शृणु पत्नि महाभागे लोपामुद्रे सधर्मिणि
अगस्तिरुवाच
शृणु पत्नि महाभागे लोपामुद्रे सधर्मिणि ॥
कथा विष्णुगणाभ्यां च कथितां शिवशर्मणे
॥१॥शिवशर्मोवाच
अहो गणौ विचित्रेयं श्रुता चांद्रमसी कथा ॥
उडुलोककथां ख्यातं विष्वगाख्यानकोविदौ
॥२॥गणावूचतुः
पुरा सिसृक्षतः सृष्टिं स्रष्टुरंगुष्ठपृष्ठतः ॥
दक्षः प्रजाविनिर्माणे दक्षो जातः प्रजापतिः ॥
षष्टिर्दुहितरस्तस्य तपोलावण्यभूषणाः ॥
सर्वलावण्यरोहिण्यो रोहिणीप्रमुखाः शुभाः
॥४॥ताभिस्तप्त्वा तपस्तीव्रं प्राप्य वैश्वेश्वरीं पुरीम् ॥
आराधितो महादेवः सोमः सोमविभूपणः
॥५॥यदा तुष्टोयमीशानो दातुं वरमथाययौ ॥
उवाच च प्रसन्नात्मा याचध्वं वरमुत्तमम्
॥६॥शंभोर्वाक्यमथाकर्ण्य ऊचुस्ताश्च कुमारिकाः ॥
यदि देयो वरोऽस्माकं वरयोग्याः स्म शंकर
॥७॥भवतोपि महादेव भवतापहरो हि यः ॥
रूपेण भवता तुल्यः स नो भर्ता भवत्विति
॥८॥लिंगं संस्थाप्य सुमहन्नक्षत्रेश्वर संज्ञितम् ॥
वारणायास्तटे रम्ये संगमेश्वरसन्निधौ
॥९॥दिव्यं वर्ष सहस्रं तु पुरुषायितसंज्ञितम् ॥
तपस्तप्तं महत्ताभिः पुरुषैरपि दुष्करम्
॥१०॥ततस्तुष्टो हि विश्वेशो व्यतरद्वरमुत्तमम् ॥
सर्वासामेकपत्नीनामकत्रे(?) स्थिरचेतसाम्
॥११॥श्री विश्वेश्वर उवाच
न क्षांतं हि तपोत्युग्रमेतदन्याभिरीदृशम् ॥
पुराऽबलाभिस्तस्माद्वो नाम नक्षत्रमत्र वै
॥१२॥पुरुषायितसंज्ञेन तप्तं यत्तपसाधुना ॥
भवतीभिस्ततः पुंस्त्वमिच्छया वो भविष्यति
॥१३॥ज्योतिश्चक्रे समस्तेऽस्मिन्नग्रगण्या भविष्यथ ॥
मेषादीनां च राशीनां योनयो यूयमुत्तमाः
॥१४॥ओषधीनां सुधायाश्च ब्राह्मणानां च यः पतिः ॥
पतिमत्यो भवत्योपि तेन पत्या शुभाननाः
॥१५॥भवतीनामिदं लिंगं नक्षत्रेश्वर संज्ञितम् ॥
पूजयित्वा नरो गंता भवतीलोकमुत्तमम्
॥१६॥उपरिष्टान्मृगांकस्य लोको वस्तु भविष्यति ॥
सर्वासां तारकाणां च मध्ये मान्या भविष्यथ
॥१७॥नक्षत्रपूजका ये च नक्षत्रव्रतचारिणः ॥
ते वो लोके वसिष्यंति नक्षत्र सदृशप्रभाः
॥१८॥नक्षत्रग्रहराशीनां बाधास्तेषां कदाचन ॥
न भविष्यंति ये काश्यां नक्षत्रेश्वरवीक्षकाः
॥१९॥अगस्त्य उवाच
अतिथित्वमवाप नेत्रयोर्बुधलोकः शिवशर्मणस्त्वथ ॥
गणयोर्भगणस्य संकथां कथयित्रो रिति विष्णुचेतसोः
॥२०॥शिवशर्मोवाच
कस्य लोकोयमतुलो ब्रूतं श्रीभगवद्गणौ ॥
पीयूषभानोरिव मे मनः प्रीणयतेतराम्
॥२१॥गणावूचतुः
शिवशर्मञ्छृणु कथामेतां पापापहारिणीम् ॥
स्वर्गमार्गविनोदाय तापत्रयविनाशिनीम्
॥२२॥योसौ पूर्वं महाकांतिरावाभ्यां परिवर्णितः ॥
साम्राज्यपदमापन्नो द्विजराजस्तवाग्रतः
॥२३॥दक्षिणा राजसूयस्य येन त्रिभुवनं कृता ॥
तपस्तताप योत्युग्रं पद्मानां दशतीर्दश
॥२४॥अत्रिनेत्रसमुद्भूतः पौत्रो वै द्रुहिणस्य यः ॥
नाथः सर्वौषधीनां च ज्योतिषां पतिरेव च
॥२५॥निर्मलानां कलानां च शेवधिर्यश्च गीयते ॥
उद्यन्परोपतापं यः स्वकरैर्गलहस्तयेत्
॥२६॥मुदंकुमुदिनीनांयस्तनोति जगता सह ॥
दिग्वधू चारु शृंगारदर्शनादर्शमंडलः
॥२७॥किमन्यैर्गुणसंभारैरतोपि न समं विधोः ॥
निजोत्तमांगे सर्वज्ञः कलां यस्यावतंसयेत्
॥२८॥बृहस्पतेस्स वै भार्यामैश्वर्यमदमोहितः ॥
पुरोहितस्यापिगुरोर्भ्रातुरांगिरसस्य वै
॥२९॥जहार तरसा तारां रूपवान्रूपशालिनीम् ॥
वार्यमाणोपि गीर्वाणैर्बहुदेवर्षिभिः पुनः
॥३०॥नायं कलानिधेर्दोषो द्विजराजस्य तस्य वै ॥
हित्वा त्रिनेत्रं कामेन कस्य नो खडितं मनः
॥३१॥ध्वांतमेतदभितः प्रसारियत्तच्छमाय विधिनाविनिर्मितम् ॥
दीपभास्करकरामहौषधं नाधिपत्य तमसस्तुकिंचन
॥३२॥आधिपत्यमदमोहितं हितं शंसितं स्पृशति नो हरेर्हितम् ॥
दुर्जनविहिततीर्थमज्जनैः शुद्धधीरिव विरुद्धमानसम्
॥३३॥धिग्धिगेतदधिकर्द्धि चेष्टितं चंक्रमेक्षणविलक्षितं यतः ॥
वीक्षते क्षणमचारुचक्षुषा घातितेन विपदःपदेन च
॥३४॥कः कामेन न निर्जितस्त्रिजगतां पुष्पायुधेनाप्यहो कः क्रोधस्यवशंगतो ननच को लोभेन संमोहितः ॥
योषिल्लोचनभल्लभिन्नहृदयः को नाप्तवानापदं को राज्यश्रियमाप्यनांधपदवीं यातोपि सल्लोचनः
॥३५॥आधिपत्यकमलातिचंचला प्राप्यतां च यदिहार्जितं किल ॥
निश्चलं सदसदुच्चकैर्हितं कार्यमार्यचरितैः सदैव तत्
॥३६॥न यदांगिरसे तारां स व्यसर्जयदुल्बणः ॥
रुद्रोथ पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः
॥३७॥तेन ब्रह्मशिरोनाम परमास्त्रं महात्मना ॥
उत्सृष्टं देवदेवायतेन तन्नाशितं ततः
॥३८॥तयोस्तद्युद्धमभवद्घोरं वै तारकामयम् ॥
ततस्त्वकांड ब्रह्मांड भंगाद्भीतोभवद्विधिः
॥३९॥निवार्य रुद्रं समरात्संवर्तानलवर्चसम् ॥
ददावांगिरसे तारां स्वयमेव पितामहः
॥४०॥अथांतर्गर्भमालोक्य तारां प्राह बृहस्पतिः ॥
मदीयायां न ते योनौ गर्भो धार्यः कथंचन
॥४१॥इषीकास्तंबमासाद्य गर्भं सा चोत्ससर्ज ह ॥
जातमात्रः स भगवान्देवानामाक्षिपद्वपुः
॥४२॥ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः ॥
सत्यं बूहि सुतः कस्य सोमस्याथ बृहस्पतेः
॥४३॥पृच्छमाना यदा देवै र्नाह ताराऽतिसत्रपा ॥
तदा सा शप्तुमारब्धा कुमारेणातितेजसा
॥४४॥तं निवार्य तदा ब्रह्मा तारां पप्रच्छ संशयम् ॥
प्रोवाच प्रांजलिः सा तं सोमस्येति पितामहम्
॥४५॥तदा स मूर्ध्न्युपाघ्राय राजा गर्भं प्रजापतिः ॥
बुध इत्यकरोन्नाम तस्य बालस्य धीमतः
॥४६॥ततश्च सर्वदेवेभ्यस्तेजोरूपबलाधिकः ॥
बुधः सोमं समापृच्छय तपसे कृतनिश्चयः
॥४७॥जगाम काशीं निर्वाणराशिं विश्वेशपालिताम् ॥
तत्र लिगं प्रतिष्ठाप्य स स्वनाम्ना बुधेश्वरम्
॥४८॥तपश्चचार चात्युग्रमुग्रं संशीलयन्हृदि ॥
वर्षाणामयुतं बालो बालेंदुतिलकं शिवम्
॥४९॥ततो विश्वपतिः श्रीमान्विश्वेशो विश्वभावनः ॥
बुधेश्वरान्महालिंगादाविरासीन्महोदयः
॥५०॥उवाच च प्रसन्नात्मा ज्योतीरूपो महेश्वरः ॥
वरं ब्रूहि महाबुद्धे बुधान्य विबुधोत्तमः
॥५१॥तवानेनाति तपसा लिंगसंशीलनेन च ॥
प्रसन्नोस्मि महासौम्य नादेयं त्वयि विद्यते
॥५२॥इति श्रुत्वा वचः सोथ मेघगंभीर निःस्वनम् ॥
अवग्रहपरिम्लान सस्यसंजीवनोपमम्
॥५३॥उन्मील्यलोचने यावत्पुरः पश्यति बालकः ॥
तावल्लिंगे ददर्शाथ त्र्यंबकं शशिशेखरम्
॥५४॥बुध उवाच
नमः पूतात्मने तुभ्यं ज्योतीरूप नमोस्तु ते ॥
विश्वरूप नमस्तुभ्यं रूपातीताय ते नमः
॥५५॥नमः सर्वार्ति नाशाय प्रणतानां शिवात्मने ॥
सर्वज्ञाय नमस्तुभ्यं सर्वकर्त्रे नमोस्तु ते
॥५६॥कृपालवे नमस्तुभ्यं भक्तिगम्याय ते नमः ॥
फलदात्रे च तपसां तपोरूपाय ते नमः
॥५७॥शंभो शिवशिवाकांत शांतश्री कंठशूलभृत् ॥
शशिशेखरशर्वेश शंकरेश्वर धूर्जटे
॥५८॥पिनाकपाणे गिरिश शितिकंठ सदाशिव ॥
महादेव नमस्तुभ्यं देवदेव नमोस्तु ते
॥५९॥स्तुतिकर्तुं न जानामि स्तुतिप्रिय महेश्वर ॥
तव पादांबुजद्वंद्वे निर्द्वंद्वा भक्तिरस्तु मे
॥६०॥अयमेव वरो नाथ प्रसन्नोसि यदीश्वर ॥
नान्यं वरं वृणे त्वत्तः करुणामृतवारिधे
॥६१॥ततः प्राह महेशानस्तत्स्तुत्या परितोषितः ॥
रौहिणेय महाभाग सौम्यसौम्यवचोनिधे
॥६२॥नक्षत्रलोकादुपरि तव लोको भविष्यति ॥
मध्ये सर्वग्रहाणां च सपर्यां लप्स्यसे पराम्
॥६३॥त्वयेदं स्थापितं लिंगं सर्वेषां बुद्धिदायकम् ॥
दुर्बुद्धिहरणं सौम्य त्वल्लोकवसतिप्रदम्
॥६४॥इत्युक्त्वा भगवाञ्छंभुस्तत्रैवांतरधीयत ॥
बुधः स्वर्लोकमगमद्देवदेवप्रसादतः
॥६५॥गणावूचतुः
काश्यां बुधेश्वरसमर्चनलब्धबुद्धिः संसारसिंधुमधिगम्य नरो ह्यगाधम् ॥
मज्जेन्न सज्जनविलोचन चंद्रकांतिः कांताननस्त्वधिवसेच्च बुधेऽत्र लोके
॥६६॥चंद्रेश्वरात्पूर्वभागे दृष्ट्वा लिंगं बुधेश्वरम् ॥
न बुद्ध्या हीयते जंतुरंतकालेपि जातुचित्
॥६७॥गणौ यावत्कथामित्थं चक्राते बुधलोकगाम् ॥
तावद्विमानं संप्राप्तं शुक्रलोकमनुत्तमम्
॥६८॥इति श्री स्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे नक्षत्रबुधलोकयोर्वर्णनं नाम पंचदशोध्यायः ॥ १५ ॥