मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय २७

3
काशीखण्डः · 27

स्तोत्रकथनम्

स्कंद उवाच

वाराणसीति प्रथितं यथा चानंदकाननम् ॥

तथा च कथयामीह देवदेवेनभाषितम्

॥१॥

ईश्वर उवाच

निशामय महाबाहो विष्णो त्रैलोक्यसुंदर ॥

प्राप्तं वाराणसीत्याख्यामविमुक्तं यथा तथा

॥२॥

निर्दग्धान्सागराञ्छ्रुत्वा कपिलक्रोधवह्निना ॥

अश्वमेधाश्वसंयुक्तान्पूर्वजान्स्वान्भगीरथः

॥३॥

सूर्यवंशे महातेजा राजा परमधार्मिकः ॥

आरिराधयिषुर्गंगां तपसे कृतनिश्चयः

॥४॥

हिमवंतं नगश्रेष्ठममात्य न्यस्तराज्यधूः ॥

जगाम यशसां राशिरुद्दिधीर्षुः पितामहान्

॥५॥

ब्रह्मशापाग्निनिर्दग्धान्महादुर्गतिगानपि ॥

विना त्रिमार्गगां विष्णो को जंतूंस्त्रिदिवं नयेत्

॥६॥

ममैव सा परामूर्तिस्तोयरूपा शिवात्मिका ॥

ब्रह्मांडानामनेकानामाधारः प्रकृतिः परा

॥७॥

शुद्धविद्यास्वरूपा च त्रिशक्तिः करुणात्मिका ॥

आनंदामृतरूपा च शुद्धधर्मस्वरूपिणी

॥८॥

यामेतां जगतां धात्रीं धारयामि स्वलीलया ॥

विश्वस्य रक्षणार्थाय परब्रह्मस्वरूपिणीम्

॥९॥

त्रैलोक्ये यानि तीर्थानि पुण्यक्षेत्राणि यानि च ॥

सर्वत्र सर्वे ये धर्माः सर्वयज्ञाः सदक्षिणाः

॥१०॥

तपांसि विष्णो सर्वाणि श्रुतिः सांगा चतुर्विधा ॥

अहं च त्वं च कश्चापि देवतानां गणाश्च ये

॥११॥

पुरुषार्थाश्च सर्वे वै शक्तयो विविधाश्च याः ॥

गंगायां सर्व एवैते सूक्ष्मरूपेण संस्थिताः

॥१२॥

स स्नातः सर्वतीर्थेषु सर्वक्रतुषु दीक्षितः ॥

चीर्णसर्वव्रतः सोपि यस्तु गंगां निषेवते

॥१३॥

तपांसि तेन तप्तानि सर्वदानप्रदः स च ॥

स प्राप्त योगनियमो यस्तु गंगां निषेवते

॥१४॥

सर्ववर्णाश्रमेभ्यश्च वेदविद्भ्यश्च वै तथा ॥

शास्त्रार्थपारगेभ्यश्च गंगास्नायी विशिष्यते

॥१५॥

मनोवाक्कायजैर्दोषैर्दुष्टो बहुविधैरपि ॥

वीक्ष्य गंगां भवेत्पूतः पुरुषो नात्र संशयः

॥१६॥

कृते सर्वत्र तीर्थानि त्रेतायां पुष्करं परम् ॥

द्वापरे तु कुरुक्षेत्रं कलौ गंगैव केवलम्

॥१७॥

पूर्वजन्मांतराभ्यास वासनावशतो हरे ॥

गंगातीरे निवासः स्यान्मदनुग्रहतः परात्

॥१८॥

ध्यानं कृते मोक्षहेतुस्त्रेतायां तच्च वै तपः ॥

द्वापरे तद्द्वयं यज्ञाः कलौ गंगैव केवलम्

॥१९॥

यो देहपतनाद्यावद्गंगातीरं न मुंचति ॥

स हि वेदांतविद्योगी ब्रह्मचर्यव्रती सदा

॥२०॥

कलौ कलुषचित्तानां परद्रव्यरतात्मनाम् ॥

विधिहीनक्रियाणां च गतिर्गंगा विना नहि

॥२१॥

अलक्ष्मीः कालकर्णी च दुःस्वप्नो दुर्विचिंतितम् ॥

गंगागंगेति जपनात्तानि नोपविशंति हि

॥२२॥

गंगा हि सर्वभूतानामिहामुत्र फलप्रदा ॥

भावानुरूपतो विष्णो सदा सर्वजगद्धिता

॥२३॥

यज्ञ दान तपो योग जपाः सनियमा यमाः ॥

गंगासेवासहस्रांशं न लभंते कलौ हरे

॥२४॥

किमष्टांगेन योगेन किं तपोभिः किमध्वरैः ॥

वास एव हि गंगायां ब्रह्मज्ञानस्य कारणम्

॥२५॥

अपि दूरस्थितस्यापि गंगामाहात्म्यवेदिनः ॥

अयोग्यस्यापि गोविंदभक्त्या गंगा प्रसीदति

॥२६॥

श्रद्धा धर्मः परः सूक्ष्मः श्रद्धा ज्ञानं परं तपः ॥

श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धया सा प्रसीदति

॥२७॥

अज्ञानरागलोभाद्यैः पुंसां संमूढचेतसाम् ॥

श्रद्धा न जायते धर्मे गंगायां च विशेषतः

॥२८॥

बहिः स्थितं जलंयद्वन्नारिकेलांतरे स्थितम् ॥

तथा ब्रह्मांडबाह्यस्थं परब्रह्मांबु जाह्नवी

॥२९॥

गंगालाभात्परो लाभः क्वचिदन्यो न विद्यते ॥

तस्माद्गंगामुपासीत गंगैव परमः पुमान्

॥३०॥

शक्तस्य पंडितस्यापि गुणिनो दानशीलिनः ॥

गंगास्नानविहीनस्य हरे जन्म निरर्थकम्

॥३१॥

वृथा कुल वृथा विद्या वृथा यज्ञा वृथातपः ॥

वृथा दानानि तस्येह कलौ गंगां न यो भजेत्

॥३२॥

गुणवत्पात्रपूजायां न स्याद्वै तादृशं फलम् ॥

यथा गंगाजलस्नान पूजने विधिना फलम्

॥३३॥

ममतेजोग्निगर्भेयं ममवीर्यातिसंवृता ॥

दाहिका सर्वदोषाणां सर्वपापविनाशिनी

॥३४॥

स्मरणादेव गंगायाः पापसंघातपंजरम् ॥

शतधा भेदमायाति गिरिर्वज्रहतो यथा

॥३५॥

गंगां गच्छति यस्त्वेको यस्तु भक्त्यानुमोदयेत् ॥

तयोस्तुल्यफलं प्राहुर्भक्तिरेवात्र कारणम्

॥३६॥

गच्छंस्तिष्ठञ्जपन्ध्यान्भुंजञ्जाग्रत्स्वपन्वदन् ॥

यः स्मरेत्सततं गंगां स हि मुच्येत बंधनात्

॥३७॥

पितॄनुद्दिश्य योभक्त्या पायसं मधुसंयुतम् ॥

गुडसर्पिस्तिलैःसार्धं गंगांभसि विनिक्षिपेत्

॥३८॥

तृप्ता भवंति पितरस्तस्य वर्षशतं हरे ॥

यच्छंति विविधान्कामान्परितुष्टाः पितामहाः

॥३९॥

लिंगे संपूजिते सर्वमर्चितं स्याज्जगद्यथा ॥

गंगास्नानेन लभते सर्वतीर्थफलं तथा

॥४०॥

गंगायां तु नरः स्नात्वा यो लिंगं नित्यमर्चति ॥

एकेन जन्मना मुक्तिं परां प्राप्नोति स ध्रुवम्

॥४१॥

अग्निहोत्रं च यज्ञाश्च व्रतदानतपांसि च ॥

गंगायां लिंगपूजायाः कोट्यंशेनापि नो समाः

॥४२॥

गंगां गंतुं विनिश्चित्य कृत्वा श्राद्धादिकं गृहे ॥

स्थितस्य सम्यक्संकल्पात्तस्य नंदंति पूर्वजाः

॥४३॥

पापानि च रुदंत्याशु हा क्व यास्याम इत्यलम् ॥

लोभमोहादिभिः सार्धं मंत्रयंति पुनःपुनः

॥४४॥

यथा न गंगां यात्येष तथा विघ्नं प्रकुर्महे ॥

गंगां गतो यथा चैष न उच्छित्तिं विधास्यति

॥४५॥

गृहाद्गंगावगाहार्थं गच्छतस्तु पदेपदे ॥

निराशानि व्रजंत्येव पापान्यस्य शरीरतः

॥४६॥

पूर्वजन्मकृतैः पुण्यैस्त्यक्त्वा लोभादिकं हरे ॥

व्युदस्य सर्वविघ्नौघान्गंगां प्राप्नोति पुण्यवान्

॥४७॥

अनुषंगेण मौल्येन वाणिज्येनापि सेवया ॥

कामासक्तोपि वा मर्त्यो गंगास्नातो दिवं व्रजेत्

॥४८॥

अनिच्छयापि संस्पृष्टो दहनो हि यथा दहेत् ॥

अनिच्छयापि संस्नाता गंगा पापं तथा दहेत्

॥४९॥

तावद्धमति संसारे यावद्गंगां न सेवते ॥

संसेव्य गंगां नो जंतुर्भवक्लेशं प्रपश्यति

॥५०॥

यो गंगांभसि निस्नातो भक्त्या संत्यक्तसंशयः ॥

मनुष्यचर्मणा नद्धः स देवो नात्र संशयः

॥५१॥

गंगास्नानार्थमुद्युक्तो मध्येमार्गं मृतो यदि ॥

गंगास्नानफलं सोपि तदाप्नोति न संशयः

॥५२॥

माहात्म्यं ये च गंगायाः शृण्वंति च पठंति च ॥

तेप्यशेषैर्महापापैर्मुच्यंते नात्र संशयः

॥५३॥

दुर्बुद्धयो दुराचारा हैतुका बहुसंशयाः ॥

पश्यंति मोहिता विष्णो गंगामन्य नदीमिव

॥५४॥

जन्मांतरकृतैर्दानैस्तपोभिर्नियमैर्व्रतैः ॥

इह जन्मनि गंगायां नृणां भक्तिः प्रजायते

॥५५॥

गंगाभक्तिमतामर्थे महेंद्रादि पुरेषु च ॥

हर्म्याणि रम्यभोगानि निर्मितानि स्वयंभुवा

॥५६॥

सिद्धयः सिद्धिलिंगानि स्पर्शलिंगान्यनेकशः ॥

प्रासादा रत्नरचिताश्चिंतामणिगणा अपि

॥५७॥

गंगाजलांतस्तिष्ठंति कलिकल्मषभीतितः ॥

अतएव हि संसेव्या कलौ गंगेष्टसिद्धिदा

॥५८॥

सूर्योदये तमांसीव वज्रपातभयान्नगाः ॥

तार्क्ष्येक्षणाद्यथासर्पा मेघा वाताहता इव

॥५९॥

तत्त्वज्ञानाद्यथा मोहः सिंहं दृष्ट्वा यथा मृगाः ॥

तथा सर्वाणि पापानि यांति गंगेक्षणात्क्षयम्

॥६०॥

दिव्यौषधैर्यथा रोगा लोभेन च यथा गुणाः ॥

यथा ग्रीष्मोष्मसंपत्तिरगाधह्रद मज्जनात्

॥६१॥

तूलशैलः स्फुलिंगेन यथा नश्यति तत्क्षणात् ॥

तथा दोषाः प्रणश्यंति गंगांभः स्पर्शनाद्ध्रुवम्

॥६२॥

क्रोधेन च तपो यद्वत्कामेन च यथा मतिः ॥

अनयेन यथा लक्ष्मीर्विद्या मानेन वै यथा

॥६३॥

दंभ कौटिल्य मायाभिर्यथाधर्मो विनश्यति ॥

तथा नश्यंति पापानि गंगाया दर्शनेन तु

॥६४॥

मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचंचलम् ॥

गंगां यः सेवते सोत्र बुद्धेः पारं परं गतः

॥६५॥

विधूतपापा ये मर्त्याः परं ज्योतिःस्वरूपिणीम् ॥

सहस्रसूर्यप्रतिमां गंगां पश्यंति ते भुवि

॥६६॥

साधारणांभसा पूर्णां साधारण नदीमिव ॥

पश्यंति नास्तिका गंगां पापोपहतलोचनाः

॥६७॥

संसारमोचकश्चाहं जनानामनुकंपया ॥

गंगातरंगरूपेण सोपानं निर्ममे दिवः

॥६८॥

सर्व एव शुभः कालः सर्वो देशस्तथा शुभः ॥

सर्वो जनो दानपात्रं श्रीमती जाह्नवी तटे

॥६९॥

यथाश्वमेधो यज्ञानां नगानां हिमवान्यथा ॥

व्रतानां च यथा सत्यं दानानामभयं यथा

॥७०॥

प्राणायामश्च तपसां मंत्राणां प्रणवो यथा ॥

धर्माणामप्यहिंसा च काम्यानां श्रीर्यथा वरा

॥७१॥

यथात्मविद्या विद्यानां स्त्रीणां गौरी यथोत्तमा ॥

सर्वर्दवेगणानां च यथा त्वं पुरुषोत्तम

॥७२॥

सर्वषामेव पात्राणां शिवभक्तो यथा वरः ॥

तथा सर्वेषु तीर्थेषु गंगातीर्थं विशिष्यते

॥७३॥

हरेयश्चावयोर्भेदं न करोति महामतिः ॥

शिवभक्तः स विज्ञेयो महापाशुपतश्च सः

॥७४॥

पापपांसुमहावात्या पापद्रुमकुठारिका ॥

पापेंधनदवाग्निश्च गंगेयं पुण्यवाहिनी

॥७५॥

नानारूपाश्च पितरो गाथा गायंति सर्वदा ॥

अपि कश्चित्कुलेस्माकं गंगास्नायी भविष्यति

॥७६॥

देवर्षीन्परिसंतर्प्य दीनानाथांश्च दुःखितान् ॥

श्रद्धया विधिना स्नात्वा दास्यते सलिलांजलिम्

॥७७॥

अपि नः स कुले भूयाच्छिवे विष्णौ च साम्यदृक् ॥

तदालयकरो भक्त्या तस्य संमार्जनादिकृत्

॥७८॥

अकामो वा सकामो वा तिर्यग्योनिगतोपि वा ॥

गंगायां यो मृतो मर्त्यो नरकं स न पश्यति

॥७९॥

तीर्थमन्यत्प्रशंसंति गंगातीरे स्थिताश्च ये ॥

गंगां न बहु मन्यंते ते स्युर्निरयगामिनः

॥८०॥

मां च त्वां चैव यो द्वेष्टि गंगां च पुरुषाधमः ॥

स्वकीयैः पुरुषैः सार्धं स घोरं नरकं व्रजेत्

॥८१॥

षष्टिर्गणसहस्राणि गंगां रक्षंति सर्वदा ॥

अभक्तानां च पापानां वासे विघ्नं प्रकुर्वते

॥८२॥

कामक्रोधमहामोहलोभादि निशितैः शरैः ॥

घ्नंति तेषां मनस्तत्र स्थितिं चापनयंति च

॥८३॥

गंगां समाश्रयेद्यस्तु स मुनिः स च पंडितः ॥

कृतकृत्यः स विज्ञेयः पुरुषार्थचतुष्टये

॥८४॥

गंगायां च सकृत्स्नातो हयमेधफलं लभेत् ॥

तर्पयंश्च पितॄंस्तत्र तारयेन्नरकार्णवात्

॥८५॥

नैरंतर्येण गंगायां मासं यः स्नाति पुण्यवान् ॥

शक्रलोके स वसति यावच्छक्रः सपूर्वजः

॥८६॥

अब्दं यः स्नाति गंगायां नैरंतर्येण पुण्यभाक् ॥

विष्णोर्लोकं समासाद्य स सुखं संवसेन्नरः

॥८७॥

गंगायां स्नाति यो मर्त्यो यावज्जीवं दिनेदिने ॥

जीवन्मुक्तः स विज्ञेयो देहांते मुक्त एव सः

॥८८॥

तिथिनक्षत्रपर्वादि नापेक्ष्यं जाह्नवी जले ॥

स्नानमात्रेण गंगायां संचिताघं विनश्यति

॥८९॥

पंडितोपि स मूर्खः स्याच्छक्तियुक्तोप्यशक्तिकः ॥

यस्तु भागीरथीतीरं सुखसेव्यं न संश्रयेत्

॥९०॥

किंवायुपाप्यरोगेण विकासिन्याथ किं श्रिया ॥

किं वा बुद्ध्या विमलया यदि गंगां न सेवते

॥९१॥

यः कारयेदायतनं गंगाप्रतिकृतेर्नरः ॥

भुक्त्वा स भोगान्प्रेत्यापि याति गंगा सलोकताम्

॥९२॥

शृण्वंति महिमानं ये गंगाया नित्यमादरात् ॥

गंगास्नानफलं तेषां वाचकप्रीणनाद्धनैः

॥९३॥

पितॄनुद्दिश्य यो लिंगं स्नपयेद्गांग वारिणा ॥

तृप्ताः स्युस्तस्य पितरो महानिरयगा अपि

॥९४॥

अष्टकृत्वो मंत्रजप्तैर्वस्त्रपूतैः सुगंधिभिः ॥

प्रोचुर्गांगजलैः स्नानं घृतस्नानाधिकं बुधाः

॥९५॥

अष्टद्रव्यविमिश्रेण गंगातोयेन यः सकृत् ॥

मागधप्रस्थमात्रेण ताम्रपात्रस्थितेन च

॥९६॥

भानवेऽर्घं प्रदद्याच्च स्वकीय पितृभिः सह ॥

सोतितेजो विमानेन सूर्यलोके महीयते

॥९७॥

आपः क्षीरं कुशाग्राणि घृतं मधुगवांदधि ॥

रक्तानि करवीराणि रक्तचंदनमित्यपि

॥९८॥

अष्टांगार्घो यमुद्दिष्टस्त्वतीव रवितोषणः ॥

गांगैर्वार्भिः कोटिगुणो ज्ञेयो विष्णोऽन्यवारितः

॥९९॥

गंगातीरे स्वशक्त्या यः कुर्याद्देवालयं सुधीः ॥

अन्यतीर्थप्रतिष्ठातो भवेत्कोटिगुणं फलं

॥१००॥

अश्वत्थवटचूतादि वृक्षारोपेण यत्फलम् ॥

कूपवापीतडागादि प्रपा सत्रादिभिस्तथा

॥१॥

अन्यत्र यद्भवेत्पुण्यं तद्गंगादर्शनाद्भवेत् ॥

पुष्पवाट्यादिभिश्चापि गंगास्पर्शं ततोऽधिकम्

॥२॥

कन्यादानेन यत्पुण्यं यत्पुण्यं गोऽन्नदानतः ॥

तत्पुण्यं स्याच्छतगुणं गंगागंडूषपानतः

॥३॥

चांद्रायणसहस्रेण यत्पुण्यं स्याज्जनार्दन ॥

ततोऽधिकफलं गंगाऽमृतपानादवाप्नुयात्

॥४॥

भक्त्या गंगावगाहस्य किमन्यत्फलमुच्यते ॥

अक्षयः स्वर्गवासोपि निर्वाणमथवा हरे

॥५॥

गंगायाः पादुकायुग्मं नित्यमर्चति यो नरः ॥

आयुः पुण्यं धनं पुत्रान्स्वर्गमोक्षौ च विंदति

॥६॥

नास्ति गंगासमं तीर्थं कलिकल्मषनाशनम् ॥

नास्ति मुक्तिप्रदं क्षेत्रमविमुक्तसमं हरे

॥७॥

गंगास्नानरतं मर्त्यं दृष्ट्वैव यमकिकराः ॥

दिशो दश पलायंते सिंहं दृष्ट्वा यथा मृगाः

॥८॥

गंगाभजनशीलस्य गंगातटनिवासिनः ॥

अर्चां कृत्वा यथान्यायमश्वमेधफलं लभेत्

॥९॥

गोभूहिरण्यदानेन भक्त्या गंगातटे शुभे ॥

नरो न जायते भूयः संसारे दुःखकंटके

॥११०॥

दीर्घायुष्यं च वासोभिर्ज्ञानं पुस्तकदानतः ॥

अन्नदानेन संपत्तिं कीर्तिं कन्याप्रदानतः

॥११॥

अन्यत्र यत्कृतं कर्म व्रतं दानं जपस्तपः ॥

गंगातटे तु तत्सर्वं हरे कोटिगुणं भवेत्

॥१२॥

धेनुं सवत्सा यो दद्याद् गंगातीरे विधानतः ॥

गोरोमसंख्यया विष्णो युगान्सर्वसमृद्धिमान्

॥१३॥

गोलोके मम लोके वा कामधेनुप्रदानतः ॥

भुंजानः सर्वकामांस्तु दिव्यान्नानाविधान्बहून्

॥१४॥

देवानामप्यलभ्यांश्च भुक्त्वा तु सह बांधवैः ॥

पितृभिश्च सुहृद्भिश्च सर्वरत्नविभूषितः

॥१५॥

जायते सत्कुले पश्चाद्धनधान्यसमाकुले ॥

रत्नकांचनसंपन्ने शीलविद्यासमन्विते

॥१६॥

भुक्त्वा स विपुलान्भोगान्पुत्रपौत्रसमन्वितः ॥

पुनर्गंगां समासाद्य काश्यामुत्तरवाहिनीम्

॥१७॥

विश्वेश्वरं समाराध्य प्राग्जनुर्वासनावशात् ॥

कालाद्देहांतमासाद्य ब्रह्म संपद्यते ततः

॥१८॥

विवर्तनद्वयमपि भूमेर्भागीरथीतटे ॥

नरो ददाति यो भक्त्या तस्य पुण्यफलं शृणु

॥१९॥

तद्भूमित्रसरेणूनां संख्यया युगमानया ॥

महेंद्र चंद्रलोकेषु भुक्त्वा भोगान्मनःप्रियान्

॥१२०॥

सप्तद्वीपपतिर्भूत्वा महाधर्मपरायणः ॥

नरकस्थान्पितॄन्सर्वान्प्रापयेत्त्रिदिवं हरे

॥२१॥

स्वर्गस्थांश्च पितॄन्सर्वान्मोचयित्वा महाद्युतिः ॥

अंते ज्ञानासिना छित्त्वा ह्यविद्यां पांचभौतिकीम्

॥२२॥

परवैंराग्यमापन्नो युंजानो योगमुत्तमम् ॥

प्राप्याथवा विमुक्तं च परं ब्रह्माधिगच्छति

॥२३॥

सुवर्णमात्रमपि यः सुवर्णं संप्रयच्छति ॥

सुवर्णाय सुवर्णं च हरे भागीरथीतटे

॥२४॥

स हेमरत्नखचिते विमाने सर्वगे शुभे ॥

सर्वैश्वर्यसमायुक्तः सर्वलोकेषु पूजितः

॥२५॥

ब्रह्मांडांतरसंस्थेषु भुंजन्भोगान्मनोरमान् ॥

सर्वैः संपूजितो विष्णो यावदाभूतसंप्लवम्

॥२०५॥

एकराट्च ततो भूत्वा जंबूद्वीपे प्रतापवान् ॥

ततोऽविमुक्तमासाद्य पदं निर्वाणमृच्छति

॥२७॥

जन्मर्क्षे तु कृते स्नाने गंगायां भक्तिपूर्वकम् ॥

जन्मप्रभृतिपापौघात्संचितान्मुच्यते क्षणात्

॥२८॥

वैशाखे कार्तिके माघे गंगास्नानं सुदुर्लभम् ॥

दर्शे शतगुणं पुण्यं संक्रातौ च सहस्रकम्

॥२९॥

चंद्रसूर्यग्रहे लक्षं व्यतीपातेत्वनंतकम् ॥

अयुतं विषुवे चैव नियुतं त्वयनद्वये

॥१३०॥

सोमग्रहः सोमदिने रविवाररवग्रहः ॥

तच्चूडामणिपर्वाख्यं तत्रस्नानमसंख्यकम्

॥३१॥

स्नानं दानं जपो होमो यद्यच्चूडामणौ कृतम् ॥

तदक्षयं सर्वमिह विष्णो भागीरथीतटे

॥३२॥

श्रद्धया भक्तियुक्तस्तु गंगां स्नात्वा विधानतः ॥

ब्रह्महापि विशुद्ध्येत किंपुनस्त्वन्य पातकी

॥३३॥

कृमिकीटपतंगाद्या ये मृता जाह्नवीतटे ॥

कूलात्पतंति ये वृक्षास्तेपि यांति परां गतिम्

॥३४॥

ज्येष्ठे मासि सिते पक्षे दशम्यां हस्तसंयुते ॥

गंगातीरे तु पुरुषो नारी वा भक्तिभावतः ॥

निशायां जागरं कुयाद्गंगां दशविधैर्हरे ॥

पुष्पैः सुगंधैर्नैवेद्यैः फलैर्दशदशोन्मितैः

॥३६॥

प्रदीपैर्दशभिर्धूपैर्दशांगैर्गरुडध्वज ॥

पूजयेच्छ्रद्धया धीमान्दशकृत्वो विधानतः

॥३७॥

साज्यांस्तिलान्क्षिपेत्तोये गंगायाः प्रसृतीर्दश ॥

गुडसक्तुमयान्पिंडान्दद्याच्च दशमंत्रतः

॥३८॥

नमः शिवायै प्रथमं नारायण्यै पदं ततः ॥

दशहरायै पदमिति गंगायै मंत्र एष वै

॥३९॥

स्वाहांतः प्रणावादिश्च भवेद्विंशाक्षरो मनुः ॥

पूजादानं जपो होमो ऽनेनैव मनुना स्मृतः

॥१४०॥

हेम्ना रूप्येण वा शक्त्या गंगामूर्तिं विधाय च ॥

वस्त्राच्छादितवक्त्रस्य पूर्णकुंभस्य चोपरि

॥४१॥

प्रतिष्ठाप्यार्चयेद्देवीं पंचामृतविशोधिताम् ॥

चतुर्भुजां त्रिनेत्रां च नदीनदनिषेविताम्

॥४२॥

लावण्यामृतनिष्पंद संशीलद्गात्रयष्टिकाम् ॥

पूर्णकुंभसितांभोज वरदाभयसत्कराम्

॥४३॥

ततो ध्यायेत्सुसौम्या च चंद्रायुतसमप्रभाम् ॥

चामरैर्वीज्यमानां च श्वेतच्छत्रोपशोभिताम

॥४४॥

सुधाप्लावितभूपृष्ठां दिव्यगंधानुलेपनाम् ॥

त्रैलौक्यपूजितपदां देवर्षिभिरभिष्टुताम्

॥४५॥

ध्यात्वा समर्च्य मंत्रेण धूपदीपोपहारतः ॥

मां च त्वां च विधिं ब्रध्नं हिमवंतं भगीरथम्

॥४६॥

प्रतिमाग्रे समभ्यर्च्य चंदनाक्षतनिर्मितान् ॥

दशप्रस्थतिलान्दद्याद्दशविप्रेभ्य आदरात्

॥४७॥

पलं च कुडवः प्रस्थ आढको द्रोण एव च ॥

धान्यमानेन बोद्धव्याः क्रमशोमी चतुर्गुणाः

॥४८॥

मत्स्य कच्छप मंडूक मकरादि जलेचरान् ॥

हंसकारंडव बक चक्रटिट्टिभसारसान्

॥४९॥

यथाशक्ति स्वर्णरूप्य ताम्रपृष्ठविनिर्मितान् ॥

अभ्यर्च्य गंधकुसुमैर्गंगायां प्रक्षिपेद्व्रती

॥१५०॥

एवं कृत्वा विधानेन वित्तशाठ्यं विवर्जितः ॥

उपवासी वक्ष्यमाणैर्दशपापैः प्रमुच्यते

॥५१॥

अदत्तानामुपादानं हिंसाचैवाविधानतः ॥

परदारोपसेवा च कायिकं त्रिविधं स्मृतम्

॥५२॥

पारुष्यमनृतं चैव पैशुन्यं चैव सर्वशः ॥

असंबद्ध प्रलापश्च वाङ्मयंस्याच्चतुर्विधम्

॥५३॥

परद्रव्येष्वभिध्यानं मनसानिष्टचिंतनम् ॥

वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम्

॥५४॥

एतैर्दशविधैः पापैर्दशजन्मसमुद्भवैः ॥

मुच्यते नात्र संदेहः सत्यं सत्यं गदाधर

॥५५॥

उत्तरेन्नरकात्पूर्वान्दशघोराद्दशावरान् ॥

वक्ष्यमाणमिदं स्तोत्रं गंगाग्रे श्रद्धया जपेत्

॥५६॥

ॐ नमः शिवायै गंगायै शिवदायै नमोनमः ॥

नमस्ते विष्णुरूपिण्यै ब्रह्ममूर्त्त्यै नमोस्तु ते

॥५७॥

नमस्ते रुद्ररूपिण्यै शांकर्यै ते नमोनमः ॥

सर्वदेवस्वरूपिण्यै नमो भेषजमूर्त्तये

॥५८॥

सर्वस्यसर्वव्याधीनां भिषक्श्रेष्ठ्यै नमोस्तु ते ॥

स्थास्नुजंगमसंभूत विषहंत्र्यै नमोस्तु ते

॥५९॥

संसारविषनाशिन्यै जीवनायै नमोस्तु ते ॥

तापत्रितय संहंत्र्यै प्राणेश्यै ते नमोनमः

॥१६०॥

शांति संतानकारिण्यै नमस्ते शुद्धमूर्तये ॥

सर्वसंशुद्धिकारिण्यै नमः पापारिमूर्तये

॥६१॥

भुक्तिमुक्तिप्रदायिन्यै भद्रदायै नमोनमः ॥

भोगोपभोगदायिन्यै भोगवत्यै नमोस्तु ते

॥६२॥

मंदाकिन्यै नमस्तेस्तु स्वर्गदायै नमोनमः ॥

नमस्त्रैलोक्यभूषायै त्रिपथायै नमोनमः

॥६३॥

नमस्त्रिशुक्लसंस्थायै क्षमावत्यै नमोनमः ॥

त्रिहुताशनसंस्थायै तेजोवत्यै नमोनमः

॥६४॥

नंदायै लिंगधारिण्यै सुधाधारात्मने नमः ॥

नमस्ते विश्वमुख्यायै रेवत्यै ते नमोनमः

॥६५॥

बृहत्यै ते नमस्तेस्तु लोकधात्र्यै नमोस्तु ते ॥

नमस्ते विश्वमित्रायै नंदिन्यै ते नमोनमः

॥६६॥

पृथ्व्यै शिवामृतायै च सुवृषायै नमोनमः ॥

परापरशताढ्यायै तारायै ते नमोनमः

॥६७॥

पाशजालनिकृंतिन्यै अभिन्नायै नमोस्तु ते ॥

शांतायै च वरिष्ठायै वरदायै नमोनमः

॥६८॥

उग्रायै सुखजग्ध्यै च संजीविन्यै नमोस्तु ते ॥

ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमोनमः

॥६९॥

प्रणतार्ति प्रभंजिन्यै जगन्मात्रे नमोस्तुते ॥

सर्वापत्प्रतिपक्षायै मंगलायै नमोनमः

॥१७०॥

शरणागतदीनार्त परित्राणपरायणे ॥

सर्वस्यार्ति हरे देवि नारायणि नमोस्तु ते

॥७१॥

निर्लेपायै दुर्गहंत्र्यै दक्षायै ते नमोनमः ॥

परापरपरायै च गंगे निर्वाणदायिनि

॥७२॥

गंगे ममाग्रतो भूया गंगे मे तिष्ठ पृष्ठतः ॥

गंगे मे पार्श्वयोरेधि गंगे त्वय्यस्तु मे स्थितिः

॥७३॥

आदौ त्वमंते मध्ये च सर्वं त्वं गां गते शिवे ॥

त्वमेव मूलप्रकृतिस्त्वं पुमान्पर एव हि ॥

गंगे त्वं परमात्मा च शिवस्वतुभ्यं नमः शिवे

॥७४॥

य इदं पठते स्तोत्रं शृणुयाच्छ्रद्धयापि यः ॥

दशधा मुच्यते पापैः कायवाक्चित्तसंभवैः

॥७५॥

रोगस्थो रोगतो मुच्येद्विपद्भ्यश्च विपद्युतः ॥

मुच्यते बंधनाद्बद्धो भीतो भीतः प्रमुच्यते

॥७६॥

सर्वान्कामानवाप्नोति प्रेत्य च त्रिदिवं व्रजेत् ॥

दिव्यं विमानमारुह्य दिव्यस्त्रीपरिवीजितः

॥७७॥

गृहेपि लिखितं यस्य सदा तिष्ठति धारितम ॥

नाग्निचोरभयं तस्य न सर्पादि भयं क्वचित

॥७८॥

ज्येष्ठे मासे सिते पक्षे दशमी हस्तसंयुता ॥

संहरेत्त्रिविधं पापं बुधवारेण संयुता

॥७९॥

तस्यां दशम्यामेतच्च स्तोत्रं गंगाजले स्थितः ॥

यः पठेद्दशकृत्वस्तु दरिद्रो वापि चाक्षमः

॥१८०॥

सोपि तत्फलमाप्नोति गंगां संपूज्य यत्नतः ॥

पूर्वोक्तेन विधानेन यत्फलं संप्रकीर्तितम

॥८१॥

यथा गौरी तथा गंगा तस्माद्गौर्यास्तु पूजने ॥

यो विधिर्विहितः सम्यक्सोपि गंगाप्रपूजने

॥८२॥

यथाऽहं त्वं तथा विष्णो यथा त्वं तु तथाह्युमा ॥

उमा यथा तथा गंगा चतूरूपं न भिद्यते

॥८३॥

विष्णुरुद्रां तरं चैव श्रीगौर्योरंतरं तथा ॥

गंगागौर्यंतरं चैव यो ब्रूते मूढधीस्तु सः

॥८४॥

इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे गंगामहिमवर्णनपूर्वक दशहरा स्तोत्रकथनंनाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥