मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ८८

3
काशीखण्डः · 88

शिवलोकं समासाद्य मुनिना ब्रह्मसूनुना

अगस्त्य उवाच

शिवलोकं समासाद्य मुनिना ब्रह्मसूनुना ॥

किं चक्रे ब्रूहि षड्वक्त्र कथां कौतुकशालिनीम्

॥१॥

स्कंद उवाच

शृणु कुंभज वक्ष्यामि नारदेन महात्मना ॥

यत्कृतं तत्र गत्वाशु कैलासं शंकरालयम्

॥२॥

मुनिर्गगनमार्गेण प्राप्य तद्धाम शांभवम् ॥

दृष्ट्वा शिवौ प्रणम्याथ शिवेन विहितादरः

॥३॥

तदुद्दिष्टासनं भेजे पश्यंस्तत्क्रीडनं परम् ॥

क्रीडंतौ तौ तु चाक्षाभ्यां यदा न च विरमेतुः

॥४॥

तदौत्सुक्येन स मुनिः प्रेर्यमाण उवाच ह ॥

नारद उवाच ॥

देवदेव तव क्रीडाखिलं ब्रह्मांडगोलकम् ॥

मासा द्वादश ये नाथ ते सारिफलके गृहाः

॥५॥

कृष्णाः कृष्णेतरा या वै तिथयस्ताश्च सारिकाः ॥

द्विपंचदशमासे यास्त्वक्षयुग्मं तथायने

॥६॥

सृष्टिप्रलय संज्ञौ द्वौ ग्लहौ जयपराजयौ ॥

देवीजये भवेत्सृष्टिरसृष्टिर्धूर्जटेर्जये

॥७॥

भवतोः खेलसमयो यः सा स्थितिरुदाहृता ॥

इत्थं क्रीडैव सकलमेतद्ब्रह्मांडमीशयोः

॥८॥

न देवी जेष्यति पतिं नेशः शक्तिं विजेष्यति ॥

किंचिद्विज्ञप्तुकामोस्मि तन्मातरवधार्यताम्

॥९॥

देवः सर्वज्ञनाथोपि न किंचिदवबुध्यति ॥

मानापमानयोर्यस्मादसौ दूरे व्यवस्थितः

॥१०॥

लीलात्मा गुणवानेष विचारादतिनिर्गुणः ॥

कुर्वन्नपि हि कर्माणि बाध्यते नैव कर्मभिः

॥११॥

मध्यस्थोपि हि सर्वस्य माध्यस्थ्यमवलंबतै ॥

सर्वत्रायं महेशानो मित्राऽमित्रसमानदृक्

॥१२॥

त्वं शक्तिरस्य देवस्य सर्वेषां मान्यभूः परा ॥

दक्षस्यापि त्वया मानो दत्तो पत्यनिमित्तकः

॥१३॥

परं त्वं सर्वजगतां जनयित्र्येकिका ध्रुवम् ॥

त्वत्त आविर्भवंत्येव धातृकेशववासवाः

॥१४॥

त्वमात्मानं न जानासि त्र्यक्षमायाविमोहिता ॥

अतएव हि मे चित्तं दुनोत्यतितरां सति

॥१५॥

अन्या अपि हि याः सत्यः पातिव्रत्यपरायणाः ॥

ता भर्तृचरणौ हित्वा किंचिदन्यन्न मन्वते

॥१६॥

अथवास्तामियं वार्ता प्रस्तुतं प्रब्रवीम्यहम् ॥

अद्य नीलगिरेस्तस्माद्धरिद्वारसमीपतः

॥१७॥

अपूर्वमिव संवीक्ष्य परिप्राप्तस्तवांतिकम् ॥

अत्याश्चर्यविषादाभ्यां किचिद्वक्तुमिहोत्सुकः

॥१८॥

आश्चर्यहेतुरेवायं यत्पुंजातं त्रयीतले ॥

तद्दृष्टं सकलत्रं च दक्षस्याध्वरमंडपे

॥१९॥

सालंकारं समानं च सानंदमुखपंकजम् ॥

विस्मृताखिलकार्यं च दक्षयज्ञप्रवर्तकम्

॥२०॥

विषादे कारणं चैतद्यतो जातमिदं जगत् ॥

यस्मिन्प्रवर्तते यत्र लयमेष्यति च ध्रुवम्

॥२१॥

तदेव तत्र नो दृष्टं भवद्वंद्वं भवापहम् ॥

प्रायो विषादजनकं भवतोर्यददर्शनम्

॥२२॥

तदेव नाभवत्तत्र समभूदन्यदेव हि ॥

तच्च वक्तुं न शक्येत तद्वक्ता दक्ष एव सः

॥२३॥

तानि वाक्यानि चाकर्ण्य द्रुहिणेन ययेततः ॥

महर्षिणा दधीचेन धिक्कृतो नितरां हि सः

॥२४॥

शप्तश्च वीक्षमाणानां देवर्षीणां प्रजापतिः ॥

मया च कर्णौ पिहितौ श्रुत्वा तद्गर्हणा गिरः

॥२५॥

दधीचिना समं केचिद्दुर्वासः प्रमुखा द्विजाः ॥

भवनिंदां समाकर्ण्य कियतोपि विनिर्ययुः

॥२६॥

प्रावर्तत महायागो हृष्टपुष्टमहाजनः ॥

तथा द्रष्टुं न शक्नोमि तत आगतवानिह

॥२७॥

भगिन्योपि च या देवि तव तत्र सभर्तृकाः ॥

तासां गौरवमालोक्य न किंचिद्वक्तुमुत्सहे

॥२८॥

इति देवी समाकर्ण्य सती दक्षकुमारिका ॥

करादक्षौ समुत्सृज्य दध्यौ किंचित्क्षणं हृदि

॥२९॥

उवाच च भवत्वेवं शरणं भव एव मे ॥

संप्रधार्येति मनसि सती दाक्षायणी ततः

॥३०॥

द्रुतमेव समुत्तस्थौ प्रणनाम च शंकरम् ॥

मौलावंजलिमाधाय देवी देवं व्यजिज्ञपत्

॥३१॥

देव्युवाच

विजयस्वांधकध्वंसिं त्र्यंबक त्रिपुरांतक ॥

चरणौ शरणं ते मे देह्यनुज्ञा सदाशिव

॥३२॥

मा निषेधीः प्रार्थयामि यास्यमि पितुरंतिकम् ॥

उक्त्वेति मौलिमदधादंधकारि पदांबुजे

॥३३॥

अथोक्ता शंभुना देवी मृडान्युत्तिष्ठ भामिनि ॥

किमपूर्णं तवास्त्यत्र वदसौ भाग्यसुंदरि

॥३४॥

लक्ष्म्या अपि च सौभाग्यं ब्रह्माण्यै कांतिरुत्तमा ॥

शच्यै नित्यनवीनत्वं भवत्या दत्तमीश्वरि

॥३५॥

त्वया च शक्तिमानस्मि महदैश्वर्यरक्षणे ॥

त्वां च शक्तिं समासाद्य स्वलीलारूपधारिणीम्

॥३६॥

एतत्सृजामि पाम्यद्मि त्वल्लीलाप्रेरितोंगने ॥

कुतो मां हातुमिच्छेस्त्वं मम वामार्धधारिणि

॥३७॥

शिवा शिवोदितं चेति श्रुत्वाप्याह महेश्वरम् ॥

जीवितेश विहाय त्वां न क्वापि परियाम्यहम्

॥३८॥

मनो मे चरणद्वंद्वे तव स्थास्यति निश्चलम् ॥

क्रतुं द्रष्टुं पितुर्यामि नैक्षि यज्ञो मया क्वचित्

॥३९॥

शंभुः कात्यायनीवाक्यामिति श्रुत्वा तदाब्रवीत् ॥

क्रतुस्त्वया नेक्षितश्चेदाहरामि ततः क्रतुम्

॥४०॥

मच्छक्ति धारिणी त्वं वा सृजैवान्यां क्रतुक्रियाम् ॥

अन्यो यज्ञपुमानस्तु संत्वन्ये लोकपालकाः

॥४१॥

अन्यानाशु विधेहि त्वमृषीनार्त्विज्यकर्मणि ॥

पुनर्जगाद देवीति श्रुत्वा शंभोरुदीरितम्

॥४२॥

पितुर्यज्ञोत्सवो नाथ द्रष्टव्योऽत्र मया ध्रुवम् ॥

देह्यनुज्ञां गमिष्यामि मा मे कार्षीर्वचोन्यथा

॥४३॥

कः प्रतीपयितुं शक्तश्चेतो वा जलमेव वा ॥

निम्नायाभ्युद्यतं नाथ माद्य मां प्रतिषेधय

॥४४॥

निशम्येति पुनः प्राह सर्वज्ञो भूतनायकः ॥

मा याहि देवि मां हित्वा गता च न मिलिष्यसि

॥४५॥

अद्य प्राचीं यियासुं त्वां वारयेत्पंगुवासरः ॥

नक्षत्रं च तथा ज्येष्ठा तिथिश्च नवमी प्रिये

॥४६॥

अद्य सप्तदशो योगो वियोगोद्य तनोऽशुभः ॥

धनिष्ठार्ध समुत्पन्ने तव ताराद्य पंचमी

॥४७॥

मा गा देवि गताद्य त्वं नहि द्रक्ष्यसि मां पुनः ॥

पुनर्देवी बभाषे सा यदि नाम्नाप्यहं सती

॥४८॥

तदा तन्वंतरेणापि करिष्ये तव दासताम् ॥

ततो भवः पुनः प्राह को वा वारयितुं प्रभुः

॥४९॥

परिक्षुब्धमनोवृत्तिं स्त्रियं वा पुरुषं तु वा ॥

पुनर्न दर्शनं देवि मया सत्यं ब्रवीम्यहम्

॥५०॥

परं न देवि गंतव्यं महामानधनेच्छुभिः ॥

अनाहूत तया कांते मातापितृगृहानपि

॥५१॥

यथा सिंधुगता सिंधुर्न पुनः परिवर्तते ॥

तथाद्य गंत्र्या नो जातु तवागमनमिष्यते

॥५२॥

देव्युवाच

अवश्यं यद्यहं रक्ता तव पादाबुंजद्वये ॥

तथा त्वमेव मे नाथो भविष्यसि भवांतरे

॥५३॥

इत्युक्त्वा निर्ययौ देवी कोपांधीकृतलोचना ॥

यियासुभिश्च कार्यार्थं यत्कर्तव्यं न तत्कृतम्

॥५४॥

न ननाम महादेवं न च चक्रे प्रदक्षिणम् ॥

अतएव हि सा देवी न गता पुनरागता

॥५५॥

अप्रणम्य महेशानमकृत्वापि प्रदक्षिणम् ॥

अद्यापि न निवर्तंते गताः प्राग्वासरा इव

॥५६॥

तया चरणचारिण्या राज्ञ्या त्रिभुवनेशितुः ॥

अपि तत्पावनं वर्त्म मेनेति कठिनं बहु

॥५७॥

देवोपि तां सतीं यांतीं दृष्ट्वा चरणचारिणीम् ॥

अतीव विव्यथे चित्ते गणांश्चाथ समाह्वयत्

॥५८॥

गणा विमानं नयत मनःपवनचक्रिणम् ॥

पंचास्यायुतसंयुक्तं रत्नसानुध्वजोच्छ्रितम्

॥५९॥

महावातपताकं च महाबुद्ध्यक्षलक्षितम् ॥

नर्मदालकनंदा च यत्रेषादंडतांगते

॥६०॥

रथोपरि टिप्पणी छत्रीभूतौ च यत्रस्तः सूर्याचंद्रमसावपि ॥

यस्मिन्मकरतुंडं च वाराहीशक्तिरुत्तमा

॥६१॥

धूः स्वयं चापि गायत्री रज्जवस्तक्षकादयः ॥

सारथिः प्रणवो यत्र क्रेंकारः प्रणवध्वनिः

॥६२॥

अंगानि रक्षका यत्र वरूथश्छंदसां गणः ॥

इत्याज्ञप्ता गणास्तूर्णं रथं निन्युर्हराज्ञया

॥६३॥

देव्या सनाथं तं कृत्वा विमानं पार्षदा दिवि ॥

अनुजग्मुर्महादेवीं दिव्यां तेजोविजृंभिणीम्

॥६४॥

सा क्षणं त्र्यक्षरमणी वीक्ष्य दक्षसभांगणम् ॥

नभोंऽगणाद्विमानस्थानतो वेगादवातरत्

॥६५॥

अविशद् यज्ञवाटं च चकितंरक्षि वीक्षिता ॥

कृतमंगलनेपथ्यां प्रसूं दृष्ट्वा किरीटिनीम्

॥६६॥

सभर्तृकाश्च भगिनीर्नवालंकृतिशालिनीः ॥

साश्चर्याश्च सगर्वाश्च सानंदाश्च ससाध्वसाः

॥६७॥

अचिंतिता त्वनाहूता विमानाद्धरवल्लभा ॥

कथमेषा परिप्राप्ता क्षणमित्थं प्रपश्यतीः

॥६८॥

असंभाष्या पिताः सर्वा गता दक्षांतिकं सती ॥

पित्रा पृष्टा तु मात्रापि भद्रं जातं त्वदागमे

॥६९॥

सत्युवाच

यदि भद्रं जनेतर्मे समागमनतो भवेत् ॥

कथं नाहं समाहूता यथैता मे सहोदराः

॥७०॥

दक्ष उवाच

अयि कन्ये महाधन्ये ह्यनन्ये सर्वमंगले ॥

अयं ते न मनाग्दोषो दोष एष ममैव हि

॥७१॥

तादृग्विधाय यत्पत्ये मया दत्ताज्ञबुद्धिना ॥

यदहं तं समाज्ञास्यमीश्वरोसौ निरीश्वरः

॥७२॥

तदा कथमदास्यं त्वां तस्मै मायास्वरूपिणं ॥

अहं शिवाख्यया तुष्टो न जाने शिवरूपिणम्

॥७३॥

पितामहेन बहुधा वर्णितोसौ ममाग्रतः ॥

शंकरोयमयं शभुरसौ पशुपतिः शिवः

॥७४॥

श्रीकंठोसौ महेशोऽसौ सर्वज्ञोसौ वृषध्वजः ॥

अस्मै कन्यां प्रयच्छ त्वं महादेवाय धन्विने

॥७५॥

वाक्याच्छतधृतेस्तस्मात्तस्मै दत्ता मयानघे ॥

न जाने तं विरूपाक्षमुक्षगं विषभक्षिणम्

॥७६॥

पितृकाननसंवासं शूलिनं च कपालिनम् ॥

द्विजिह्वसंगसुभगं जलाधारं कपर्दिनम्

॥७७॥

कलंकिकृतमौलिं च धूलिधूसरचर्चितम् ॥

क्वचित्कौपीनवसनं नग्नं वातूलवत्क्वचित्

॥७८॥

क्वचिच्च चर्मवसनं क्वचिद्भिक्षाटनप्रियम् ॥

विटंकभूतानुचरं स्थाणुमुग्रं तमोगुणम्

॥७९॥

रुद्रं रौद्रपरीवारं महाकालवपुर्धरम् ॥

नृकरोटीपरिकरं जातिगोत्रविवर्जितम्

॥८०॥

न सम्यग्वेत्ति तं कश्चिज्जानानोपि प्रतारितः ॥

किं बहूक्तेन तनये समस्त नयशालिनि

॥८१॥

क्व पांसुलपटच्छन्नो महाशंखविभूषणः ॥

प्रबद्धसर्पकेयूरः प्रलंबित जटासटः

॥८२॥

डमड्डमरुकव्यग्र हस्ताग्रः खंडचंद्रभृत् ॥

तांडवाडंबररुचिः सर्वामंगल चेष्टितः

॥८३॥

मृडानि सहरः क्वाऽयमध्वरो मंगलालयः ॥

अतएव समाहूता नेह त्वं सर्वमंगले

॥८४॥

दुकूलान्यनुकूलानि रत्नालंकृतयः शुभाः ॥

प्रागेव धारितास्तेत्र पश्यागत्य गृहाण च

॥८५॥

इह मंगलवेशेषु देवेंद्रेषु स शूलधृक् ॥

कथमर्हो भवेच्चेति मंगले विषमेक्षणः

॥८६॥

इत्याकर्ण्य सती साध्वी जनेतुरुदितं तदा ॥

अत्यंतदूनहृदया वक्तुं समुपचक्रमे

॥८७॥

सत्युवाच

नाकर्णितं मया किंचित्त्वयि प्रब्रुवति प्रभो ॥

पदद्वयीं समाकर्ण्य तां च ते कथयाम्यहम्

॥८८॥

न सम्यग्वेत्ति तं कश्चिज्जानानोपि प्रतारितः ॥

एतत्सम्यक्त्वयाख्यायि कस्तं वेत्ति सदाशिवम्

॥८९॥

त्वं तु प्रतारितः पूर्वमधुनापि प्रतारितः ॥

कृत्वा तेन च संबंधमसंबद्धप्रलापभाक्

॥९०॥

यादृशं वक्षितं शंभुं तादृशं यद्यमन्यथाः ॥

कुतो मामददास्तस्मै यं च कश्च न वेद न

॥९१॥

अथवा तेन संबंधे न हेतुर्भवतो मतिः ॥

तत्र हेतुरभूत्तात मम पुण्यैकगौरवम्

॥९२॥

अथोक्त्वैवं बहुतरं त्वं जनेतास्य वर्ष्मणः ॥

श्रुतानेन च देहेन पत्युः परिविगर्हणा

॥९३॥

पुरश्चरणमेवैतद्यदस्यैव विसर्जनम् ॥

सुश्लाघ्यजन्मया तावत्प्राणितव्यं सुयोषिता ॥

यावज्जीवितनाथस्याश्रवणीया विगर्हणा

॥९४॥

इत्युक्त्वा क्रोधदीप्ताग्नौ महादेवस्वरूपिणि ॥

जुहाव देहसमिधं प्राणरोधविधानतः

॥९५॥

ततो विवर्णतां प्राप्ताः सर्वे देवाः सवासवाः ॥

नाग्निर्जज्वाल च तथा यथाज्याहुतिभिः पुरा

॥९६॥

मंत्राः कुंठितसामर्थ्यास्तत्क्षणादेव चाभवन् ॥

अहो महानिष्टतरं किमेतत्समुपस्थितम्

॥९७॥

केचिदूचुर्द्विजवरा मिथः परियियासवः ॥

महाझंझानिलः प्राप्तः पर्वतांदोलनक्षमः

॥९८॥

मखमंडप भूस्तेन क्षणतः स्थपुटीकृता ॥

अकांडं तडिदापातो जातोभूद्भूप्रकपनः

॥९९॥

दिवश्चोल्काः प्रपतिताः पिशाचा नृत्यमादधुः ॥

आतापिगृध्रैरुपरि गगने मंडलायितम्

॥१००॥

रवेरधस्तादशिवं शिवास्तत्राप्यरारिषुः ॥

मेघारुधिरविपुड्भिस्तत्र वृष्टिं व्यधुः पराम्

॥१॥

निर्घातनिःस्वनो भूमेरुत्थितो हृत्प्रकंपनः ॥

दिव्यायुधानि च मिथो युध्यंति स्मातिभीषणम्

॥२॥

हवनीयं महद्रव्यं दूषितं क्रोष्टुभिः श्वभिः ॥

चकोराः करटास्तत्र विचेरुर्यज्ञमंडपे

॥३॥

श्मशानवाटवज्जातो यज्ञवाटः स वै क्षणात ॥

यद्यत्रावस्थितं सर्वं तत्तत्रैव परिष्ठितम्

॥४॥

चित्रन्यस्तमिवासीच्च वस्तुजातमशोभि च ॥

स्थगिता इव संवृत्तास्तत्र चक्रधरादयः

॥५॥

दक्षोपि वदनग्लानिमवाप्य सपरिच्छदः ॥

पुनर्यथाकथंचिच्च यज्ञं प्रावर्तयन्द्विजाः

॥१०६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे सतीदेहविसर्जनं नामाष्टाशीतितमोऽध्यायः ॥ ८८ ॥