मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ७५

3
काशीखण्डः · 75

श्रुत्वोंकारकथामेतां महापातकनाशिनीम्

अगस्त्य उवाच

श्रुत्वोंकारकथामेतां महापातकनाशिनीम् ॥

न तृप्तोस्मि विशाखाथ ब्रूहि त्रैविष्टपीं कथाम्

॥१॥

कथं च कथिता देव्यै देवदेवेन षण्मुख ॥

आविर्भूतिर्महाबुद्धे पुण्या त्रैलोचनी परा

॥२॥

स्कंद उवाच

आकर्णय मुने वच्मि कथां श्रमनिवारिणीम् ॥

यथा देवेन कथितां त्रिविष्टपसमुद्भवाम्

॥३॥

विरजाख्यं हि तत्पीठं तत्र लिंगं त्रिविष्टपम् ॥

तत्पीठदर्शनादेव विरजा जायते नरः

॥४॥

तिस्रस्तु संगतास्तत्र स्रोतस्विन्यो घटोद्भव ॥

तिस्रः कल्मषहारिण्यो दक्षिणे हि त्रिलोचनात्

॥५॥

स्रोतोमूर्तिधराः साक्षाल्लिंगस्नपनहेतवे ॥

सरस्वत्यथ कालिंदी नर्मदा चातिशर्मदा

॥६॥

तिस्रोपि हि त्रिसंध्यं ताः सरितः कुंभपाणयः ॥

स्नपयंति महाधाम लिंगं त्रैविष्टपं महत्

॥७॥

लिंगानि परितस्ताभिः स्वनाम्नास्थापि तान्यपि ॥

तेषां संदर्शनात्पुंसां तासां स्नानफलं भवेत्

॥८॥

सरस्वतीश्वरं लिंगं दक्षिणेन त्रिविष्टपात् ॥

सारस्वतं पदं दद्याद्दृष्टं स्पृष्टं च जाड्यहृत्

॥९॥

यमुनेशं प्रतीच्यां च नरैर्भक्त्या समर्चितम् ॥

अपि किल्बिषवद्भिश्च यमलोकनिवारणम्

॥१०॥

दृष्टं त्रिलोचनात्प्राच्यां नर्मदेशं सुशर्मदम् ॥

तल्लिंगार्चनतो नृणां गर्भवासो निषिध्यते

॥११॥

स्नात्वा पिलिपिला तीर्थे त्रिविष्टपसमीपतः ॥

दृष्ट्वा त्रिलोचनं लिंगं किं भूयः परिशोचति

॥१२॥

त्रिविष्टपस्य लिंगस्य स्मरणादपि मानवः ॥

त्रिविष्टप पतिर्भूयान्नात्र कार्या विचारणा

॥१३॥

त्रिविष्टपस्य द्रष्टारः स्रष्टारः स्युर्न संशयः ॥

कृतकृत्यास्त एवात्र त एवात्र महाधियः

॥१४॥

आनंदकानने लिंगं प्रणतं यैस्त्रिविष्टपम् ॥

त्रिलोचनस्य नामापि यैः श्रुतं शुद्धबुद्धिभिः

॥१५॥

सप्तजन्मार्जितात्पापात्ते पूता नात्र संशयः ॥

पृथिव्यां यानि लिंगानि तेषु दृष्टेषु यत्फलम्

॥१६॥

तत्स्यात्रिविष्टपे दृष्टे काश्यां मन्ये ततोधिकम् ॥

काश्यां त्रिविष्टपे दृष्टे दृष्टं सर्वं त्रिविष्टपम्

॥१७॥

क्षणान्निर्धूत पापोसौ न पुनर्गर्भभाग्भवेत ॥

स स्नातः सर्वतीर्थेषु सर्वावभृथवान्स च

॥१८॥

यो वै पिलिपिला तीर्थे स्नात्वोत्तरवहांभसि ॥

सरित्त्रयं महापुण्यं यत्र साक्षाद्वसेत्सदा

॥१९॥

तत्र श्राद्धादिकं कृत्वा गयायां किं करिष्यति ॥

स्नात्वा पिलिपिला तीर्थे कृत्वा वै पिंडपातनम्

॥२०॥

दृष्ट्वा त्रिविष्टपं लिंगं कोटितीर्थफलं लभेत् ॥

यदन्यत्रार्जितं पापं तत्काशी दर्शनाद्व्रजेत्

॥२१॥

काश्यां तु यत्कृतं पापं तत्पैशाचपदप्रदम् ॥

प्रमादात्पातकं कृत्वा शंभोरानंदकानने

॥२२॥

दृष्ट्वा त्रिविष्टपं लिंगं तत्पापमपि हास्यति ॥

सर्वस्मिन्नपि भूपृष्ठे श्रेष्ठमानंदकाननम्

॥२३॥

तत्रापि सर्वतीर्थानि ततोप्योंकारभूमिका ॥

ओंकारादपि सल्लिंगान्मोक्षवर्त्म प्रकाशकात्

॥२४॥

अतिश्रेष्ठतरं लिंगं श्रेयोरूपं त्रिलोचनम्

॥२५॥

तेजस्विषु यथा भानुर्दृश्येषु च यथा शशी ॥

तथा लिंगेषु सर्वेषु परं लिंगं त्रिलोचनम्

॥२६॥

त्रिलोचनार्चकानां सा पदवी न दवीयसी ॥

परं निर्वाणपद्माया महासौख्यैकशेवधेः

॥२७॥

सकृत्त्रिलोचनार्चातो यच्छ्रेयः समुपार्ज्यते ॥

न तदा जन्मसंपूंज्य लिंगान्यन्यानि लभ्यते

॥२८॥

काश्यां त्रिलोचनं लिंगं येर्चयंति महाधियः ॥

तेर्च्यास्त्रिभुवनौकोभिर्ममप्रीतिमभीप्सुभिः

॥२९॥

कृत्वापि सर्वसंन्यासं कृत्वा पाशुपतव्रतम् ॥

नियमेभ्यः स्खलित्वापि कुतो बिभ्यति मानवाः

॥३०॥

विद्यमाने महालिंगे महापापौघहारिणि ॥

त्रिविष्टपे पुण्यराशौ मोक्षनिक्षेपसद्मनि

॥३१॥

समभ्यर्च्य महालिंगं सकृदेव त्रिलोचनम् ॥

ऽ मुच्यते कलुषैः सर्वैरपिजन्मशतार्जितैः

॥३२॥

ब्रह्महापि सुरापो वा स्तेयी वा गुरुतल्पगः ॥

तत्संयोग्यपि वा वर्षं महापापी प्रकीर्तितः

॥३३॥

परदाररतश्चापि परहिंसा रतोपि वा ॥

परापवादशीलोपि तथा विस्रंभघातकः ॥

कृतघ्नोपि भ्रूणहापि वृषलीपतिरेव वा ॥

मातापितृगुरुत्यागी वह्निदो गरदोपि वा

॥३५॥

गोघ्नः स्त्रीघ्नोपि शूद्रघ्नः कन्यादूषयितापि च ॥

क्रूरो वा पिशुनो वापि निजधर्मपराङ्मुखः

॥३६॥

निंदको नास्तिको वापि कूटसाक्ष्यप्रवादकः ॥

अभक्ष्यभक्षको वापि तथाऽविक्रेय विक्रयी

॥३७॥

इत्यादि पापशीलोपि मुक्त्वैकं शिवनिंदकम ॥

पापान्निष्कृतिमाप्नोति नत्वा लिंगं त्रिलोचनम्

॥३८॥

शिवनिंदारतो मूढः शिवशास्त्रविनिंदकः ॥

तस्य नो निष्कृतिर्दृष्टा क्वापि शास्त्रेपि केनचित्

॥३९॥

आत्मघाती स विज्ञेयः सदा त्रैलोक्यघातकः ॥

शिवनिंदां विधत्ते यः स नाभाष्योऽधमाधमः

॥४०॥

शिवनिंदारता ये च शिवभक्तजनेष्वपि ॥

ते यांति नरके घोरे यावच्चंद्रदिवाकरौ

॥४१॥

शैवाः पूज्याः प्रयत्नेन काश्या मोक्षमभीप्सुभिः ॥

तेष्वर्चितेष्वपि शिवः प्रीतो भवत्यसंशयः

॥४२॥

सर्वेषामिह पापानां प्रायश्चित्तचिकीर्षया ॥

निःशंकैरेव वक्तव्यं प्रमाणज्ञैरिदं वचः

॥४३॥

पुरश्चरणकामश्चेद्भीतोसि यदि पापतः ॥

मन्यसे यदि नः सत्यं वाक्यशास्त्रप्रमाणतः

॥४४॥

ततः सर्वं परित्यज्य कृत्वा मनसि निश्चयम् ॥

आनंदकाननं याहि यत्र विश्वेश्वरः स्वयम्

॥४५॥

यत्र क्षेत्रप्रविष्टानां नराणां निश्चितात्मनाम् ॥

न बाधतेऽघनिचयः प्राप्येत च परोवृषः

॥४६॥

तत्राद्यापि महातीर्थं त्रिस्रोतस्यतिनिर्मले ॥

पुण्ये पिलिपिलानाम्नि त्रिसरित्परिसेविते

॥४७॥

त्रिलोचनाक्षिविक्षेप परिक्षिप्त महैनसि ॥

स्नात्वा गृह्योक्तविधिना तर्पणीयान्प्रतर्प्य च

॥४८॥

दत्त्वा देयं यथाशक्ति वित्तशाठ्यविवर्जितः ॥

दृष्ट्वा त्रिविष्टपं लिंगं समभ्यर्च्यातिभक्तितः

॥४९॥

गंधाद्यैर्विविधैर्माल्यैः पंचामृतपुरःसरैः ॥

धूपैर्दीपैः सनैवेद्यैर्वासोभिर्बहुभूषणैः

॥५०॥

पूजोपकरणैर्द्रव्यैर्घंटादर्पणचामरैः ॥

चित्रध्वजपताकाभिर्नृत्यवाद्यसुगायनैः

॥५१॥

जपैः प्रदक्षिणाभिश्च नमस्कारैर्मुदायुतैः ॥

परिचारकसंतोषैः कृत्वेति परिपूजनम्

॥५२॥

ब्राह्मणान्वाचयेत्पश्चान्निष्पापोहमिति ब्रुवन् ॥

एवं कुर्वन्नरः प्राज्ञो निरेना जायते क्षणात्

॥५३॥

ततः पंचनदे स्नात्वा मणिकर्णी ह्रदे ततः ॥

ततो विश्वेशमभ्यर्च्य प्राप्नोति सुकृतं महत्

॥५४॥

प्रायश्चित्तमिदं प्रोक्तं महापापविशोधनम् ॥

नास्तिके न प्रवक्तव्यं काशीमाहात्म्य निंदके

॥५५॥

ददच्च द्रव्यलोभेन प्रायश्चित्तमिदं शुभम् ॥

दाता नरकमाप्नोति सत्यंसत्यं घटोद्भव

॥५५॥

क्षमां प्रदक्षिणीकृन्य यत्फलं सम्यगाप्यते ॥

प्रदोषे तत्फलं काश्यां सप्तकृत्वस्त्रिलोचने

॥५७॥

भुजंगमेखलं लिंगं काश्यां दृष्ट्वा त्रिविष्टपम् ॥

जन्मांतरेपि मुक्तः स्यादन्यत्र मरणे सति

॥५८॥

अन्यत्र सर्वलिंगेषु पुण्यकालो विशिष्यते ॥

त्रिविष्टपे पुण्यकालः सदा रात्रिदिवं नृणाम्

॥५९॥

लिंगान्योंकारमुख्यानि सर्वपापप्रकृंत्यलम् ॥

परं त्रैलोचनी शक्तिः काचिदन्यैव पार्वति

॥६०॥

यतः सर्वेषु लिंगेषु लिंगमेतदनुत्तमम् ॥

तत्कारणं शृण्व पर्णे कर्णे कुरु वदाम्यहम्

॥६१॥

पुरा मे योगयुक्तस्य लिंगमेतद्भुवस्तलात् ॥

उद्भिद्य सप्तपातालं निरगात्पुरतो महत्

॥६२॥

अस्मिँल्लिगे पुरा गौरि सुगुप्तं तिष्ठता मया ॥

तुभ्यं नेत्रत्रयं दत्तं निरैक्षिष्ठास्तथोत्तमम्

॥६३॥

तदा प्रभृति देवेशि लिंगमेतत्त्रिलोचनम ॥

विष्टपत्रितयांतस्थैर्गीयते ज्ञानदृष्टिदम्

॥५४॥

त्रिलोचनस्य ये भक्तास्तेपि सर्वे त्रिलोचनाः ॥

मम पारिषदास्ते तु जीवन्मुक्ताऽस्त एव हि

॥६५॥

त्रिलोचनस्य लिंगस्य महिमानं न कश्चन ॥

सम्यग्वेत्ति महेशानि मयैव परिगोपितम्

॥६६॥

शुक्लराधतृतीयायां स्नात्वा पैलिपिले ह्रदे ॥

उपोषणपरा भक्त्या रात्रौ जागरणान्विताः

॥६७॥

त्रिलोचनं पूजयित्वा प्रातः स्नात्वापि तत्र वै ॥

पुनर्लिंगं समभ्यर्च्य दत्त्वा धर्मघटानपि

॥६८॥

सान्नान्सदक्षिणान्देवि पितॄनुद्दिश्य हर्षिताः ॥

विधाय पारणं पश्चाच्छिवभक्तजनैः सह

॥६९॥

विसृज्य पार्थिवं देहं तेन पुण्येन नोदिताः ॥

भवंति देवि नियतं गणा मम पुरोगमाः

॥७०॥

तावद्धमंति संसारे देवा मर्त्या महोरगाः ॥

गौरि यावन्न पश्यंति काश्यां लिंगं त्रिलोचनम्

॥७१॥

सकृत्त्रिविष्टपं दृष्ट्वा स्नात्वा पैलिपिले ह्रदे ॥

न जातुः मातुस्तनपो जायते जंतुरत्र हि

॥७२॥

प्रतिमासं सदाष्टम्यां चतुर्दश्यां च भामिनि ॥

आयांति सर्वतीर्थानि द्रष्टुं देवं त्रिविष्टपम्

॥७३॥

त्रिविष्टपाद्दक्षिणतः स्नातः पैलिपिलेंऽभसि ॥

तत्र संध्यामुपास्यैकां राजसूयफलं लभेत्

॥७४॥

पादोदकाख्यस्तत्रैव कूपः पापविनाशकः ॥

प्राश्य तस्योदकं मर्त्यो न मर्त्यो जायते पुनः

॥७५॥

तस्य लिंगस्य पार्श्वे तु संति लिंगान्यनेकशः ॥

कैवल्यदानि तान्यत्र दर्शनात्स्पर्शनादपि

॥७६॥

तत्र शांतनवं लिंगं गंगातीरे प्रतिष्ठितम् ॥

तद्दृष्ट्वा शांतिमाप्नोति नरः संसारतापितः

॥७७॥

तद्दक्षिणे महालिंगं मुने भीष्मेश संज्ञितम् ॥

कलिः कालश्च कामश्च बाधंते न तदीक्षणात्

॥७८॥

तत्प्रतीच्यां महालिंगं द्रोणेश इति कीर्तितम् ॥

यल्लिंगपूजनाद्द्रोणो ज्योतीरूपं पुनर्दधौ

॥७९॥

अश्वत्थामेश्वरं लिंगं तदग्रे चातिपुण्यदम् ॥

यदर्चनवशाद्द्रौणिर्न बिभेत्यपि कालतः

॥८०॥

द्रोणेशाद्वायु दिग्भागे वालखिल्येश्वरं परम् ॥

तल्लिंगं श्रद्धया दृष्ट्वा सर्वक्रतुफलं लभेत्

॥८१॥

तद्वामे लिंगमालोक्य वाल्मीकेश्वरसंज्ञितम् ॥

तस्य संदर्शनादेव विशोको जायते नरः

॥८२॥

अन्यच्चात्रैव यद्वृत्तं तद्ब्रवीमि घटोद्भव ॥

त्रिविष्टपस्य माहात्म्यं देव्यै देवेन भाषितम्

॥८३॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे पंचसप्ततितमोऽध्यायः ॥ ७५ ॥