वृषभध्वजप्रादुर्भावः
अगस्त्य उवाच
श्रुत्वा स्कंद न तृप्तोस्मि तव वक्त्रेरितां कथाम् ॥
अत्याश्चर्यकरं प्रोक्तमाख्यानं बैंदुमाधवम्
॥१॥इदानीं श्रोतुमिच्छामि देवदेवसमागमम् ॥
तार्क्ष्यात्त्र्यक्षः समाकर्ण्य दिवोदासस्य चेष्टितम्
॥२॥विष्णुमायाप्रपंचं च किमाह गरुडध्वजम् ॥
के के च शंभुना सार्धं समीयुर्मंदराद्गिरेः
॥३॥ब्रह्मणेशः कथं दृष्टस्त्रपाकुलित चक्षुषा ॥
किमाह देव ब्रह्माणं किमुक्तं भास्वतापि च
॥४॥योगिनीभिः किमाख्यायि गणाह्रीणाः किमब्रुवन् ॥
एतदाख्याहि मे स्कंद महत्कौतूहलं मयि
॥५॥इमं प्रश्नं निशम्यैशिर्मुनेः कलशजन्मनः ॥
प्रत्युवाच नमस्कृत्य शिवौ प्रणतसिद्धिदौ
॥६॥स्कंद उवाच
मुने शृणु कथामेतां सर्वपातकनाशिनीम् ॥
अशेषविघ्नशमनीं महाश्रेयोभिवर्धिनीम्
॥७॥अथ देवोऽसुररिपुः श्रुत्वा शंभुसमागमम् ॥
द्विजराजाय स मुदा समदात्पारितोषिकम्
॥८॥आयानं शंसते शंभोरुपवाराणसिप्रियम् ॥
ब्रह्माणमग्रतः कृत्वा ततश्चाभ्युद्ययौ हरिः
॥९॥विवस्वता समेतश्च तैर्गणैः परितो वृतः ॥
योगिनीभिरनूद्यातो गणेशमुपसंस्थितः
॥१०॥अथनेत्रातिथीकृत्य देवदेवं वृषध्वजम् ॥
मंक्षु तार्क्ष्यादवारुह्य प्रणनाम श्रियः पतिः
॥११॥पितामहोपि स्थविरो भृशं नम्रशिरोधरः ॥
प्रणतेन मृडेनैव प्रणमन्विनिवारितः
॥१२॥स्वस्त्यभ्युदितपाणिश्च रुद्रसूक्तैरमंत्रयत् ॥
अक्षतान्यथ सार्द्राणि दर्शयन्सफलान्यजः
॥१३॥मौलिं पादाब्जयोः कृत्वा गणेशः सत्वरो नतः ॥
मूर्ध्न्युपाजिघ्रयांचक्रे हरो हर्षाद्गजाननम्
॥१४॥अभ्युपावेशयच्चापि परिष्वज्य निजासने ॥
सोमनंदि प्रभृतयः प्रणेमुर्दंडवद्गणाः
॥१५॥योगिन्योपि प्रणम्येशं चक्रुर्मंगलगायनम् ॥
तरणिः प्रणनामाथ प्रमथाधिपतिं हरम्
॥१६॥खंडेंदुशेखरश्चाथ उपसिंहासनं हरिम् ॥
समुपावेशयद्वामपार्श्वे मानपुरःसरम्
॥१७॥ब्रह्माणं दक्षिणे भागे परिविश्राणितासनम् ॥
दृष्ट्वा संभाविताः सर्वे शर्वेण प्रणता गणाः
॥१८॥मौलिचालनमात्रेण योगिन्योपि प्रसादिताः ॥
संतोषितो रविश्चापि विशेति करसंज्ञया
॥१९॥अथ शंभुं शतधृतिः प्रबद्धकरसंपुटः ॥
परिविज्ञापयांचक्रे प्रसन्नवदनांबुजम्
॥२०॥ब्रह्मोवाच
भगवन्देवदेवेश क्षंतव्यं गिरिजापते ॥
वाराणसीं समासाद्य यदहं नागतः पुनः
॥२१॥प्रसंगतोपि कः काशीं प्राप्य चंद्रविभूषण ॥
किंचिद्विधातुं शक्तोपि त्यजेत्स्थविरतां दधत्
॥२२॥स्वरूपतो ब्राह्मणत्वादपाकर्तुं न शक्यते ॥
अथ शक्तो व्यपाकर्तुं कः पुण्ये संचिकीर्षति
॥२३॥विभोरपि समाज्ञेयं धर्मवर्त्मानुसारिणि ॥
न किंचिदपकर्तव्यं जानता केनचित्क्वचित
॥२४॥कस्तादृशि महीजानौ पुण्यवर्त्मन्यतंद्रिते ॥
काशीपाले दिवोदासे मनागपि विरुद्धधीः
॥२५॥निशम्येति वचस्तुष्टः श्रीकंठोति विशुद्धधीः ॥
हसन्प्रोवाच धातारं ब्रह्मन्सर्वमवैम्यहम्
॥२६॥देवदेव उवाच
आदौ तावददोषं हि ब्रह्मत्वं ब्राह्मणस्य ते ॥
वाजिमेधाध्वराणां च ततोपि दशकं कृतम्
॥२७॥ततोपि विहितं ब्रह्मन्भवता परमं हितम् ॥
अपराधसहस्राणि यल्लिंगं स्थापितं मम
॥२८॥येनैकमपि मे लिंगं स्थापितं यत्र कुत्रचित् ॥
तस्यापराधलेशोपि नास्ति सर्वापराधिनः
॥२९॥अपराधसहस्रेपि ब्राह्मणं योपराध्नुयात् ॥
दिनैः कतिपयैरेव तस्यैश्वर्यं विनश्यति
॥३०॥इति ब्रुवति देवेशेप्यंतरुच्छ्वसितं गणैः ॥
समातृभिः समंताच्च विलोक्यास्यं परस्परम्
॥३१॥अर्कोप्यवसरं ज्ञात्वा नत्वा शंभुं व्यजिज्ञपत् ॥
प्रसन्नास्यमुमाकांतं दृष्ट्वा दृष्टचराचरः
॥३२॥अर्क उवाच
नाथ काशीमितो गत्वा यथाशक्ति कृतोपधिः ॥
अकिंचित्करतां प्राप्तः सहस्रकरवानपि
॥३३॥स्वधर्मपालके तस्मिन्दिवोदासे धरापतौ ॥
निश्चितागमनं ज्ञात्वा देवस्याहमिह स्थितः
॥३४॥प्रतीक्षमाणो देवेश त्वदामनमुत्तमम् ॥
विभज्य बहुधात्मानं त्वदाराधनतत्परः
॥३५॥मनोरथद्रुमश्चाद्य फलितः श्रीमदीक्षशात् ॥
किंचिद्भक्तिलवांभोभिः सिक्तो ध्यानेन पुष्पितः
॥३६॥इत्युदीरितमाकर्ण्य रवेर्वैरविलोचनः ॥
प्रोवाच देवदेवेशो नापराध्यसि भास्कर
॥३७॥ममैव कार्यं विह्तिं त्वं यदत्र व्यवस्थितः ॥
यस्यां सुरप्रवेशो न तस्मिन्राजनि शासति
॥३८॥इति सूरं समाश्वास्य देवदेव कृपानिधिः ॥
गणानाश्वासयामास व्रीडा नम्रशिरोधरान्
॥३९॥योगिन्योपि सुदृष्ट्वाथ शंभुना संप्रसादिताः ॥
त्रपाभरसमाक्रांत कंधरा इव सं गताः
॥४०॥ततो व्यापारयांचक्रे त्र्यक्षो नेत्राणि चक्रिणि ॥
हरिर्न किंचिदप्यूचे सर्वज्ञाग्रे महामनाः
॥४१॥ईशोपि श्रुतवृत्तांतस्तार्क्ष्याद्गणप शार्ङ्गिणोः ॥
मनसैव प्रसन्नोभून्न किंचित्पर्यभाषत
॥४२॥एतस्मिन्नंतरे प्राप्ता गोलोकात्पंच धेनवः ॥
सुनंदा सुमनाश्चापि सुशीला सुरभिस्तथा
॥४३॥पंचमी कपिला चापि सर्वाघौघविघट्टिनी ॥
वात्सल्यदृष्ट्या भर्गस्य तासामूधांसि सुस्रुवुः
॥४४॥ववर्षुः पयसां पूरैस्तदूधांसि पयोधराः ॥
धारासारैरविच्छिन्नैस्तावद्यावद्ध्रदोऽभवत्
॥४५॥पयःपयोधिरिव स द्वितीयः प्रैक्षि पार्षदैः ॥
देवेश समधिष्ठानात्तत्तीर्थमभवत्परम्
॥४६॥कपिला ह्रद इत्याख्यां चक्रे तस्य महेश्वरः ॥
ततो देवाज्ञया सर्वे स्नातास्तत्र दिवौकसः
॥४७॥आविरासुस्ततस्तीर्थादथ दिव्यपितामहाः ॥
तान्दृष्ट्वा ते सुराः सर्वे तर्पयांचक्रिरे मुदा
॥४८॥अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ॥
इत्याद्या दिव्यपितरस्तृप्ताः शंभुं व्यजिज्ञपन्
॥४९॥देवदेव जगन्नाथ भक्तानामभयप्रद ॥
अस्मिंस्तीर्थे त्वदभ्याशाज्जाता नस्तृप्तिरक्षया
॥५०॥तस्माच्छंभो वरं देहि प्रसन्नेनांतरात्मना ॥
इति दिव्यपितॄणां स श्रुत्वा वाक्यं वृषध्वजः
॥५१॥शृण्वतां सर्वदेवानामिदं वचनमब्रवीत् ॥
शर्वः सर्वपितॄणां वै परतृप्तिकरं परम्
॥५२॥श्रीदेवदेव उवाच
शृणु विष्णो महाबाहो शृणु त्वं च पि तामह ॥
एतस्मिन्कापिले तीर्थे कापिलेय पयोभृते
॥५३॥ये पिंडान्निर्वपिष्यंति श्रद्धया श्राद्धदानतः ॥
तेषां पितॄणां संतृप्तिर्भविष्यति ममाज्ञया
॥५४॥अन्यं विशेषं वक्ष्यामि महातृप्तिकरं परम् ॥
कुहूसोमसमायोगे दत्तं श्राद्धमिहाक्षयम्
॥५५॥संवर्तकाले संप्राप्ते जलराशिर्जलान्यपि ॥
क्षीयंते न क्षयत्यत्र श्राद्धं सोमकुहू कृतम्
॥५६॥अमासोमसमायोगे श्राद्धं यद्यत्र लभ्यते ॥
तीर्थे कापिलधारेस्मिन्गयया पुष्करेण किम्
॥५७॥गदाधरभवान्यत्र यत्र त्वं च पितामह ॥
वृषध्वजोस्म्यहं यत्र फल्गुस्तत्र न संशयः
॥५८॥दिव्यांतरिक्षभौमानि यानि तीर्थानि सर्वतः ॥
तान्यत्र निवसिष्यंति दर्शे सोमदिनान्विते
॥९९॥कुरुक्षेत्रे नैमिषे च गंगासागरसंगमे ॥
ग्रहणे श्राद्धतो यत्स्यात्तत्तीर्थे वार्षभध्वजे
॥६०॥अस्य तीर्थस्य नामानि यानि दिव्य पितामहाः ॥
तान्यहं कथयिष्यामि भवतां तृप्तिदान्यलम्
॥६१॥मधुस्रवेति प्रथममेषा पुष्करिणी स्मृता ॥
कृतकृत्या ततो ज्ञेया ततोऽसौ क्षीरनीरधिः
॥६२॥वृषभध्वजतीर्थं च तीर्थं पैतामहं ततः ॥
ततो गदाधराख्यं च पितृतीर्थं ततः परम्
॥६३॥ततः कापिलधारं वै सुधाखनिरियं पुनः ॥
ततः शिवगयाख्यं च ज्ञेयं तीर्थमिदं शुभम्
॥६४॥एतानि दश नामानि तीर्थस्यास्य पितामहाः ॥
भवतां तृप्तिकारीणि विनापि श्राद्धतर्पणैः
॥६५॥सूर्येंदु संगमे येत्र पितॄणां तृप्तिकामुकाः ॥
ब्राह्मणान्भोजयिष्यंति तेषां श्राद्धमनंतकम्
॥६६॥श्राद्धे पितॄणां संतृप्त्यै दास्यंति कपिलां शुभाम् ॥
येत्र तेषां पितृगणो वसेत्क्षीरोदरोधसि
॥६७॥वृषोत्सर्गः कृतो यैस्तु तीर्थेस्मिन्वार्षभध्वजे ॥
अश्वमेधपुरोडाशैः पितरस्तेन तर्पिताः
॥६८॥गयातोष्टगुणं पुण्यमस्मिंस्तीर्थे पितामहाः ॥
अमायां सोमयुक्तायां श्राद्धैः कापिलधारिके
॥६९॥येषां गर्भेऽभवत्स्रावो येऽ दंतजननामृताः ॥
तेषां तृप्तिर्भवेन्नूनं तीर्थे कापिलधारिके
॥७०॥अदत्तमौंजीदाना ये ये चादारपरिग्रहाः ॥
तेभ्यो निर्वापितं पिंडमिह ह्यक्षयतां व्रजेत्
॥७१॥अग्निदाहमृता ये वै नाग्निदाहश्च येषु वै ॥
ते सर्वे तृप्तिमायांति तीर्थे कापिलधारिके
॥७२॥और्द्ध्वदैहिकहीना ये षोडश श्राद्धवर्जिताः ॥
ते तृप्तिमधिगच्छंति घृतकुल्यां निवापतः
॥७३॥अपुत्राश्च मृता ये वै येषां नास्त्युकप्रदः ॥
तेपि तृप्तिं परां यांति मधुस्रवसि तर्पिताः
॥७४॥अपमृत्युमृता ये वै चोरविद्युज्जलादिभिः ॥
तेषामिह कृतं श्राद्धं जायते सुगतिप्रदम्
॥७५॥आत्मघातेन निधनं यैषामिहविकमर्णाम् ॥
तेपि तृप्तिं लभंतेत्र पिंडैः शिवगयाकृतैः
॥७६॥पितृगोत्रे मृता ये वै मातृपक्षे च ये मृताः ॥
तेषामत्र कृतः पिंडो भवेदक्षयतृप्तिदः
॥७७॥पत्नीवर्गे मृता ये वै मित्रवर्गे च ये मृताः ॥
ते सर्वे तृप्तिमायांति तर्पिता वार्षभध्वजे
॥७८॥ब्रह्मक्षत्रविशां वंशे शूद्रवंशेंऽत्यजेषु च ॥
येषां नामगृहीत्वात्र दीयते ते समुद्धृताः
॥९॥तिर्यग्योनि मृता ये वै ये पिशाचत्वमागताः ॥
तेप्यूर्ध्वगतिमायांति तृप्ताः कापिलधारिके
॥८०॥ये तु मानुषलोकेस्मिन्पितरो मर्त्ययोनयः ॥
ते दिव्ययोनयः स्युर्वै मधुस्रवसि तर्पिताः
॥८१॥ये दिव्यलोके पितरः पुण्यैर्देवत्वमागताः ॥
ते ब्रह्मलोके गच्छंति तृप्तास्तीर्थे वृषध्वजे
॥८२॥कृते क्षीरमयं तीर्थं त्रेतायां मधुमत्पुनः ॥
द्वापरे सर्पिषा पूर्णं कलौ जलमयं भवेत्
॥८३॥सीमाबहिर्गतमपि ज्ञेयं तीर्थमिदं शुभम् ॥
मध्ये वाराणसि श्रेष्ठं मम सान्निध्यतो नरैः
॥८४॥काशीस्थितैर्यतो दर्शि ध्वजो मेषवृषलांछनः ॥
वृषध्वजेन नाम्नातः स्थास्याम्यत्र पितामहाः
॥८५॥पितामहेन सहितो गदाधरसमन्वितः ॥
रविणा पार्षदैः सार्धं तुष्टये वः पितामहाः
॥८६॥इति यावद्वरं दत्ते पितृभ्यो वृषभध्वजः ॥
तावन्नदी समागत्य प्रणम्येशं व्यजिज्ञपत्
॥८७॥नंदिकेश्वर उवाच
विहितः स्यदनः सज्जस्ततोस्तु विजयोदयः ॥
अष्टौ कंठीरवा यत्र यत्रोक्ष्णामष्टकं शुभम्
॥८८॥यत्रेभाः परिभांत्यष्टौ यत्राष्टौ जविनो हयाः ॥
मनः संयमनं यत्र कशापाणि व्यवस्थितम्
॥८९॥गंगायमुनयोरीषे चक्रे पवनदेवता ॥
सायंप्रातर्मये चक्रे छत्रं द्यौर्मंडलं शुचि
॥९०॥तारावलीमयाः कीला आहेया उपनायकाः ॥
श्रुतयो मार्गदर्शिन्यः स्मृतयो रथगुप्तयः
॥९१॥दक्षिणाधूर्दृढा यत्र मखा यत्राभिरक्षकाः ॥
आसनं प्रणवो यत्र गायत्रीपादपीठभूः
॥९२॥सांगा व्याहृतयो यत्र शुभा सोपानवीथिकाः ॥
सूर्याचंद्रमसौ यत्र सततं द्वाररक्षकौ
॥९३॥अग्निर्मकरतुंडश्च रथभूः कौमुदीमयी ॥
ध्वजदंडो महामेरुः पताका हस्करप्रभा
॥९४॥स्वयं वाग्देवता यत्र चंचच्चामरधारिणी ॥
स्कंद उवाच ॥
शैलादिनेति विज्ञप्तो देवदेव उमापतिः
॥९५॥कृतनीराजनविधिरष्टभिर्देवमातृभिः ॥
पिनाकपाणिरुत्तस्थौ दत्तहस्तोथ शार्ङ्गिणा
॥९६॥निनादो दिव्यवाद्यानां रोदसी पर्यपूरयत् ॥
गीतमंगलगीर्भिश्च चारणैरनुवर्धितः
॥९७॥तेन दिव्यनिनादेन बधिरीकृतदिङ्मुखाः ॥
आहूता इव आजग्मुर्विष्वग्भुवनवासिनः
॥९८॥देवाकोट्यस्त्रयस्त्रिंशद्गणाः कोट्ययुतद्वयम् ॥
नवकोट्यस्तु चामुंडा भैरव्यः कोटिसंमिताः
॥९९॥षडाननाः कुमाराश्च मयूरवरवाहनाः ॥
ममानुगाः समायाताः कोटयोष्टौ महाबलाः
॥१००॥आययुः कोटयः सप्त स्फुरत्परशुपाणयः ॥
पिचंडिला महावेगा विघ्नविघ्ना गजाननाः
॥१॥षडशीतिसहस्राणि मुनयो ब्रह्मवादिनः ॥
तावतोपि समाजग्मुस्तत्रत्ये गृहमेधिनः
॥२॥नागानां कोटयस्तिस्रः पातालतलवासिनाम् ॥
दानवानां च दैत्यानां द्वे द्वे कोटी शिवात्मनाम्
॥३॥गंधर्वा नियुतान्यष्टौ कोट्यर्धं यक्षरक्षसाम् ॥
विद्याधराणामयुतं नियुतद्वयसंयुतम्
॥४॥तथा षष्टिसहस्राणि दिव्याश्चाप्सरसः शुभाः ॥
गोमातरोऽष्टौ लक्षाणि सुपर्णान्ययुतानि षट्
॥५॥सागराः सप्त संप्राप्ता नानारत्नोपदप्रदाः ॥
सरितां च सहस्राणि त्रीणि पंचायुतानि च
॥६॥गिरयोऽष्टौ सहस्राणि वनस्पतिशतत्रयम् ॥
आजग्मुर्दिग्गजा अष्टौ यत्र देवः पिनाकधृक्
॥७॥एतैः समेतः संतुष्टः परिष्टुत इतस्ततः ॥
श्रीकंठो रथमारुह्य काशीं प्राविशदुत्तमाम्
॥७॥स गिरींद्रसुतस्त्र्यक्षो मुदां धाम मुदां खनिः ॥
काशीं प्रैक्षिष्ट संहृष्टस्त्रिविष्टप समुत्कटाम्
॥९॥स्कंद उवाच
श्रुत्वाख्यानमिदं पुण्यं कोटिजन्माघनाशनम् ॥
पठित्वा पाठयित्वा च शिवसायुज्यमाप्नुयात्
॥११०॥श्राद्धकाले विशेषेण पठनीयं प्रयत्नतः ॥
अक्षयं तद्भवेच्छ्राद्धं पितृतुष्टिकरं परम्
॥११॥वृषभध्वज माहात्म्यं पठित्वा शिवसन्निधौ ॥
प्रत्यहं वर्षमात्रं तु ह्यपुत्रः पुत्रवान्भवेत्
॥१२॥विश्वेशितुः संप्रवेशो यः काश्यां समुदाहृतः ॥
परमानंदकंदस्य बीजमेतत्सुनिश्चितम्
॥१३॥पठित्वैतन्मुदाख्यानं प्रविशेद्यो नवं गृहम् ॥
स सर्वसौख्यनिलयो भवेदेव न संशयः
॥१४॥त्रैलोक्यानंदजनकमेतदाख्यानमुत्तमम् ॥
अस्य श्रवणमात्रेण विश्वेशः संप्रसीदति
॥१५॥अलभ्यलाभो देवस्य जातोत्र हि यतः परः ॥
ततः काशी प्रवेशाख्यं जप्यमाख्यानमुत्तमम्
॥११६॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्द्धे वृषभध्वजप्रादुर्भावोनाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥