मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ५४

3
काशीखण्डः · 54

पिशाचमोचनमहिमाकथनम्

स्कंद उवाच

कुंभसंभव वक्ष्यामि शृणोत्ववहितो भवान् ॥

कपर्दीशस्य लिंगस्य महामाहात्म्यमुत्तमम्

॥१॥

कपर्दी नाम गणपः शंभोरत्यंतवल्लभः ॥

पित्रीशादुत्तरे भागे लिंगं संस्थाप्य शांभवम्

॥२॥

कुंडं चखान तस्याग्रे विमलोदक संज्ञकम् ॥

यस्य तोयस्य संस्पर्शाद्विमलो जायते नरः

॥३॥

इतिहासं प्रवक्ष्यामि तत्र त्रेतायुगे पुरा ॥

यथावृत्तं कुंभयोने श्रवणात्पातकापहम्

॥४॥

एकः पाशुपत श्रेष्ठो वाल्मीकिरिति संज्ञितः ॥

तपश्चचार स मुनिः कपर्दीशं समर्चयन्

॥५॥

एकदा स हि हेमंते मार्गे मासि तपोधनः ॥

स्नात्वा तत्र महातीर्थे मध्याह्ने विमलोदके

॥६॥

चकार भस्मना स्नानमापादतलमस्तकम् ॥

लिंगस्य दक्षिणेभागे कृतमाध्याह्निकक्रियः

॥७॥

न्यस्तमस्तकपांसुश्च संध्यामाध्यात्मिकीं स्मरन् ॥

जपन्पंचाक्षरीं विद्यां ध्यायन्देवं कपर्दिनम्

॥८॥

कृत्वा संहारमार्गेण सप्रमाणं प्रदक्षिणाम् ॥

हुडुंकृत्य हुडुंकृत्य हुडुंकृत्य त्रिरुच्चकैः

॥९॥

प्रणवं पुरतः कृत्वा षड्जादिस्वरभेदतः ॥

गीतं विधाय सानंदं सनृत्यं हस्तकान्वितम्

॥१०॥

अंगहारैर्मनोहारि चारी मंडलसंयुतम् ॥

क्षणं तत्र सरस्तीरे उपविष्टो महातपाः

॥११॥

अद्राक्षीद्राक्षसं घोरमतीव विकृताकृतिम् ॥

शुष्कशंखकपोलास्यं निमग्ना पिंगलोचनम्

॥१२॥

रूक्षस्फुटितकेशाग्रं महालंब शिरोधरम् ॥

अतीव चिपिट घ्राणं शुष्कौष्ठमतिदंतुरम्

॥१३॥

महाविशालमौलिं च प्रोर्ध्वीभूतशिरोरुहम् ॥

प्रलंबकर्णपालीकं पिंगलश्मश्रुभीषणम्

॥१४॥

प्रलंबित ललज्जिह्वमत्युत्कट कृकाटिकम् ॥

स्थूलास्थि जत्रु संस्थानं दीर्घस्कंधद्वयोत्कटम्

॥१५॥

निमग्नकक्षाकुहरं शुष्कह्रस्व भुजद्वयम् ॥

विरलांगुलिहस्ताग्रं नतपीन नखावलिम्

॥१६॥

विशुष्क पांसुलोत्क्रोडं पृष्ठलग्नोदरत्वचम् ॥

कटीतटेन विकटं निर्मांसत्रिकबंधनम्

॥१७॥

प्रलंब स्फिग्युगयुतं शुष्कमुष्काल्पमेहनम् ॥

दीर्घनिर्मांसलोरूकं स्थूलजान्वस्थिपंजरम्

॥१८॥

अस्थिचर्मावशेषं च शिराजालितविग्रहम् ॥

शिरालं दीर्घजंघं च स्थूलगुल्फास्थिभीषणम्

॥१९॥

अतिविस्तृत पादं च दीर्घवक्रकृशांगुलिम् ॥

अस्थिचर्मावशेषेण शिराताडितविग्रहम्

॥२०॥

विकटं भीषणाकारं क्षुत्क्षाममतिलोमशम् ॥

दावदग्धद्रुमाकारमति चंचललोचनम्

॥२१॥

मूर्तं भयानकमिव सर्वप्राणिभयप्रदम् ॥

हृदयाकंपनं दृष्ट्वा तं प्रेतं वृद्धतापसः ॥

अतिदीनाननं कस्त्वमिति धैर्येण पृष्टवान्

॥२२॥

कुतस्त्वमिह संप्राप्तः कस्मात्ते गतिरीदृशी ॥

अनुक्रोशधियारक्षः पृच्छामि वद निर्भयम्

॥२३॥

अस्माकं तापसानां च न भयं त्वद्विधान्मनाक् ॥

शिवनामसहस्राणां विभूतिकृतवर्मणाम्

॥२४॥

तापसोदीरितमिति तद्रक्षः प्रीतिपूवर्कम् ॥

निशम्य प्रांजलिः प्राह तं कृपालुं तपोधनम्

॥२५॥

राक्षस उवाच

अनुक्रोशोस्ति यदि ते भगवंस्तापसोत्तम ॥

स्ववृत्तांतं तदा वच्मि शृणुष्वावहितः क्षणम्

॥२६॥

प्रतिष्ठानाभिधानोस्ति देशो गोदावरी तटे ॥

तीर्थप्रतिग्रहरुचिस्तत्रासं ब्राह्मणस्त्वहम्

॥२७॥

तेन कर्मविपाकेन प्राप्तोस्मि गतिमीदृशीम् ॥

मरुस्थले महाघोरे तरुतोयविवर्जिते

॥२८॥

गतो बहुतरः कालस्तत्र मे वसतो मुने ॥

क्षुधितस्य तृषार्तस्य शीततापसहस्य च

॥२९॥

वर्षत्यपि महामेघे धारासारैर्दिवानिशम् ॥

प्रावृट्कालेऽनिले वाति किंचित्प्रावरणं न मे

॥३०॥

पर्वण्यदत्तदाना ये कृततीर्थप्रतिग्रहाः ॥

त इमां योनिमृच्छंति महादुःख निबंधनीम्

॥३१॥

गते बहुतिथे काले मरुभूमौ मुने मया ॥

दृष्टो ब्राह्मणदायाद एकदा कश्चिदागतः

॥३२॥

सूर्योदयमनुप्राप्य संध्याविधिविवर्जितः ॥

कृत्वा मूत्रपुरीषे तु शौचाचमनवर्जितः

॥३३॥

मुक्तकच्छमशौचं च संध्याकर्मविवर्जितम् ॥

तं दृष्ट्वा तच्छरीरेहं संक्रांतो भोगलिप्सया

॥३४॥

स द्विजो मंदभाग्यान्मे केनचिद्वणिजा सह ॥

अर्थलोभेन संप्राप्तः पुरीं पुण्यामिमां मुने

॥३५॥

अंतःपुरि प्रविष्टोभूत्स द्विजो मुनिसत्तम ॥

तच्छरीराद्बहिर्भूतस्त्वहं पापैः समं क्षणात्

॥३६॥

प्रवेशो नास्ति चास्माकं प्रेतानां तपसां निधे ॥

महतां पातकानां च वाराणस्यां शिवाज्ञया

॥३७॥

अद्यापि तानि पापानि तद्बहिर्निर्गमेच्छया ॥

बहिरेव हि तिष्ठंति सीम्नि प्रमथसाध्वसात्

॥३८॥

अद्य श्वो वा परश्वो वा स बहिर्निर्गमिष्यति ॥

इत्याशया स्थिताः स्मो वै यावदद्य तपोधन

॥३९॥

नाद्यापि स बहिर्गच्छेन्नाद्याप्याशा प्रयाति नः ॥

इत्यास्महे निराधारा आशापाश नियंत्रिताः

॥४०॥

चित्रमद्यतनं वच्मि तपस्विंस्तन्निशामय ॥

अतीव भावि कल्याणमिति मन्येऽधुनैव हि

॥४१॥

आप्रयागं प्रतिदिनं प्रयामः क्षुधिता वयम् ॥

आहारकाम्यया क्वापि परं नो किंचिदाप्नुमः

॥४२॥

संति सर्वत्र फलिनः पादपाः प्रतिकाननम् ॥

जलाशयाश्च स्वच्छापाः संति भूम्यां पदेपदे

॥४३॥

अन्यान्यपि च भक्ष्याणि सर्वेषां सुलभान्यहो ॥

पानान्यपि विचित्राणि संति भूयांसि सर्वतः

॥४४॥

परं नो दृग्गतान्येव दूरे दूरे व्रजंत्यहो ॥

दैवादद्यैकमायांतं दृष्ट्वा कार्पटिकं मुने

॥४५॥

तस्यांतिकमहं प्राप्तः क्षुधया परिपीडितः ॥

प्रसह्य भक्षयाम्येनमिति मत्वा त्वरान्वितः

॥४६॥

यावत्तं तु जिघृक्षामि तावत्तद्वदनांबुजात् ॥

शिवनामपवित्रा वाङ्निरगाद्विघ्नहारिणी

॥४७॥

शिवनामस्मरणतो मदीयमपि पातकम् ॥

मंदीभूतं ततस्तेन प्रवेशं लब्धवानहम्

॥४८॥

सीमस्थैः प्रमथैर्नाहं सद्यो दृग्गोचरीकृतः ॥

शिवनामश्रुतौ येषां तान्न पश्येद्यमोपि यत्

॥४९॥

अंतर्गेहस्य सीमानं प्राप्तस्तेन सहाधुना ॥

स तु कार्पटिको मध्यं प्रविष्टोहमिहस्थितः

॥५०॥

आत्मानं बहुमन्येहं त्वां विलोक्याधुना मुने ॥

मामुद्धर कृपालो त्वं योनेरस्मात्सदारुणात्

॥५१॥

इति प्रेतवचः श्रुत्वा स कृपालुस्तपोधनः ॥

मनसा चिंतयामास धिङ्निजार्थोद्यमान्नरान्

॥५२॥

स्वोदरं भर यः सर्वे पशुपक्षिमृगादयः ॥

स एव धन्यः संसारे यः परार्थोद्यतः सदा

॥५३॥

तपसाद्य निजेनाहं प्रेतमेतमघातुरम् ॥

मामेव शरणं प्राप्तमुद्धरिष्याम्यसंशयम्

॥५४॥

विमृश्येति स वै चित्ते पिशाचं प्राह सत्तमः ॥

विमलोदे सरस्यस्मिन्स्नाहि रे पापनुत्तये

॥५५॥

पिशाच ते पिशाचत्वं तीर्थस्यास्य प्रभावतः ॥

कपर्दीशेक्षणादद्य क्षणात्क्षीणं विनंक्ष्यति

॥५६॥

श्रुत्वेति स मुनेर्वाक्यं प्रेतः प्राह प्रणम्य तम् ॥

प्रीतात्मा प्रीतमनसं प्रबद्धकरसंपुटः

॥५७॥

पानीयं पातुमपि नो लभेयं मुनिसत्तम ।

स्नानस्य का कथा नाथ रक्षेयुर्जलदेवताः

॥५८॥

पानस्याप्यत्र का वार्ता जलस्पर्शोपि दुर्लभः ॥

इति प्रेतोक्तमाकर्ण्य स भृशं प्रीतिमानभूत्

॥५९॥

उवाच च तपस्वी तं जगदुद्धरणक्षमः ॥

गृहाणेमां विभूतिं त्वं ललाटफलके कुरु

॥६०॥

अस्माद्विभूतिमाहात्म्यात्प्रेत कोपि न कुत्रचित् ॥

बाधा करोति कस्यापि महापातकिनोप्यहो

॥६१॥

भालं विभूतिधवलं विलोक्य यमकिंकराः ॥

पापिनोपि पलायंते भीताः पाशुपतास्त्रतः

॥६२॥

अस्थिध्वजांकितं दृष्ट्वा यथा पांथा जलाशयम् ॥

दूरं यंति तथा भस्म भालांकं यमकिंकराः

॥६३॥

कृतभूति तनुत्राणं शिवमंत्रैर्नरोत्तमम् ॥

नोपसर्पंति नियतमपि हिंस्राः समंततः

॥६४॥

भक्त्या बिभर्ति यो भस्म शिवमंत्रपवित्रितम् ॥

भाले वक्षसि दोर्मूले न तं हिंसंति हिंसकाः ५५ ॥

सर्वेभ्यो दुष्टसत्त्वेभ्यो यतो रक्षेदहर्निशम् ॥

रक्षत्येषा ततः प्रोक्ता विभूतिर्भूतिकृद्यतः

॥६६॥

भासनाद्भर्त्सनाद्भस्म पांसुः पांसुत्वदायतः ॥

पापानां क्षारणात्क्षारो बुधेरेवं निरुच्यते

॥६७॥

गृहीत्वा धारमध्यात्स भस्म प्रेतकरेऽर्पयत् ॥

सोप्यादरात्समादाय भालदेशे न्यवेशयत्

॥६८॥

विभूतिधारिणं वीक्ष्य पिशाचं जलदेवताः ॥

जलावगाहनपरं वारयांचक्रिरे न तम्

॥६९॥

स्नात्वा पीत्वा स निर्गच्छेद्यावत्तस्माज्जलाशयात् ॥

. तावत्पैशाच्यमगमद्दिव्यदेहमवाप च ॥

दिव्यमालांबरधरो दिव्यगंधानुलेपनः ॥

दिव्ययानं समारुह्य वर्त्म प्राप्तोथ पावनम्

॥७१॥

गच्छता तेन गगने स तपस्वी नमस्कृतः ॥

प्रोच्चैः प्रोवाच भगवन्मोचितोस्मि त्वयानघ

॥७२॥

तस्मात्कदर्ययोनित्वादतीव परिनिंदितात् ॥

अस्य तीर्थस्य माहात्म्याद्दिव्यदेहमवाप्तवान्

॥७३॥

पिशाचमोचनं तीर्थमद्यारभ्य समाख्यया ॥

अन्येषामपि पैशाच्यमिदं स्नानाद्धरिष्यति

॥७४॥

अस्मिंस्तीर्थे महापुण्ये ये स्नास्यंतीह मानवाः ॥

पिंडांश्च निर्वपिष्यंति संध्यातर्पणपूर्वकम्

॥७५॥

दैवात्पैशाच्यमापन्नास्तेषां पितृपितामहाः ॥

तेपि पैशाच्यमुत्सृज्य यास्यंति परमां गतिम्

॥७६॥

अद्यशुक्लचतुर्दश्यां मार्गेमासि तपोनिधे ॥

अत्र स्नानादिकं कार्यं पैशाच्यपरिमोचनम

॥७७॥

इमां सांवत्सरीं यात्रां ये करिष्यंति मानवाः ॥

तीर्थप्रतिग्रहात्पापान्निःसरिष्यंति ते नराः

॥७८॥

पिशाचमोचने स्नात्वा कपर्दीशं समर्च्य च ॥

कृत्वा तत्रान्नदानं च नरोन्यत्रापि निर्भयाः

॥७९॥

मार्गशुक्लचतुर्दश्यां कपर्दीश्वर संनिधौ ॥

स्नात्वान्यत्रापि मरणान्न पैशाच्यमवाप्नुयुः

॥८०॥

इत्युक्त्वा दिव्यपुरुषो भूयोभूयो नमस्य तम् ॥

तपोधनं महाभागो दिव्यां गतिमवाप्तवान्

॥८१॥

तपोधनोपि तं दृष्ट्वा महाश्चर्यं घटोद्भव ॥

कपर्दीश्वरमाराध्य कालान्निर्वाणमाप्तवान्

॥८२॥

पिशाचमोचनं तीर्थं तदारभ्य महामुने ॥

वाराणस्यां परां ख्यातिमगमत्सर्वपापहृत्

॥८३॥

पैशाचमोचने तीर्थे संभोज्य शिवयोगिनम् ॥

कोटिभोज्यफलं सम्यगेकैक परिसंख्यया ॥

श्रुत्वाध्यायमिमं पुण्यं नरो नियतमानसः ॥

भूतैः प्रेतैः पिशाचैश्च कदाचिन्नाभिभूयते

॥८५॥

बालग्रहाभिभूतानां बालानां शांतिकारकम् ॥

पठनीयं प्रयत्नेन महाख्यानमिदं परम्

॥८६॥

इदमाख्यानमाकर्ण्य गच्छन्देशांतरं नरः ॥

चोरव्याघ्रपिशाचाद्यैर्नाभिभूयेत कुत्रचित्

॥८७॥

इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे पिशाचमोचनमहिमाकथनं नाम चतुष्पंचाशत्तमोऽध्यायः ॥ ५४ ॥