मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय २

3
काशीखण्डः · 2

सत्यलोकवर्णनम्

व्यास उवाच

सूर्य आत्मास्य जगतस्तस्थुषस्तमसोरिपुः ॥

उदियायोदयगिरौ शुचिप्रसृमरैः करैः

॥१॥

संवर्धयन्सतां धर्मान्त्यक्कुर्वंस्तामसीं स्थितिम् ॥

पद्मिनीं बोधयंस्त्विष्टां रात्रौ मुकुलिताननाम्

॥२॥

हव्यं कव्यं भूतबलिं देवादीनां प्रवर्तयन् ॥

प्राह्णापराह्णमध्याह्न क्रियाकालं विजृंभयन्

॥३॥

असतां हृदि वक्त्रेषु निर्दिशंस्तमसः स्थितिम् ॥

यामिनीकालकलितं जगदुज्जीवयन्पुनः

॥४॥

यस्मिन्नभ्युदिते जातः सम्यक्पुण्यजनोदयः ॥

अहो परोपकरणं सद्यः फलति नेति चेत्

॥५॥

सायमस्तमितः प्रातः कथं जीवेद्रविः पुनः ॥

सानुरागकरस्पर्शैः प्राचीमाश्वास्य खंडिताम्

॥६॥

यामं भुक्त्वा तथाग्नेयीं ज्वलंतीं विरहादिव ॥

लवंगैलामृगमदचंद्रचंदनचर्चिताम

॥७॥

तांबूलीरागरक्तौष्ठीं द्राक्षास्तबकसुस्तनीम् ॥

लवलीवल्लिदोर्वल्ली कंको ली पल्लवांगुलिम्

॥८॥

मलयानिल निःश्वासां क्षीरोदकवरांबराम् ॥

त्रिकूटस्वर्णरत्नांगीं सुवेलाद्रि नितंबिनीम

॥९॥

कावेरीगौतमीजंघां चोलचोलां शुकावृताम् ॥

सह्यदर्दुरवक्षोजां कांतीकांचीविभूषणाम

॥१०॥

सुकोमलमहाराष्ट्रीवाग्विलासमनोहराम् ॥

अद्यापि न महालक्ष्मीर्या विमुंचति सद्गुणाम्

॥११॥

सुदक्षदक्षिणामाशामाशानाथः प्रतस्थिवान् ॥

क्रमतः सर्वमर्वन्तो हेलया हेलिकस्य खम्

॥१२॥

न शेकुरग्रतो गंतुं ततोऽनूरुर्व्यजिज्ञपत्

॥१३॥

अनूरुरुवाच

भानो मानोन्नतो विन्ध्यो निद्ध्यय गगनं स्थितः ॥

स्पर्धते मेरुणाप्रेप्सु स्त्वद्दत्तां तु प्रदक्षिणाम्

॥१४॥

अन्रूरुवाक्यमाकर्ण्य सविता हृद्यचिन्तयत् ॥

अहो गगनमार्गोपि रुध्यते चातिविस्मयः

॥१५॥

व्यास उवाच

सूरः शूरोपि किं कुर्यात्प्रांतरे वर्त्मनिस्थितः ॥

त्वरावानपि को रुद्धं मागर्मेको विलंघयेत्

॥१६॥

गृह्यत्राप्रत्यूष्टेः क्षणं नावतिष्ठति ॥

शून्यमार्गे निरुद्धः स किंकरोतु विधिर्बली

॥१७॥

योजनानां सहस्रे द्वे द्वे शते द्वे च योजने ॥

योजनस्य निमेषार्धाद्याति सोपि चिरं स्थितः

॥१८॥

गते बहुतिथेकाले प्राच्यौदीच्यां भृशार्दिताः ॥

चण्डरश्मेः करव्रातपातसन्तापतापिताः

॥१९॥

पाश्चात्या दक्षिणात्याश्च निद्रामुद्रितलोचनाः ॥

शयिता एव वीक्षन्ते सतारग्रहमंबरम्

॥२०॥

अहोनाहस्कराभावान्निशानैवाऽनिशाकरात् ॥

अस्तंगतर्क्षान्नभसः कः कालस्त्वेप नेक्ष्यते

॥२१॥

ब्रह्मांडं किमकांडे वै लयमेष्यति तत्कथम् ॥

परापतंति नाद्यापि पारावारा इतस्ततः

॥२२॥

स्वाहास्वधावषट्कारवर्जिते जगतीतले ॥

पंचयज्ञक्रियालोपाच्चकंपे भुवनत्रयम्

॥२३॥

सूर्योदयात्प्रवर्तंते यज्ञाद्याः सकलाः क्रियाः ॥

ताभिर्यज्ञभुजांतृप्तिः सविता तत्र कारणम्

॥२४॥

चित्रगुप्तादयः सर्वे कालं जानंति सूर्यतः ॥

स्थितिसर्गविसर्गाणां कारणं केवलं रविः

॥२५॥

तत्सूर्यस्य गतिस्तंभात्स्तंभितं भुवनत्रयम् ॥

यद्यत्रतत्स्थितं तत्र चित्रन्यस्तमिवा खिलम्

॥२६॥

एकतस्तिमिरान्नैशादेकतस्तु दिवातपात् ॥

बहूनां प्रलयो जातः कांदिशीकमभूज्जगत्

॥२७॥

इति व्याकुलिते लोके सुरासुरनरोरगे ॥

आःकिमेतदकांडेभूद्रुरुदुर्दुद्रुवुः प्रजाः

॥२८॥

ततः सर्वे समालोक्य ब्रह्माणं शरणं ययुः ॥

स्तुवंतो विविधैः स्तोत्रै रक्षरक्षेति चाब्रुवन्

॥२९॥

देवा ऊचुः

नमो हिरण्यरूपाय ब्रह्मणे ब्रह्मरूपिणे ॥

अविज्ञातस्वरूपाय कैवल्यायामृताय च

॥३०॥

यन्न देवा विजानंति मनो यत्रापि कुंठितम् ॥

न यत्र वाक्प्रसरति नमस्तस्मै चिदात्मने

॥३१॥

योगिनो यं हृदाकाशे प्रणिधानेन निश्चलाः ॥

ज्योतीरूपं प्रपश्यंति तस्मै श्रीब्रह्मणे नमः

॥३२॥

कालात्पराय कालाय स्वेच्छयापुरुषाय च ॥

गुणत्रय स्वरूपाय नमः प्रकृतिरूपिणे

॥३३॥

विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ॥

तमसे रुद्ररूपाय स्थितिसर्गांतकारिणे

॥३४॥

नमो बुद्धिस्वरूपाय त्रिधाहंकृतये नमः ॥

पंचतन्मात्र रूपाय पंचकर्मेद्रियात्मने

॥३५॥

नमो मनःस्वरूपाय पंचबुद्धींद्रियात्मने ॥

क्षित्यादि पंचरूपाय नमस्ते विषयात्मने

॥३५॥

नमो ब्रह्मांडरूपाय तदंतर्वर्तिने नमः ॥

अर्वाचीनपराची न विश्वरूपाय ते नमः

॥३७॥

अनित्यनित्यरूपाय सदसत्पतये नमः ॥

समस्तभक्तकृपया स्वेच्छाविष्कृतविग्रह

॥३६॥

तव निःश्वसितं वेदास्तव स्वे दोखिलं जगत् ॥

विश्वा भूतानि ते पादः शीर्ष्णो द्यौः समवर्तत

॥३९॥

नाभ्या आसीदंतरिक्षं लोमानि च वनस्पतिः ॥

चन्द्रमा मनसो जातश्चक्षोः सूर्यस्तव प्रभो

॥४०॥

त्वमेव सर्वं त्वयि देव सर्वं स्तोता स्तुतिः स्तव्य इह त्वमेव ॥

ईश त्वयाऽवास्यमिदं हि सर्वं नमोस्तु भूयोपि नमो नमस्ते

॥४१॥

इति स्तुत्वा विधिं देवा निपेतुर्दंडवत्क्षितौ ॥

परितुष्टस्तदा ब्रह्मा प्रत्युवाच दिवौकसः

॥४२॥

ब्रह्मोवाच

यथार्थयाऽनया स्तुत्या तुष्टोस्मि प्रणताः सुराः ॥

उत्तिष्ठत प्रसन्नोस्मि वृणुध्वं वरमुत्तमम्

॥४३॥

यः स्तोष्यत्यनया स्तुत्या श्रद्धावान्प्रत्यहं शुचिः ॥

मां वा हरं वा विष्णुं वा तस्य तुष्टाः सदा वयम्

॥४४॥

दास्यामः सकलान्कामान्पुत्रान्पौत्रान्पशून्वसु ॥

सौभाग्यमायुरारोग्यं निर्भयत्वं रणे जयम्

॥४५॥

ऐहिकामुष्मिकान्भोगानपवर्गं तथाऽक्षयम् ॥

यद्यदिष्टतमं तस्य तत्तत्सर्वं भविष्यति

॥४६॥

तस्मात्सर्वप्रयत्नेन पठितव्यः स्तवोत्तमः ॥

अभीष्टद इति ख्यातः स्तवोयं सर्वसिद्धिदः

॥४७॥

पुनः प्रोवाच तान्वेधाः प्रणिपत्योत्थितान्सुरान् ॥

स्वस्थास्तिष्ठत भो यूयं किमत्रापि समाकुलाः

॥४८॥

एते वेदा मूर्तिधरा इमा विद्यास्तथाखिलाः ॥

सदक्षिणा अमी यज्ञाः सत्यं धर्मस्तपो दमः

॥४९॥

ब्रह्मचर्यमिदं चैषा करुणा भारतीत्वियम् ॥

श्रुतिस्मृतीतिहासार्थ चरितार्था अमीजनाः

॥५०॥

नेह क्रोधो न मात्सर्यं लोभः कामोऽधृतिर्भयम् ॥

हिंसा कुटिलता गर्वो निंदासूयाऽशुचिः क्वचित्

॥५१॥

ये ब्राह्मणा ब्रह्मरतास्तपोनिष्ठास्तपोधनाः ॥

मासोपवासषण्मासचातुर्मास्यादि सद्व्रताः

॥५२॥

पातिव्रत्यरता नार्यो ये चान्ये ब्रह्मचारिणः ॥

ते चामीपश्यत सुरा ये षंढाः परयोषिति

॥५३॥

मातापित्रोरमी भक्ता अमी गोग्रहणे हताः ॥

व्रते दाने जपे यज्ञे स्वाध्याये द्विजतर्पणे

॥५४॥

तीर्थे तपस्युपकृतौ सदाचारादिकर्मणि ॥

फलाभिलाषिणीबुद्धिर्न येषां ते जना अमी

॥५५॥

गायत्री जाप्यनिरता अग्निहोत्र परायणाः ॥

द्विमुखी गो प्रदातारः कपिलादान तत्पराः

॥५६॥

निस्पृहाः सोमपा ये वै द्विजपादोदपाश्च ये ॥

मृताः सारस्वते तीर्थे द्विजशुश्रूषकाश्च ये

॥५७॥

प्रतिग्रहे समर्था हि ये प्रतिग्रहवर्जिताः ॥

त एते मत्प्रिया विप्रास्त्यक्ततीर्थ प्रतिग्रहाः

॥५८॥

प्रयागे माघ मासो यैरुषः स्नातोऽमलात्मभिः ॥

मकरस्थे रवौ शुद्धास्त इमे सूर्यवर्चसः

॥५९॥

वाराणस्यां पांचनदे त्र्यहं स्नातास्तु कार्तिके ॥

अमी ते शुद्धवपुषः पुण्यभाजोतिनिर्मलाः

॥६०॥

स्नात्वा तु मणिकर्णिक्यां प्रीणिता ब्राह्मणा धनैः ॥

त एते सर्वभोगाढ्याः कल्पं स्थास्यंति मत्पुरे

॥६१॥

ततः काशीं समासाद्य तेन पुण्येन नोदिताः ॥

विश्वेश्वरप्रसादेन मोक्षमेष्यंत्यसंशयम्

॥६२॥

अविमुक्ते कृतं कर्म यदल्पमपि मानवैः ॥

श्रेयोरूपं तद्विपाको मोक्षो जन्मांतरेष्वपि

॥६३॥

अहो वैश्वेश्वरे क्षेत्रे मरणादपिनोभयम् ॥

यत्र सर्वे प्रतीक्षंते मृत्युं प्रियमिवाति थिम्

॥६४॥

ब्राह्मणेभ्यः कुरुक्षेत्रे यैर्दत्तं वसु निर्मलम् ॥

निर्मलांगास्त एते वै तिष्ठंति मम संनिधा

॥६५॥

पितामहं समासाद्य गयायां यैः पितामहाः ॥

तर्पिता ब्राह्मणमुखे तेषामेते पितामहाः

॥६६॥

न स्नानेन न दानेन न जपेन न पूजया ॥

मल्लोकः प्राप्यते देवाः प्राप्यते द्विज तर्पणात्

॥६७॥

सोपस्कराणिवेश्मानिमु सलोलूखलादिभिः ॥

यैर्दत्तानि सशय्यानि तेषां हर्म्याण्यमूनि वै

॥६८॥

ब्रह्मशालां कारयंति वेदमध्यापयंति च ॥

विद्यादानं च ये कुर्युः पुराणं श्रावयंति च

॥६९॥

पुराणानि च ये दद्युः पुस्तकानि ददत्यपि ॥

धर्मशास्त्राणि ये दद्युस्तेषां वासोत्र मे पुरे

॥७०॥

यज्ञार्थं च विवाहार्थं व्रतार्थं ब्राह्मणाय वै ॥

अखंडं वसु ये दद्युस्तेत्र स्युर्वसुवर्चसः

॥७१॥

आरोग्यशालां यः कुर्याद्वैद्यपोषणतत्परः ॥

आकल्पमत्र वसति सर्वभोग समन्वितः

॥७२॥

मुक्ती कुर्वंति तीर्थानि ये च दुष्टावरोधतः ॥

ममावरोधे ते मान्या औरसास्तनया इव

॥७३॥

विष्णोर्वाममवाशंभोर्ब्राह्मणा एव सुप्रियाः ॥

तेषां मूर्त्या वयं साक्षाद्विचरामो महीतले

॥७४॥

ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधाकृतम् ॥

एकत्र मंत्रास्तिष्ठंति हविरेकत्र तिष्ठति

॥७५॥

ब्राह्मणा जंगमं तीर्थं निर्मितं सार्वभौमिकम् ॥

येषां वाक्योदकेनैव शुद्ध्यंति मलिना जनाः

॥७६॥

गावः पवित्रमतुलं गावो मंगलमुत्तमम् ॥

यासां खुरोत्थितो रेणुर्गंगावारिसमो भवेत्

॥७७॥

शृंगाग्रे सर्वतीर्थानि खुराग्रे सर्व पर्वताः ॥

शृंगयोरंतरे यस्याः साक्षाद्गौरीमहेश्वरी

॥७८॥

दीयमानां च गां दृष्ट्वा नृत्यंति प्रपितामहाः ॥

प्रीयंते ऋषयः सर्वे तुष्यामो दैवतैः सह

॥७९॥

रोरूयंते च पापानि दारिद्र्यं व्याधिभिः सह ॥

धात्र्यः सर्वस्य लोकस्य गावो मातेव सर्वथा

॥८०॥

गवां स्तुत्वा नमस्कृत्य कृत्वा चैव प्र दक्षिणाम् ॥

प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा

॥८१॥

या लक्ष्मीः सवर्भूतानां या देवेषु व्यवस्थिता ॥

धेनुरूपेण सा देवी मम पापं व्यपोहतु

॥८२॥

विष्णोर्वक्षसि या लक्ष्मीः स्वाहा चैव विभावसोः ॥

स्वधा या पितृमुख्यानां सा धेनुर्वरदा सदा

॥८३॥

गोमयं यमुना साक्षाद्गोमूत्रं नर्मदा शुभा ॥

गंगा क्षीरं तु यासां वै किं पवित्रमतः परम्

॥८४॥

गवामंगेषु तिष्ठंति भुवनानि चतुर्दश ॥

यस्मात्तस्माच्छिवं मे स्यादिहलोके परत्र च

॥८५॥

इति मंत्रं समुच्चार्य धेनूर्वाधेनुमेव वा ॥

यो दद्याद्द्विजवर्याय स सर्वेभ्यो विशिष्यते

॥८६॥

मया च विष्णुना सार्धं शिवेन च महर्षिभिः ।

विचार्य गोगुणान्नित्यं प्रार्थनेति विधीयते

॥८७॥

गावो मे पुरतः संतु गावो मे संतु पृष्ठतः ॥

गावो मे हृदये संतु गवां मध्ये वसाम्यहम्

॥८८॥

नीराजयति योंगानि गवां पुच्छेन भाग्यवान् ॥

अलक्ष्मीः कलहो रोगास्तस्यांगाद्यांति दूरतः

॥८९॥

गोभिर्विप्रश्च वेदैश्च सतीभिः सत्यवादिभिः ॥

अलुब्धैर्दा नशीलैश्च सप्तभिर्धार्यते मही ॥

मम लोकात्परोलोको वैकुंठ इति गीयते ॥

तस्योपरिष्टात्कौमार उमालोकस्ततः परम्

॥९१॥

शिवलोकस्तदुपरि गोलो कस्तत्समीपतः ॥

गोमातरः सुशीलाद्यास्तत्र संति शिवप्रियाः

॥९२॥

गवां शुश्रूरूषकाये च गोप्रदाये च मानवाः ॥

एषामन्यतमे लोके ते स्युः सर्वसमृद्धयः

॥९३॥

यत्र क्षीरवहा नद्यो यत्र पायस कर्दमाः ॥

न जरा बाधते यत्र तत्र गच्छंति गोप्रदाः

॥९४॥

श्रुतिस्मृतिपुराणज्ञा ब्राह्मणाः परिकीर्तिताः ॥

तदुक्ताचारचरणा इतरे नामधारकाः

॥९५॥

श्रुतिस्मृती तु नेत्रे द्वे पुराणं हृदयं स्मृतम् ॥

श्रुतिस्मृतिभ्यां हीनोंधः काणः स्यादेकया विना ॥

पुराणहीनाद्धृच्छून्यात्काणांधावपि तौ वरौ ॥

श्रुतिस्मृत्युदितोधर्मः पुराणे परिगीयते

॥९७॥

तद्बाह्मणाय गोर्देया सर्वत्र सुखमिच्छता ॥

न देया द्विजमात्राय दातारं सोप्यधो नयेत्

॥९८॥

यस्य धर्मेऽस्ति जिज्ञासा यस्य पापाद्भयं महत् ॥

श्रोतव्यानि पुराणानि धमर्मूलानि तेन वै

॥९९॥

चतुर्दशसु विद्यासु पुराणं दीप उत्तमः ॥

अंधोपि न तदा लोकात्संसाराब्धौ क्वचित्पतेत्

॥१००॥

श्रोतव्यानि पुराणानि वस्तव्यं जाह्नवी तटे ॥

तर्पणीया द्विजा नित्यं ममलोकेप्सुभिः सदा

॥१॥

इत्युद्देशान्मयाख्याता सत्यलोकव्यवस्थितिः ॥

अभयं यद्भयार्तानां न भेतव्यं च हे सुराः

॥२॥

स्पर्धते मेरुणा विंध्यो ब्रध्नाध्व परिरोधकृत ॥

तदर्थमागता यूयं तदुपायं दिशामि वः

॥३॥

अस्त्यगस्त्यस्तप्यमानस्तप उग्रं महातपाः ॥

मैत्रावरुणिराधाय चित्तं विश्वेश्वरे विभौ

॥४॥

अविमुक्तमहाक्षेत्रे सर्वेषां मुक्तिहेतुके ॥

तारकस्योपदेशार्थं विश्वेशाऽधिष्ठिते स्वयम्

॥५॥

याचध्वं तत्र गत्वा तं स वः कार्यं विधास्यति ॥

तेनैकदाविता लोका वातापील्वलभक्षणात्

॥६॥

अतिमित्रं तत्र तेजो मित्रावरुणजे मुनौ ॥

तदाप्रभृति लोकेषु कोगस्त्यान्नैव बिभ्यति

॥७॥

इत्युक्त्वांतर्दधे वेधास्तेपि प्रमुदिताननाः ॥

देवाः परस्परं प्रोचुरहोधन्य तमा वयम्

॥८॥

प्रसंगतोपि द्रष्टव्यौ काशीकाशीपती शिवौ ॥

अहो अहोभिर्बहुभिः फलितो नो मनोरथः

॥९॥

उत्फुल्लपद्मनयना निर्मिताः सुकृतार्थिनः ॥

तावेव चरणौ धन्यौ काशीमभिप्रयायिनौ

॥११०॥

येयं कथा श्रुतास्माभिर्वेधसा समुदीरिता ॥

तस्याः श्रवणजात्पुण्यात्प्राप्नुमस्त्वद्य काशिकाम्

॥११॥

एका क्रिया द्व्यर्थकरी प्राप्यते पुण्यगौरवात् ॥

एवं वदंतो हृष्टास्याः सुराः काशीं समाययुः

॥१२॥

व्यास उवाच

इदं पुण्यतमाख्यानं ये श्रोष्यंतीह मानवाः ॥

विधूय सर्वपापानि पुत्रदारसमन्विताः

॥१३॥

इह वंशं परिस्थाप्य भुक्त्वा सर्व सुखानि च ॥

सत्यलोके चिरं स्थित्वा ततो यास्यंति शाश्वतम्

॥११४॥

इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्धे सत्यलोकवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥