मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ९१

3
काशीखण्डः · 91

पार्वतीशस्य महिमा कथितस्ते मयानघ

स्कंद उवाच

पार्वतीशस्य महिमा कथितस्ते मयानघ ॥

मुने निशामयेदानीं गंगेश्वरसमुद्भवम्

॥१॥

यं श्रुत्वा यत्रकुत्रापि गंगास्नानफलं लभेत् ॥

चक्रपुष्करिणीतीर्थं यदा गंगा समागता

॥२॥

तेन दैलीपिना सार्धमस्मिन्नानंदकानने ॥

क्षेत्रप्रभावमतुलं ज्ञात्वा शंभुपरिग्रहात्

॥३॥

स्मृत्वा लिंगप्रतिष्ठायाः काश्यां लोकोत्तरं फलम् ॥

गंगया स्थापितं लिंगं विश्वेशात्पूर्वतः शुभम्

॥४॥

गंगेश्वरस्य लिंगस्य काश्यां दृष्टिः सुदुर्लभा ॥

तिथौ दशहरायां च यो गंगेशं समर्चयेत्

॥५॥

तस्य जन्मसहस्रस्य पापं संक्षीयते क्षणात् ॥

कलौ गंगेश्वरं लिंगं गुप्तप्रायं भविष्यति

॥६॥

तस्य संदर्शनं पुंसां जायते पुण्यहेतवे ॥

दृष्टं गंगेश्वरं लिंगं येन काश्यां सुदुर्लभम्

॥७॥

प्रत्यक्षरूपिणी गंगा तेन दृष्टा न संशयः ॥

कलौ सुदुर्लभा गंगा सर्वकल्मषहारिणी

॥८॥

भविष्यति न संदेहो मित्रावरुणनंदन ॥

ततोपि तिष्ये संप्राप्ते काश्यत्यंतं सुदुर्लभा

॥९॥

ततोपि दुर्लभं काश्यां लिंगं गंगेश्वराभिधम् ॥

यस्य संदर्शनं पुंसां भवेत्पापक्षयाय वै

॥१०॥

श्रुत्वा गंगेश माहात्म्यं न नरो निरयी भवेत् ॥

लभेच्च पुण्यसंभारं चिंतितं चाधिगच्छति

॥११॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुथें काशीखंड उत्तरार्धे गंगेश्वरमहिमाख्यानं नामैकनवतितमोऽध्यायः ॥ ९१ ॥