्भार्गवेणाद्य कृतं वृथा नः संजीव्य तानाजिमृतान्विपक्षान् ॥
आवर्त्य विद्यां मृतजीवदात्रीमेकैकमुद्दिश्य सहेलमीश
॥३०॥तुहुंडहुंडादिकजंभजंभविपाकपाकादि महासुरेंद्राः ॥
यमालयादद्य पुनर्निवृत्ता विद्रावयंतः प्रमथाश्चरंति
॥३१॥यदि ह्यसौ दैत्यवरान्निरस्तान्संजीवयेदत्र पुनःपुनस्तान् ॥
जयः कुतो नो भविता महेश गणेश्वराणां कुत एव शांतिः
॥३२॥इत्येवमुक्तः प्रमथेश्वरेण स नंदिना वै प्रमथेश्वरेशः ॥
उवाच देवः प्रहसंस्तदानीं तं नंदिनं सर्वगणेशराजम्
॥३३॥नंदिन्प्रयाहि त्वरितोतिमात्रं द्विजेंद्रवर्यं दितिनंदनानाम् ॥
मध्यात्समुद्धृत्य तथानयाशु श्येनो यथा लावकमंडजातम्
॥३४॥स एव मुक्तो वृषभध्वजेन ननाद नंदी वृषसिंहनादः ॥
जगाम तूर्णं च विगाह्य सेनां यत्राभवद्भार्गववंशदीपः
॥३५॥तं रक्ष्यमाणं दितिजैः समस्तैः पाशासिवृक्षोपलशैलहस्तैः ॥
विक्षोभ्य दैत्यान्बलवाञ्जहार काव्यं स नंदी शरभो यथेभम्
॥३६॥स्रस्तांबरं विच्युतभूषणं च विमुक्तकेशं बलिना गृहीतम् ॥
विमोचयिष्यंत इवानुजग्मुः सुरारयः सिंहरवान्सृजंतः
॥३७॥दंभोलि शूलासिपरश्वधानामुद्दंडचक्रोपल कंपनानाम् ॥
नंदीश्वरस्योपरि दानवेद्रा वर्षं ववर्षुर्जलदा इवोग्रम्
॥३८॥तं भार्गवं प्राप्य गणाधिराजो मुखाग्निना शस्त्रशतानि दग्ध्वा ॥
आयात्प्रवृद्धेऽसुरदेवयुद्धे भवस्य पार्श्वे व्यथितारिसैन्यः
॥३९॥अयं स शुक्रो भगवन्नितीदं निवेदयामास भवाय शीघ्रम् ॥
जग्राह शुक्रं स च देवदेवो यथोपहारं शुचिना प्रदत्तम्
॥४०॥न किंचिदुक्त्वा स हि भूतगोप्ता चिक्षेप वक्त्रे फलवत्कवींद्रम् ॥
हाहारवस्तैरसुरैः समस्तैरुच्चैर्विमुक्तो हहहेति भूरि
॥४१॥काव्ये निगीर्णे गिरिजेश्वरेण दैत्या जयाशा रहिता बभूवुः ॥
हस्तैर्विमुक्ता इव वारणेंद्राः शृंगैर्विहीना इव गोवृषाश्च
॥४२॥शरीर हीना इव जीवसंघा द्विजा यथा चाध्ययनेन हीनाः ॥
निरुद्यमाः सत्त्वगुणा यथा वै यथोद्यमा भाग्यविवर्जिताश्च
॥४३॥पत्या विहीनाश्च यथैव योषा यथा विपक्षा इव मार्गणौघाः ॥
आयूंषि हीनानि यथैव पुण्यैर्वृत्तेन हीनानि यथा श्रुतानि
॥४४॥विना यथा वैभवशक्तिमेकां भवंति हीनाः स्वफलैः क्रियौघाः ॥
तथा विना तं द्विजवर्यमेकं दैत्या जयाशा विमुखा बभूवुः
॥४५॥नंदिनापहृते शुक्रे गिलिते च विषादिना ॥
विषादमगमन्दैत्या हीयमानरणोत्सवाः
॥४६॥तान्वीक्ष्य विगतोत्साहानंधकः प्रत्यभाषत ॥
कविं विक्रम्य नयता नंदिना वंचिता वयम्
॥४७॥तनूर्विना हृताः प्राणाः सर्वेषामद्य तेन नः ॥
धैर्यं वीर्यं गतिः कीर्तिः सत्त्वं तेजः पराक्रमः
॥४८॥युगपन्नो हृतं सर्वमेकस्मिन्भार्गवे हृते ॥
धिगस्मान्कुलपूज्यो यैरेकोपि कुलसत्तमः ॥
गुरुः सर्वसमर्थश्च त्राता त्रातो न चापदि
॥४९॥तद्धैर्यमवलंब्येह युध्यध्वमरिभिः सह ॥
सूदयिष्याम्यहं सर्वान्प्रमथान्सह नंदिना
॥५०॥अद्यैतान्विवशान्हत्वा सह देवैः सवासवैः ॥
भार्गवं मोचयिष्यामि जीवं योगीव कर्मतः
॥५१॥स चापि योगी योगेन यदि नाम स्वयं प्रभुः ॥
शरीरात्तस्य निर्गच्छेदस्माकं रोषपालिता
॥५२॥इत्यंधकवचः श्रुत्वा दानवा मेघनिःस्वनाः ॥
प्रमथा नर्दयामासुर्मर्तव्ये कृत निश्चयाः
॥५३॥सत्यायुपि न नो जातु शक्ताः स्युः प्रमथाबलात् ॥
असत्यायुषि किं गत्वा त्यक्त्वा स्वामिनमाहवे
॥५४॥ये स्वामिनं विहायाजौ बहुमानधना जनाः ॥
यांति ते यांति नियतमंधतामिस्रमालयम्
॥५५॥अयशस्तमसा ख्यातिं मलिनीकृत्यभूरिशः ॥
इहामुत्रापि सुखिनो न स्युर्भग्ना रणाजिरात्
॥५६॥किं दानैः किं तपोभिश्च किं तीर्थपरिमज्जनैः ॥
धरातीर्थे यदि स्नातं पुनर्भव मलापहे
॥५७॥संप्रधार्येति तेऽन्योन्यं दैत्यास्ते दनुजास्तथा ॥
ममंथुः प्रमथानाजौ रणभेरीर्निनाद्य च
॥५८॥तत्र वाणासिवज्रौघैः कटंकटशिलामयैः ॥
भुशुंडीभिंदिपालैश्च शक्तिभल्ल परश्वधैः
॥५९॥खट्वांगैः पट्टिशैः शूलैर्लकुटैर्मुसलैरलम् ॥
परस्परमभिघ्नंतः प्रचक्रुः कदनं महत्
॥६०॥कार्मुकाणां विकृष्टानां पततां च पतत्रिणाम् ॥
भिंदिपालभुशुंडीनां क्ष्वेडितानां रवोऽभवत्
॥६१॥रणतूर्यनिनादैश्च गजानां बहुबृंहितैः ॥
हेषारवैर्हयानां च महान्कोलाहलोऽभवत्
॥६२॥प्रतिस्वनैरवापूरि द्यावाभूम्योर्यदंतरम् ॥
अभीरूणां च भीरूणां महारोमोद्गमोऽभवत्
॥६३॥गजवाजिमहाराव स्फुटच्छब्दग्रहाणि च ॥
भग्नध्वजपताकानि क्षीणप्रहरणानि च
॥६४॥रुधिरोद्गार चित्राणि व्यश्वहस्तिरथानि च ॥
पिपासितानि सैन्यानि मुमूर्छुरुभयत्र वै
॥६५॥दृष्ट्वा सैन्यं च प्रमथैर्भज्यमानमितस्ततः ॥
दुद्राव रथमास्थाय स्वयमेवांधको गणान्
॥६६॥शरवज्रप्रहारैस्तैर्वज्राघातैर्नगा इव ॥
प्रमथानेशिरे वातैर्निस्तोया इव तोयदाः
॥६७॥यांतमायांतमालोक्य दूरस्थं निकटस्थितम् ॥
प्रत्येकं रोमसंख्याभिर्व्यधाद्बाणैस्तदांधकः
॥६८॥विनायकेन स्कंदेन नंदिना सोमनंदिना ॥
नैगमेयेन शाखेन विशाखेन बलीयसा
॥६९॥इत्याद्यैस्तु गणैरुग्रैरंधकोप्यंधकीकृतः ॥
त्रिशूल शक्तिबाणौघ धारासंपातपातिभिः
॥७०॥ततः कोलाहलो जातः प्रमथासुरसैन्ययोः ॥
तेन शब्देन महता शुक्रः शंभूदरे स्थितः
॥७१॥छिद्रान्वेषी भ्रमन्सोथ विनिःकेतो यथानिलः ॥
सप्तलोकान् सपालान्स रुद्रदेहे व्यलोकयत्
॥७२॥ब्रह्मनारायणेंद्राणामादित्याप्यरसां तथा ॥
भुवनानि विचित्राणि युद्धं च प्रमथासुरम्
॥७३॥सवर्षाणां शतं कुक्षौ भवस्य परितो भ्रमन् ॥
न तस्य ददृशे रंध्रं शुचे रंध्रं खलो यथा
॥७४॥शांभवेनाथयोगेन शुक्ररूपेण भार्गवः ॥
चस्कंदाथ ननामापि ततो देवेन भाषितः
॥७५॥शुक्रवन्निःसृतोयस्मात्तस्मात्त्वं भृगुनंदन ॥
कर्मणानेन शुक्रस्त्वं मम पुत्रोसि गम्यताम्
॥७६॥जठरान्निर्गते शुक्रे देवोपि मुमुदेतराम् ॥
भ्रमञ्छ्रेयोभवद्यन्मे न मृतो जठरे द्विजः
॥७७॥इत्येवमुक्तो देवेन शुक्रोर्कसदृश द्युतिः ॥
विवेश दानवानीकं मेघमालां यथा शशी
॥७८॥शुक्रोदयान्मुदं लेभे स दानव महार्णवः ॥
यथा चंद्रोदये हर्षमूर्मिमाली महोदधिः
॥७९॥अंधकांधकहंत्रोर्वै वर्तमाने महाहवे ॥
इत्थं नाम्नाभवच्छुक्रः स वै भार्गवनंदनः
॥८०॥यथा च विद्यां तां प्राप मृतसंजीवनीं पराम् ॥
शंभोरनुग्रहात्काव्यस्तन्निशामय सुव्रत
॥८१॥गणावूचतुः
पुराऽसौ भृगुदायादो गत्वा वाराणसीं पुरीम् ॥
अंडजस्वेदजोद्भिज्जजरायुज गतिप्रदाम्
॥८२॥संस्थाप्य लिंगं श्रीशंभोः कूपं कृत्वा तदग्रतः ॥
बहुकालं तपस्तेपे ध्यायन्विश्वेश्वरं प्रभुम्
॥८३॥राजचंपकधत्तूर करवीरकुशेशयैः ॥
मालती कर्णिकारैश्च कदंबैर्बकुलोत्पलैः
॥८४॥मल्लिकाशतपत्रीभिः सिंदुवारैः सकिंशुकैः ॥
अशोकैः करुणैः पुष्पैः पुन्नागैर्नागकेसरैः
॥८५॥क्षुद्राभिर्माधवीभिश्च पाटला बिल्वचंपकैः ॥
नवमल्लीविचिकिलैः कुंदैः समुचुकुंदकैः
॥८६॥मंदारैर्बिल्वपत्रैश्च द्रोणैर्मरुबकैर्बकैः ॥
ग्रंथिपर्णैर्दमनकैः सुरभूचूतपल्लवैः
॥८७॥तुलसी देवगंधारी बृहत्पत्री कुशांकुरैः ॥
नद्यावर्तैरगस्त्यैश्च सशालैर्देवदारुभिः
॥८८॥कांचनारैः कुरबकैर्दूर्वांकुर कुरंटकैः ॥
प्रत्येकमेभिः कुसुमैः पल्लवैरपरैरपि
॥८९॥पत्रैः शतसहस्रैश्च स समानर्च शंकरम् ॥
पंचामृतैर्द्रोणमितैर्लक्षकृत्वः प्रयत्नतः
॥९०॥स्नपयामास देवेशं सुगंधस्नपनैर्बहु ॥
सहस्रकृत्वो देवेशं चंदनैर्यक्षकर्दमैः
॥९१॥समालिलिंप देवेशं सुगंधोद्वर्तनान्यनु ॥
गीतनृत्योपहारैश्च श्रुत्युक्तस्तुतिभिर्बहुः
॥९२॥नाम्नां सहस्रैरन्यैश्च स्तोत्रैस्तुष्टाव शंकरम् ॥
सहस्रं पंचशरदामित्थं शुक्रः समर्चयन्
॥९३॥यदा देवं नालुलोके मनागपि वरोन्मुखम् ॥
तदान्यं नियमं घोरं जग्राहातीवदुःसहम्
॥९४॥प्रक्षाल्य चेतसो त्यंतं चांचल्याख्यं महामलम् ॥
भावनावार्भि रसकृदिंद्रियैः सहितस्य च
॥९५॥निर्मलीकृत्य तच्चेतो रत्नं दत्त्वा पिनाकिने ॥
प्रपपौ कणधूमौघं सहस्रं शरदां कविः
॥९६॥प्रससाद तदा देवो भार्गवाय महात्मने ॥
तस्माल्लिंगाद्विनिर्गत्य सहस्रार्काधिकद्युतिः
॥९७॥उवाच च विरूपाक्षः साक्षाद्दाक्षायणीपतिः ॥
तपोनिधे प्रसन्नोस्मि वरं वरय भार्गव
॥९८॥निशम्येति वचः शंभोरंभोजनयनो द्विजः ॥
उद्यदानंदसंदोह रोमांचांचित विग्रहः
॥९९॥तुष्टावाष्टतनुं तुष्टः प्रफु ल्ल नयनांचलः ॥
मौलावंजलिमाधाय वदञ्जयजयेति च
॥१००॥भार्गव उवाच
त्वं भाभिराभिरभिभूय तमः समस्तमस्तं नयस्यभिमतानि निशाचराणाम् ॥
देदीप्यसे मणेगगनेहिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते
॥१०१॥लोकेतिवेलमतिवेलमहामहोभिर्निर्मासि कौमुदमुदं च समुत्समुद्रम् ॥
विद्राविताखिलतमाः सुतमोहिमांशो पीयूषपूरपरिपूरित तन्नमस्ते
॥२॥त्वं पावने पथि सदागतिरस्युपास्यः कस्त्वां विना भुवनजीवनजीवतीह ॥
स्तब्धप्रभंजन विवर्धित सर्वजंतोसंतोषिताहि कुलसर्वगतन्नमस्ते
॥३॥विश्वैकपावकनतावकपावकैक शक्तेर्ऋतेऽमृतवतामृतदिव्यकार्यम् ॥
प्राणित्यदो जगदहो जगदंतरात्मंस्तत्पावक प्रतिपदं शमदं नमस्ते
॥४॥पानीयरूप परमेश जगत्पवित्र चित्रं विचित्रसुचरित्र करोषि नूनम् ॥
विश्वपवित्रममलं किल विश्वनाथ पानावगाहनत एतदतो नतोस्मि
॥५॥आकाशरूप बहिरंतरुतावकाश दानाद्विकस्वरमिहेश्वर विश्वमैतत् ॥
त्वत्तः सदा सदयसंश्वसिति स्वभावात्संकोचमेति भवतोस्मि नतस्ततस्त्वाम्
॥६॥विश्वंभरात्मक बिभर्ति विभोऽत्रविश्वं को विश्वनाथ भवतोन्य तमस्तमोरे ॥
तत्त्वां विना न शमिनां हिमजाहिभूषस्तव्योऽपरः परपरप्रणतस्ततस्त्वाम्
॥७॥आत्मस्वरूप तव रूप परंपराभिराभिस्ततं हर चराचर रूपमेतत् ॥
सर्वांतरात्मनिलयप्रतिरूपरूपनित्यंनतोस्मि परमात्मतनोऽष्टमूर्ते
॥८॥इत्यष्टमूर्तिभि रिमाभिरुमाभिवंद्यवंद्यातिवंद्य भव विश्वजनीनमूर्ते ॥
एतत्ततं सुविततं प्रणतप्रणीत सर्वाथर्सार्थपरमार्थ ततो नतोस्मि
॥९॥अष्टमूर्त्यष्टकेनेष्टं परिष्टूयेति भार्गवः ॥
भर्गभूमिमिलन्मौलिः प्रणनाम पुनःपुनः
॥११०॥इति स्तुतो महादेवो भार्गवेणातितेजसा ॥
उत्थाप्य भूमेर्बाहुभ्यां धृत्वा तं प्रणतं द्विजम्
॥११॥उवाच दशनज्योत्स्ना प्रद्योतित दिगंतरः ॥
अनेनात्युग्रतपसा ह्यनन्याचरितेन च
॥१२॥लिंगस्थापनपुण्येन लिंगस्याराधनेन च ॥
चित्तरत्नोपहारेण शुचिना निश्चलेन च
॥१३॥अविमुक्त महाक्षेत्रे पवित्राचरणेन च ॥
त्वां सुताभ्यां प्रपश्यामि तवादेयं न किंचन
॥१४॥अनेनैव शरीरेण ममोदरदरीं गतः ॥
मद्वरेंद्रियमार्गेण पुत्र जन्मत्वमेष्यसि
॥५॥अन्यं वरं प्रयच्छामि दुष्प्रापं पार्षदैरपि ॥
हरौ हिरण्यगर्भेपि प्रायशोऽहं जुगोपयाम्
॥१६॥मृतसंजीवनी नाम विद्या या मम निर्मला ॥
तपोबलेन महता मयैव परिनिर्मिता
॥१७॥त्वां तां तु प्रापयाम्यद्य मंत्ररूपां महाशुचे ॥
योग्यता तेऽस्ति विद्यायास्तस्याः शुचितपोनिधे
॥१८॥यंयमुद्दिश्यनियतमेतामावर्तयिष्यसि ॥
विद्यां विद्येश्वरश्रेष्ठ स स प्राणिष्यति धुवम्
॥१९॥अत्यर्कमत्यग्निं(?) च ते तेजो व्योम्न्यतितारकम् ॥
देदीप्यमानं भविता ग्रहाणां प्रवरो भव
॥१२०॥अभि त्वां ये करिष्यंति यात्रां नार्यो नरोपि वा ॥
तेषां त्वदृष्टिपातेन सर्वं कार्यं प्रणंक्ष्यति
॥२१॥तवोदये भविष्यंति विवाहादीनि सुव्रत ॥
सर्वाणि धर्मकार्याणि फलवंति नृणामिह
॥२२॥सर्वाश्च तिथयो मंदास्तव संयोगतः शुभाः ॥
तव भक्ता भविष्यंति बहुशुक्रा बहुप्रजाः
॥२३॥त्वयेदं स्थापितं लिंगं शुक्रेशमिति संज्ञितम् ॥
येऽर्चयिष्यंति मनुजास्तेषां सिद्धिर्भविष्यति
॥२४॥आवर्षं प्रतिशुक्रं ये नक्तव्रतपरा नराः ॥
त्वद्दिने शुक्रकूपे ये कृतसर्वोदकक्रियाः
॥२५॥शुक्रेशमर्चयिष्यंति शृणु तेषां तु यत्फलम् ॥
अवंध्यशुक्रास्ते मर्त्याः पुत्रवंतोऽतिरेतसः
॥२६॥पुंस्त्वसौभाग्यसंपन्ना भविष्यंति न संशयः ॥
व्यपेतविघ्नास्ते सर्वे जनाः स्युः सुखवासिनः ॥
इति दत्त्वा वरान्देवस्तत्र लिंगे लयं ययौ
॥२७॥गणावूचतुः
शुक्रेश्वरस्य ये भक्ताः शुक्रलोके वसंति ते ॥
विश्वेश्वराद्दक्षिणतः शुक्रेशोस्ति परंतप
॥२८॥तस्य दर्शनमात्रेण शुक्रलोके महीयते ॥
इत्येषा शुक्रलोकस्य स्थितिरुक्ता महामते
॥२९॥अगस्त्य उवाच
इत्थं सधर्मिणि कथां शुक्रलोकस्य सुव्रते ॥
शृण्वन्नांगारकं लोकमालुलोकेऽथ स द्विजः
॥१३०॥इति श्रीस्कांदे महापुराणे चतुर्थे काशीखंडे पूर्वार्धे शुक्रलोकवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥