दक्षेश्वरप्रादुर्भावः
स्कंद उवाच
पुनः स नारदोऽगस्त्य देव्याः प्राक्समुपागतः ॥
तद्वृत्तांतमशेषं च हरायावेदितुं ययौ
॥१॥दृष्ट्वा स नारदः शंभुं नंदिना सह संकथाम् ॥
कांचित्तर्जनिविन्यास पूर्वं कुर्वंतमानमत्
॥२॥उपाविशच्च शैलादि विसृष्टासनमुत्तमम् ॥
वैलक्ष्यं नाटयन्किंचित्क्षणं जोषं समास्थितः
॥३॥आकारेणैव सर्वज्ञस्तद्वृत्तांतं विवेद ह ॥
अवादीच्च मुनिं शंभुः कुतो मौनावलंबनम्
॥४॥शरारिणां स्थितिरियमुत्पत्तिप्रलयात्मिका ॥
दिव्यान्यपि शरीराणि कालाद्यांत्येवमेव हि
॥५॥दृश्यं विनश्वरं सर्वं विशेषाद्यदनीश्वरम् ॥
ततोऽत्र चित्रं किं ब्रह्मन्कंकालः कालयेन्न वै
॥६॥अभाविनो हि भावस्य भावः क्वापि न संभवेत् ॥
भाविनोपि हि नाभावस्ततो मुह्यंति नो बुधाः
॥७॥शंभूदीरितमाकर्ण्य स इत्थं मुनिपुंगवः ॥
प्रोक्तवान्सत्यमेवैतद्यद्देवेन प्रभाषितम्
॥८॥अवश्यमेव यद्भाव्यं तद्भूतं नात्र संशयः ॥
परं मां बाधतेत्यंतं चिंतैका चित्तमाथिनी
॥९॥नापचीयेत ते किंचिन्नोपचीयेत तत्त्वतः ॥
अव्ययत्वाच्च पूर्णत्वाद्धानिवृद्धी कृतस्त्वयि
॥१०॥अहो वराकः संसारः क्व भविष्यत्यनीश्वरः ॥
आरभ्याद्यदिनं न त्वामर्चयिष्यंति केपि यत्
॥११॥यतः प्रजापतिर्दक्षो न त्वामाहूतवान्क्रतौ ॥
तेनाद्यरीढि तं दृष्ट्वा देवर्षिमनुजा अपि
॥१२॥तव रीढां करिष्यंति किमैश्वर्येण रीढिनाम् ॥
प्राप्तावहेडना लोके जितकालभया अपि ॥
अथैश्वर्येण संपन्नाः प्रतिष्ठाभाजनं किमु
॥१३॥महीयसायुषा तेषां वसुभिर्भूरिभिश्च किम् ॥
येऽभिमानधनानेह लब्धरीढाः पदेपदे
॥१४॥अचेतनाश्च सावज्ञा जीवंतोपि न कीर्तये ॥
अभिमानधना धन्या वरं योषित्सुसासती
॥१५॥या त्वद्विनिंदाश्रवणात्तृणीचक्रे स्वजीवितम् ॥
इत्याकर्ण्य महाकालः सम्यग्ज्ञात्वा सतीव्ययम्
॥१६॥सत्यं मुने सती देवी तृणीचक्रे स्वजीवितम् ॥
जोषं स्थिते मुनौ तत्र तन्महाकालसाध्वसात्
॥१७॥रुद्रश्चातीवरुद्रोभूद्बहुकोपाग्निदीपितः ॥
ततस्तत्कोपजाद्वह्निराविरासीन्महाद्युतिः
॥१८॥प्रत्यक्षः प्रतिमाकारः कालमृत्युप्रकंपनः ॥
उवाच च प्रणम्येशं भुशुंडीं महतीं दधत्
॥१९॥आज्ञां देहि पितः किं ते करवै दास्यमुत्तमम् ॥
ब्रह्मांडमेककवलं करवाणि त्वदाज्ञया
॥२०॥पिबामि चार्णवान्सप्ताप्येकेन चुलुकेन वै ॥
रसातलं वा पातालं पातालं वा रसातलम्
॥२१॥त्वदाज्ञया नयामीश विनिमय्य स्वहेलया ॥
सलोकपालमिंद्रं वा धृत्वा केशैरिहानये
॥२२॥अपि वैकुंठनाथश्चेत्तत्साहाय्यं करिष्यति ॥
तदा तं कुंठितास्त्रं च करिष्यामि त्वदाज्ञया
॥२३॥दनुजा दितिजाः के वै वरा कारणदुर्बलाः ॥
तेषु चोत्कटतां कोपि धत्ते तं प्रणिहन्म्यहम्
॥२४॥कालं बध्नामि वा संख्ये मृत्योर्वा मृत्युमर्थये ॥
स्थावरेषु चरेष्वत्र मयि कुद्धे रणांगणे
॥२५॥त्वद्बलेन महेशान न कोपि स्थैर्यमेष्यति ॥
ममपादतलाघातादेतद्वै क्षोणिमंडलम्
॥२६॥कदलीदलवद्वाताद्वेपते सरसातलम् ॥
चूर्णीकरोमि दोर्दंडघाताच्चैतान्कुलाचलान्
॥२७॥किं बहूक्तेन देह्याज्ञां ममासाध्यं न किंचन ॥
त्वत्पादबलमासाद्य कृतं विद्ध्यद्यचिंतितम्
॥२८॥इति प्रतिज्ञां तस्येशः श्रुत्वा कृतममन्यत ॥
कृतकृत्यमिवात्यंतं तं मुदा प्रत्युवाच च
॥२९॥महावीरोसि रे भद्र मम सर्वगणेष्विह ॥
वीरभद्राख्यया त्वं हि प्रथितिं परमां व्रज
॥३०॥कुरु मे सत्वरं कार्यं दक्षयज्ञं क्षयं नय ॥
ये त्वां तत्रावमन्यंते तत्साहाय्यविधायिनः
॥३१॥ते त्वयाप्यवमंतव्या व्रज पुत्र शुभोदय ॥
इत्याज्ञां मूर्ध्नि चाधाय स ततः पारमेश्वरीम्
॥३२॥हरं प्रदक्षिणीकृत्य जग्मिवानतिरंहसा ॥
ततस्तदनुगाञ्शंभुः स्वनिःश्वाससमुद्गतान्
॥३३॥शतकोटिमितानुग्रान्गणानन्न्यानवासृजत् ॥
ते गणा वीरभद्रं तं यांतं केचित्पुरोगताः
॥३४॥केचित्तदनुगा जाताः केचित्तत्पार्श्वगा ययुः ॥
अंबरं तैः समाक्रांतं तेजोवीजित भास्करैः
॥३५॥शृंगाग्राणि गिरीणां च कैश्चिदुत्पाटितानि वै ॥
आचूडमूलाः कैश्चिच्च विधता वै शिलोच्चयाः
॥३६॥उत्पाट्य महतो वृक्षान्केचित्प्राप्ता मखांगणम् ॥
कैश्चिदुत्पाटिता यूपाः केचित्कुंडान्यपूपुरन्
॥३७॥मंडपं ध्वंसयामासुः केचित्क्रोधोद्धुरागणाः ॥
अचीखनन्वै वेदीश्च केचिद्वै शूलपाणयः ॥
अभक्षयन्हवींष्यन्ये पृषदाज्यं पपुः परे
॥३८॥दध्वंसुरन्नराशींश्च केचित्पर्वतसन्निभान् ॥
केचिद्वै पायसाहाराः केचिद्वै क्षीरपायिनः
॥३९॥केचित्पक्वान्नपुष्टांगा यज्ञपात्राण्यचूर्णयन् ॥
अमोटयन्स्रुचादंडान्केचिद्दोर्दंडशालिनः ॥
4.2.89.४० व्यभजञ्छकटान्केचित्पशून्केचिदजीगिलन् ॥
अग्निं निर्वापयामासुः केचिदत्यग्नितेजसः
॥४१॥स्वयं परिदधुश्चान्ये दुकूलानि मुदा युताः ॥
जगृहुः केचन पुरा रत्नानां पर्वतं कृतम्
॥४२॥एकेन च भगो देवः पश्यंश्चक्रे विलोचनः ॥
पूष्णो दंतावलीमन्यः पातयामास कोपितः
॥४३॥यज्ञः पलायितो दृष्टः केनचिन्मृगरूपधृक् ॥
शिरोविरहितश्चक्रे तेन चक्रेण दूरतः
॥४४॥एकः सरस्वतीं यांतीं दृष्ट्वा निर्नासिकां व्यधात् ॥
अदितेरोष्ठपुटकौ छिन्नावन्येन कोपिना
॥४५॥अर्यम्णो बाहुयुगलं तथोत्पाटितवान्परः ॥
अग्नेरुत्पाटयामास कश्चिज्जिह्वां प्रसह्य च
॥४६॥चिच्छेद वायोर्वृषणं पार्षदोन्यः प्रतापवान् ॥
पाशयित्वा यमं कश्चित्को धर्म इति पृष्टवान्
॥४७॥यत्र धर्मे महेशो न प्रथमं परिपूज्यते ॥
नैर्ऋतं संगृहीत्वान्यः केशेष्वातो्ल्यचासकृत्
॥४८॥अनीश्वरं हविर्भुक्तं त्वयेत्या ताडयत्पदा ॥
कुबेरमपरो धृत्वा पादयोरधुनोद्बलात्
॥४९॥वामयामास बहुशो भक्षिता ह्यध्वराहुतीः ॥
एकादशाऽपि ये रुद्रा लोकपालैकपंक्तयः
॥५०॥रुद्राख्या धारणवशात्प्रमथैस्तेऽवहेलिताः ॥
वरुणोदरमापीड्य प्रमथोन्यो बलेनहि
॥५१॥बहिरुद्गिरयामास यद्दत्तं चेशवर्ज्जितम् ॥
मायूरीं तनुमासाद्य सहस्राक्षो महामतिः
॥५२॥उड्डीय गिरिमाश्रित्यच्छन्नः कौतुकमैक्षत ॥
ब्राह्मणान्प्रमथा नत्वा यातयातेतिचाब्रुवन्
॥५३॥प्रमथाः कालयामासुरन्यानपि च याचकान् ॥
इत्थं प्रमथिते यागे प्रमथैः प्रथमागतैः ॥
वीरभद्रः स्वतः प्राप्तः प्रमथानीकिनी वृतः
॥५४॥यज्ञवाटं श्मशानाभं दृष्ट्वा तैः प्रमथैः पुरा ॥
अतिशोच्यां दशां नीतं वीरभद्रस्ततो जगौ
॥५५॥गणाः पश्यत दुर्वृत्तैः प्रारब्धानां च कर्मणाम् ॥
अनीश्वरैरवस्थेयं कुतो द्वेषो महेश्वरे
॥५६॥ये द्विषंति महादेवं सर्वकर्मैकसाक्षिणम् ॥
धर्मकार्ये प्रवृत्तास्तु ते प्राप्स्यंतीदृशं दशाम्
॥५७॥क्व स दक्षो दुराचारः क्व च यज्ञभुजः सुराः ॥
धृत्वा सर्वानानयत यात द्रुततरं गणाः
॥५८॥इत्याज्ञा वीरभद्रस्य प्राप्य ते प्रमथा द्रुतम् ॥
यावद्यांत्यग्रतस्तावदृष्टः कुद्धो गदाधरः
॥५९॥तेन ते प्रमथाः सर्वे महाबलपराक्रमाः ॥
शुष्कपर्णतृणावस्थां प्रापिता वात्ययेव हि
॥६०॥अथ नष्टेषु सर्वेषु प्रमथेषु हरेर्भयात् ॥
चुकोप वीरभद्रः स प्रलयानलसंनिभः
॥६१॥ददर्श शार्ङ्गिणं चाग्रे स्वगणैश्च परिष्टुतम् ॥
चतुर्भुजैरसंख्यातैर्जितदैत्यमहाबलैः
॥६२॥चक्रिभिर्गदिभिर्जुष्टं खड्गिभिश्चापि शार्ङ्गिभिः ॥
वीरभद्रस्ततः प्राह दृष्ट्वा तं दैत्यसूदनम्
॥६३॥त्वं तु यज्ञपुमानत्र महायज्ञप्रवर्तकः ॥
रक्षिता निजवीर्येण दक्षस्य त्र्यक्षवैरिणः
॥६४॥किं वा दक्षं समानीय देहि युध्यस्व वा मया ॥
न दास्यसि च चेद्दक्षं ततस्तं रक्ष यत्नतः
॥६५॥प्रायशः शंभुभक्तेषु यतस्त्वं प्रोच्यसेऽग्रणीः ॥
एकोनेऽब्जसहस्रेप्राग्ददौ नेत्रांबुजं भवान्
॥६६॥तुष्टेन शंभुना दत्तं तुभ्यं चक्रं सुदर्शनम् ॥
यत्साहाय्यमवाप्याजौ त्वं जयेर्दनुजाधिपान्
॥६७॥इत्याकर्ण्य वचस्तस्य वीरभद्रस्य चोर्जितम् ॥
जिज्ञासुस्तद्बलं विष्णुर्वीरभद्रमुवाच ह
॥६८॥त्वं शंभोः सुत देशीयो गणानां प्रवरोस्यहो ॥
राजादेशमनुप्राप्य ततोप्यतिबलो महान्
॥६९॥योसि सोस्यहमप्यत्र दक्षरक्षणदक्षधीः ॥
पश्यामि तव सामर्थ्यं कथं दक्षं हरिष्यसि
॥७०॥इत्युक्तो वीरभद्रः स तेन वै शार्ङ्गधन्वना ॥
प्रमथान्दृष्टिभंग्यैव प्रेरयामास संगरे
॥७१॥अथ तैः प्रमथैर्विष्णोरनुगा गदिता रणे ॥
आददानास्तृणं वक्त्रे णापिताः पाशवीं दशाम्
॥७२॥ततस्तार्क्ष्यरथः क्रुद्धस्त्वेकैकं रणमूर्धनि ॥
सहस्रेणसहस्रेण बाणानां हृद्यताडयत्
॥७३॥ते भिन्नवक्षसः सर्वे गणा रुधिरवर्षिणः ॥
वासंतीं कैंशुकीं शोभां परिप्रापूरणाजिरे
॥७४॥क्षरंत इव मातंगाः स्रवंत इव पर्वताः ॥
मदेन धातुरागेण मिश्रैः शुशुभिरे गणाः
॥७५॥ततः प्रहस्य गणपोऽब्रवीद्वै कुंठनायकम् ॥
हे शार्ङ्गधन्वञ्जाने त्वां त्वं रणांगण पंडितः
॥७६॥परं युध्यसि दैत्येंद्रैर्दानवेंद्रैर्न पार्षदैः ॥
इत्युक्ता वीरभद्रेण भुशुंडीकलिताकरे
॥७७॥गदिनाऽथ गदा तूर्णं दैत्येंद्रगिरिरेणुकृत् ॥
ततः प्रहतवान्वीरो भुशुंड्या तं गदाधरम्
॥७८॥तदंगसंगमासाद्य विदद्रे शतधा तया ॥
कौमोदकी प्रहारेण वीरभद्रं प्रतापिनम्
॥७९॥जघान वासुदेवोपि तरसाऽज्ञातवेदनम् ॥
ततः खट्वांगमादाय गदाहस्तं गदाधरम्
॥८०॥आताड्य सव्यदोर्दंडे गदां भूमावपातयत् ॥
कुपितोयं मधुद्वेषी चक्रेणाताडयच्च तम्
॥८१॥स च चक्रं समागच्छद्दृष्ट्वा सस्मार शंकरम् ॥
शंकरस्मरणाच्चक्रं मनाग्वक्रत्वमाप्य च ॥
कंठमासाद्यवीरस्य सम्यग्जातं सुदर्शनम्
॥८२॥तेन चक्रेण शुशुभे नितरां स गणेश्वरः ॥
वीरलक्ष्म्यावृत इव समरे विजयस्रजा
॥८३॥ततः सुदर्शनं दृष्ट्वा तत्कंठाभरणं हरिः ॥
मनाक्स चकितं स्मित्वा ततो जग्राह नंदकम्
॥८४॥सनंदकं करं तस्य प्रोद्यतं मधुविद्विषः ॥
पश्यतां दिविसिद्धानां स्तंभयामास हुंकृता
॥८५॥अभ्यधावच्च वेगेन गृहीत्वा शूलमुज्ज्वलम् ॥
यावज्जिघांसति हरिं तावदाकाशवाचया
॥८६॥वारितो गणराजः स मा कार्षीः साहसं त्विति ॥
ततस्तमपहायाशु वीरभद्रो गणोत्तमः
॥८७॥प्राप्य दक्षं विनद्योच्चैर्धिक्त्वामीश्वरनिंदकम् ॥
यस्येदृगस्ति संपत्तिर्यत्रदेवाः सहायिनः ॥
स कथं सेश्वरं कर्म न कुर्याद्दक्षतांदधत्
॥८८॥येनास्येन पवित्रेण भवता निंदितः शिवः ॥
चूर्णयामि तदास्यं ते चपेटाभिः समंततः
॥८९॥इत्युक्त्वा तस्य दक्षस्य हरपारुष्यभाषिणः ॥
चिच्छेद वदनं वीरश्चपेटशतघातनैः
॥९०॥ततस्त्वदितिमुख्यानां मिलितानां महोत्सवे ॥
त्रोटयामास कर्णादीन्यंगप्रत्यंगकानि च
॥९१॥वेणीदंडाश्च कासांचित्तेनच्छिन्ना महारुषा ॥
कासांचिच्च कराश्छिन्ना कासांचित्कर्तितास्तनाः
॥९२॥नासापुटांस्तथान्यासां पाटयामास पार्षदः ॥
चिच्छेद चांगुलीश्चापि तथान्यासां शिवप्रियः
॥९३॥ये ये निनिंदुर्देवेशं ये ये च शुश्रुवुस्तदा ॥
तेषां जिह्वाश्रुतीः कोपादच्छिनच्चाकरोद्द्विधा
॥९४॥केचिदुल्लंबिता यूपे पाशयित्वा दृढं गले ॥
अधोमुखायै देवेशं विहायात्तं महाहविः
॥९५॥द्विजराजश्च धर्मश्च भृगुमारीचिमुख्यकाः ॥
अत्यंतमपमानस्य भाजनं तेन कारिताः
॥९६॥एते जामातरस्तस्य यतो दक्षस्य दुर्धियः ॥
हित्वा महेश्वरममून्सोपश्यदधिकाञ्शिवात्
॥९७॥तानि कुंडानि ते यूपास्ते स्तंभाः स च मंडपः ॥
तावेद्यस्तानि पात्राणि तानि हव्यान्यनेकधा
॥९८॥ते च वै यज्ञसंभारास्ते ते यज्ञप्रवर्तकाः ॥
ते रक्षपालास्तेमंत्रा विनेशुर्हेलयाऽखिलाः
॥९९॥स्तोकेनैव हि कालेन यथर्धिः परवंचनात् ॥
अर्जिता नश्यति क्षिप्रं दक्षसंपद्गताऽशिवा
॥१००॥नीते महाक्रतौ तेन सगणेनेदृशीं दशाम् ॥
विधिर्विधि विलोपाच्च हरं विज्ञाप्य चानयत्
॥१॥तत्र यत्र मखः सोभूदीदृक्षः शिववर्जितः ॥
आयातेथ महादेवे वीरभद्रोतिलज्जितः
॥२॥नत्वा न किंचिदवदद्देवः सर्वमवैत्स्वयम् ॥
प्रसाद्य देवदेवेशं सुरज्येष्ठोऽब्रवीत्पुनः
॥३॥अपराध्यप्ययं दक्षः संप्रसाद्यः कृषानिधे ॥
यथापूर्वं पुनरमून्सर्वान्कारय शंकर
॥४॥यथाविधिः प्रवर्तेत वैदिकः पुनरेव हि ॥
तथाज्ञा दीयतां शंभो कर्मसिद्ध्यति सेश्वरम्
॥५॥अनीश्वरासु सर्वासु क्रियासु परमेश्वर ॥
एवमेव भवत्येव विघ्रजाताः सहस्रशः
॥६॥विचारतो वराकोयम दक्षो भक्ततरस्तव ॥
कुर्वन्योऽनीश्वरम कर्म परदृष्टांततां गतः
॥७॥अन्योपि यो महेशानं हित्वा कर्म करिष्यति ॥
तस्य तत्कर्मसंसिद्धिर्दक्षस्येव भविष्यति
॥८॥अतो न कश्चित्किंचिच्च क्वचित्कर्म विना शिवम् ॥
विधास्यति निशम्यास्य दक्षत्येदृक्ष चेष्टितम्
॥९॥विधीरितमिति श्रुत्वा स्मित्वा देवो महेश्वरः ॥
वीरमाज्ञापयामास यथापूर्वं प्रकल्पय
॥११०॥वीरभद्रोपि तत्सर्वं शर्वाज्ञां प्रतिपद्य च ॥
विना दक्षस्य वदनं यथापूर्वमकल्पपयत्
॥११॥ईश्वरं ये विनिंदंति ते मूकाः पशवो ध्रुवम् ॥
ततो मेषमुखं दक्षं वीरभद्रो गणो व्यधात्
॥१२॥देवो ब्रह्माणमापृच्छय धर्माद्गार्हस्थ्यतश्च्युतः ॥
सपापं दोहिमप्रस्थं जगाम तपसे ततः
॥१३॥अनाश्रमवता पुंसा यतः कालो मनागपि ॥
मुधा कलयितव्यो न तस्माच्छ्रेयः सदा श्रम
॥१४॥अतः स सर्वं तपसां फलदाता महेश्वरः ॥
तपश्चचार सगणो ब्रह्मा दक्षं त्वशिक्षयत्
॥१५॥हरनिंदा समुद्भूत पापपंकं सुदुस्त्यजम् ॥
यदि क्षालयितुं कांक्षा तदा वाराणसीं व्रज
॥१६॥प्राप्य वाराणसीं पुण्यां महापापौघहारिणीम् ॥
कुरु लिंगप्रतिष्ठां त्वं तेन शंभुः स तुष्यति
॥१७॥तुष्टे महेश्वरे तुष्टं जगदेतच्चराचरम् ॥
नान्यत्र पापं ते गंतृ विना वाराणसीं पुरीम्
॥१८॥ब्रह्महत्यादि पापानां प्रायश्चित्तं मनीषिभिः ॥
प्रोक्तं न हरनिंदायास्तत्र काश्येव केवलम
॥१९॥काश्यां लिंगप्रतिष्ठायैः कृताऽत्र सुकृतात्मभिः ॥
सर्वे धर्माः कृतास्तैस्तु त एव पुरुषार्थिनः
॥१२०॥इत्याकर्ण्य विधेर्वाक्यं दक्षः प्राप्याथ सत्वरम् ॥
अविमुक्तं महाक्षेत्रं तताप परमं तपः
॥२१॥संस्थाप्य लिंगं विधिवल्लिंगाराधनतत्परः ॥
न वेत्ति लिंगादपरं स किंचिज्जगतीतले
॥२२॥दिवानिशं महेशानं परिष्टौति समर्चति ॥
नमति ध्यायतीक्षेत दक्षो दक्षप्रजापतिः
॥२३॥एकचित्तस्य दक्षस्य ध्यायतो लिंगमैश्वरम् ॥
समाः सहस्रमगमन्मितं द्वादशसंख्यया
॥२४॥मेनां यावत्सती प्राप्य हिमाचलपतिव्रताम् ॥
उमारूपाति तपसा पतिं प्राप पिनाकिनम्
॥२५॥तावत्स दक्षस्तपसि निश्चलो लिंगमार्चयत् ॥
ततः काशीं समासाद्य सह भर्त्रा गिरींद्रजा
॥२६॥दृष्ट्वा तं निश्चलहृदं शिवलिंगार्चने रतम् ॥
हरं व्यजिज्ञपद्देवी क्षीणोयं तपसा विभो
॥२७॥प्रसादय कृपासिंधो वरणैनं प्रजापतिम् ॥
इत्युक्तोऽपर्णया शंभुः प्राह तं दक्षमीशिता ॥
वरं ब्रूहि महाभाग दास्यामि मनसेप्सितम् ॥
इतीशोदितमाकर्ण्य प्रणम्य बहुशो हरम्
॥२९॥स्तुत्वा नानाविधैः स्तोत्रैः प्रसन्नं वीक्ष्य शंकरम् ॥
प्रोवाच देवदेवेशं यदि देयो वरो मम
॥१३०॥तत्त्वदीय पदद्वंद्वे निर्द्वंद्वा भक्तिरस्तु मे ॥
इदं च ते महालिंगं यन्मयाऽत्र प्रतिष्ठितम् ॥
अस्मिँल्लिंगे त्वया नाथ स्थातव्यं सर्वदैव हि
॥३१॥मयापराद्धं यद्देव तत्क्षंतव्यं कृपानिधे ॥
एत एव वराः संतु क्रिमन्यैरुत्तमैर्वरैः
॥३२॥इति श्रुत्वा महादेवः प्रसन्नोतितरां भवः ॥
प्रोवाच च यदुक्तं ते तत्तथास्तु न चान्यथा
॥३३॥अन्यच्च ते वरं दद्यां तच्छृणुष्व प्रजापते ॥
यत्त्वया स्थापितं लिंगमेतद्दक्षेश्वराभिधम्
॥३४॥अस्य संसेवनात्पुंसामपराधसहस्रकम् ॥
क्षमिष्येहं न संदेहस्तस्मात्पूज्यमिदं जनैः
॥३५॥त्वं तु लिंगार्चनादस्मात्सर्वमान्यो भविष्यसि ॥
परार्धद्वितयप्रांते ततो मोक्षमवाप्स्यसि
॥३६॥इत्युक्त्वा देवदेवेशस्तस्मिँल्लिंगे लयं ययौ ॥
दक्षोपि गतवान्गेहं परिप्राप्तमनोरथः
॥३७॥स्कंद उवाच
इत्यगस्त्य समाख्यातो दक्षेश्वरसमुद्भवः ॥
यं श्रुत्वा मुच्यते जंतुरपराध शतैरपि
॥३५॥श्रुत्वाख्यानमिदं पुण्यं दक्षेश्वरसमुद्भवम् ॥
नरो न लिप्यते पापैरपराधालयोपि हि
॥१३९॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दक्षेश्वरप्रादुर्भावोनाम नवाशीतितमोऽध्यायः ॥ ८९ ॥