मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय २५

3
काशीखण्डः · 25

स्कंदागस्त्यदर्शनम्

व्यास उवाच

शृणु सूत प्रवक्ष्यामि कथां कलशजन्मनः ॥

यामाकर्ण्य नरो भूयाद्विरजा ज्ञानभाजनम्

॥१॥

गिरिं प्रदक्षिणीकृत्य श्रीसंज्ञं कलशोद्भवः ॥

सपत्नीको ददर्शाथ रम्यं स्कंदवनं महत्

॥२॥

सर्वर्तं कुसुमाढ्यं च रसवत्फलपादपम् ॥

सुसेव्य कंदमूलाढ्यं सुवल्कलमहीरुहम्

॥३॥

निवीतश्वापदगणं ससरित्पल्वलावृतम् ॥

स्वच्छ गंभीरकासारं सारं सर्वभुवः परम्

॥४॥

नानापतत्रिसंघुष्टं नानामुनिजनोषितम् ॥

तपःसंकेतनिलयमिवैकं संपदां पदम्

॥५॥

लोहितो नाम तत्रास्ति गिरिः स्वर्णगिरिप्रभः ॥

सुकंदरप्रस्रवणः स्वसानु शिखरप्रभः

॥६॥

कैलासस्यैकशकलं कर्मभूमाविहागतम् ॥

तपस्तप्तुमिव प्रोच्चैर्नानाश्चर्यसमन्वितम्

॥७॥

तत्राद्राक्षीन्मुनिश्रेष्ठोऽगस्त्यः साक्षात्षडाननम् ॥

प्रणम्य दंडवद्भूमौ सपत्नीको महातपाः

॥८॥

तुष्टाव गिरिजासूनुं सूक्तैः श्रुतिसमुद्भवैः ॥

तथा स्वकृतया स्तुत्या प्रबद्ध करसंपुटः

॥९॥

अगस्तिरुवाच

नमोस्तु वृंदारकवृंदवंद्य पादारविंदाय सुधाकराय ॥

षडाननायामितविक्रमाय गौरीहृदानंदसमुद्भवाय

॥१०॥

नमोस्तु तुभ्यं प्रणतार्तिहंत्रे कर्त्रे समस्तस्य मनोरथानाम् ॥

दात्रे रथानां परतारकस्य हंत्रे प्रचंडासुर तारकस्य

॥११॥

अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गुण्याय परात्पराय ॥

अपारपाराय परापराय नमोस्तु तुभ्यं शिखिवाहनाय

॥१२॥

नमोस्तु ते ब्रह्मविदांवराय दिगंबरायांबर संस्थिताय ॥

हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे

॥१३॥

तपःस्वरूपाय तपोधनाय तपःफलानां प्रतिपादकाय ॥

सदा कुमाराय हिमारमारिणे तणीकृतैश्वर्य विरागिणे नमः

॥१४॥

नमोस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदंतपंक्तये ॥

बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय

॥१५॥

मीढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय ॥

नमोस्तु ते जन्मजरातिगाय नमो विशाखाय सुशक्तिपाणये

॥१६॥

सर्वस्य नाथस्य कुमारकाय क्रौंचारये तारकमारकाय ॥

स्वाहेय गांगेय च कार्तिकेय शैवेय तुभ्यं सततं नमोऽस्तु

॥१७॥

इत्थं परिष्टुत्य स कार्तिकेयं नमो नमस्त्वित्यभिभाषमाणः ॥

द्विस्त्रिःपरिक्रम्य पुरो विवेश स्थितो मुनीशोपविशेति चोक्तः

॥१८॥

कार्तिकेय उवाच

क्षेमोस्ति कुंभज मुने त्रिदशैकसहायकृत् ॥

जाने त्वामिह संप्राप्तं तथा विंध्याचलोन्नतिम्

॥१९॥

अविमुक्ते महाक्षेत्रे क्षेमं त्र्यक्षेण रक्षिते ॥

यत्र क्षीणायुषां साक्षाद्विरूपाक्षोऽस्ति मोक्षदः

॥२०॥

भूर्भुवः स्वस्तले वापि न पातालतले मलम् ॥

नोर्ध्वलोके मया दृष्टं तादृक्क्षेत्रं क्वचिन्मुने

॥२१॥

अहमेकचरोप्यत्र तत्क्षेत्रप्राप्तये मुने ॥

तप्ये तपांसिनाद्यापि फलेयुर्मे मनोरथाः

॥२२॥

न तत्पुण्यैर्न तद्दानैर्न तपोभिर्न तज्जपैः ॥

न लभ्यं विविधैर्यज्ञैर्लभ्यमैशादनुग्रहात्

॥२३॥

ईश्वरानुग्रहादेव काशीवासः सुदुर्लभः ॥

सुलभः स्यान्मुने नूनं न वै सुकृतकोटिभिः

॥२४॥

अन्यैव काचित्सा सृष्टिर्विधातुर्याऽतिरेकिणी ॥

न तत्क्षेत्रगुणान्वक्तुमीश्वरोऽपीश्वरो यतः

॥२५॥

अहो मतेः सुदौर्बल्यमहोभाग्यस्य दौर्विधम् ॥

अहो मोहस्य माहात्म्यं यत्काशीह न सेव्यते

॥२६॥

शरीरं जीर्यते नित्यं संजीर्यंतींद्रियाण्यपि ॥

आयुर्मृगो मृगयुना कृतलक्ष्यो हि मृत्युना

॥२७॥

सापदं संपदं ज्ञात्वा सापायं कायमुच्चकैः ॥

चपला चपलं चायुर्मत्वा काशीं समाश्रयेत्

॥२८॥

यावन्नैत्यायुषश्चांतस्तावत्काशी न मुच्यते ॥

कालः कलालवस्यापि संख्यातुं नैव विस्मरेत्

॥२९॥

जरानिकटनिक्षिप्ता बाधंते व्याधयो भृशम् ॥

तथापि देहो नानेहो नाहो काशीं समीहते

॥३०॥

तीर्थस्नानेन जप्येन परोपकरणोक्तिभिः ॥

विनार्थं लभ्यते धर्मो धर्मादर्थः स्वयं भवेत्

॥३१॥

विनैवार्थार्जनोपायं धर्मादर्थो भवेद्ध्रुवम् ॥

अतोऽर्थचिंतामुत्सृज्य धर्ममेकं समाश्रयेत्

॥३२॥

धर्मादर्थोऽर्थतः कामः कामात्सर्वसुखोदयः ॥

स्वर्गोपि सुलभो धर्मात्काश्ये का दुर्लभा परम्

॥३३॥

उपायत्रयमेवात्र स्थाणुर्निर्वाणकारणम् ॥

शर्वाण्यग्रेव भाणाद्धा परिनिर्णीय सर्वतः

॥३४॥

पूर्वं पाशुपतो योगस्ततस्तीर्थं सितासितम् ॥

ततोप्येकमनायासमविमुक्तं विमुक्तिदम्

॥३५॥

श्रीशैल हिमशैलाद्या नानान्यायतनानि च ॥

त्रिदंडधारणंचापि संन्यासः सर्वकर्मणाम्

॥३६॥

तपांसि नानारूपाणि व्रतानि नियमा यमाः ॥

सिंधूनामपि संभेदा अरण्यानि बहून्यपि

॥३७॥

मानसान्यपि भौमानि धारातीर्थादिकानि च ॥

ऊषराश्चापि पीठानि ह्यच्छिन्नाम्नायपाठनम्

॥३८॥

जपश्चापि मनूनां च तथाऽग्निहवनानि च ॥

दानानि नानाक्रतवो देवतोपासनानि च

॥३९॥

त्रिरात्रं पंचरात्राणि सांख्ययोगादयस्तथा ॥

विष्णोराराधनं श्रेष्ठं मुक्तयेऽभिहितं किल

॥४०॥

पुर्यश्चापि समाख्यातानृतजंतु विमुक्तिदा ॥

कैवल्यसाधनानीह भवंत्येव विनिश्चितम्

॥४१॥

एतानि यानि प्रोक्तानि काशीप्राप्तिकराणि च ॥

प्राप्य काशीं भवेन्मुक्तो जंतुर्नान्यत्रकुत्रचित्

॥४२॥

अतएव हि तत्क्षेत्रं पवित्रमतिचित्रकृत् ॥

विश्वेशितुः प्रियनित्यं विष्वग्ब्रह्माण्डमंडले

॥४३॥

इदमेव हि तत्क्षेत्रं कुशलप्रश्नकारणम् ॥

एह्येहि देहि मे स्पर्शं निजगात्रस्य सुव्रत

॥४४॥

अपि काश्याः समागच्छत्स्पर्शवत्स्पर्श इष्यते ॥

मयात्र तिष्ठता नित्यं किंतु त्वं तत आगतः

॥४५८॥

त्रिरात्रमपिये काश्यां वसंति नियतेंद्रियाः ॥

तेषां पुनंति नियतं स्पृष्टाश्चरणरेणवः

॥४६॥

त्वं तु तत्र कृतावासः कृतपुण्यमहोच्चयः ॥

उत्तरप्रवहा स्नान जातपिंगलमूर्धजः

॥४७॥

तव तत्र तु यत्कुंडमगस्तीश्वरसन्निधौ ॥

तत्र स्नात्वा च पीत्वा च कृतसर्वोदकक्रियः

॥४८॥

पितॄन्पिंडैः समभ्यर्च्य श्रद्धाश्राद्धविधानतः ॥

कृत्यकृत्यो भवेज्जंतुर्वाराणस्याः फलं लभेत्

॥४९॥

इत्युक्त्वा सर्वगात्राणि स्पष्ट्वा कुंभोद्भवस्य च ॥

स्कंदोऽमृतसरोवारि विगाह्य सुखमाप्तवान्

॥५०॥

जय विश्वेश नेत्राणि विनिमील्य वदन्नपि ॥

ततः किंचित्क्षणं दध्यौ गुहः स्थाणुसुनिश्चलः

॥५१॥

स्कंदे विसर्जितध्याने सुप्रसन्नमनोमुखे ॥

प्रतीक्ष्य वागवसरं पप्रच्छाथ मुनिर्गुहम्

॥५२॥

अगस्तिरुवाच

स्वामिन्यथा भगवता भगवत्यै पुराऽकथि ॥

वाराणस्यास्तु महिमा हिमशैलभुवे मुदा

॥५३॥

त्वया यथा समाकर्णि तदुत्संगनिवासिना ॥

तथा कथय षड्वक्त्र तत्क्षेत्रं मेऽतिरोचते

॥५४॥

स्कंद उवाच

शृणुष्व मैत्रावरुणे यथा भगवताऽकथि ॥

तत्क्षेत्रस्याविमुक्तस्य मम मातुः पुरः पुरा

॥५५॥

श्रुतं च यत्तदुत्संगे स्थितेन स्थिरचेतसा ॥

माहात्म्यं तच्छृणु मुने कथ्यमानं मयाऽनघ

॥५६॥

गुह्यानां परमं गुह्यमविमुक्तमिहेरितम् ॥

तत्र संनिहिता सिद्धिस्तत्र नित्यं स्थितो विभुः

॥५७॥

भूर्लोके नैव संलग्नं तत्क्षेत्रं त्वंतरिक्षगम् ॥

अयोगिनो न वीक्षंते पश्यंत्येव च योगिनः

॥५८॥

यस्तत्र निवसेद्विप्र संयतात्मा समाहितः ॥

त्रिकालमपि भुंजानो वायुभक्षसमो भवेत्

॥५९॥

निमेषमात्रमपि यो ह्यविमुक्तेऽतिभक्तिभाक् ॥

ब्रह्मचर्यसमायुक्तं तेन तप्तं महत्तपः

॥६०॥

यस्तु मासं वसेद्धीरो लघ्वाहारो जितेंद्रियः ॥

सर्वं तेन व्रतं चीर्णं दिव्यं पाशुपतं भवेत्

॥६१॥

संवत्सरं वसंस्तत्र जितक्रोधो जितेंद्रियः ॥

अपरस्वविपुष्टांगः परान्नपरिवर्जकः

॥६२॥

परापवादरहितः किंचिद्दानपरायणः ॥

समाः सहस्रमन्यत्र तेन तप्तं महत्तपः

॥६३॥

यावज्जीवं वसेद्यस्तु क्षेत्रमाहात्म्यविन्नरः ॥

जन्ममृत्यु भयं हित्वा स याति परमां गतिम्

॥६४॥

न योगैर्या गतिर्लभ्या जन्मांतरशतैरपि ॥

अन्यत्रहेलया साऽत्र लभ्येशस्य प्रसादतः

॥६५॥

ब्रह्महा योऽभिगच्छेद्वै दैवाद्वाराणसीं पुरीम् ॥

तस्य क्षेत्रस्य माहात्म्याद्ब्रह्महत्या निवर्तते

॥६६॥

आदेहपतनं यावद्योविमुक्तं न मुंचति ॥

न केवलं ब्रह्महत्या प्रकृतिश्च निवर्तते

॥६७॥

अनन्यमानसो भूत्वा तत्क्षेत्रं यो न मुंचति ॥

स मुंचति जरामृत्युं गर्भवासं सुदुःसहम्

॥६८॥

अविमुक्तं निषेवेत देवर्षिगणसेवितम् ॥

यदीच्छेन्मानवो धीमान्न पुनर्जननं भुवि

॥६९॥

अविमुक्तं न मुंचेत संसारभयमोचनम् ॥

प्राप्य विश्वेश्वरं देवं न स भूयोऽभिजायते

॥७०॥

कृत्वा पापसह्स्राणि पिशाचत्वं वरंत्विह ॥

न तु क्रतुशतप्राप्यः स्वर्गः काशीपुरीं विना

॥७१॥

अंतकाले मनुष्याणां भिद्यमानेषु मर्मसु ॥

वातेनातुद्यमानानां स्मृतिर्नैवोपजायते

॥७२॥

तत्रोत्क्रमणकाले तु साक्षाद्विश्वेश्वरः स्वयम् ॥

व्याचष्टे तारकं ब्रह्म येनासौ तन्मयो भवेत्

॥७३॥

अशाश्वतमिदं ज्ञात्वा मानुष्यं बहुकिल्बिषम् ॥

अविमुक्तं निषेवेत संसारभयनाशनम् ॥

विघ्रैरालोड्यमानोपि योऽविमुक्तं न मुंचति ॥

नैःश्रेयसी श्रियं प्राप्य दुःखांतं सोधिगच्छति

॥७५॥

महापापौघशमनीं पुण्योपचयकारिणीम् ॥

भुक्तिमुक्तिप्रदामंते को न काशीं सुधीः श्रयेत्

॥७६॥

एवं ज्ञात्वा तु मेधावी नाविमुक्तं त्यजेन्नरः ॥

अविमुक्तप्रसादेन विमुक्तो जायते यतः

॥७७॥

अविमुक्तस्य माहात्म्यं षड्भिर्वक्त्रैः कथं मया ॥

वक्तुं शक्यं न शक्नोति सहस्रास्योपि यत्परम्

॥७८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे स्कंदागस्त्यदर्शनं नाम पंचविशतितमोऽध्यायः ॥ २५ ॥