वरप्रदानम्
स्कंद उवाच
जगज्जनन्याः पार्वत्याः पुरोगस्ते पुरारिणा ॥
यथाख्यायि कथा पुण्या तथा ते कथयाम्यहम्
॥१॥पुरा महीमिमां सर्वां ससमुद्राद्रिकाननाम् ॥
ससरित्कां सार्णवां च सग्रामपुरपत्तनाम्
॥२॥परिभ्रम्य महातेजा महामर्षो महातपाः ॥
दुर्वासाः संपरिप्राप्तः शंभोरानंदकाननम्
॥३॥विलोक्याक्रीडमखिलं बहुप्रासादमंडितम् ॥
बहुकुंडतडागं च शंभोस्तोषमुपागमत् ॥
पदेपदे मुनीनां च जितकाल महाभियाम् ॥
दृष्टोटजानि रम्याणि दुर्वासा विस्मितोभवत्
॥५॥सर्वर्तुकुसुमान्वृक्षान्सुच्छायस्निग्धपल्लवान् ॥
सफलान्सुलताश्लिष्टान्दृष्ट्वा प्रीतिमगान्मुनिः
॥६॥दुर्वासाश्चातिहृष्टोभू्द्दृष्ट्वा पाशुपतोत्तमान् ॥
भूतिभूषितसर्वांगाञ्जटाजटितमौलिकान्
॥७॥कौपीनमात्र वसनान्स्मरारि ध्यान तत्परान् ॥
कक्षीकृतमहालाबून्हुडुत्कारजितांबुदान्
॥८॥करंडदंडपानीय पात्रमात्रपरिग्रहान् ॥
क्वचित्त्रिदंडिनो दृष्ट्वा निःसंगा निष्परिग्रहान्
॥९॥कालादपि निरातंकान्विश्वेशशरणं गतान् ॥
क्वचिद्वेदरहस्यज्ञानाबाल्यब्रह्मचारिणः
॥१०॥नित्यं भागीरथीस्नानपरिपिंगलमूर्धजान्
॥५॥विलोक्य काश्यां दुर्वासा ब्राह्मणान्मुमुदेतराम्
॥११॥पशुष्वपि च या तुष्टिर्मृगेष्वपि च या द्युतिः ॥
तिर्यक्ष्वपि च या हृष्टिः काश्यां नान्यत्र सा स्फुटम्
॥१२॥इदं सुश्रेयसो व्युष्टिः क्वामरेषु त्रिविष्टपे ॥
यत्रत्येष्वपि तिर्यक्षु परमानंदवर्धिनी
॥१३॥वरमेतेपि पशव आनंदवनचारिणः ॥
सदानंदाः पुनर्देवाननंदनवनाश्रिताः
॥१४॥वरं काशीपुरीवासी म्लेच्छोपि हि शुभायतिः ॥
नान्यत्रत्यो दीक्षितोपि स हि मुक्तेरभाजनम्
॥१५॥वैश्वेश्वरी पुरी चैषा यथा मे चित्तहारिणी ॥
सर्वापि न तथा क्षोणी न स्वर्गो नैव नागभूः
॥१६॥स्थैर्यं बबंध न क्वापि भ्रमतो मे मनोगतिः ॥
सर्वस्मिन्नपि भूभागे यथा स्थैर्यमगादिह
॥१७॥रम्या पुरी भवेदेषा ब्रह्मांडादखिलादपि ॥
परिष्टुत्येति दुर्वासाश्चेतोवृत्तिमवाप ह
॥१८॥तप्यमानोपि हि तपः सुचिरं स महातपाः ॥
यदा नाप फलं किंचिच्चुकोप च तदा भृशम्
॥१९॥धिक्च मां तापसं दुष्टं धिक्च मे दुश्चरं तपः ॥
धिक्च क्षेत्रमिदं शंभोः सर्वेषां च प्रतारकम्
॥२०॥यथा न मुक्तिरत्र स्यात्कस्यापि करवै तथा ॥
इति शप्तुं यदोद्युक्तः संजहास तदा शिवः
॥२१॥तत्र लिंगमभूदेकं ख्यातं प्रहसितेश्वरम् ॥
तल्लिंगदर्शनात्पुंसामानंदः स्यात्पदेपदे
॥२२॥उवाच विस्मयाविष्टो मनस्येव महेशिता ॥
ईदृशेभ्यस्तपस्विभ्यो नमोस्त्विति पुनःपुनः
॥२३॥यत्रैव हि तपस्यंति यत्रैव विहिताश्रमाः ॥
लब्धप्रतिष्ठा यत्रैव तत्रैवामर्षिणो द्विजाः
॥२४॥मनाक्चिंतितमात्रं तु चेल्लभंते न तापसाः ॥
क्रुधा तदैव जीयंते हारिण्या तपसां श्रियः
॥२५॥तथापि तापसा मान्याः स्वश्रेयोवृद्धिकांक्षिभिः ॥
अक्रोधनाः क्रोधना वा का चिंता हि तपस्विनाम्
॥२६॥इति यावन्महेशानो मनस्येव विचिंतयेत् ॥
तावत्तत्क्रोधजो वह्निर्व्यानशे व्योममंडलम्
॥२७॥तत्कोधानलधूमोघैर्व्यापितं यन्नभोंगणम् ॥
तद्दधाति नभोद्यापि नीलिमानं महत्तरम्
॥२८॥ततो गणाः परिक्षुब्धाः प्रलयार्णव नीरवत् ॥
आः किमेतत्किमेतद्वै भाषमाणाः परस्परम्
॥२९॥गर्जंतस्तर्जयंतश्च प्रोद्यता युधपाणयः ॥
प्रमथाः परितस्थुस्ते परितो धाम शांभवम्
॥३०॥को यमः कोथवा कालः को मृत्युः कस्तथांतकः ॥
को वा विधाता के लेखाः कुद्धेष्वस्मासु कः परः
॥३१॥अग्निं पिबामो जलवच्चूर्णीकुर्मोखिलान्गिरीन् ॥
सप्तापि चार्णवांस्तूर्णं करवाम मरुस्थलीम्
॥३२॥पातालं चानयामोर्ध्वमधो दध्मोथवा दिवम् ॥
एकमेव हि वा ग्रासं गगनं करवामहे
॥३३॥ब्रह्मांडभांडमथवा स्फोटयामः क्षणेन हि ॥
आस्फालयामो वान्योन्यं कालं मृत्युं च तालवत्
॥३४॥ग्रसामो वाथ भुवनं मुक्त्वा वाराणसीं पुरीम् ॥
यत्र मुक्ता भवंत्येव मृतमात्रेण जंतवः
॥३५॥कुतोऽयं धूमसंभारो ज्वालावल्यः कुतस्त्वमूः ॥
को वा मृत्युंजयं रुद्रं नो विद्यान्मदमोहितः
॥३६॥इति पारिषदाः शंभोर्महाभय भयप्रदाः ॥
जल्पंतः कल्पयामासुः प्राकारं गगनस्पृशम्
॥३७॥शकलीकृत्य बहुशः शिलावत्प्रलयानलम् ॥
नंदी च नंदिषेणश्च सोमनंदी महोदरः
॥३८॥महाहनुर्महाग्रीवो महाकालो जितांतकः ॥
मृत्युप्रकंपनो भीमो घंटाकर्णो महाबलः
॥३९॥क्षोभणो द्रावणो जृंभी पचास्यः पंचलोचनः ॥
द्विशिरास्त्रिशिराः सोमः पंचहस्तो दशाननः
॥४०॥चंडो भृंगिरिटिस्तुंडी प्रचंडस्तांडवप्रियः ॥
पिचिंडिलः स्थूलशिराः स्थूलकेशो गभस्तिमान्
॥४१॥क्षेमकः क्षेमधन्वा च वीरभद्रो रणप्रियः ॥
चंडपाणिः शूलपाणिः पाशपाणिः करोदरः
॥४२॥दीर्घग्रीवोथ पिंगाक्षः पिंगलः पिंगमूर्धजः ॥
बहुनेत्रो लंबकर्णः खर्वः पर्वतविग्रहः
॥४३॥गोकर्णो गजकर्णश्च कोकिलाख्यो गजाननः ॥
अहं वै नैगमेयश्च विकटास्योट्टहासकः
॥४४॥सीरपाणिः शिवारावो वैणिको वेणुवादनः ॥
दुराधर्षो दुःसहश्च गर्जनो रिपुतर्जनः
॥४५॥इत्यादयो गणेशानाः शतकोटि दुरासदाः ॥
काश्यां निवारयामासुरपि प्राभंजनीं गतिम्
॥४६॥क्षुब्धेषु तेषु वीरेषु चकंपे भुवनत्रयम् ॥
दुर्वाससश्च कोपाग्नि ज्वालाभिर्व्याकुलीकृतम्
॥४७॥तदा विविशतुः काश्यां सूर्याचंद्रमसावपि ॥
न गणैरकृतानुज्ञौ तत्तेजः शमितप्रभौ
॥४८॥निवार्य प्रमथानीकमतिक्षुब्धमुमाधवः ॥
मदंश एव हि मुनीरानसूये य एष वै
॥४९॥अथो दुर्वाससे लिंगादाविरासीत्कृपानिधिः ॥
महातेजोमयः शंभुर्मुनिशापात्पुरीमवन्
॥५०॥माभूच्छापो मुनेः काश्यां निर्वाणप्रतिबंधकः ॥
इत्यनुक्रोशतो देवस्तस्य प्रत्यक्षतां गतः
॥५१॥उवाच च प्रसन्नोस्मि महाक्रोधन तापस ॥
वरयस्व वरः कस्ते मया देयो विशंकितः
॥५२॥ततो विलज्जितोगस्त्य शापोद्यतकरो मुनिः ॥
अपराद्धं बहु मया क्रोधांधेनेति दुर्धिया
॥५३॥उवाच चेति बहुशो धिङ्मां क्रोधवशंगतम् ॥
त्रैलोक्याभयदां काशीं शप्तुमुद्यतचेतसम्
॥५४॥दुःखार्णव निमग्नानां यातायातेति खेदिनाम् ॥
कर्मपाशितकंठानां काश्येका मुक्तिसाधनम्
॥५५॥सर्वेषां जंतुजातानां जनन्येकैक्काशिका।
महामृतस्तन्यदात्री नेत्री च परमं पदम्
॥५६॥जनन्या सह नो काशी लभेदुपमितिं क्वचित् ॥
धारयेज्जननी गर्भे काशी गर्भाद्विमोचयेत्
॥५७॥एवंभूतां तु यः काशीमन्योपि हि शपिष्यति ॥
तस्यैव शापो भविता न तु काश्याः कथंचन
॥५८॥इति दुर्वाससो वाक्यं श्रुत्वा देवस्त्रिलोचनः ॥
अतीव तुषितो जातः काशीस्तवन लब्धमुत्
॥५९॥यः काशीं स्तौति मेधावी यः काशीं हृदि धारयेत् ॥
तेन तप्तं तपस्तीव्रं तेनेष्टं क्रतुकोटिभिः
॥६०॥जिह्वाग्रे वर्तते यस्य काशीत्यक्षरयुग्मकम् ॥
न तस्य गर्भवासः स्यात्क्वचिदेव सुमेधसः
॥६१॥यो मंत्रं जपति प्रातः काशी वर्णद्वयात्मकम् ॥
स तु लोकद्वयं जित्वा लोकातीतं व्रजेत्पदम्
॥६२॥आनुसूयेय ते ज्ञानं काशीस्तवन पुण्यतः ॥
यथेदानीं समुत्पन्नं तथा न तपसः पुरा
॥६३॥मुने न मे प्रियस्तद्वद्दीक्षितो मम पूजकः ॥
यादृक्प्रियतरः सत्यं काशीस्तवन लालसः
॥६४॥तादृक्तुष्टिर्न मे दानैस्तादृक्तुष्टिर्न मे मखैः ॥
न तुष्टिस्तपसा तादृग्यादृशी काशिसंस्तवैः
॥६५॥आनंदकाननं येन स्तुतमेतत्सुचेतसा ॥
तेनाहं संस्तुतः सम्यक्सर्वैः सूक्तैः श्रुतीरितैः
॥६६॥तव कामाः समृद्धाः स्युरानुसूयेय तापस ॥
ज्ञानं ते परमं भावि महामोहविनाशनम्
॥६७॥अपरं च वरं ब्रूहि किं दातव्यं तवानघ ॥
त्वादृशा एव मुनयः श्लाघनीया यतः सताम्
॥६८॥यस्यास्त्वेव हि सामर्थ्यं तपसः क्रुद्ध्यतीहसः ॥
कुपितोप्यसमर्थस्तु किं कर्ता क्षीणवृत्तिवत्
॥६९॥इति श्रुत्वा परिष्टुत्य दुर्वासाः कृत्तिवाससम् ॥
वरं च प्रार्थयामास परिहृष्ट तनूरुहः
॥७०॥दुर्वासा उवाच
देवदेव जगन्नाथ करुणाकर शंकर ॥
महापराधविध्वंसिन्नंधकारे स्मरांतक
॥७१॥मृत्युंजयोग्रभूतेश मृडानीश त्रिलोचन ॥
यदि प्रसन्नो मे नाथ यदि देयो वरो मम
॥७२॥तदिदं कामदं नाम लिगमस्त्विह धूर्जटे ॥
इदं च पल्वलं मेत्र कामकुंडाख्यमस्तु वै
॥७३॥देवदेव उवाच
एवमस्तु महातेजो मुने परमकोपन ॥
यत्त्वया स्थापितं लिंगं दुर्वासेश्वरसंज्ञितम्
॥७४॥तदेव कामकृन्नृणां कामेश्वरमिहास्त्विति ॥
यः प्रदोषे त्रयोदश्यां शनिवासरसंयुजि
॥७५॥संस्नास्यति नरो धीमान्कामकुंडे त्वदास्पदे ॥
त्वत्स्थापितं च कामेशं लिंगं द्रक्ष्यति मानवः
॥७६॥स वै कामकृताद्दोषाद्यामीं नाप्स्यति यातनाम् ॥
बहवोपि हि पाप्मानो बहुभिर्जन्मभिः कृताः
॥७७॥कामतीर्थांबु संस्नानाद्यास्यंति विलयं क्षणात् ॥
कामाः समृद्धिमाप्स्यंति कामेश्वर निषेवणात्
॥७८॥इति दत्त्वा वराञ्शंभुस्तल्लिंगे लयमाययौ ॥
स्कंद उवाच ॥
तल्लिंगाराधनात्कामाः प्राप्ता दुर्वाससा भृशम्
॥७९॥तस्मात्सर्वप्रयत्नेन काश्यां कामेश्वरः सदा ॥
पूजनीयः प्रयत्नेन महाकामाभिलाषुकैः
॥८०॥कामकुंडकृतस्नानैर्महापातकशांतये ॥
इदं कामेश्वराख्यानं यः पठिष्यति पुण्यवान् ॥
यः श्रोष्यति च मेधावी तौ निष्पापौ भविष्यतः
॥८१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां चतुर्थे काशीखंड उत्तरार्धे दुर्वाससो वरप्रदानं नाम पंचाशीतितमोऽध्यायः ॥ ८५ ॥