मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ६५

3
काशीखण्डः · 65

पराशरेश्वरादिलिंगसंभवः

स्कंद उवाच

ज्येष्ठेश्वरस्य परितो यानि लिंगानि कुंभज ॥

तानि पंचसहस्राणि मुनीनां सिद्धिदान्यलम्

॥१॥

पराशरेश्वरं लिंगं ज्येष्ठेशादुत्तरे महत् ॥

तस्य दर्शनमात्रेण निर्मलं ज्ञानमाप्यते

॥२॥

तत्रैव सिद्धिदं लिंगं मांडव्येश्वरसंज्ञितम् ॥

न तस्य दर्शनाज्जातु दुर्बुद्धिं प्राप्नुयान्नरः

॥३॥

लिंगं च शंकरेशाख्यं तत्रैव शुभदं सदा ॥

भृगुनारायणस्तत्र भक्तानां सर्वसिद्धिदः

॥४॥

जाबालीश्वर संज्ञं च लिंगं तत्रातिसिद्धिदम् ॥

तस्य संदर्शनाज्जातु न जंतुर्दुर्गतिं व्रजेत्

॥५॥

सुमंतु मुनिना श्रेष्ठस्तत्रादित्यः प्रतिष्ठितः ॥

तस्य संदर्शनादेव कुष्ठव्याधिः प्रशाम्यति

॥६॥

भैरेवी भीषणा नाम तत्र भीषणरूपिणी ॥

क्षेत्रस्य भीषणं सर्वं नाशयेद्भावतोर्चिता

॥७॥

तत्रोपजंघने लिंगं कर्मबंधविमोक्षणम् ॥

नृभिः संसेवितं भक्त्या षण्मासात्सिद्धिदं परम्

॥८॥

भारद्वाजेश्वरं लिंगं लिंगं माद्रीश्वरं वरम् ॥

एकत्र संस्थिते द्वे तु द्रष्टव्ये सुकृतात्मना

॥९॥

अरुणि स्थापितं लिंगं तत्रैव कलशोद्भव ॥

तस्य लिंगस्य सेवातः सर्वामृद्धिमवाप्नुयात्

॥१०॥

लिंगं वाजसनेयाख्यं तत्रास्त्यतिमनोहृरम् ॥

तस्य संदर्शनात्पुंसां वाजपेयफलं भवेत्

॥११॥

कण्वेश्वरं शुभं लिंगं लिंगं कात्यायनेश्वरम् ॥

वामदेवेश्वरं लिंगमौतथ्येश्वरमेव च

॥१२॥

हारीतेश्वरसंज्ञं च लिंगं वै गालवेश्वरम् ॥

कुंभेर्लिंगं महापुण्यं तथा वै कौसुमेश्वरम्

॥१३॥

अग्निवर्णेश्वरं चैव नैध्रुवेश्वरमेव च ॥

वत्सेश्वरं महालिंगं पर्णादेश्वरमेव च

॥१४॥

सक्तुप्रस्थेश्वरं लिंगं कणादेशं तथैव च ॥

अन्यत्तत्र महालिंगं मांडूकाय निरूपितम्

॥१५॥

वाभ्रवेयेश्वरं लिंगं शिलावृत्तीश्वरं तथा ॥

च्यवनेश्वर लिंगं च शालंकायनकेश्वरम्

॥१६॥

कलिंदमेश्वरं लिंगं लिंगमक्रोधनेश्वरम् ॥

लिंगं कपोतवृत्तीशं कंकेशं कुंतलेश्वरम

॥१७॥

कंठेश्वरं कहोलेशं लिंगं तुंबुरुपूजितम् ॥

मतगेशं मरुत्तेशं मगधेयेश्वरं तथा

॥१८॥

जातूकर्णेश्वरं लिंगं जंबूकेश्वरमेव च ॥

जारुधीशं जलेशं च जाल्मेशं जालकेश्वरम्

॥१९॥

एवमादीनि लिंगानि अयुतार्धानि कुंभज ॥

स्मरणाद्दर्शनात्स्पर्शादर्चनान्नमनात्स्तुतेः

॥२०॥

न जातु जायते जंतोः कलुषस्य समुद्भवः ॥

एतेषां शुभलिंगानां ज्येष्ठस्थानेति पावने

॥२१॥

स्कंद उवाच

एकदा तत्र यद्वृत्तं ज्येष्ठस्थाने महामुने ॥

तदहं ते प्रवक्ष्यामि शृणुष्वाघविनाशनम्

॥२२॥

स्वैरं विहरतस्तत्र ज्येष्ठस्थाने महेशितुः ॥

कौतुकेनैव चिक्रीड शिवा कंदुकलीलया

॥२३॥

उदंच न्न्यंचदंगानां लाघवं परितन्वती ॥

निःश्वासामोदमुदित भ्रमराकुलितेक्षणा

॥२४॥

भ्रश्यद्ध म्मिल्लसन्माल्य स्थपुटीकृत भूमिका ॥

स्विद्यत्कपोलपत्राली स्रवदंबुकणोज्ज्वला

॥२५॥

स्फुटच्चोलांशुकपथनिर्यदंगप्रभावृता ॥

उल्लसत्कंदुकास्फालातिशोणितकरांबुजा

॥२६॥

कंदुकानुग सदृष्टि नर्तित भ्रूचलतांचला ॥

मृडानी किल खेलंती ददृशे जगदंबिका

॥२७॥

अंतरिक्षचराभ्यां च दितिजाभ्यां मनोहरा ॥

कटाक्षिताभ्यामिव वै समुपस्थितमृत्युना

॥२८॥

विदलोत्पल संज्ञाभ्यां दृप्ताभ्यां वरतो विधेः ॥

तृणीकृतत्रिजगती पुरुषाभ्यां स्वदोर्बलात्

॥२९॥

देवीं परिजिहीर्षू तौ विषमेषु प्रपीडितौ ॥

दिवोवतेरतुः क्षिप्रं मायां स्वीकृत्य शांबरीम्

॥३०॥

धृत्वा पारषदीं मूर्तिमायातावंबिकांतिकम् ॥

तावत्यंतं सुदुर्वृत्तावतिचंचलमानसा

॥३१॥

सर्वज्ञेन परिज्ञातौ चांचल्याल्लोचनोद्भवात् ॥

कटाक्षिताथ देवेन दुर्गादुर्गारिघातिनी

॥३२॥

विज्ञाय नेत्रसंज्ञां तु सर्वज्ञार्ध शरीरिणी ॥

तेनैव कंदुकेनाथ युगपन्निजघान तौ

॥३३॥

महाबलौ महादेव्या कंदुकेन समाहतौ ॥

परिभ्रम्य परिभ्रम्य तौ दुष्टौ विनिपेततुः

॥३४॥

वृंतादिव फले पक्वे तालादनिललोलिते ॥

दंभोलिना परिहते शृंगेइव महागिरेः

॥३५॥

तौ निपात्य महादैत्यावकार्यकरणोद्यतौ ॥

ततः परिणतिं यातो लिंगरूपेण कंदुकः

॥३६॥

कंदुकेश्वरसंज्ञं च तल्लिंगमभवत्तदा ॥

ज्येष्ठेश्वर समीपे तु सर्वदुष्टनिवारणम्

॥३७॥

कंदुकेश समुत्पत्तिं यः श्रोष्यति मुदान्वितः ॥

पूजयिष्यति यो भक्तस्तस्य दुःखभयं कुतः

॥३८॥

कंदुकेश्वर भक्तानां मानवानां निरेनसाम् ॥

योगक्षेमं सदा कुर्याद्भवानी भयनाशिनी

॥३९॥

मृडानी तस्य लिंगस्य पूजां कुर्यात्सदैव हि ॥

तत्रैव देव्या सान्निध्यं पार्वत्या भक्तसिद्धिदम्

॥४०॥

कंदुकेशं महालिंगं काश्यां यैर्न समर्चितम् ॥

कथं तेषां भवनीशौ स्यातां सर्वेप्सितप्रदौ

॥४१॥

द्रष्टव्यं च प्रयत्नेन तल्लिंगं कंदुकेश्वरम् ॥

सर्वोपसर्गसंघातविघातकरणं परम्

॥४२॥

कंदुकेश्वर नामापि श्रुत्वा वृजिनसंततिः ॥

क्षिप्रं क्षयमवाप्नोति तमः प्राप्योष्णगुं यथा

॥४३॥

स्कंद उवाच

संशृणुष्व महाभाग ज्येष्ठेश्वर समीपतः ॥

यद्वृत्तांतमभूद्विप्र परमाश्चर्यकृद्ध्रुवम्

॥४४॥

दंडखाते महातीर्थे देवर्षिपितृतृप्तिदे ॥

तप्यमानेषु विप्रेषु निष्कामं परमं तपः

॥४५॥

दैत्यो दुंदुभिनिर्ह्रादो दुष्टः प्रह्लादमातुलः ॥

देवाः कथं सुजेयाः स्युरित्युपायमचिंतयत्

॥४६॥

किं बलाश्च किमाहाराः किमाधारा हि देवताः ॥

विचार्य बहुशो दैत्यस्तत्त्वं विज्ञाय निश्चितम्

॥४७॥

अवश्यमग्रजन्मानो हेतवोत्र विचारतः ॥

ब्राह्मणान्हंतुमसकृत्कृतवानुद्यमं ततः

॥४८॥

यतः क्रतुभुजो देवाः क्रतवो वेदसंभवाः ॥

ते वेदा ब्राह्मणाधीनास्ततो देवबलं द्विजाः

॥४९॥

निश्चितं ब्राह्मणाधाराः सर्वे वेदाः सवासवाः ॥

गीर्वाणा ब्राह्मणबला नात्र कार्या विचारणा

॥५०॥

ब्राह्मणा यदि नष्टाः स्युर्वेदा नष्टास्ततः स्वयम् ॥

आम्नायेषु प्रणष्टेषु विनष्टाः शततंतवः

॥५१॥

यज्ञेषु नाशं गच्छत्सु हृताहारास्ततः सुराः ॥

निर्बलाः सुखजेयाः स्युर्जितेषु त्रिदशेष्वथ

॥५२॥

अहमेव भविष्यामि मान्यस्त्रिजगतीपतिः ॥

आहरिष्यामि देवानामक्षयाः सर्वसंपदः

॥५३॥

निर्वेक्ष्यामि सुखान्येव राज्ये निहतकंटके ॥

इति निश्चित्य दुर्बुद्धिः पुनश्चिंतितवान्मुने

॥५४॥

द्विजाः क्व संति भूयांसो ब्रह्मतेजोतिबृंहिताः ॥

श्रुत्यध्ययन संपन्नास्तपोबल समन्विताः

॥५५॥

भूयसां ब्राह्मणानां तु स्थानं वाराणसी भवेत् ॥

तानादावुपसंहृत्य यामि तीर्थांतरं ततः

॥५६॥

यत्रयत्र हि तीर्थेषु यत्रयत्राश्रमेषु च ॥

संति सर्वेऽग्रजन्मानस्ते मयाद्याः समंततः

॥५७॥

इति दुंदुभिनिर्ह्रादो मतिं कृत्वा कुलोचिताम् ॥

प्राप्यापि काशीं दुर्वृत्तो मायावी न्यवधीद्द्विजान्

॥५८॥

समित्कुशान्समादातुं यत्र यांति द्धिजोत्तमाः ॥

अरण्ये तत्र तान्सर्वान्स भक्षयति दुर्मतिः

॥९॥

यथा कोपि न वेत्त्येव तथाच्छन्नोऽभवत्पुनः ॥

वने वनेचरो भूत्वा यादोरूपी जलाशये

॥६०॥

अदृश्यरूपी मायावी देवानामप्यगोचरः ॥

दिवाध्यानपरस्तिष्ठेन्मुनिवन्मुनिमध्यगः

॥६१॥

प्रवेशमुटजानां च निर्गमं च विलोकयन् ॥

यामिन्यां व्याघ्ररूपेण ब्राह्मणान्भक्षयेद्बहून्

॥६२॥

निःशब्दमेव नयति नत्यजेदपि कीकसम् ॥

इत्थं निपातिता विप्रास्तेन दुष्टेन भूरिशः

॥६३॥

एकदा शिवरात्रौ तु भक्तस्त्वेको निजोटजे ॥

सपर्यां देवदेवस्य कृत्वा ध्यानस्थितोभवत्

॥६४॥

स च दुंदुभिनिर्ह्राद दैत्येंद्रो बलदर्पितः ॥

व्याघ्र रूपं समास्थाय तमादातुं मतिं दधे

॥६५॥

तं भक्तं ध्यानमापन्नं दृढचित्तं शिवेक्षणे ॥

कृतास्त्रमंत्रविन्यासं तं क्रांतुमशकन्न सः

॥६६॥

अथ सर्वगतः शंभुर्ज्ञात्वा तस्याशयं हरः ॥

दैत्यस्य दुष्टरूपस्य वधाय विदधे धियम्

॥६७॥

यावदादित्सति व्याघ्रस्तावदाविरभूद्धरः ॥

जगद्रक्षामणिस्त्र्यक्षो भक्तरक्षण दक्षधीः

॥६८॥

रुद्रमायांतमालोक्य तद्भक्तार्चित लिंगतः ॥

दैत्यस्तेनैव रूपेण ववृधे भूधरोपमः

॥६९॥

सावज्ञमथसर्वज्ञं यावत्पश्यति दानवः ॥

तावदायांतमादाय कक्षायंत्रे न्यपीडयत्

॥७०॥

पंचास्यस्त्वथ पंचास्यं मुष्ट्या मूर्धन्यताडयत् ॥

स च तेनैव रूपेण कक्षानिष्पेषणेन च

॥७१॥

अत्यार्तमरटद्व्याघ्रो रोदसी परिपूरयन् ॥

तेन नादेन सहसा सं प्रवेपितमानसाः

॥७२॥

तपोधनाः समाजग्मुर्निशि शब्दानुसारतः ॥

तत्रेश्वरं समालोक्य कक्षीकृत मृगेश्वरम्

॥७३॥

तुष्टुवुः प्रणता सर्वे शर्वं जयजयाक्षरैः ॥

परित्राता जगत्त्रातः प्रत्यूहाद्दारुणादितः

॥७४॥

अनुग्रहं कुरुध्वेश तिष्ठात्रैव जगद्गुरो ॥

अनेनैव हि रूपेण व्याघ्रेश इति नामतः

॥७५॥

कुरु रक्षां महादेव ज्येष्ठस्थानस्य सर्वदा ॥

अन्येभ्योप्युपसर्गेभ्यो रक्ष नस्तीर्थवासिनः

॥७६॥

इति श्रुत्वा वचस्तेषां देवश्चंद्रविभूषणः ॥

तथेत्युक्त्वा पुनः प्राह शृणुध्वं द्विजपुंगवाः

॥७७॥

यो मामनेन रूपेण द्रक्ष्यति श्रद्धयात्र वै ॥

तस्योपसर्गसंघातं घातयिष्याम्यसंशयम्

॥७८॥

एतल्लिंगं समभ्यर्च्य यो याति पथि मानवः ॥

चौरव्याघ्रादिसंभूत भयं तस्य कुतो भवेत्

॥७९॥

मच्चरित्रमिदं श्रुत्वा स्मृत्वा लिंगमिदं हृदि ॥

संग्रामे प्रविशन्मर्त्यो जयमाप्नोति नान्यथा

॥८०॥

इत्युक्त्वा देवदेवशस्तस्मिँल्लिंगे लयं ययौ ॥

सविस्मयास्ततो विप्राः प्रातर्याता यथागतम्

॥८१॥

स्कन्द उवाच

तदा प्रभृति कुंभोत्थ लिंगं व्याघ्रेश्वराभिधम् ॥

ज्येष्ठेशादुत्तरेभागे दृष्टं स्पृष्टं भयापहम्

॥८२॥

व्याघ्रेश्वरस्य ये भक्तास्तेभ्यो बिभ्यति किंकराः ॥

यामा अपि महाक्रूरा जयजीवेति वादिनः

॥८३॥

पराशरेश्वरादीनां लिंगानामिह संभवम् ॥

श्रुत्वा नरो न लिप्येत महापातककर्दमैः

॥८४॥

कंदुकेश समुत्पत्तिं व्याघ्रे शाविर्भवं तथा ॥

समाकर्ण्य नरो जातु नोपसर्गैः प्रदूयते

॥८५॥

उटजेश्वर लिंगं तु व्याघ्रेशात्पश्चिमे स्थितम् ॥

भक्तरक्षार्थमुद्भूतं स्यात्समभ्यर्च्य निर्भयः

॥८६॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्धे पराशरेश्वरादिलिंगसंभवोनाम पंचषष्टितमोऽध्यायः ॥ ६५ ॥