मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ५०

3
काशीखण्डः · 50

गरुडेशयोर्वर्णनम्

स्कंद उवाच

वाराणस्यां तथादित्या ये चान्ये तान्वदाम्यतः ॥

कलशोद्भव ते प्रीत्या सर्वे सर्वाघनाशनाः

॥१॥

खखोल्को नाम भगवानादित्य परिकीर्तितः ॥

त्रिविष्टपोत्तरे भागे सर्वव्याधिविघातकृत्

॥२॥

यथा खखोल्क इत्याख्या तस्यादित्यस्य तच्छृणु ॥

पुरा कद्रूश्च विनता दक्षस्य तनये शुभे

॥३॥

कश्यपस्य च ते पत्न्यौ मारीचेः प्राक्प्रजापतेः ॥

क्रीडंत्यावेकदान्योन्यं मुने ते ऊचतुस्त्विति

॥४॥

कद्रूरुवाच

विनते त्वं विजानासि यदि तद्ब्रूहि मेग्रतः ॥

अखंडिता गतिस्तेस्ति यतो गगनमंडले

॥५॥

योसावुच्चैःश्रवा वाजी श्रूयते सवितूरथे ॥

किं रूपःसोस्ति शबलो धवलो वा वदाशु मे

॥६॥

पणं च कुरु कल्याणि तुभ्यं यो रोचतेनघे ॥

एवमेव न यात्येष कालक्रीडनकं विना

॥७॥

विनतोवाच

किं पणेन भगिन्यत्र कथयाम्येवमेव हि ॥

त्वज्जये का च मे प्रीतिर्मज्जये किं नु ते सुखम्

॥८॥

ज्ञात्वा पणो न कर्तव्यो मिथः स्नेहमभीप्सता ॥

ध्रुवमेकस्य विजये क्रोधोन्स्येह जायते

॥९॥

कद्रूरुवाच

क्रीडेयं नात्र भगिनि कारणं किमपि क्रुधः ॥

खेलस्य व्यवहारोयं पणे यत्किंचिदुच्यते

॥१०॥

विनतोवाच

तथा कुरु यथा प्रीतिस्तवास्ति पवनाशिनि ॥

अथ तां विनतामाह कद्रूः कुटिलमानसा

॥११॥

तस्यास्तु सा भवेद्दासी पराजीयेत या यया ॥

अस्मिन्पणे इमाः सर्वाः सख्यः साक्षिण्य एव नौ

॥१२॥

इत्यन्योन्यं पणीकृत्य सर्पिण्यपि पतत्त्रिणी ॥

उवाच कर्बुरं कद्रूरश्वं श्वेतं गरुत्मती

॥१३॥

कदागंतव्यमिति च चक्राते ते गमावधिम् ॥

जग्मतुश्च विरम्याथ क्रीडनात्स्वस्वमालयम्

॥१४॥

विनतायां गतायां तु कद्रूराहूय चांगजान् ॥

उवाच यात वै पुत्रा द्रुतं वचनतो मम

॥१५॥

तुरंगमुच्चैःश्रवसं प्रोद्भूतं क्षीरनीरधेः ॥

सुरासुरैर्मथ्यमानान्मंदराघातसाध्वसात्

॥१६॥

कार्यकारणरूपस्य सादृश्यमधिगच्छति ॥

अतस्तं क्षीरवर्णाभं कल्माषयत पुत्रकाः

॥१७॥

तस्य वालधिमध्यास्य कृष्णकुंतलतां गताः ॥

तथा तदंगलोमानि विधत्तविषसीत्कृतैः

॥१८॥

इति श्रुत्वा वचो मातुः काद्रवेयाः परस्परम् ॥

संमंत्र्य मातरं प्रोचुः कद्रूं कद्रूपमागताः

॥१९॥

नागा ऊचुः

मातर्वयं त्वदाह्वानाद्विहाय क्रीडनं बलात् ॥

प्राप्ताः प्रहृष्टा मृष्टान्नं दास्यत्यद्य प्रसूरिति

॥२०॥

मृष्टं तिष्ठतु तद्दूरं विषादप्यधिकं कटु ॥

तत्त्वया वादियन्मंत्रैरौषधैर्नोपशाम्यति

॥२१॥

वयं न यामो यद्भाव्यं तदस्माकं भवत्विह ॥

इति प्रोक्तं विषास्यैस्तैस्तदा कुटिलगामिभिः

॥२२॥

स्कंद उवाच

अन्येपि ये कुटिलगाः पररंध्रनिषेविणः ॥

अकर्णाः कूरहृदयाः पितरौ व्रीडयंति ते

॥२३॥

पित्रोर्गिरं निराकृत्य ये तिष्ठेयुः सुदुर्मदाः ॥

अत्याहितमिह प्राप्य गच्छेयुस्तेऽचिराल्लयम्

॥२४॥

तेषां वचनमाकर्ण्य नयाम इति सोरगी ॥

शशाप तान्क्रुधाविष्टा नागांश्चागः समागतान्

॥२५॥

तार्क्ष्यस्य भक्ष्या भवत यूयं मद्वाक्यलंघनात् ॥

जातमात्राश्च सर्पिण्यो भक्षयंतु स्वबालकान्

॥२६॥

इति शापानलाद्भीतैः कैश्चित्पातालमाश्रितम् ॥

जिजीविषुभिरन्यैश्च द्वित्रैश्चक्रे प्रसूवचः

॥२७॥

ते पुच्छमौच्चैःश्रवसमधिगम्य महाधियः ॥

सुनीलचिकुराभासं चक्रुरंगं च कर्बुरम्

॥२८॥

तत्क्ष्वेडानल धूमौघैः फूत्कारभरनिःसृतैः ॥

मातृवाक्कृतिजाद्धर्मान्न दग्धा भानुभानुभिः

॥२९॥

विनतापृष्ठमारुह्य कद्रूः स्नेहवशात्ततः ॥

वियन्मार्गमलंकृत्य ददर्शोष्णांशुमंडलम्

॥३०॥

तिग्मरश्मिप्रभावेण व्याकुलीभूतमानसा ॥

कद्रुस्ततः खगीं प्राह विस्रब्धं विनते व्रज

॥३१॥

उष्णगोरुष्णगोभिर्मे ताप्यते नितरां तनुः ॥

विस्रब्धाहं स्वभावेन त्वं सापेक्षाहि सर्वतः

॥३२॥

स्वरूपेण पतंगी त्वं पतंगोसौ सहस्रगुः ॥

अतएव न ते बाधा गगने तापसंभवा

॥३३॥

वियत्सरसि हंसोयं भवती हंसगामिनी ॥

चंडरश्मिप्रतापाग्निस्त्वामतो नेह बाधते

॥३४॥

खगीमुद्गीयमानां खे पुनरूचे बिलेशया ॥

त्राहित्राहि भगिन्यत्र यावोन्यत्र वियत्पथः

॥३५॥

विनते विनतां मां त्वं किं नावसि पतत्त्रिणी ॥

तव दासी भविष्यामि त्वदुच्छिष्टनिषेविणी

॥३६॥

यावज्जीवमहं भूयां त्वत्पादोदकपायिनी ॥

खखोल्कानि पतेदेषा भृशगद्गदभाषिणी

॥३७॥

मूर्च्छां गतवती पक्षपुटौ धृत्वा बिडोरगी ॥

सख्युल्कानि पतेदेषा वक्तव्ये त्विति संभ्रमात्

॥३८॥

खखोल्केति यदुक्ता गीः कद्र्वा संभ्रातचेतसा ॥

तदा खखोल्कनामार्कः स्तुतो विनतया बहु

॥३९॥

मनागतिग्मतां प्राप्ते खे प्रयाति विवस्वति ॥

ताभ्यां तुरंगमो दर्शि किंचित्किर्मीरवान्रथे

॥४०॥

उक्ता विनतयैवैषा तापोपहतलोचना ॥

क्रूरा सरीसृपी सत्यवादिन्या विश्वमान्यया

॥४१॥

कद्रु त्वया जितं भद्रे यत उच्चैःश्रवा हयः ॥

चंद्ररश्मिप्रभोप्येष कल्माष इव भासते

॥४२॥

विधिर्बलीयान्भुजगि चित्रं जयपराजये ॥

क्रूरोपि विजयी क्वापि त्वक्रूरोपि पराजयी

॥४३॥

विनताविनताधारा वदंतीति यथागतम् ॥

कद्रूनिवेशनं प्राप्ता तस्या दास्यमचीकरत्

॥४४॥

कदाचिद्विनतादर्शि सुपर्णनाश्रुलोचना ॥

विच्छाया मलिना दीना दीर्घनिःश्वासवत्यपि

॥४५॥

सुपर्ण उवाच

प्रातःप्रातरहो मातः क्व यासि त्वं दिनेदिने ॥

सायमायासि च कुतो विच्छाया दीनमानसा

॥४६॥

कुतो निःश्वसिसि प्रोच्चैरश्रुपूर्ण विलोचना ॥

यथा क्लीबसुता योषिद्यथापति तिरस्कृता

॥४७॥

ब्रूहि मातर्झटित्यद्य कुतो दूनासि पत्त्रिणि ॥

मयि जीवति ते बाले कालेपि कृतसाध्वसे

॥४८॥

अश्रुनिर्माणकरणे कारणं किं तपस्विनि ॥

सुचरित्रा सुनारीषु नामंगलमिहेष्यते

॥४९॥

धिक्तांश्च पुत्रान्यन्माता तेषु जीवत्सु दुःखभाक् ॥

वरं वंध्यैव सा यस्याः सुता वंध्यमनोरथाः

॥५०॥

इत्यूर्जस्वलमाकर्ण्य वचः सूनोर्गरुत्मतः ॥

विनता प्राह तं पुत्रं मातृभक्तिसमन्वितम्

॥५१॥

अहं दास्यस्मि रे बाल कद्र्वाश्च क्रूरचेतसः ॥

पृष्ठे वहामि तां नित्यं तत्पुत्रानपि पुत्रक

॥५२॥

कदाचिन्मंदरं यामि कदाचिन्मलयाचलम् ॥

कदाचिदंतरीपेषु चरेयं तदुदन्वताम्

॥५३॥

यत्रयत्र नयेयुस्ते काद्रवेयाः सुदुर्मदाः ॥

व्रजेयं तत्रतत्राहं तदधीना यतः सुत

॥५४॥

गरुड उवाच

दासीत्वकारणं मातः किं ते जातं सुलक्षणे ॥

दक्षप्रजापतेः पुत्रि कश्यपस्यप्रियेऽनघे

॥५५॥

विनतोवाच गरुडं पुरावृत्तमशेषतः ॥

दासीत्वकारणं यद्वदादित्याश्वविलोकनम्

॥५६॥

श्रुत्वेति गरुडः प्राह मातरं सत्वरं व्रज ॥

पृच्छाद्य मातस्तान्दुष्टान्काद्रवेयानिदं वचः

॥५७॥

यद्दुर्लभं हि भवतां यत्रात्यंतरुचिश्च वः ॥

मद्दासीत्वविमोक्षाय तद्याचध्वं ददाम्यहम्

॥५८॥

तथाकरोच्च विनता तेपि श्रुत्वा तदीरितम् ॥

सर्पाः संमंत्र्य तां प्रोचुर्विनतां हृष्टमानसाः

॥५९॥

मातृशापविमोक्षाय यदि दास्यति नः सुधाम् ॥

तदा समीहितं तेस्तु न दास्यत्यथ दास्यसि

॥६०॥

इत्योंकृत्य समापृच्छ्य कद्रूं द्रुतगतिः खगी ॥

गरुत्मंतं समाचष्ट दृष्ट्वा संहृष्टमानसम्

॥६१॥

नागांतकस्ततः प्राह मातरं चिंतयातुराम् ॥

आनीतं विद्धि पीयूषं मातर्मे देहि भोजनम्

॥६२॥

विनता प्राह तं पुत्रं संप्रहृष्टतनूरुहा ॥

भोः सुपर्णार्णवं तूर्णं याहि मंगलमस्तु ते

॥६३॥

संति तत्रापि बहुशो निषादा मत्स्यघातिनः ॥

वेलातटनिवासाश्च तान्भक्षय दुरात्मनः

॥६४॥

परप्राणैर्निजप्राणान्ये पुष्णंतीह दुर्धियः ॥

शासनीयाः प्रयत्नेन श्रेयस्तच्छासनं परम्

॥६५॥

बहुहिंसाकृतां हिंसा भवेत्स्वर्गस्य साधनम् ॥

विहिंसितेषु दुष्टेषु रक्ष्यते भूरिशो यतः

॥६६॥

निषादेष्वपि चेद्विप्रः कश्चिद्भवति पुत्रक ॥

संरक्षणीयो यत्नेन भक्षणीयो न कर्हिचित्

॥६७॥

गरुड उवाच

मत्स्यादिनां वसन्मध्ये कथं ज्ञेयो द्विजो मया ॥

अभक्ष्यो यस्त्वया प्रोक्तस्तच्चिह्नं किं चनात्थ मे

॥६८॥

विनतोवाच

यज्ञसूत्रं गले यस्य सोत्तरीयं सुनिर्मलम् ॥

नित्यधौतानि वासांसि भालं तिलक लांछितम्

॥६९॥

सपवित्रौ करौ यस्य यन्नीवी कुशगर्भिणी ॥

यन्मौलिः सशिखाग्रंथिः स ज्ञेयो ब्राह्मणस्त्वया

॥७०॥

उच्चरेदृग्यजुःसाम्नामृचमेकामपीह यः ॥

गायत्रीमात्रमंत्रोपि स विज्ञेयो द्विजस्त्वया

॥७१॥

गरुड उवाच

मध्ये सदा निषादानां यो वसेज्जननि द्विजः ॥

तस्यैतेष्वेकमप्येव न मन्ये लक्ष्मबोधकम्

॥७२॥

लक्ष्मांतरं समाचक्ष्व द्विजबोधकरं प्रसूः ॥

येन विज्ञाय तं विप्रं त्यजेयमपि कंठगम्

॥७३॥

तच्छ्रुत्वा विनता प्राह यस्ते कंठगतोंऽगज ॥

खदिरांगारवद्दह्यात्तमपाकुरु दूरतः

॥७४॥

द्विजमात्रेपि या हिंसा सा हिंसा कुशलाय न ॥

देशं वंशं श्रियं स्वं च निर्मूलयति कालतः

॥७५॥

निशम्य काश्यपिरितिप्रसूपादौप्रणम्य च ॥

गृहीताशीर्ययौ शीघ्रं खमार्गेण खगेश्वरः

॥७६॥

दूरादालोकयांचक्रे निषादान्मत्स्यजीविनः ॥

पक्षौ विधूय पक्षींद्रो रजसापूर्य रोदसी

॥७७॥

अंधीकृत्य दिशोभागानब्धिरोधस्युपाविशत् ॥

व्यादाय वदनं घोरं महाकंदरसन्निभम्

॥७८॥

कांदिशीका निषादास्तु विविशुस्तत्र च स्वयम् ॥

मन्वानेष्वथ पंथानं तेषु कंठं विशत्स्वपि

॥७९॥

जज्वालेंगलसंस्पर्शो द्विजस्तत्कंठकंदलीम् ॥

प्राक्प्रविष्टानथो तार्क्ष्यो निषादानौदरीं दरीम्

॥८०॥

प्रवेश्य कंठतालुस्थं तं विज्ञाय द्विजस्फुटम् ॥

भयादुदगिरत्तूर्णं मातृवाक्येन यंत्रितः

॥८१॥

तमुद्गीर्णं नरं दृष्ट्वा पक्षिराट्समभाषत ॥

कस्त्वं जात्यासि निगद मम कंठविदाहकृत्

॥८२॥

स तदाहेति विप्रोहं पृष्टः सन्गरुडाग्रतः ॥

वसाम्येषु निषादेषु जातिमात्रोपजीवकः

॥८३॥

तं प्रेष्य गरुडो दूरं भक्षयित्वाथ भूरिशः ॥

नभो विक्षोभयांचक्रे प्रलयानिल सन्निभः

॥८४॥

तं दृष्ट्वा तिग्मतेजस्कं ज्वालाततदिगंतरम् ॥

ज्वलद्दावानलं शैलमिव बिभ्युर्दिवौकसः

॥८५॥

ते सन्नह्यंत युद्धाय सज्जीकृत बलायुधाः ॥

अध्यास्य वाहनान्याशु सर्वे वर्मभृतः सुराः

॥८६॥

तिर्यग्गतीरविर्नायं नायमग्निः सधूमवान् ॥

क्षणप्रभाप्यसौ नैव को नः सम्मुख एत्यसौ

॥८७॥

न दैत्येषु प्रभेदृक्स्यान्नाकृतिर्दानवेष्वियम् ॥

महासाध्वसदः कोयमस्माकं हृत्प्रकंपनः

॥८८॥

यावत्संभावयंतीति नीतिज्ञा अपि निर्जराः ॥

तावद्दुधाव स्वौ पक्षौ पक्षिराजो महाबलः

॥८९॥

निपेतुः पक्षवातेन सायुधाश्च सवाहनाः ॥

न ज्ञायंते क्व संप्राप्ता वात्यया पार्णतार्णवत्

॥९०॥

अथ तेषु प्रणष्टेषु बुद्ध्या विज्ञाय पक्षिराट् ॥

कोशागारं सुधायाः स तत्रापश्यच्च रक्षिणः

॥९१॥

शस्त्रास्त्रोद्यतपाणींस्तान्सुरानाधूय सर्वशः ॥

ददर्श कर्तरीयंत्रममृतोपरिसंस्थितम्

॥९२॥

मनःपवनवेगेन भ्रममाणं महारयम् ॥

अपिस्पृशंतं मशकं यत्खंडयति कोटिशः

॥९३॥

उपोपविश्य पक्षींद्रस्तस्य यंत्रस्य निर्भयः ॥

क्षणं विचारयामास किमत्र करवाण्यहो

॥९४॥

स्प्रष्टुं न लभ्यते चैतद्वात्या न प्रभवेदिह ॥

क उपायोत्र कर्तव्यो वृथा जातो ममोद्यमः

॥९५॥

न बलं प्रभवेदत्र न किंचिदपि पौरुषम् ॥

अहो प्रयत्नो देवानामेतत्पीयूषरक्षणे

॥९६॥

यदि मे शंकरे भक्तिर्निर्द्वंद्वातीव निश्चला ॥

तदा स देवदेवो मां वियुनक्तु महाऽधिया

॥९७॥

यद्यहं मातृभक्तोस्मि स्वामिनः शंकरादपि ॥

तदा मे बुद्धिरत्रास्तु पीयूषहरणं क्षमा

॥९८॥

आत्मार्थं नोद्यमश्चायं हृत्स्थो वेत्तीति विश्वगः ॥

मातुर्दास्यविमोक्षाय यतेहममृतं प्रति

॥९९॥

जरितौ पितरौ यस्य बालापत्यश्च यः पुमान् ॥

साध्वी भार्या च तत्पुष्ट्यै दोषोऽकृत्येपि तस्य न

॥१००॥

इति चिंतयतस्तस्य बुद्धिरासीन्महात्मनः

॥१॥

देहं चकार सोत्यंतमणीयांसमणोरपि ॥

परमाणुसहस्रांशं कृत्वा रूपं महाद्भुतम्

॥२॥

प्रविश्य कर्तरीयंत्रमधोदेहस्य लाघवात् ॥

बिभ्यत्तद्यंत्रतो देहं वंचयन्वायुखंडनात् ॥

मूलमुत्पाट्य तरसा गृहीत्वाऽमृतभाजनम्

॥३॥

निर्ययौ पावने मार्गे क्रोशत्सु स्वर्गसद्मसु

॥४॥

तथा वैकुंठनाथं ते गत्वा प्रोचुः सुधाभुजः ॥

निर्जित्य नीयते चक्रिन्सुधा नो जीवितं परम्

॥५॥

इत्याकर्ण्य हरिस्तेभ्योऽभयं दत्त्वा त्वरायुतः ॥

कृत्वा युद्धं च सुमहद्विंशार्कघटिकाद्वयम्

॥६॥

शुंभदेव्योर्यथासूत गरुडस्तत्र चाधिकः ॥

तदा प्रसन्नो भगवान्महायुद्धेन सर्वदः

॥७॥

गत्वा गरुडमाहेदं प्रसन्नोस्मि खगेश्वर ॥

वरं वृणीहि भद्रं ते जितवृंदारवृंदक

॥८॥

हसित्वा गरुडः प्राह विश्वरूपं जनार्दनम् ॥

अहमेव प्रसन्नोस्मि त्वं प्रार्थय वरद्वयम्

॥९॥

ततः कैटभजित्प्राह वैनतेयं मुदान्वितः ॥

वृतंवृतं महोदार देहिदेहि वरद्वयम्

॥११०॥

इति विष्णूदितं श्रुत्वा प्रहसन्नाह पक्षिराट् ॥

किं विलंबेन तद्ब्रूहि दत्तं दत्तं वरद्वयम्

॥११॥

अलब्धलाभे संजाते द्यूतादि विजयोदये ॥

दातव्यं सुधियापात्रे सदा लाभजयौ क्व वा

॥१२॥

श्रीविष्णुरुवाच

बलवानसि पक्षींद्र तन्मे वाहनतां व्रज ॥

एको वरोयं वरद द्वितीयं शृणु काश्यप

॥१३॥

दर्शयित्वामृतं प्राज्ञ मातृदास्यविमोक्षकम् ॥

द्विजिह्वेभ्यः कुरु तथा द्रागश्नंति न ते यथा

॥१४॥

देया सुधा सुधाभुग्भ्यो द्वितीयोस्तु वरो मम ॥

तथेति स प्रतिज्ञाय निर्ययौ पक्षिराड्दिवः

॥१५॥

स मातरं विनिर्मोच्य दास्यात्काश्यपनंदनः ॥

नागानां पुरतो धृत्वा महामृतकमंडलुम्

॥१६॥

अमृतं पातुकामांस्तानित्याचष्ट महामतिः ॥

नागाः शुचित्वमासाद्य भोक्तव्यैषा सुधा शुभा

॥१७॥

नोचेदशुचिभिः स्पृष्टा स्नानादि परिवर्जितैः ॥

यास्यत्यदृश्यतामेषा सुधाऽनिमिषरक्षिता

॥१८॥

सामान्यमपि यद्रक्ष्यं स्पृश्यतेऽशुचिभिः क्वचित् ॥

हरंति तद्रसं देवास्तच्च तिष्ठति नीरसम्

॥१९॥

इत्युक्त्वा सहितो मात्रा वैनतेयो विनिर्ययौ ॥

कुशासने च तैरुक्तो धृत्वा पीयूषभाजनम्

॥१२०॥

यावत्स्नातुं गताः सर्पास्तावत्पीयूषभाजनम् ॥

आदाय विष्णुना दत्तं देवेभ्य इव जीवितम्

॥२१॥

आगत्य भुजगाः स्नात्वा न दृष्ट्वामृतभाजनम् ॥

अहो प्रतारिता नीतममृतं चेति चुक्रुशुः

॥२२॥

ततः पर्यलिहन्दर्भान्पीयूषस्पर्शकांक्षिणः ॥

आस्तां तावत्सुधा दूरं जिह्वास्तेषां द्विधाभवन्

॥२३॥

अन्येप्यन्यायलब्धार्थं ये बुभुक्षंति केवलम् ॥

तन्नो परिणतिं गच्छेद्भोक्तुं वातैर्न लभ्यते

॥२४॥

न्यायाध्वस्थेन तार्क्ष्येण सुधा प्राप्तातिदुर्लभा ॥

लब्धाप्यन्यायतो नागैर्दृष्टमात्रा क्षणाद्गता

॥२५॥

अथ दास्याद्विनिर्मुक्ता विनतोवाच खेचरम् ॥

पुत्र काशीं प्रयास्यामि दास्यपापापनुत्तये

॥२६॥

तावत्पापानि जृंभंते नानाजन्मार्जितान्यपि ॥

यावत्काशी न हृत्संस्था पुनर्भवविघातिनी

॥२७॥

काशीस्मरणमात्रेण किं चित्रं यदघं व्रजेत् ॥

गर्भवासोपि नश्येत विश्वेशानुग्रहात्परात्

॥२८॥

यत्र विश्वेश्वरः साक्षात्तारापतिविभूषणः ॥

तारयेत्तारकद्रोण्या दुस्तराद्भवसागरात्

॥२९॥

विश्वेशानुगृहीतानां विच्छिन्नाखिलकर्मणाम् ॥

भवेत्काशीं प्रति मतिर्नेतरेषां कदाचन

॥१३०॥

काशीं प्रति मनो येषां निःशेषक्षालितैनसाम् ॥

त एव मानवा लोके सत्यं नृप शवोपरे

॥३१॥

तैरेव कालो विजितस्त एव हि गतैनसः ॥

अपुनर्गर्भवासास्ते प्राप्ता वाराणसीह यैः

॥३२॥

श्रेयसां भाजनं चैतन्नृजन्मन मुधा नयेत् ॥

देवानामपिदुष्प्राप्यं काशीसंदर्शनादृते

॥३३॥

कः कलिः कोथवा कालः किं वा कर्माण्यनेकधा ॥

परानंदप्रदं क्षेत्रमविमुक्तं यदीक्षितम्

॥३४॥

ते गर्भवासे तिष्ठंति पुनस्ते गर्भवासिनः ॥

ये न गर्भवनच्छेत्रीं सेवंते वरणामसिम्

॥३५॥

निशम्येति वचः प्राह तार्क्ष्यो नत्वाथ मातरम् ॥

अहमप्यागमिष्यामि काशीं द्रष्टुं शिवार्चिताम्

॥३६॥

मातुराज्ञामथ प्राप्य जनन्या सह पक्षिराट् ॥

क्षणाद्वाराणसीं प्राप मोक्षनिक्षेपभूमिकाम्

॥३७॥

उभावपि च तेपाते तप उग्रं महामती ॥

संस्थाप्य शांभवं लिंगं पतत्त्रींद्रोऽचलेंद्रियः

॥३८॥

नाम्ना खखोल्कमादित्यं संस्थाप्य विनता शुभम् ॥

अचिरेणैव कालेन महतस्तपसस्तयोः

॥३९॥

काश्यां प्रसन्नौ संजातौ देवौ शंकरभास्करौ ॥

गरुडस्थापिताल्लिंगादाविरासीदुमापतिः

॥१४०॥

गरुडाय वरान्प्रादात्स बहूनतिदुर्लभान् ॥

खगेंद्र मम भक्तोसि तव ज्ञानं भविष्यति

॥४१॥

वेत्स्यसि त्वं रहस्यं मे यन्न ज्ञातं सुरैरपि ॥

त्वयैतत्स्थापितं लिंगं गरुडेश्वरसंज्ञितम्

॥४२॥

परमज्ञानदं पुंसां दृष्टं स्पृष्टं समर्चितम् ॥

अन्यच्च शृणु पक्षींद्र हितं ते वच्मि सांप्रतम्

॥४३॥

असावहं स वै विष्णुर्मास्तु ते भेददृक्च नौ ॥

एवं तस्यैव पक्षींद्र दैत्येंद्र बलहारिण

॥४४॥

प्राप्य सत्पत्रतां पत्रिंस्त्वमप्यर्च्यो भविष्यसि ॥

इति दत्त्वा वरं शंभुः स्वभक्ताय गरुत्मते

॥४५॥

तत्रैवांतर्हितो जातो गरुडोपि हरिं ययौ ॥

हरे रथत्वं संप्राप्य सोपि पूज्योऽभवद्भुवि

॥४६॥

तपस्यंतीमथालोक्य कदाचिद्विनतां प्रभुः ॥

शिवस्यैव परामूर्तिः खखोल्को नाम भास्करः

॥४७॥

दत्त्वा वरं च पापघ्नं शिवज्ञानसमन्वितम् ॥

काशीवासिजनानेक भवपापक्षयंकरः

॥४८॥

विनतादित्य इत्याख्यः खखोल्कस्तत्र संस्थितः ॥

इत्थं खखोल्क आदित्यः काशीविघ्नतमोहरः

॥४९॥

तस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥

काश्यां पैशंगिले तीर्थे खखोल्कस्य विलोकनात् ॥

नरश्चिंतितमाप्नोति नीरोगो जायते क्षणात्

॥१५०॥

नरः श्रुत्वैतदाख्यानं खखोल्कादित्यसंभवम् ॥

गरुडेशेन सहितं सर्वपापैः प्रमुच्यते

॥१५१॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे खखोल्कादित्य गरुडेशयोर्वर्णनंनाम पंचाशत्तमोऽध्यायः ॥ ५० ॥

इति काशीखंडपूर्वार्धं समाप्तम्