मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ८३

3
काशीखण्डः · 83

वीरेश्वराविर्भावः

राज्ञ्युवाच

अवधेहि धरानाथ कथयामि यथातथम् ॥

व्रतस्यास्य विधानं च फलं चाभीष्टदेवताम्

॥१॥

पुरा पुरः श्रीदपत्न्याः श्रीमुख्या ब्रह्मसूनुना ॥

नारदेन सुतार्थिन्या व्रतमेतदुदीरितम्

॥२॥

चीर्णं चाथ तया देव्या पुत्रोभून्नलकूबरः ॥

अन्याभिरपि बह्वीभिः पुत्राः प्राप्ता व्रतादितः

॥३॥

विधिनाप्यत्र संपूज्या गौरी सर्वविधानवित् ॥

स्तनंधयेन सहिता धयता स्तनमुन्मुखम्

॥४॥

मार्गशीर्ष तृतीयायां शुक्लायां कलशोपरि ॥

ताम्रपात्रं निधायैकं तंडुलैः परिपूरितम्

॥५॥

अविच्छिन्नं नवीनं च रजनीरागरंजितम् ॥

वासः पात्रोपरि न्यस्य सूक्ष्मात्सूक्ष्मतरं परम्

॥६॥

तस्योपरि शुभं पद्मं रविरश्मिविकासितम् ॥

तत्कर्णिकाया उपरि चतुःस्वर्णविनिर्मितम्

॥७॥

विधिं संपूजयेद्भक्त्या रत्नपट्टाबंरादिभिः ॥

पुष्पैर्नानाविधै रम्यैः फलैर्नारंगमुख्यकैः

॥८॥

सुगंधैश्चंदनाद्यैश्च कर्पूर मृगनाभिभिः ॥

परमान्नादि नैवेद्यैः पक्वान्नैर्बहुभंगिभिः

॥९॥

धूपैरगुरुमुख्यैश्च रम्ये कुसुममंडपे ॥

रात्रौ जागरणं कार्यं विनिंद्रैः परमोत्सवैः

॥१०॥

हस्तमात्रमिते कुंडे जातवेदस इत्यृचा ॥

घृतेन मधुनाप्लुत्य जुहुयान्मंत्रविद्द्विजः

॥११॥

सहस्रकमलानां च स्मेराणां स्वयमेव हि ॥

नवप्रसूतां कपिलां सुशीलां च पयस्विनीम्

॥१२॥

दद्यादाचार्यवर्याय सालंकारां सलक्षणाम् ॥

उपोष्य दंपती भक्त्या नवांबरविभूषितौ

॥१३॥

प्रातःस्नात्वा चतुर्थ्यां च संपूज्याचार्यमादृतः ॥

वस्त्रैराभरणैर्माल्यैर्दक्षिणाभिर्मुदान्वितौ

॥१४॥

सोपस्करां च तां मृर्तिमाचार्याय निवेदयेत् ॥

समुच्चरन्निमं मंत्रं व्रतकृन्मिथुनं मुदा

॥१५॥

नमो विश्वविधानज्ञे विधे विविधकारिणि ॥

सुतं वंशकरं देहि तुष्टामुष्माद्व्रताच्छुभात्

॥१६॥

सहसं भोजयित्वाथ द्विजानां भक्तिपूर्वकम् ॥

भुक्तशेषेण चान्नेन कुर्याद्वै पारणं ततः

॥१७॥

इत्थमेतद्व्रतं राजंश्चिकीर्षामि त्वया सह ॥

कुरु चैतत्प्रियं मह्यमभीष्टफललब्धये

॥१८॥

इति भूपालवर्येण श्रुत्वा संहृष्टचेतसा ॥

मुनेव तं समाचीर्णं सांतर्वत्नी बभूव ह

॥१९॥

तयाथ प्रार्थिता गौरी गर्भिण्या भक्तितोषिता ॥

पुत्रं देहि महामाये साक्षाद्विष्ण्वंशसंभवम्

॥२०॥

जातमात्रो व्रजेत्स्वर्गं पुनगयाति चात्र वै ॥

भक्तः सदाशिवेऽत्यर्थं प्रसिद्धः सर्वभूतले

॥२१॥

विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात् ॥

एवंभूतः सुतो गौरि यथा मे स्यात्तथाकुरु

॥२२॥

मृडान्यापि तथेत्युक्ता राज्ञी भक्त्यातितुष्टया ॥

अथ कालेन तनयं मूलर्क्षे साप्यजीजनत्

॥२३॥

हितैरमात्यैरथ सा विज्ञप्तारिष्टसंस्थिता ॥

देवि राजार्थिनी चेत्त्वं त्यज दुष्टर्क्षजं सुतम्

॥२४॥

सा मंत्रिवाक्यमाकर्ण्य केवलं पतिदेवता ॥

अत्याक्षीत्तं तथा प्राप्तं तनयं नयकोविदा

॥२५॥

धात्रेयिकां समाकार्य प्राहेदं सा नृपांगना ॥

पंचमुद्रे महापीठे विकटा नाम मातृका

॥२६॥

तदग्रे स्थापयित्वामुं बालं धात्रेयिके वद ॥

गौर्यादत्तः शिशुरसौ तवाग्रे विनिवेदितः

॥२७॥

राज्ञ्या पत्युः प्रियेषिण्या मंत्रिविज्ञप्तिनुन्नया ॥

सापि राज्ञ्युदितं श्रुत्वा शिशुं लास्य शशिप्रभम्

॥२८॥

विकटायाः पुरः स्थाप्य गृहं धात्रेयिका गता ॥

अथ सा विकटा देवी समाहूय च योगिनीः

॥२९॥

उवाच नयत क्षिप्रं शिशुं मातृगणाग्रतः ॥

तासामाज्ञां च कुरुत रक्षतामुं प्रयत्नतः

॥३०॥

योगिन्यो विकटावाक्यात्खेचर्यस्ताः क्षणेन तम् ॥

निन्युर्गगनमार्गेण ब्राह्म्याद्या यत्र मातरः

॥३१॥

प्रणम्य योगिनीवृंदं तं शिशुं सूर्यवर्चसम् ॥

पुरो निधाय मातॄणां प्रोवाच विकटोदितम्

॥३२॥

ब्रह्माणी वैष्णवी रौद्री वाराही नारसिंहिका ॥

कौमारी चापि माहेंद्री चामुंडा चैव चंडिका

॥३३॥

दृष्ट्वा तं बालकं रम्यं विकटाप्रेषितं ततः ॥

पप्रच्छुर्युगपड्डिंभं कस्ते तातः प्रसूश्च कः

॥३४॥

मातृभिश्चेति पुष्टः स यदा किंचिन्न वक्ति च ॥

तदा तद्योगिनीचक्रं प्राह मातृगणस्त्विति

॥३५॥

राज्ययोग्यो भवत्येष महालक्षणलक्षितः ॥

पुनस्तत्रैव नेतव्यो योगिन्यस्त्वविलंबितम्

॥३६॥

पंचमुद्रा महादेवी तिष्ठते यत्र काम्यदा ।

यस्याः संसेवनान्नृणां निर्वाणश्रीरदूरतः

॥३७॥

सर्वत्रशुभजन्मिन्यां काश्यां मुक्तिः पदेपदे ॥

तथापि सविशेषं हि तत्पीठं सर्वसिद्धिकृत्

॥३८॥

तत्पीठसेवनादस्य षोडशाब्दाकृतेः शिशोः ॥

सिद्धिर्भवित्री परमा विश्वेशानुग्रहात्परात्

॥३९॥

एवं मातृगणाशीर्भिर्योगिनीभिः क्षणेन हि ॥

प्रापितो मातृवाक्येन पंचमुद्रांकितं पुनः

॥४०॥

संप्राप्य तन्महापीठं स्वर्गलोकादिहागतः ॥

आनंदकानने दिव्यं तताप विपुलं तपः

॥४१॥

तपसातीव तीव्रेण निश्चलेंद्रियचेतसः ॥

तस्य राजकुमारस्य प्रसन्नोभूदुमाधवः

॥४२॥

आविर्बभूव पुरतो लिंगरूपेण शंकरः ॥

प्रोवाच च प्रसन्नोस्मि वरं ब्रूहि नृपांगज

॥४३॥

स्कंद उवाच

सर्वज्योतिर्मयं लिंगं पुरतो वीक्ष्य वाङ्मयम् ॥

सप्तपातालमुद्भिद्य स्थितं बृहदनुग्रहात

॥४४॥

प्रणम्य दंडवद्भूमौ परितुष्टाव धूर्जटिम् ॥

सूक्तैर्जन्मांतराभ्यस्तैः सुहृष्टो रुद्रदेवतैः

॥४५॥

ततः प्रसन्नो भगवान्देवदेवो महेश्वरः ॥

संतुष्टस्तपसा तस्य प्रोवाच वृषभध्वजः

॥४६॥

देवदेव उवाच

वरं वरय संतप्त तपसा क्लेशितं वपुः ॥

त्वयेदं बालवपुषा वशीकृतं मनो मम

॥४७॥

शिवोक्तं च समाकर्ण्य वरदानं पुनःपुनः ॥

वरं च प्रार्थयांचक्रे परिहृष्टतनूरुहः

॥४८॥

कुमार उवाच

देवदेवमहादेव यदि देयो वरो मम ॥

तदत्र भवता स्थेयं भवतापहृता सदा

॥४९॥

अस्मिँल्लिंगे स्थितः शंभो कुरु भक्तसमीहितम् ॥

विना मुद्रादिकरणं मंत्रेणापि विना विभो

॥५०॥

दिश सिद्धिं परामत्र दर्शनात्स्पर्शनान्नतेः ॥

अस्य लिंगस्य ये भक्ता मनोवाक्कायकर्मभिः

॥५१॥

सदैवानुग्रहस्तेषु कर्तव्यो वर एष मे ॥

इति तद्व्रतमाकर्ण्य लिंगरूपोवदत्प्रभुः

॥५२॥

एवमस्तु यदुक्तं ते वीरवैष्णव सूनुना ॥

जनेतुर्विष्णुभक्ताच्च राज्ञोऽमित्रज्जितो भवान्

॥५३॥

विष्ण्वंश एवमुत्पन्नो मम भक्तिपरांगज ॥

वीरवीरेश्वरं नाम लिंगमेतत्त्वदाख्यया

॥५४॥

काश्यां दास्यत्यभीष्टानि भक्तानां चिंतितान्यहो ॥

अस्मिँल्लिंगे सदा वीर स्थास्याम्यद्यदिनावधि

॥५५॥

दास्यामि च परां सिद्धिमाश्रितेभ्यो न संशयः ॥

परं न महिमानं मे कलौ कश्चिच्च वेत्स्यति

॥५६॥

यस्तु वेत्स्यति भाग्येन स परां सिद्धिमाप्स्यति ॥

अत्र जप्तं हुतं दत्तं स्तुतमर्चितमेव वा

॥५७॥

जीर्णोद्धारादिकरणमक्षय्यफलहेतुकम् ॥

त्वं तु राज्यं परं प्राप्य सर्वभूपालदुर्लभम्

॥५८॥

भुक्त्वा भोगांश्च विपुलानंते सिद्धिमवाप्स्यसि ॥

पुरी वाराणसी रम्या सर्वस्मिञ्जगतीतले

॥५९॥

पुण्यस्तत्रापि संभेदः सरितोरसि गंगयोः ॥

ततोऽपि च हयग्रीवं तीर्थं चैवाति पुण्यदम्

॥६०॥

यत्र विष्णुर्हयग्रीवो भक्तचिंतितमर्पयेत् ॥

हयग्रीवाच्च वै तीर्थाद्गजतीर्थं विशिष्यते

॥६१॥

यत्र वै स्नानमात्रेण गजदानफलं लभेत् ॥

कोकावराहतीर्थं च पुण्यदं गजतीर्थतः

॥६२॥

कोकावराहमभ्यर्च्य तत्र नो जन्मभाग्जनः ॥

अपि कोकावराहाच्च दिलीपेश्वरसन्निधौ

॥६३॥

दिलीपतीर्थं सुश्रेष्ठं सद्यः पापहरं परम् ॥

ततः सगरतीर्थं च सगरेश समीपतः

॥६४॥

यत्र मज्जन्नरो मज्जेन्न भूयो दुःखसागरे ॥

सप्तसागरतीर्थं च शुभं सगरतीर्थतः

॥६५॥

सप्ताब्धिस्नानजं पुण्यं यत्र स्नात्वा नरो लभेत् ॥

महोदधीति विख्यातं तीर्थं सप्ताब्धितीर्थतः

॥६६॥

सकृद्यत्राप्लुतो धीमान्दहेदघमहोदधिम् ॥

चौरतीर्थं ततः पुण्यं कपिलेश्वर सन्निधौ

॥६७॥

पापं सुवर्णचौर्यादि यत्र स्नात्वा क्षयं व्रजेत् ॥

हंसतीर्थ ततोपीड्यं केदारेश्वर सन्निधौ

॥६८॥

हंस स्वरूपी यत्राहं नयामि ब्रह्मदेहिनः

॥६९॥

ततस्त्रिभुवनाख्यस्य केशवस्याति पुण्यदम् ॥

तीर्थं यत्राप्लुता मर्त्या मर्त्यलोकं विशंति न

॥७०॥

गोव्याघ्रे श्वर तीर्थं च ततोप्यधिकमेव हि ॥

स्वभाववैरमुत्सृज्य यत्रोभौ सिद्धिमापतुः

॥७१॥

ततोपि हि वरं वीर तीर्थं मांधातुसंज्ञितम् ॥

चक्रवर्तिपदं यत्र प्राप्तं तेन महीभुजा

॥७२॥

ततोपि मुचुकुंदाख्यं तीर्थं चातीव पुण्यदम् ॥

यत्र स्नातो नरो जातु रिपुभिर्नाभिभूयते

॥७३॥

पृथु तीर्थं ततोप्युच्चैः श्रेयसां साधनं परम् ॥

पृथ्वीश्वरं यत्र दृष्ट्वा नरः पृथ्वीपतिर्भवेत्

॥७४॥

ततः परशुरामस्य तीर्थं चातीव सिद्धिदम् ॥

यत्र क्षत्रवधात्पापाज्जामदग्न्यो विमुक्तवान् ॥

अद्यापि क्षत्रवधजं पापं तत्र प्रणश्यति ॥

एकेन स्नानमात्रेण ज्ञानाज्ञानकृतेन च

॥७६॥

ततोपि श्रेयसां कर्तृ तीर्थं कृष्णाग्रजस्य हि ॥

यत्र सूतवधात्पापाद्बलदेवो विमुक्तवान्

॥७७॥

दिवोदासस्य वै तीर्थं तत्र राज्ञोऽतिमेधसः ॥

तत्र स्नातो नरो जातु न ज्ञानाच्च्यवतेंऽततः

॥७८॥

ततोपि हि महातीर्थं सर्वपापप्रणाशनम् ॥

यत्र भागीरथी साक्षान्मूर्तिरूपेण तिष्ठति

॥७९॥

स्नात्वा भागीरथी तीर्थे कृत्वा श्राद्धं विधानवित् ॥

दत्त्वा दानं च पात्रेभ्यो न भूयो गर्भभाग्भवेत्

॥८०॥

हरपापं च भो वीर तीर्थं भागीरथीतटे ॥

तत्र स्नात्वा क्षयं यांति महापापकुलान्यपि

॥८१॥

यो निष्पापेश्वरं लिंगं तत्र पश्यति मानवः ॥

निष्पापो जायते वीर स तल्लिंगेक्षणात्क्षणात्

॥८२॥

दशाश्वमेधतीर्थं च ततोपि प्रवरं मतम् ॥

दशानामश्वमेधानां यत्र स्नात्वा फलं लभेत्

॥८३॥

ततोपि शुभदं वीर बंदीतीर्थं प्रचक्षते ॥

यत्र स्नातो नरो मुच्येदपि संसारबंधनात्

॥८४॥

हिरण्याक्षेण दैत्येन बहुशो देवताः पुरा ॥

बंदीकृता निगडिता स्तुष्टुवुर्जगदंबिकाम्

॥८५॥

ततो विशृंखलीभूतैर्वंदिता यज्जगज्जनिः ॥

तदा प्रभृति बंदीति गीयतेद्यापि मानवैः

॥८६॥

बंदीतीर्थस्तु तत्रैव महानिगडखंडनम् ॥

तत्र स्नातो विमुच्येत सर्वस्मात्कर्मपाशतः

॥८७॥

बंदीतीर्थं महाश्रेष्ठं काशिपुर्यां विशांपते ॥

तत्र स्नातो नरो यायाद्विमुक्तिं देव्यनुग्रहात्

॥८८॥

ततोपि हि श्रेष्ठतरं प्रयागमिति विश्रुतम् ॥

प्रयागमाधवो यत्र सर्वयागफलप्रदः

॥८९॥

क्षोणीवराहतीर्थं च ततोपि शुभदं परम् ॥

तत्र स्नातो नरो जातु तिर्यग्योनिं न गच्छति

॥९०॥

ततः कालेश्वरं तीर्थं वीरश्रेष्ठतरं परम् ॥

कलिकालौ न बाधेते यत्र स्नातं नरोत्तमम्

॥९१॥

अशोकतीर्थं तत्रैव ततोप्यतितरां शुभम् ॥

यत्र स्नातो नरो जातु नापतेच्छोकसागरे

॥९२॥

ततोति निर्मलतरं शुक्रतीर्थं नृपांगज ॥

शुक्रद्वारा न जायेत यत्र स्नातो नरोत्तमः

॥९३॥

ततोऽपि पुण्यदं राजन्भवानीतीर्थमुत्तमम् ॥

यत्र स्नात्वा भवानीशौ दृष्ट्वा नैव पुनर्भवेत्

॥९४॥

प्रभासतीर्थं विख्यातं ततोपि शुभदं नृणाम् ॥

सोमेश्वरस्य पुरतस्तत्र स्नातो न गर्भभाक्

॥९५॥

ततो गरुडतीर्थं च संसारविषनाशनम् ॥

गरुडेशं समभ्यर्च्य तत्र स्नात्वा न शोचति

॥९६॥

ब्रह्मतीर्थं ततः पुण्यं वीरब्रह्मेश्वरात्पुरः ॥

ब्रह्मविद्यामवाप्नोति तत्र स्नानेन मानवः

॥९७॥

ततो वृद्धार्कतीर्थं च विधितीर्थं ततः परम् ॥

तत्राप्लुतो नरो याति रविलोकं सुनिर्मलम्

॥९८॥

ततो नृसिंहतीर्थं च महाभयनिवारणम् ॥

कालादपि कुतस्तत्र स्नात्वा परिबिभेति च

॥९९॥

ततोपि पुण्यदं नृणां तीर्थं चित्ररथेश्वरम् ॥

यत्र स्नात्वा च दत्त्वा च चित्रगुप्तं न पश्यति ॥

धर्मतीर्थं ततः पुण्यं धर्मेश पुरतः स्थितम् ॥

तत्र श्राद्धदिकं कृत्वा पितॄणामनृणो भवेत्

॥१॥

विशालतीर्थं विमलं विशालफलदं ततः ॥

तत्र स्नात्वा विशालाक्षी दृष्ट्वा गर्भेन जायते

॥२॥

जरासंधेश तीर्थं च जरासंधेशसन्निधौ ॥

संसारज्वरपीडाभिस्तत्र स्नातो न मुह्यति

॥३॥

ततोऽपि ललितातीर्थं महासौभाग्यवर्धनम् ॥

स्नात्वार्चयित्वा ललितां न दरिद्रो न दुःखभाक्

॥४॥

ततो गौतमतीर्थं च सर्वपापविशोधनम् ॥

स्नात्वा पिंडान्विनिर्वाप्य यत्र शोचति न क्वचित्

॥५॥

गंगाकेशवतीर्थं च तीर्थं चागस्त्य संज्ञकम् ॥

ततस्तु योगिनीतीर्थं त्रिसंध्याख्यं ततः परम्

॥६॥

ततस्तु नार्मदं तीर्थं तत आरुंधतेयकम् ॥

वासिष्ठं च ततस्तीर्थं मार्कंण्डेयमनुत्तमम्

॥७॥

ज्ञेयान्येतानि तीर्थानि पुण्यदान्युत्तरोत्तरम ॥

खुरकर्तरि संज्ञं च ततस्तीर्थमनुत्तमम्

॥८॥

तत्र श्राद्धादिकरणान्नरोमुच्येत किल्बिषैः ॥

ततो भगीरथं तीर्थं राजर्षेरतिपुण्यदम्

॥९॥

तत्राल्पमपि यच्छेद्यत्कल्पांतेप्यक्षयं हि तत् ॥

एतेभ्योपि हि तीर्थेभ्यो लिंगकोटित्रयादपि

॥११०॥

वीरवीरेश्वरं लिंगं महाश्रेष्ठं भविष्यति ॥

वीरतीर्थे नरः स्नात्वा वीरेशं परिपूज्य च

॥११॥

तीर्थेष्वेतेषु सर्वेषु स्नातो भवति नान्यथा ॥

यस्तु वीरेश्वरं लिंगं नक्तमभ्यर्चयिप्यति ॥

तेन त्रिकोटिसंख्यानि लिंगानीहार्चितानि वै

॥१२॥

यस्तु कामयते लक्ष्मीं मुक्तिदां भुक्तिदामपि ॥

तेन वीरेश्वरं लिंगं संसेव्यमतियत्नतः

॥१३॥

विधायैकं जागरणं नरो वीरेशमर्चयन् ॥

भूतायां नैव गृह्णाति शरीरं पांचभौतिकम्

॥१४॥

इदं लिंगं सदाभ्यर्च्यं सिद्धैः संसिद्धिकामुकैः ॥

ऐहिकामुष्मिकान्यस्मात्सर्वान्कामान्समर्थयेत्

॥१५॥

पंचामृतेन स्नपनं यः करिष्यति मानवः ॥

पलेपले फलं तस्य वीरेशे घटकोटिजम्

॥१६॥

यदन्यत्र फलं लिंगे कोटिपुष्प प्रदानतः ॥

तदेकेनैव पुष्पेण वीरेशे नात्र संशयः

॥१७॥

एकामप्याहुतिं दत्त्वा वीरेश्वरसमीपतः ॥

कोटिहोमफलं सम्यङ्नात्र कार्या विचारणा

॥१८॥

सिक्थेसिक्थे च नैवैद्यै कोटिसिक्थफलं भवेत् ॥

अत्यल्पमपि वीरेशे कृतमक्षयतां व्रजेत्

॥१९॥

अप्येकं यो महारुद्रं जपेद्वीरेश सन्निधौ ॥

जापयेद्वा भवेत्तस्य कोटिरुद्रफलं ध्रुवम्

॥१२०॥

व्रतोत्सर्गादि वीरेशे यत्कृतं व्रतिभिर्नृभिः ॥

तत्कोटिगुणसंख्याकं भवत्येव न संशयः

॥२१॥

कृता अष्टौ नमस्कारा येन वीरेश्वराग्रतः ॥

अष्टकोटि नमस्कारफलं तस्य न संशयः

॥२२॥

सर्वासां संपदां स्थानमिदं लिंगं भविष्यति ॥

वीरश्वेरं न संदेहो वीर मे वरदानतः

॥२३॥

ज्ञानमुत्पत्स्यते पुंसां तारकाख्यं ममाज्ञया ॥

जीवतामेव तत्सेव्यमेतल्लिंगं शुभार्थिभिः

॥२४॥

एतच्छ्रुत्वा पुनः प्राह वीरो मित्रजितः सुतः ॥

प्रणम्य देवदेवेशं परिपूर्णमनोरथः

॥२५॥

तीर्थान्येतानि देवेश यान्युक्तानि ममाग्रतः ॥

कृपया पुनरप्येव तदन्यानि वद प्रभो

॥२६॥

आदिकेशवमारभ्य तत्तीर्थाच्च भगीरथात् ॥

येषां श्रवणमात्रेण निष्पापो जायते नरः

॥२७॥

इति श्रुत्वा महेशानो महीप तनयोदितम् ॥

पुनस्तीर्थानि गंगायां वक्तुं समुपचक्रमे

॥१२८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धे वीरेश्वराविर्भावोनाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥