मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ६९

3
काशीखण्डः · 69

शृण्वगस्त्य तपोराशे काश्यां लिंगानि यानि वै

स्कंद उवाच

शृण्वगस्त्य तपोराशे काश्यां लिंगानि यानि वै ॥

सेवितानि नृणां मुक्त्यै भवेयुर्भावितात्मनाम्

॥१॥

कृत्तिप्रावरणं यत्र कृतं देवेन लीलया ॥

रुद्रावास इति ख्यातं तत्स्थानं सर्वसिद्धिदम्

॥२॥

स्थिते तत्रोमया सार्धं स्वेच्छया कृत्तिवाससि ॥

आगत्य नंदी विज्ञप्तिं चक्रे प्रणतिपूर्वकम्

॥३॥

देवदेवेश विश्वेश प्रासादाः सुमनोहराः ॥

सर्वरत्नमया रम्याः साष्टाषष्टिरभूदिह

॥४॥

भूर्भुवःस्वस्तले यानि शुभान्यायतनानि हि ॥

मुक्तिदान्यपि तानीह मयानीतानि सर्वतः

॥५॥

यतो यच्च समानीतं यत्र यच्च कृतास्पदम् ॥

कथयिष्याम्यहं नाथ क्षणं तदवधार्यताम्

॥६॥

स्थाणुर्नाम महालिंगं देवदेवस्य मोक्षदम् ॥

कुरुक्षेत्रादिहोद्भूतं कलाशेषोस्ति तत्र वै

॥७॥

तदग्रे सन्निहत्याख्या महापुष्करिणी शुभा ॥

लोलार्क पश्चिमे भागे कुरुक्षेत्रस्थली तु सा

॥८॥

तत्र स्नातं हुतं जप्तं तप्तं दत्तं शुभार्थिभिः ॥

कुरुक्षेत्राद्भवेत्सत्यं कोटिकोटिगुणाधिकम्

॥९॥

नैमिषाद्देवदेवोत्र ब्रह्मावर्तेन संयुतः ॥

तत्रांशमात्रं संस्थाप्य काश्यामाविरभूद्विभो

॥१०॥

ढुंढिराजोत्तरेभागे सिद्धिदं साधकस्य वै ॥

लिंगं वै देवदेवाख्यं तदग्रे कूप उत्तमः

॥११॥

ब्रह्मावर्त इति ख्यातः पुनरावृत्तिहृन्नृणाम् ॥

तत्कूपाद्भिः कृतस्नानो देवदेवं समर्च्य च

॥१२॥

तत्पुण्यं नैमिषारण्यात्कोटिकोटिगुणं स्मृतम् ॥

गोकर्णायतनादत्र स्वयमाविरभून्महत्

॥१३॥

लिंगं महाबलं नाम सांबादित्यसमीपतः ॥

दर्शनात्स्पर्शनाद्यस्य क्षणादेनो महाबलम्

॥१४॥

वाताहतस्तूलराशिरिव विद्राति दूरतः ॥

कपालमोचनपुरो दृष्ट्वा लिंगं महाबलम्

॥१५॥

महाबलमवाप्नोति निवार्णनगरं व्रजेत् ॥

ऋणमोचनतः प्राच्यां प्रभासात्क्षेत्रसत्तमात्

॥१६॥

शशिभूषणसंज्ञं तु लिंगमत्र प्रतिष्ठितम् ॥

तल्लिंगसेवनान्मर्त्यः शाशिभूषणतां व्रजेत्

॥१७॥

प्रभासक्षेत्रयात्रायाः पुण्यं प्राप्नोति कोटिकृत् ॥

उज्जयिन्या महाकालः स्वयमत्रागतो विभुः

॥१८॥

यन्नामस्मरणादेव न भयं कलिकालतः ॥

प्रणवाख्यान्महालिंगात्प्राच्यां कल्मषनाशनम्

॥१९॥

महाकालाभिधं लिंगं दर्शनान्मोक्षदं परम् ॥

अयोगंधेश्वरं लिंगं पुष्करात्तीर्थसत्तमात्

॥२०॥

आविरासीदिह महत्पुष्करेण सहैव तु ॥

मत्स्योदर्युत्तरेभागे दृष्ट्वा ऽयोगंधमीश्वरम्

॥२१॥

स्नात्वाऽयोगंधकुंडे तु भवात्तारयते पितॄन् ॥

महानादेश्वरं लिंगमट्टहासादिहागतम्

॥२२॥

त्रिलोचनादुदीच्यां तु तद्दृष्टमुक्तये मतम् ॥

महोत्कटेश्वरं लिंगं मरुत्कोटादिहागतम् ॥

कामेश्वरोत्तरे भागे दृष्टं विमलसिद्धिदम्

॥२३॥

विश्वस्थानादिहायातं लिंगं वै विमलेश्वरम् ॥

स्वर्लीनात्पश्चिमे भागे दृष्टं विमलसिद्धिदम्

॥२४॥

महाव्रतं महालिंगं महेंद्रादिह संस्थितम् ॥

स्कंदेश्वर समीपे तु महाव्रतफलप्रदम्

॥२५॥

वृंदारकर्षिवृंदानां स्तुवतां प्रथमे युगे ॥

उत्पन्नं यन्महालिंगं भूमिं भित्त्वा सुदुर्भिदाम्

॥२६॥

महादेवेति तैरुक्तं यन्मनोरथपूरणात ॥

वाराणस्यां महादेवस्तदारभ्याभवच्च यत्

॥२७॥

मुक्तिक्षेत्रं कृतं येन महालिंगेन काशिका ॥

अविमुक्ते महादेवं यो द्रक्ष्यत्यत्रमानवः

॥२८॥

शंभुलोके गमस्तस्य यत्रतत्र मृतस्य हि ॥

अविमुक्ते प्रयत्नेन तत्संसेव्यं मुमुक्षुभिः

॥२९॥

कल्पांतरेपि न त्यक्तं कदाप्यानंदकाननम् ॥

येन लिंगस्वरूपेण महादेवेन सर्वथा

॥३०॥

तत्प्रसादोयमतुलः सर्वरत्नमयः शुभः ॥

हिरण्यगर्भतीर्थाच्च प्रतीच्यां क्षेत्ररक्षकम्

॥३१॥

वाराणस्यामधिष्ठात्री देवता साभिलाषदा ॥

महादेवेति संज्ञा वै सर्वलिंगस्वरूपिणी

॥३२॥

वाराणस्यां महादेवो दृष्टो यैर्लिंगरूपधृक् ॥

तेन त्रैलोक्यलिंगानि दृष्टानीह न संशयः

॥३३॥

वाराणस्यां महादेवं समभ्यर्च्य सकृन्नरः ॥

आभूतसंप्लवं यावच्छिवलोके वसेन्मुदा

॥३४॥

पवित्रपर्वणि सदा श्रावणे मासि यत्नतः ॥

लिंगे पवित्रमारोप्य महादेवे न गर्भभाक्

॥३५॥

पितामहेश्वरं लिंगं गयातीर्थादिहागतम् ॥

फल्ग्रुप्रभृतिभिस्तीर्थैः सार्धकोट्यष्टसंमितैः

॥३६॥

धर्मेण यत्र वै तप्तं युगानामयुतं शतम् ॥

साक्षीकृत्य महालिंगं श्रीमद्धर्मेश्वराभिधम्

॥३७॥

पितामहेश्वरं लिंगं तत्राभ्यर्च्य नरो मुदा ॥

त्रिःसप्तकुलसंयुक्तो मुच्यते नात्र संशयः

॥३८॥

प्रयागात्तीर्थराजाच्च शूलटंको महेश्वरः ॥

तीर्थराजेन सहितः स्थित आगत्य वै स्वयम्

॥३९॥

निर्वाणमंडपाद्रम्यादवाच्यामतिनिर्मलः ॥

प्रासादो मेरुणा यस्य स्पर्धते कांचनोज्वलः

॥४०॥

देवेनैव वरो दत्तो यत्र पूर्वं युगांतरे ॥

पूज्यो महेश्वरः काश्यां प्रथमं कलुषापहः

॥४१॥

यः प्रयाग इह स्नातो नमस्यति महेश्वरम् ॥

समभ्यर्च्य विधानेन महासंभारविस्तरैः

॥४२॥

प्रयागस्नानजात्पुण्याच्छूलटंक विलोकनात् ॥

स प्राप्नुयान्न संदेहः पुण्यं कोटिगुणोत्तरम्

॥४३॥

शंकुकर्णान्महाक्षेत्रान्महातेज इतीरितम् ॥

लिंगमाविरभूदत्र महातेजोविवृद्धिदम्

॥४४॥

महातेजोनिधिस्तस्य प्रासादोतीवनिर्मलः ॥

ज्वालाजटिलिताकाशो माणिक्यैरेव निर्मितः

॥४५॥

तल्लिंगदर्शनात्स्पर्शात्स्तवनाच्च समर्चनात् ॥

प्राप्यते तत्परं धाम यत्र गत्वा न शोचते

॥४६॥

विनायकेश्वरात्पूर्वं महातेजः समर्चनात् ॥

तेजोमयेन यानेन याति माहेश्वरं पदम्

॥४७॥

रुद्रकोटिसमाख्यातात्तीर्थात्परमपावनात् ॥

महायोगीश्वरं लिंगमाविश्चक्रे स्वयं परम्

॥४८॥

पार्वतीश्वर लिंगस्य समीपे सर्वसिद्धिकृत् ॥

तल्लिंगदर्शनात्पुंसां कोटिलिंग फलं भवेत्

॥४९॥

तत्प्रासादस्य परितो रुद्राणां कोटिसंमिताः ॥

प्रासादारम्यसंस्थाना निर्मिता रुद्रमूर्तिभिः

॥५०॥

काश्यां रुद्रस्थली सा तु पठ्यते वेदवादिभिः ॥

रुद्रस्थल्यां मृता ये वै कृमिकीटपतंगकाः

॥५१॥

पशुपक्षिमृगा मर्त्या म्लेच्छा वाप्यथ दीक्षिताः ॥

तेषां तु रुद्रीभूतानां पुनरावृत्तिरत्र न

॥५२॥

जन्मांतरसहस्रेषु यत्पापं समुपार्जितम् ॥

रुद्रस्थलीं प्रविष्टस्य तत्सर्वं व्रजति क्षयम्

॥५३॥

अकामो वा सकामो वा तिर्यग्योनिगतोपि वा ॥

रुद्रस्थल्यां त्यजन्प्राणान्परं निर्वाणमाप्नुयात्

॥५४॥

स्वयमेकांबरात्क्षेत्रात्कृत्तिवासा इहागतः ॥

कृत्तिवाससि लिंगेत्र स्वयमेव व्यवस्थितः

॥५५॥

अस्मिन्स्थाने स्वभक्तानां सांबः सर्षिगणो विभुः ॥

स्वयं चोपदिशेद्ब्रह्म श्रुतौ श्रुतिभिरीडितम्

॥५६॥

क्षेत्रेत्र सिद्धिदे प्राप्तश्चंडीशो मरुजांगलात् ॥

प्रचंडपापसंघातं खंडयेच्छतधेक्षणात्

॥५७॥

पाशपाणिगणाध्यक्ष समीपे यः प्रपश्यति ॥

चंडीश्वरं महालिंगं स याति परमां गतिम्

॥५८॥

कालंजरान्नीलकंठस्तिष्ठेदत्र स्वयं विभुः ॥

गणेशाद्दंतकूटाख्यात्समीपे भवनाशनः

॥५९॥

नीलकंठेश्वरं लिंगं काश्यां यैः परिपूजितम् ॥

नीलकंठास्त एव स्युस्तएव शशिभूषणाः

॥६०॥

काश्मीरादिह संप्राप्तं लिंगं विजयसंज्ञितम् ॥

सदा विजयदं पुंसां प्राच्यां शालकटंकटात्

॥६१॥

रणे राजकुले द्यूते विवादे सर्वदैव हि ॥

विजयो जायते पुंसां विजयेश समर्चनात्

॥६२॥

ऊर्ध्वरेतास्त्रिदंडायाः संप्राप्तोत्र स्वयं विभुः ॥

कूश्मांडकं गणाध्यक्षं पुरस्कृत्य व्यवस्थितः

॥६३॥

ऊर्ध्वां गतिमवाप्नोति वीक्षणादूर्ध्वरेतसः ॥

ऊर्ध्वरेतसि ये भक्ता न हि तेषामधोगतिः

॥६४॥

मंडलेश्वरतः क्षेत्राल्लिंगं श्रीकंठसंज्ञितम् ॥

विनायकान्मंडसंज्ञादुत्तरस्यां व्यवस्थितम्

॥६५॥

श्रीकंठस्य च ये भक्ताः श्रीकंठा एव ते नराः ॥

नेह श्रिया वियुज्यंते न परत्र कदाचन

॥६६॥

छागलांडान्महातीर्थात्कपर्दीश्ववरसंज्ञितः ॥

पिशाचमोचने तीर्थे स्वयमाविरभूद्विभुः

॥६७॥

कपर्दीशं समभ्यर्च्य न नरो निरयं व्रजेत् ॥

न पिशाचत्वमाप्नोति कृत्वात्राप्यघमुत्तमम्

॥६८॥

आम्रातकेश्वरात्क्षेत्राल्लिंगं सूक्ष्मेश संज्ञितम् ॥

स्वयमभ्यागतं चात्र क्षेत्रे वै श्रेयसांपदे

॥६९॥

विकट द्विजसंज्ञस्य गणेशस्य समीपतः ॥

दृष्ट्वा सूक्ष्मेश्वरं लिंगं गतिं सूक्ष्मामवाप्नुयात्

॥७०॥

संप्राप्तमिह देवेशं जयंतं मधुकेश्वरात् ॥

लंबोदराद्गणपतेः पुरस्तात्तदवस्थितम्

॥७१॥

जयंतेश्वरमालोक्य स्नात्वा गंगाजले शुभे ॥

प्राप्नुयाद्वांछितां सिद्धिं सर्वत्र विजयी भवेत्

॥७२॥

प्रादुश्चकार देवेशः श्रीशैलात्त्रिपुरांतकः ॥

श्रीशैलशिखरं दृष्ट्वा यत्फलं समुदीरितम्

॥७३॥

त्रिपुरांतकमालोक्य तत्फलं हेलयाप्यते ॥

विश्वेरात्पश्चिमे भागे त्रिपुरांतकमीश्वरम्

॥७४॥

संपूज्य परया भक्त्या न नरो गर्भमाविशेत् ॥

सौम्यस्थानादिहायातो भगवान्कुक्कुटेश्वरः

॥७९॥

वक्रतुंड गणाध्यक्ष समीपे सोपतिष्ठते ॥

तद्दर्शनादर्चनाच्च करस्थाः सर्वसिद्धयः

॥७६॥

जालेश्वरात्त्रिशूली च स्वयमीशः समागतः ॥

कूटदंताद्गणपतेः पुरस्तात्सर्वसिद्धिदः

॥७७॥

रामेश्वरान्महाक्षेत्राज्जटीदेवः समागतः ॥

एकदंतोत्तरे भागे सोर्चितः सर्वकामदः

॥७८॥

त्रिसंध्यात्क्षेत्रतो देवस्त्र्यंबकोस्ति समागतः ॥

त्रिमुखात्पूर्वदिग्भागे पूजितस्त्र्यंबकत्वकृत्

॥७९॥

हरेश्वरो हरिश्चंद्रात्क्षेत्रादत्र समागतः ॥

हरिश्चंद्रेश्वरपुरः पूजितो जयदः सदा

॥८०॥

इह शर्वः समायातः स्थानान्मध्यमकेश्वरात् ॥

चतुर्वेदेश्वरं लिंगं पुरोधाय व्यवस्थितम्

॥८१॥

शर्वं लिंगं समभ्यर्च्य काश्यां परमसिद्धिकृत् ॥

न जातु जंतुपदवीं प्राप्नुयात्क्वापि मानवः

॥८२॥

स्थलेश्वरान्महालिंगं प्रादुर्भूतं परंत्विह ॥

यत्र यज्ञेश्वरं लिंगं सर्वलिंगफलप्रदम्

॥८३॥

महालिंगं समभ्यर्च्य महाश्रद्धासमन्वितः ॥

महतीं श्रियमाप्नोति लोकेत्र च परत्र च

॥८४॥

इह लिंगं सहस्राक्षं सुवर्णाख्यात्समागतम् ॥

यस्य संदर्शनात्पुंसां ज्ञानचक्षुः प्रजायते

॥८५॥

शैलेश्वरादवाच्यां तु सहस्राक्षेश्वरं विभुम् ॥

दृष्ट्वा जन्मसहस्राणां शतानां पातकं त्यजेत्

॥८६॥

हर्षिताद्धर्षितं चात्र प्रादुरासीत्तमोहरम् ॥

लिंगंहर्षप्रदं पुंसां दर्शनात्स्पर्शनादपि

॥८७॥

मंत्रेश्वर समीपे तु प्रासादो हर्षितेशितुः ॥

तद्विलोकनतः पुंसां नित्यं हर्ष परंपरा

॥८८॥

इह स्वयं समायातो रुद्रो रुद्रमहालयात् ॥

यस्य दर्शनतो यांति रुद्रलोके नराः स्फुटम्

॥८९॥

यैस्तु रुद्रेश्वरं लिंगं काश्यामत्र समर्चितम् ॥

ते रुद्ररूपिणो मर्त्या विज्ञेया नात्र संशयः

॥९०॥

त्रिपुरेश समीपे तु दृष्ट्वा रुद्रेश्वरं विभुम् ॥

रुद्रास्त इव विज्ञेया जीवंतोपि मृता अपि

॥९१॥

आगादिह महादेवो वृषेशो वृषभध्वजात् ॥

बाणेश्वरस्य लिंगस्य समीपे वृषदः सदा

॥९२॥

इहागतं तु केदारादीशानेश्वर संज्ञितम् ॥

तद्द्रष्टव्यं प्रतीच्यां च लिंगं प्रह्लादकेशवात्

॥९३॥

ईशानेशं समभ्यर्च्य स्नात्वोत्तरवहांभसि ॥

वसेदीशाननगरे ईशानसदृशप्रभः

॥९४॥

भैरवाद्भैरवी मूर्तिरत्रायाता मनोहरा ॥

संहारभैरवो नाम द्रष्टव्यः स प्रयत्नतः

॥९५॥

पूजनात्सर्वसिद्ध्यै स प्राच्यां खर्वविनायकात् ॥

संहारभैरवः काश्यां संहरेदघसंततिम्

॥९६॥

उग्रः कनखलात्तीर्थादाविरासेह सिद्धिदः ॥

तद्विलोकनतो नृणामुग्रं पापं प्रणश्यति

॥९७॥

उग्रं लिंगं सदा सेव्यं प्राच्यामर्कविनायकात् ॥

अत्युग्रा अपि नश्येयुरुपसर्गास्तदर्चनात्

॥९८॥

वस्त्रापथान्महाक्षेत्राद्भवो नाम स्वयं विभुः ॥

भीमचंडी समीपे तु प्रादुरासीदिह प्रभो

॥९९॥

भवेश्वरं समभ्यर्च्य भवेनाविर्भवेन्नरः ॥

प्रभुर्भवति सर्वेषां राज्ञामाज्ञाकृतामिह

॥१००॥

देवदारुवनाद्दंडी दंडयन्पातकावलीः ॥

वाराणस्यां समागत्य स्थितो लिंगाकृतिर्विभुः

॥१॥

प्राच्यां दंडीश्वरः पूज्यः स देहलिविनायकात् ॥

तस्यार्चनेन मर्त्त्यानां न पुनर्भव ईक्ष्यते

॥२॥

भद्रकर्णह्रदादत्र भद्रकर्णह्रदान्वितः ॥

शिवः साक्षादिहायातः सर्वेषां शिवदोर्चितः

॥३॥

उद्दंडाख्याद्गणपतेः प्राच्यां तत्तीर्थमुत्तमम् ॥

भद्रकर्णह्रदे स्नात्वाभ्यर्च्य लिंगं शिवाह्वयम्

॥४॥

सर्वत्र शिवमाप्नोति भद्रकर्णेश पूजनात् ॥

शृणुयात्सर्वभूतानां भद्रं पश्यति चाक्षिभिः

॥५॥

शंकरश्च हरिश्चंद्रात्त्वत्पुरः प्रतिभासते ॥

तत्पूजनाज्जनानां न जननीजठरे जनिः

॥६॥

यमलिंगान्महातीर्थात्काललिंगमिह स्थितम् ॥

कलशेश इति ख्यातं चंद्रेशात्पश्चिमेन च

॥७॥

यमतीर्थे नरः स्नात्वा मित्रावरुणदक्षिणे ॥

काललिंगं समालोक्य कलिकाल भयं कुतः

॥८॥

तत्र भौमचतुर्दश्यां यस्तु यात्रां करिष्यति ॥

अपि पातक युक्तः स यमयात्रां न यास्यति

॥९॥

नैपालाच्च महाक्षेत्रादायात्पशुपतिस्त्विह ॥

यत्र पाशुपतो योग उपदिष्टः पिनाकिना

॥११०॥

भवता देवदेवेन ब्रह्मादिभ्यो विमुक्तये ॥

तस्य संदर्शनादेव पशुपाशैर्वियुज्यते

॥११॥

करवीरकतीर्थाच्च कपालीश इहागतः ॥

कपालमोचने तीर्थे द्रष्टव्यः स प्रयत्नतः

॥१२॥

तद्विलोकनमात्रेण ब्रह्महत्या विलीयते ॥

उमापतिर्देविकाया इहागत्य व्यवस्थितः

॥१३॥

दृष्टः पशुपतिः प्राच्यां हरेत्पापं चिरार्जितम् ॥

लिंगं महेश्वरक्षेत्रादिह दीप्तेश संज्ञितम्

॥१४॥

उपोमापति तिष्ठेत दीप्त्यै चेह परत्र च ॥

भुक्तिमुक्ति प्र दं लिंगं दीप्तेशं काशिमध्गम्

॥१५॥

कायारोहणतः क्षेत्रादाचार्यो नकुलीश्वरः ॥

शिष्यैः परिवृतस्तिष्ठेन्महापाशुपतव्रतैः

॥१६॥

दक्षिणे हि महादेवादृष्टो ज्ञानं प्रयच्छति ॥

अज्ञानं नाशयेत्क्षिप्रं गर्भसंसृतिहेतुकम्

॥१७॥

गंगासागरतश्चायादमरेश इतीरितम् ॥

लिंगं यद्दर्शनादेव नामरत्वं हि दुर्लभम्

॥१८॥

सप्तगोदावरीतीर्थाद्देवो भीमेश्वरः प्रभुः ॥

प्रकाशते लिंगरूपी भुक्त्यै मुक्त्यै नृणामिह

॥१९॥

नकुलीशात्पुरोभागे दृष्टा भीमेश्वरं प्रभुम् ॥

महाभीमानि पापानि प्रणश्यंति हि तत्क्षणात्

॥१२०॥

भूतेश्वराद्भस्मगात्रं प्रादुरासीदिह स्वयम् ॥

भीमेशाद्दक्षिणे भागे तदभ्यर्च्य प्रयत्नतः

॥२१॥

सम्यक्पाशुपताद्यो गादभ्यस्ताच्च समाः शतम् ॥

यत्प्राप्यते फलं तत्स्याद्भस्मगात्रविलोकनात्

॥२२॥

नकुलीश्वरतो देवः स्वयंभूरिति विश्रुतः ॥

आत्मनाप्रकटीभूतः काश्यां लिंगाकृतिर्हरः

॥२३॥

स्वयंभु लिंगं संपूज्य स्नात्वा सिद्धिह्रदे नरः ॥

महालक्ष्मीश्वर पुरो न भूयो जन्मभाग्भवेत्

॥२४॥

प्रयागतीर्थनिकषा प्रासादो विद्रुमप्रभः ॥

वाराहस्य महानेष धरणीनाम्न एव हि

॥२५॥

विंध्यपर्वततः प्राप्तो देवं श्रुत्वा समागतम् ॥

सगणं सर्षिदेवं च मंदरादत्र कंदरात्

॥२६॥

काश्यां धरणिवाराहो द्रष्टव्यः स प्रयत्नतः ॥

आपत्समुद्रसंमग्नमुद्धरेच्छरणागतम्

॥२७॥

कर्णिकाराद्गणाध्यक्षः कर्णिकारप्रसूनरुक् ॥

समर्च्योयं गदाहस्त उपसर्गसहस्रहृत्

॥२८॥

तस्माद्धरणिवाराहात्प्रतीच्यां दिशि संस्थितम् ॥

पूजयित्वा गणाध्यक्षं गाणपत्यपदं लभेत्

॥२९॥

हेमकूटाद्विरूपाक्षं लिंगमत्राविरास ह ॥

महेश्वरादवाच्यां च दृष्टं संसारतारकम्

॥१३०॥

गंगाद्वाराद्धिमस्थेशं लिंगं हिमसमप्रभम् ॥

ब्रह्मनालात्प्रतीच्यां च द्रष्टव्यमिह सिद्धिदम्

॥३१॥

गणाधिपश्च कैलासाद्गणा अन्ये महाबलाः ॥

कैलासाद्रेः समायाताः सप्तकोटिमिताः प्रभो

॥३२॥

दुर्गाणि तैः कृतानीह सप्तस्वर्गसमानि च ॥

सद्वाराणि सयंत्राणि कपाटविकटानि च

॥३३॥

कोटिकोटिभटाढ्यानि सर्वर्द्धिसहितान्यपि ॥

सुवर्णरूप्यताम्रैश्च कांस्यरीतिकसीसकैः

॥३४॥

अयस्कांतेन कांतानि दृढान्यभ्रंलिहान्यपि ॥

ततः शैलं महादुर्गं तैः काशीपरितः कृतम्

॥३५॥

परिखापि कृता निम्ना मत्स्योदर्याजलाविला ॥

मत्स्योदरी द्विधा जाता बहिरंतश्चरा पुनः

॥३६॥

तच्च तीर्थं महत्ख्यातं मिलितं गांगवारिभिः ॥

यदा संहारमार्गेण गंगाभः प्रसरेदिह

॥३७॥

तदा मत्स्योदरी तीर्थं लभ्यते पुण्यगौरवात् ॥

सूर्याचंद्रमसोः पर्वतदाकोटिगुणं शतम्

॥३८॥

सर्वपर्वाणि तत्रैव सर्वतीर्थानि तत्र वै ॥

तत्रैव सर्वलिंगानि गंगामत्स्योदरीयतः

॥३९॥

मत्स्योदर्यां हि ये स्नाता यत्रकुत्रापि मानवाः ॥

कृतपिंडप्रदानास्ते न मातुरुदरेशयाः

॥१४०॥

अविमुक्तमिदं क्षेत्रं मत्स्याकारत्वमाप्नुयात् ॥

परितः स्वर्धुनीवारि संसारि परिवीक्ष्यते

॥४१॥

मत्स्योदर्यां कृतस्नाना ये नरास्ते नरोत्तमाः ॥

कृत्वापि बहुपापानि नेक्षंते भास्करेः पुरीम्

॥४२॥

किं स्नात्वा बहुतीर्थेषु किं तप्त्वा दुष्करं तपः ॥

यदि मत्स्योदरी स्नाता कुतो गर्भभयं ततः

॥४३॥

यत्रयत्र हि लिंगानि नृदेवर्षिकृतान्यपि ॥

तत्र मत्स्योदरीं प्राप्य सुस्नातो मोक्षभाजनम्

॥४४॥

संति तीर्थान्यनेकानि भूर्भुवःस्वर्गतान्यपि ॥

न समानि परं तानि कोट्यंशेनापि निश्चितम्

॥४५॥

इत्थं तीर्थं कृतं तेन विभो कैलासवासिना ॥

गणाधिपेन सुमहत्सुमहोदारकर्मणा

॥४६॥

भूर्भुवःसंज्ञकं लिंगं पर्वताद्गंधमादनात् ॥

स्वयमाविरभूदत्र तस्मात्प्राच्यां गणाधिपात्

॥४७॥

विलोक्य भूर्भुवं लिंगं भूर्भुवःस्वर्महः परे ॥

निवसंति जनाः पुण्याः सुचिरं दिव्यभोगिनः

॥४८॥

हाटकेशं महालिंगं भोगवत्या समायुतम् ॥

सप्तपातालतलत इहायातं स्वयं विभो

॥४९॥

शेषवासुकिमुख्यैश्च तत्प्रासादो महानिह ॥

मणिमाणिक्यरत्नौघैर्निरमायि प्रयत्नतः

॥१५०॥

तल्लिंगं हाटकमयं रत्नमालाभिरर्चितम् ॥

ईशानेश्वरतः प्राच्यां पूजनीय प्रयत्नतः

॥५१॥

भक्तितोऽभ्यर्च्य तल्लिंगं नरः सर्वसमृद्धिमान् ॥

भुक्त्वा भोगानसंख्यातानंते निवार्णमृच्छति

॥५२॥

आकाशात्तारकाल्लिगं ज्योतीरूपमिहागतम् ॥

ज्ञानवाप्याः पुरोभागे तल्लिंगं तारकेश्वरम्

॥५३॥

तारकं ज्ञानमाप्येत तल्लिंगस्य समर्चनात् ॥

ज्ञानवाप्यां नरः स्नात्वा तारकेशं विलोक्य च

॥५४॥

कृतसंध्यादि नियमः परितर्प्य पितामहान् ॥

धृतमौनव्रतो धीमान्यावल्लिंग विलोकनम्

॥५५॥

मुच्यते सर्वपापेभ्यः पुण्यं प्राप्नोति शाश्वतम् ॥

प्रांते च तारकं ज्ञानं यस्माज्ज्ञानाद्विमुच्यते

॥५६॥

किराताच्च किरातेश इहचाविर्बभूव ह ॥

किरातरूपो भगवान्यत्र देवोऽभवत्पुरा

॥५७॥

तत्किरातेश्वरं लिंगं भारभूतेश्वरादनु ॥

नमस्कृत्य नरो जातु न मातुरुदरेशयः

॥५८॥

लंकापुर्याः समागच्छन्मरुकेश्वरसंज्ञकम् ॥

लिंगं यदर्चनात्पुंसां न भयं रक्षसां भवेत्

॥५९॥

नैर्कत्यां दिशि तल्लिंगं निर्ऋतेश्वरसंज्ञकम् ॥

पौलस्त्यराघवात्पश्चात्पूजितं सर्वदुष्टहृत्

॥१६०॥

पुण्यजलप्रियं लिंगं जललिंगस्थलादपि ॥

आयातं तच्च गङ्गाया जलमध्ये व्यवस्थितम्

॥६१॥

तत्प्रासादोऽद्भुततरो मध्ये गंगं निरीक्ष्यते ॥

सर्वधातुमयः श्रेष्ठः सर्वरत्नमयः शुभः

॥६२॥

अद्यापि दृश्यते कैश्चित्पुण्यसंभारगौरवात् ॥

श्रेष्ठं लिंगमिहायातं तीर्थात्कोटीश्वरादपि

॥६३॥

कोटिलिंगे क्षणे पुण्यं तल्लिंगस्य निरीक्षणात् ॥

श्रेष्ठं ज्येष्ठेश्वरात्पश्चाच्छ्रेष्ठ सिद्धिप्रदायकम्

॥६४॥

वडवास्यात्समुद्भूतं लिंगमत्रानलेश्वरम् ॥

नलेश्वर पुरोभागे पूजितं सर्वसिद्धिदम्

॥६५॥

आगत्य विरजस्तीर्थाद्देवदेवस्त्रिलोचनः ॥

लिंगे त्वनादिसंसिद्धे ह्यवतस्थे त्रिविष्टपे

॥६६॥

पुण्ये पिलिपिला तीर्थे सर्वेषां तारकप्रदे ॥

आविश्चक्रे स्वयदेव ओंकारोमरकंटकात्

॥६७॥

तदाद्यं तारकक्षेत्रं यदा गंगा न चागता ॥

यदैवाविरभूत्काशी त्रैलोक्योद्धणाय वै

॥६८॥

तदाकृतिमहल्लिंगं स्वयमाविरभूत्ततः ॥

महिमानं न तस्यान्यः परिवेत्ति विभोर्ऋते

॥६९॥

एतान्यायतनानीश आनिनाय महांति च ॥

शेषयित्वांशमात्रं च तस्मिन्क्षेत्रे निजे निजे

॥१७०॥

इहायातानि पुण्यानि सर्वभावेन नान्यथा ॥

प्रासादाः सर्वतश्चैषां रम्या अभ्रंलिहा विभो

॥७१॥

बहुधातुमयाश्चित्राः सर्वरत्नसमु्ज्ज्वलाः ॥

येषां कलशमात्रस्य दर्शनान्मुक्तिराप्यते

॥७२॥

श्रुत्वापि नाम चैतेषां लिंगानां सुरसत्तम ॥

अपि जन्मसहस्रोत्थाः क्षीयंते पापराशयः

॥७३॥

इदानीं को निदेशोत्र मयानुष्ठेय ईशितः ॥

प्रसादी क्रियतांसो पि सिद्धो मंतव्य एव हि

॥७४॥

स्कंद उवाच

श्रुत्वेति नंदिनो वाक्यं देवदेवेश्वरो हरः ॥

श्रद्धा प्रसाद्य शैलादिमिदं प्रोवाच कुंभज

॥७५॥

श्रीदेवदेव उवाच

साधूकृतं त्वया नंदिन्सदानंद विधायक ॥

विधेहि मे निदेशं च चंडीर्व्यापारयाधुना

॥७६॥

नवकोट्यस्तु चामुंडायायत्र निवसंति हि ॥

स्वदेवताभिः सहिता भूतवेताल भैरवैः

॥७७॥

ताः पुरी रक्षणार्थाय सवाहनबलायुधाः ॥

प्रतिदुर्गं दुर्गरूपाः परितः परिवासय

॥७८॥

स्कंद उवाच

नंदिनं संनिदेश्येति मृडान्या सहितो मृडः ॥

ययौ त्रैविष्टपं क्षेत्रं मुक्तिबीजप्ररोहणम्

॥७९॥

शिलादतनयोप्यैशीं मूर्द्धन्याज्ञां विधाय च ॥

आहूय सर्वतो दुर्गाः प्रतिदुर्गं न्यवेशयत्

॥१८०॥

निशम्याध्यायमेतं च पुण्यायतन गर्भिणम् ॥

नरः स्वर्गापवर्गौ च प्राप्नुयाच्छ्रद्धया क्रमात्

॥८१॥

श्रुत्वाष्टषष्टिमेतां वै महायतन संश्रयाम् ॥

न जातु प्रविशेन्मर्त्यो जनन्या जाठरीं दरीम्

॥१८२॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धेऽष्टषष्ट्यायतनसमागमो नामैकोनसप्ततितमोध्यायः ॥ ६९ ॥