ब्रह्मकृतकाशीप्रशंसा
शिवशर्मोवाच
ध्रुवाख्यानमिदं रम्यं महापातकनाशनम् ॥
महाश्चर्यकरं पुण्यं श्रुत्वा तृप्तोस्मि भो गणौ
॥१॥अगस्त्य उवाच
इत्थं यावद्द्विजो ब्रूते विमानं वायुवेगगम् ॥
तावत्प्राप महर्लोकं स्वर्लोकात्परमाद्भुतम्
॥२॥द्विजोऽथ लोकं संवीक्ष्य सर्वतो महसा वृतम् ॥
तौ गणौ प्रत्युवाचेदं कोयं लोको मनोहरः
॥३॥तावूचतुस्ततो विप्रं निशामय महामते ॥
अयं स हि महर्लोकः स्वर्लोकात्परमाद्भुतः
॥४॥कल्पायुषो वसंत्यत्र तपसा धूतकल्मषाः ॥
विष्णुस्मरण संक्षीण समस्तक्लेशसंचयाः
॥५॥निर्व्याजप्रणिधानेन दृष्ट्वा तेजोमयं जगत् ॥
महायोगसमायुक्ता वसंत्यत्र सुरोत्तमाः
॥६॥इत्थं कथां कथयतोर्भगवद्गणयोः प्रिये ॥
क्षणार्धेन विमानं तज्जनलोकं निनायतान्
॥७॥निवसंत्यमला यत्र मानसा बह्मणः सुताः ॥
सनंदनाद्या योगींद्राः सर्वे ते ह्यूर्ध्वरेतसः
॥८॥अन्ये तु योगिनो ये वै ह्यस्खलद्ब्रह्मचारिणः ॥
सर्वद्वंद्वविनिर्मुक्तास्ते वसंत्यतिनिर्मलाः
॥९॥जनलोकात्तपोलोकस्तेषां लोचनगोचरः ॥
कृतस्तेन विमानेन मनोवेगेन गच्छता
॥१०॥वैराजा यत्र ते देवा वसेयुर्दाहवर्जिताः ॥
वासुदेवे मनो येषां वासुदेवार्पितक्रियाः
॥११॥तपसा तोष्य गोविंदमभिलाषविवर्जिताः ॥
तपोलोकमिमं प्राप्य वसंति विजितेंद्रियाः
॥१२॥शिलोंछ वृत्तया ये वै दंतोलूखलिकाश्च ये ॥
अश्मकुट्टाश्च मुनयः शीर्णपर्णाशिनश्च ये
॥१३॥ग्रीष्मे पंचाग्नितपसो वर्षासु स्थंडिलेशयाः ॥
हेमंतशिशिरार्धे ये क्षपंति सलिले क्षपाः
॥१४॥कुशाग्रनीरविप्रूषस्तृषिता यतयोऽपिबन् ॥
वाताशिनोतिक्षुधिताः पादाग्रांगुष्ठ भूस्पृशः
॥१५॥ऊर्ध्वदोषो रविदृशस्त्वेकांघ्रि स्थाणु निश्चलाः ॥
ये वै दिवा निरुच्छ्वासा मासोच्छ्वासाश्च ये पुनः
॥१६॥मासोपवासव्रतिनश्चातुर्मास्य व्रताश्च ये ॥
ऋत्वंततोयपाना ये षण्मासोपवासकाः
॥१७॥ये च वर्षनिमेषा वै वर्षधारांबु तर्षकाः ॥
ये च स्थाणूपमां प्राप्ता मृगकंडूति सौख्यदाः
॥१८॥जटाटवी कोटरांतः कृतनीडांडजाश्च ये ॥
प्ररूढवामलूरांगाः स्नायुनद्धास्थिसंचयाः
॥१९॥लताप्रतानैः परितो वेष्टितावयवाश्च ये ॥
सस्यानि च प्ररूढानि यदंगेषु चिरस्थिति
॥२०॥इत्यादि सुतपः क्लिष्टवर्ष्माणो ये तपोधनाः ॥
ब्रह्मायुषस्तपोलोके ते वसंत्यकुतोभयाः
॥२१॥यावदित्थं स पुण्यात्मा शृणोति गणयोर्मुखात् ॥
तावन्नेत्रातिथीभूतः सत्यलोको महोज्ज्वलः
॥२२॥त्वरावंतौ गणौ तत्र विमानादवरुह्य तौ ॥
स्रष्टारं सर्वलोकानां तेन सार्धं प्रणेमतुः
॥२३॥ब्रह्मोवाच
गणावसौ द्विजो धीमान्वेदवेदांगपारगः ॥
स्मृत्युक्ताचारचंचुश्च प्रतीपः पापकर्मसु
॥२४॥अयि द्विज महाप्राज्ञ जाने त्वां शिवशर्मक ॥
साधूकृतं त्वया वत्स सुतीर्थप्राणमोक्षणात्
॥२५॥सत्वरं गत्वरं सर्वं यच्चैतद्भवतेक्षितम् ॥
दैनंदिनप्रलयतः सृजामि च पुनः पुनः
॥२६॥आ वैराजं प्रतिपदमुपसंहरते हरः ॥
का कथा मशकाभानां नृणां मरणधर्मिणाम्
॥२७॥चतुर्षु भूतग्रामेषु ह्येक एव गुणो नृणाम् ॥
तस्मिन्वै भारते वर्षे कर्मभूमौ महीयसि
॥२८॥चपलानि विनिर्जित्येंद्रियाणि मनसा सह ॥
विहाय वैरिणं लोभं विष्वग्गुणगणस्य च
॥२९॥धर्मवंशहरं काममर्थसंचयहारिणम् ॥
जरापलितकर्तारं विनिष्कृत्य विचारतः
॥३०॥जित्वा क्रोधरिपुं धैर्यात्तपसो यशसः श्रियः ॥
शरीरस्यापि हर्तारं नेतारं तामसीं गतिम्
॥३१॥सदा मदं परित्यज्य प्रमादैकपदप्रदम् ॥
प्रमादैकशरण्यं च संपदां विनिवर्तकम्
॥३२॥सर्वत्र लघुता हेतुमहंकारं विहाय च ॥
दूषणारोपणे यत्नं कुर्वाणं सज्जनेष्वपि
॥३३॥हित्वा मोहं महाद्रोहरोपणं मतिघातिनम् ॥
अत्यंतमंधीकरणमंधतामिस्रदर्शकम्
॥३४॥श्रुतिस्मृतिपुराणोक्तं परिक्षुण्णं महाजनैः ॥
धर्मसोपानमारुह्य यदिहायांति हेलया
॥३५॥कर्मभूमिं समीहंते सर्वे स्वर्गौकसो द्विज ॥
यत्तत्रार्जितभोक्तारः पदेषूच्चावचेष्वमी
॥३६॥नार्यावर्तसुमो देशो न काशी सदृशी पुरी ॥
न विश्वेश समं लिंगं क्वापि बह्मांडमंडले
॥३७॥संति स्वर्गा बहुविधाः सुखेतर विवर्जिता ॥
सुकृतैकफलाः सर्वे युक्ताः सर्वसमृद्धिभिः
॥३८॥स्वर्लोकादधिकं रम्यं नहि ब्रह्मांडगोलके ॥
सर्वे यतंते स्वर्गाय तपोदानव्रतादिभिः
॥३९॥स्वर्लोकादपिरम्याणि पातालानीति नारदः ॥
प्राह स्वर्गसदां मध्ये पातालेभ्यः समागतः
॥४०॥आह्लादकारिणः शुभ्रा मणयो यत्र सुप्रभाः ॥
नागांगाभरणप्रोताः पातालं केन तत्समम्
॥४१॥दैत्यदानवकन्याभिरितश्चेतश्च शोभिते ॥
पाताले कस्य न प्रीतिर्विमुक्तस्यापि जायते
॥४२॥दिवार्करश्मयस्तत्र प्रभां तन्वंति नातपम् ॥
शशिनश्च न शीताय निशि द्योताय केवलम्
॥४३॥यत्र न ज्ञायते कालो गतोपि दनुजादिभिः ॥
वनानि नद्यो रम्याणि सदंभांसि सरांसि च
॥४४॥कलाः पुंस्को किलालापाः सुचैलानि शुचीनि च ॥
भूषणान्यतिरम्याणि गंधाद्यमनुलेपनम्
॥४५॥वीणावेणुमृदंगादि निस्वनाः श्रुतिहारिणः ॥
हाटकेशं महालिंगं यत्र वै सर्वकामदम्
॥४६॥एतान्यन्यानि रम्याणि भोग्योग्यानि दानवैः ॥
दैत्योरगैश्च भुज्यंते पातालांतरगोचरैः
॥४७॥पातालेभ्योपि वै रम्यं द्विज वर्षमिलावृतम् ॥
रत्नसानुं समाश्रित्य परितः परिसंस्थितम्
॥४८॥सदा सुकृतिनो यत्र सर्वभोगभुजो द्विज ॥
नवयौवनसंपन्ना नित्यं यत्र मृगीदृशः
॥४९॥भोगभूमिरियं प्रोक्ता श्रेयो विनिमयार्जिता ॥
भुज्यते त्वद्विधैर्लोकैस्तीर्थाभित्यक्त देहकैः
॥५०॥अक्लीबभाषिभिश्चापि पुत्रक्षेत्राद्यहीनकैः ॥
परोपकारसंक्षीणसुखायुर्धनसंचयैः
॥५१॥संति द्वीपा ह्यनेका वै पारावारांतरस्थिताः ॥
जंबूद्वीपसमो द्वीपो न क्वापि जगतीतले
॥५२॥तत्रापि नववर्षाणि भारतं तत्र चोत्तमम् ॥
कर्मभूमिरियं प्रोक्ता देवानामपिदुर्लभा
॥५३॥अष्टौ किंपुरुषादीनि देवभोग्यानि तानि तु ॥
तेषु स्वर्गात्समागत्य रमंते त्रिदिवौकसः
॥५४॥योजनानां सहस्राणि नवविस्तारतस्त्विदम् ॥
भारतं प्रथमं वर्षं मेरोर्दक्षिणतः स्थितम्
॥५५॥तत्रापि हिमविंध्याद्रेरंतरं पुण्यदं परम् ॥
गंगायमुनयोर्मध्ये ह्यंतर्वेदी भुवः पराः
॥५६॥कुरुक्षेत्रं हि सर्वेषां क्षेत्राणामधिकं ततः ॥
ततोपि नैमिषारण्यं स्वर्गसाधनमुत्तमम्
॥५७॥नैमिषारण्यतोपीह सर्वस्मिन्क्षितिमंडले ॥
सर्वेभ्योपि हि तीर्थेभ्यस्तीर्थराजो विशिष्यते
॥५८॥स्वर्गदोमोक्षदश्चैव सर्वकामफलप्रदः ॥
प्रयागस्तन्महत्क्षेत्रं तीर्थराज इति स्मृतः
॥६९॥यागाः सर्वे मया पूर्वं तुलया विधृता द्विज ॥
तच्च तीर्थवरं रम्यं कामिकं कामपूरणात
॥६०॥दृष्ट्वा प्रकृष्टयागेभ्यः पुष्टेभ्यो दक्षिणादिभिः ॥
प्रयागमिति तन्नाम कृतं हरिहरादिभिः
॥६१॥नाममात्रस्मृतेर्यस्य प्रयागस्य त्रिकालतः ॥
स्मर्तुः शरीरे नो जातु पापं वसति कुत्रचित्
॥६२॥संति तीर्थान्यनेकानि पापत्राणकराणि च ॥
न शक्तान्यधिकं दातुं कृतैनः परिशुद्धितः
॥६३॥जन्मांतरेष्वसंख्येषु यः कृतः पापसंचयः ॥
दुष्प्रणोद्यो हि नितरां व्रतैर्दानैस्तपोजपैः
॥६४॥स तीर्थराजगमनोद्यतस्य शुभजन्मनः ॥
अंगेषु वेपतेऽत्यंतं द्रुमो वातहतो यथा
॥६५॥ततः क्रांतार्धमार्गस्य प्रयाग दृढचेतसः ॥
पुंसः शरीरान्निर्यातुमपेक्षेत पदांतरम्
॥६६॥भाग्यान्नेत्रातिथीभूते तीर्थराजे महात्मनः ॥
पलायते द्रुततरं तमः सूर्योदये यथा
॥६७॥सप्तधातुमयी भूततनौ पापानि यानि वै ॥
केशेषु तानि तिष्ठंति वपनाद्यांति तान्यपि
॥६८॥एवं निष्कलुषीभूय ततः स्नायात्सितासिते ॥
यंयं काममभिध्यायंस्तं तमाप्नोति नान्यथा
॥६९॥पुण्यराशिं च विपुलं पुण्यान्भोगान्यथेप्सितान् ॥
स्वर्गं प्राप्नोति तत्पुण्यान्निष्कामो मोक्षमाप्नुयात्
॥७०॥स्नायाद्योभिलषन्मोक्षं कामानन्यान्विहाय च ॥
सोपि मोक्षमवाप्नोति कामदात्तीर्थराजतः
॥७१॥तीर्थराजं परित्यज्य योऽन्यस्मात्काममिच्छति ॥
भारताख्ये महावर्षे स कामं नाप्नुयात्स्फुटम्
॥७२॥सत्यलोके प्रयागे च नांतरं वेद्म्यहं द्विज ॥
तत्र ये शुभकर्माणस्ते मल्लोकनिवासिनः
॥७३॥तीर्थाभिलाषिभिर्मर्त्यैस्सेव्यं तीर्थांतरं नहि ॥
अन्यत्र भूमिवलये तीर्थराजात्प्रया गतः
॥७४॥यथांतरं द्विजश्रेष्ठ भूपेत्वितरसेवके ॥
दृष्टांतमात्रं कथितं प्रयागेतर तीर्थयोः
॥७५॥यथाकथंचित्तीर्थेऽस्मिन्प्राणत्यागं करोति यः ॥
तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि
॥७६॥यस्य भाग्यवतश्चात्र तिष्ठंत्यस्थीन्यपि द्विज ॥
न तस्य दुःखलेशोपि क्वापि जन्मनि जायते
॥७७॥ब्रह्महत्यादि पापानां प्रायश्चित्तं चिकीर्षुणा ॥
प्रयागं विधिवत्सेव्यं द्विजवाक्यान्न संशयः
॥७८॥किं बहूक्तेन विप्रेंद्र महोदयमभीप्सुना ॥
सेव्यं सितासितं तीर्थं प्रकृष्टं जगतीतले
॥७९॥प्रयागतोपि तीर्थेशात्सर्वेषु भुवनेष्वपि ॥
अनायासेन वै मुक्तिः काश्यां देहावसानतः
॥८०॥प्रयागादपि वै रम्यमविमुक्तं न संशयः ॥
यत्र विश्वेश्वरः साक्षात्स्वयं समधितिष्ठति
॥८१॥अविमुक्तान्महाक्षेत्राद्विश्वेश समधिष्ठितात् ॥
न च किंचित्क्वचिद्रम्यमिह ब्रह्मांडगोलके
॥८२॥अविमुक्तमिदं क्षेत्रमपि ब्रह्मांडमध्यगम् ॥
ब्रह्मांडमध्ये न भवेत्पंचक्रोशप्रमाणतः
॥८३॥यथायथा हि वर्धेत जलमेकार्णवस्य च ॥
तथातथोन्नयेदीशस्तत्क्षेत्रं प्रलयादपि
॥८४॥क्षेत्रमेतत्त्रिशूलाग्रे शूलिनस्तिष्ठति द्विज ॥
अंतरिक्षेन भूमिष्ठं नेक्षंते मूढबुद्धयः
॥८५॥सदा कृतयुगं चात्र महापर्वसदाऽत्र वै ॥
न ग्रहाऽस्तोदयकृतो दोषो विश्वेश्वराश्रमे
॥८६॥सदा सौम्यायनं तत्र सदा तत्र महोदयः ॥
सदैव मंगलं तत्र यत्र विश्वेश्वरस्थितिः
॥८७॥यथाभूमितले विप्र पुर्यः संति सहस्रशः ॥
तथा काशी न मंतव्या क्वापि लोकोत्तरात्वियम्
॥८८॥मया सृष्टानि विप्रेंद्र भुवनानि चतुर्दश ॥
अस्याः पुर्या विनिर्माता स्वयं विश्वेश्वरः प्रभुः
॥८९॥पुरा यमस्तपस्तप्त्वा बहुकालं सुदुष्करम् ॥
त्रैलोक्याधिकृतिं प्राप्तस्त्यक्त्वा वाराणसीं पुरीम्
॥९०॥चराचरस्य सर्वस्य यानि कर्माणि तानि वै ॥
गोचरे चित्रगुप्तस्य काशीवासिकृतादृते
॥९१॥प्रवेशो यमदूतानां न कदाचिद्द्विजोत्तम ॥
मध्ये काशीपुरी क्वापि रक्षिणस्तत्र तद्गणाः
॥९२॥स्वयं नियंता विश्वेशस्तत्र काश्यां तनुत्यजाम् ॥
तत्रापि कृतपापानां नियंता कालभैरवः
॥९३॥तत्र पापं न कर्तव्यं दारुणा रुद्रयातना ॥
अहो रुद्रपिशाचत्वं नरकेभ्योपि दुःसहम्
॥९४॥पापमेव हि कर्तव्यं मतिरस्ति यदीदृशी ॥
सुखेनान्यत्र कर्तव्यं मही ह्यस्ति महीयसी
॥९५॥अपि कामातुरो जंतुरेकां रक्षति मातरम् ॥
अपि पापकृता काशी रक्ष्या मोक्षार्थिनैकिका
॥९६॥परापवादशीलेन परदाराभिलाषिणा ॥
तेन काशी न संसेव्या क्व काशी निरयः क्व सः
॥९७॥अभिलष्यंति ये नित्यं धनं चात्र प्रतिग्रहैः ॥
परस्वं कपटैर्वापि काशी सेव्या न तैर्नरैः
॥९८॥परपीडाकरं कर्म काश्यां नित्यं विवर्जयेत् ॥
तदेव चेत्किमत्र स्यात्काशीवासो दुरात्मनाम्
॥९९॥त्यक्त्वा वैश्वेश्वरीं भक्तिं येऽन्यदेवपरायणाः ॥
सर्वथा तैर्न वस्तव्या राजधानी पिनाकिनः
॥१००॥अर्थार्थिनस्तु ये विप्र ये च कामार्थिनो नराः ॥
अविमुक्तं न तैः सेव्यं मोक्षक्षेत्रमिदं यतः
॥१॥शिवनिंदापरा ये च वेदनिंदा पराश्च ये ॥
वेदाचारप्रतीपा ये सेव्या वाराणसी न तैः
॥२॥परद्रोहधियो ये च परेर्ष्याकारिणश्च ये ॥
परोपतापिनो ये वै तेषां काशी न सिद्धये
॥३॥मनसापि न ये काशीमभिनंदंति दुर्धियः ॥
तेषां निर्वाणवार्तापि दूरे दुर्वृत्तचेतसाम्
॥४॥ज्ञानेन न विना मोक्षः क्वचिदस्तीह भूतले ॥
तज्ज्ञानं न व्रतैर्लभ्यमपि चांद्रायणादिभिः
॥५॥तुलापुरुषमुख्यैश्च दानैश्च श्रद्धयान्वितैः ॥
देशकाले च विधिना पात्रेभ्यः प्रतिपादितैः
॥६॥न यमैर्ब्रह्मचर्याद्यैर्नियमैर्नार्चनादिभि. ॥
शरीरशोषणैरुग्रैर्न तपोभिर्द्विजोत्तम
॥७॥न महामंत्रजप्यैश्च गुरुभिः प्रतिपादितैः ॥
न स्वाध्यायैर्यथोक्तैश्च नाग्निशुश्रूषणैः परैः
॥८॥न सेवया गुरूणां च न श्राद्धैर्देवतार्चनैः ॥
न नानातीर्थयात्राभिर्ज्ञानं समधिगम्यते
॥९॥न योगेन विना ज्ञानं योगस्तत्त्वार्थशीलनम् ॥
गुरूपदिष्टमार्गेण सदाभ्यासवशेन च
॥११०॥तस्यांतराया बहवः सुदूरश्रवणादयः ॥
अतो न प्राप्यते ज्ञानं योगादेकेन जन्मना
॥११॥विना तपो जपाद्यैश्च विना योगेन सुव्रत ॥
निःश्रेयो लभ्यते काश्यामिहैकेनैव जन्मना
॥१२॥त्वया शुद्धधिया काश्यां यच्छ्रेयः समुपार्जितम् ॥
तच्छ्रेयसोप्युदर्कस्ते महानस्ति द्विजोत्तम
॥१३॥उक्तेति विररामाजः शृण्वतोर्गणयोस्तयोः ॥
सोपि प्रमुदितश्चाभूच्छिवशर्मा महामनाः
॥११४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ब्रह्मकृतकाशीप्रशंसानाम द्वाविंशतितमोऽध्यायः ॥ २२ ॥