दुर्गाविजयः
अगस्त्य उवाच
पार्वतीहृदयानंद स्कंद सर्वज्ञनंदन ॥
काः कास्तु शक्तयस्ता वै तासां नामानि मे वद
॥१॥स्कंद उवाच
तासां परमशक्तीनामुमावयवसंभुवाम् ॥
आख्याम्याख्यां शृणु मुने कुंभसंभव तत्त्वतः
॥२॥त्रैलोक्यविजया तारा क्षमा त्रैलोक्यसुंदरी ॥
त्रिपुरा त्रिजगन्माता भीमा त्रिपुरभैरवी
॥३॥कामाख्या कमलाक्षी च धृतिस्त्रिपुरतापनी ॥
जया जयंती विजया जलेशी चापराजिता
॥४॥शंखिनी गजवक्त्रा च महिषघ्नी रणप्रिया ॥
शुभानंदा कोटराक्षी विद्युज्जिह्वा शिवारवा
॥५॥त्रिनेत्रा च त्रिवक्त्रा च त्रिपदा सर्वमंगला ॥
हुंकारहेतिस्तालेशी सर्पास्या सर्वसुंदरी
॥६॥सिद्धिर्बुद्धिः स्वधा स्वाहा महानिद्रा शराशना ॥
पाशपाणिः खरमुखी वज्रतारा षडानना
॥७॥मयूरवदना काकी शुकी भासी गरुत्मती ॥
पद्मावती पद्मकेशी पद्मास्या पद्मवासिनी
॥८॥अक्षरा त्र्यक्षरा तंतुः प्रणवेशी स्वरात्मिका ॥
त्रिवर्गा गर्वरहिता अजपा जपहारिणी
॥९॥जपसिद्धिस्तपःसिद्धिर्योगसिद्धिः परामृता ॥
मैत्रीकृन्मित्रनेत्रा च रक्षोघ्नी दैत्यतापनी
॥१०॥स्तंभनी मोहनीमाया बहुमाया बलोत्कटा ॥
उच्चाटनी महोल्कास्या दनुजेंद्रक्षयंकरी
॥११॥क्षेमकरी सिद्धिकरी छिन्नमस्ता शुभानना ॥
शाकंभरी मोक्षलक्ष्मीस्त्रिवर्गफलदायिनी
॥१२॥वार्ताली जंभली क्लिन्ना अश्वारूढा सुरेश्वरी ॥
ज्वालामुखी प्रभृतयो नवकोट्यौ महाबलाः
॥१३॥बलानि बलिनां ताभिर्दानवानां स्वलीलया ॥
संक्षिप्ता निजगंतीव प्रलयानलहेतेभिः
॥१४॥तावत्स दुर्गो दैत्येंद्रः पयोदांतरतो बली ॥
चकार करकावृष्टिं वात्या वेगवतीं बहु
॥१५॥ततो भगवती देवी शोषणास्त्र प्रयोगतः ॥
वृष्टिं निवारयामास सवर्षोपलमयी क्षणात्
॥१६॥योषिन्मनोरथवती षंढं प्राप्य यथाऽफला ॥
सा दैत्यकरकावृष्टिर्देवीं प्राप्य तथाभवत्
॥१७॥अथ दैतेयराजेन बाहुसंकर्षकोपतः ॥
उत्पाट्य शैलशिखरं परिक्षिप्तं नभोंगणात्
॥१८॥अद्रेः शृंगं सुविस्तीर्णमापतत्परिवीक्ष्य सा ॥
शतकोटिप्रहारेण कोटिशः सकलं व्यधात्
॥१९॥आंदोल्य मौलिमसकृत्कुंडलाभ्यां विराजितम् ॥
गजीभूयाशु दुद्राव तां देवीं समरेऽसुरः
॥२०॥शैलाकारं तमायांतं दृष्ट्वा भगवती गजम् ॥
बद्ध्वा पाशेन जवतः खङ्गेन करमच्छिनत्
॥२१॥ततोत्यंतं स चीत्कृत्य देव्याकृत्तकरःकरी ॥
अकिंचित्करतां प्राप्य माहिषं वपुराददे
॥२२॥अचलां सचलां सर्वां स चक्रे सुरघाततः ॥
शिलोच्चयांश्च बहुशः शृंगाभ्यां सोक्षिपद्बली
॥२३॥निःश्वासवातनिहताः पेतुरुर्व्यां महाद्रुमाः ॥
उद्वेलिताः समभवन्सप्तापि जलराशयः
॥५४॥महामहिषरूपेण तेन त्रैलोक्यमंडपः ॥
आंदोलितोति बलिना युगांते वात्यया यथा
॥२५॥ब्रह्मांडमप्यकांडेन तद्भयेन समाकुलम् ॥
दृष्ट्वा भगवती क्रुद्धा त्रिशूलेन जघान तम्
॥२६॥त्रिशूलघातविभ्रांतः पतित्वा पुनरुत्थितः ॥
तं त्यक्त्वा माहिषं वेषमभूद्बाहुसहस्रभृत्
॥२७॥स दुर्गो नितरां दुर्गो विबभौ समराजिरे ॥
आयुधानां सहस्राणि बिभ्रत्कालांतकोपमः
॥२८॥अथ तूर्णं स दैत्येंद्रस्तां देवीं रणकोविदाम् ॥
महाबलः प्रगृह्याशु नीतवानान्गगनांगणम्
॥२९॥ततो नभोंगणाद्दूरात्क्षिप्त्वा स जगदंबिकाम् ॥
क्षणात्कलंबजालेन च्छादयामास वेगवान्
॥३०॥अथांतरिक्षगा देवी तस्य मार्गणमध्यगा ॥
विद्युन्मालेव विबभौ महाभ्रपटलीधृता
॥३१॥तं विधूय शरत्रातं निजेषु निकरैरलम् ॥
महेषुणाथ विव्याध सा तं दैत्यजनेश्वरम्
॥३२॥हृदि विद्धस्तया देव्या स च तेन महेषुणा ॥
व्याघूर्णमाननयनः क्षितिमापाति विह्वलः
॥३३॥महारुधिरधाराभिः स्रवंतीं च प्रवर्तयन् ॥
तस्मिन्निपतिते दुर्गे महादुर्गपराक्रमे
॥३४॥देवदुंदुभयो नेदुः प्रहृष्टानि जगंति च ॥
सूर्याचंद्रमसौ साग्नी तेजो निजमवापतुः
॥३५॥पुष्पवृष्टिं प्रकुर्वंतः प्राप्ता देवा महर्षिभिः ॥
तुष्टुवुश्च महादेवीं महास्तुतिभिरादरात्
॥३६॥देवा ऊचुः
नमो देवि जगद्धात्रि जगत्रयमहारणे ॥
महेश्वर महाशक्ते दैत्यद्रुमकुठारके
॥३७॥त्रैलोक्यव्यापिनि शिवे शंखचक्रगदाधरि ॥
स्वशार्ङ्गव्यग्रहस्ताग्रे नमो विष्णुस्वरूपिणि
॥३८॥हंसयाने नमस्तुभ्यं सर्वसृष्टिविधायिनि ॥
प्राचां वाचां जन्मभूमे चतुराननरूपिणि
॥३९॥त्वमैंद्री त्वं च कौबेरी वायवी त्वं त्वमंबुपा ॥
त्वं यामी नैर्ऋती त्वं च त्वमैशी त्वं च पावकी
॥४०॥शशांककौमुदी त्वं च सौरी शक्तिस्त्वमेव च ॥
सर्वदेवमयी शक्तिस्त्वमेव परमेश्वरी
॥४१॥त्वं गौरी त्वं च सावित्री त्वं गायत्री सरस्वती ॥
प्रकृतिस्त्वं मतिस्त्वं च त्वमहंकृतिरूपिणी
॥४२॥चेतः स्वरूपिणी त्वं वै त्वं सर्वेंद्रियरूपिणी ॥
पंचतन्मात्ररूपा त्वं महाभूतात्मिकेंबिके
॥४३॥शब्दादि रूपिणी त्वं वै करणानुग्रहा त्वमु ॥
ब्रह्मांडकर्त्री त्वं देवि ब्रह्मांडांतस्त्वमेव हि
॥४४॥त्वं परासि महादेवि त्वं च देवि परापरा ॥
परापराणां परमा परमात्मस्वरूपिणी
॥४५॥सर्वरूपा त्वमीशानि त्वमरूपासि सर्वगे ॥
त्वं चिच्छक्तिर्महामाये त्वं स्वाहा त्वं स्वधामृते
॥४६॥वषड्वौषट्स्वरूपासि त्वमेव प्रणवात्मिका ॥
सर्वमंत्रमयी त्वं वै ब्रह्माद्यास्त्वत्समुद्भवाः
॥४७॥चतुर्वर्गात्मिका त्वं वै चतुर्वर्गफलोदये ॥
त्वत्तः सर्वमिदं विश्वं त्वयि सर्वं जगन्निधे
॥४८॥यद्दृश्यं यददृश्यं च स्थूलसूक्ष्मस्वरूपतः ॥
तत्र त्वं शक्तिरूपेण किंचिन्न त्वदृते क्वचित्
॥४९॥मातस्त्वयाद्य विनिहत्य महासुरेंद्रं दुर्गं निसर्गविबुधार्पितदैत्यसैन्यम् ॥
त्राताः स्म देवि सततं नमतां शरण्ये त्वत्तोऽपरः क इह यं शरणं व्रजामः
॥५०॥लोके त एव धनधान्यसमृद्धिभाजस्ते पुत्रपौत्रसुकलत्र सुमित्रवंतः ॥
तेषां यशः प्रसरचंद्रकरावदातं विश्वं भवेद्भवसि येषु सुदृक्त्वमीशे
॥५१॥त्वद्भक्तिचेतसि जनेन विपत्तिलेशः क्लेशः क्व वानुभवती नतिकृत्सु पुंसु ॥
त्वन्नामसंसृतिजुषां सकलायुषां क्व भूयः पुनर्जनिरिह त्रिपुरारिपत्नि
॥५२॥चित्रं यदत्र समरे स हि दुर्गदैत्यस्त्वद्दृष्टिपातमधिगम्य सुधानिधानम् ॥
मृत्योर्वशत्वमगमद्विदितं भवानि दुष्टोपि ते दृशिगतः कुगतिं न याति
॥५३॥त्वच्छस्त्रवह्निशलभत्वमिता अपीह दैत्याः पतंगरुचिमाप्य दिवं व्रजंति ॥
संतः खलेष्वपि न दुष्टधियो यतः स्युः साधुष्विव प्रणयिनः स्वपथं दिशंति
॥५४॥प्राच्यां मृडानि परिपाहि सदा नतान्नो याम्यामव प्रतिपदं विपदो भवानि ॥
प्रत्यग्दिशि त्रिपुरतापन पत्नि रक्ष त्वं पाह्युदीचि निजभक्तजनान्महेशि
॥५५॥ब्रह्माणि रक्ष सततं नतमौलिदेशं त्वं वैष्णवि प्रतिकुलं परिपालयाधः ॥
रुद्राग्नि नैर्ऋति सदागति दिक्षु पांतु मृत्युंजया त्रिनयना त्रिपुरा त्रिशक्त्यः
॥५६॥पातु त्रिशूलममले तव मौलिजान्नो भालस्थलं शशिकला मृदुमाभ्रुवौ च ॥
नेत्रे त्रिलोचनवधूर्गिरिजा च नासामोष्ठं जया च विजयात्वधरप्रदेशम्
॥५७॥श्रोत्रद्वयं श्रुतिरवा दशनावलिं श्रीश्चंडी कपोलयुगलं रसनां च वाणी ॥
पायात्सदैव चिबुकं जयमंगला नः कात्यायनी वदनमंडलमेव सर्वम्
॥५८॥कंठप्रदेशमवतादिह नीलकंठी भूदारशक्तिरनिशं च कृकाटिकायाम् ॥
कौर्म्यं सदेशमनिशं भुजदंडमैंद्री पद्मा च पाणिफलकं नतिकारिणां नः
॥५९॥हस्तांगुलीः कमलजा विरजा नखांश्च कक्षांतरं तरणिमंडलगा तमोघ्नी ॥
वक्षःस्थलं स्थलचरी हृदयं धरित्री कुशिद्वयं त्ववतु नः क्षणदाचरघ्नी
॥६०॥अव्यात्सदा दरदरीं जगदीश्वरी नो नाभिं नभोगतिरजात्वथ पृष्ठदेशम् ॥
पायात्कटिं च विकटा परमास्फिचौ नो गुह्यं गुहारणिरपानमपाय हंत्री
॥६१॥ऊरुद्वयं च विपुला ललिता च जानू जंघे जवाऽवतु कठोरतरात्र गुल्फौ ॥
पादौ रसातलचरांगुलिदेशमुग्रा चांद्री नखान्त्पदतलं तलवासिनी च
॥६२॥गृहं रक्षतु नो लक्ष्मीः क्षेत्रं क्षेमकरी सदा ॥
पातु पुत्रान्प्रियकरी पायादायुः सनातनी
॥६३॥यशः पातु महादेवी धर्मं पातु धनुर्धरी ॥
कुलदेवी कुलं पातु सद्गतिं सद्गतिप्रदा
॥६४॥रणे राजकुले द्यूते संग्रामे शत्रुसंकटे ॥
गृहे वने जलादौ च शर्वाणी सर्वतोऽवतु
॥६५॥इति स्तुत्वा जगद्धात्रीं प्रणेमुश्च पुनःपुनः ॥
सर्वे सवासवा देवाः सर्षिगंधर्वचारणाः
॥६६॥ततस्तुष्टा जगन्माता तानाह सुरसत्तमान् ॥
स्वाधिकारान्सुराः सर्वे शासतु प्राग्यथायथा
॥६७॥तुष्टाहमनया स्तुत्या नितरां तु यथार्थया ॥
वरमन्यं प्रदास्यामि तच्छृणुध्वं सुरोत्तमाः
॥६८॥दुर्गोवाच
यः स्तोष्यति तु मां भक्त्या नरः स्तुत्यानया शुचिः ॥
तस्याहं नाशयिष्यामि विपदं च पदे पदे
॥६९॥एतत्स्तोत्रस्य कवचं परिधास्यति यो नरः ॥
तस्य क्वचिद्भयं नास्ति वज्रपंजरगस्य हि
॥७०॥अद्यप्रभृति मे नाम दुर्गेति ख्यातिमेष्यति ॥
दुर्गदैत्यस्य समरे पातनादति दुर्गमात्
॥७१॥ये मां दुर्गां शरणगा न तेषां दुर्गतिः क्वचित् ॥
दुर्गास्तुतिरियं पुण्या वज्रपंजरसंज्ञिका
॥७२॥अनया कवचं कृत्वा मा बिभेतु यमादपि ॥
भूतप्रेतपिशाचाश्च शाकिनीडाकिनी गणाः
॥७३॥झोटिंगा राक्षसाः क्रूरा विष सर्पाग्नि दस्यवः ॥
वेतालाश्चापि कंकाल ग्रहा बालग्रहा अपि
॥७४॥वातपित्तादि जनितास्तथा च विषमज्वराः ॥
दूरादेव पलायंते श्रुत्वा स्तुतिमिमां शुभाम्
॥७५॥वज्रपंजर नामैतत्स्तोत्रं दुर्गाप्रशंसनम् ॥
एतत्स्तोत्रकृतत्राणे वज्रादपि भयं नहि
॥७६॥अष्टजप्तेन चानेन योभिमंत्र्य जलं पिबेत् ॥
तस्योदरगतापीडा क्वापि नो संभविष्यति
॥७७॥गर्भपीडा तु नो जातु भविष्यत्यभिमंत्रणात् ॥
बालानां परमा शांतिरेतत्स्तोत्रांबुपानतः
॥७८॥यत्र सान्निध्यमेतस्य स्तवस्येह भविष्यति ॥
एतास्तु शक्तयः सर्वा सर्वत्र सहिता मया
॥७९॥रक्षां परिकरिष्यंति मद्भक्तानां ममाज्ञया ॥
इति दत्त्वा वरान्देवी देवेभ्यो तर्हि ता तदा
॥८०॥तेपि स्वर्गौकसः सर्वे स्वंस्वं स्वर्गं ययुर्मुदा ॥
स्कंद उवाच ॥
इत्थं दुर्गाभवन्नाम तया देव्या महामुने ॥
काश्यां सेव्या यथा सा च तच्छृणुष्व वदामि ते
॥८१॥अष्टम्यां च चतुर्दश्यां भौमवारे विशेषतः ॥
संपूज्या सततं काश्यां दुर्गा दुर्गतिनाशिनी
॥८२॥नवरात्रं प्रयत्नेन प्रत्यहं सा समर्चिता ॥
नाशयिष्यति विघ्नौघान्सुमतिं च प्रदास्यति
॥८३॥महापूजोपहारैश्च महाबलिनिवेदनैः ॥
दास्यत्यभीष्टदा सिद्धिं दुर्गा काश्यां न संशयः
॥८४॥प्रतिसंवत्सरं तस्याः कार्या यात्रा प्रयत्नतः ॥
शारदं नवरात्रं च सकुटुंबैः शुभार्थिभिः
॥८५॥यो न सांवत्सरीं यात्रां दुर्गायाः कुरुते कुधीः ॥
काश्यां विघ्न सहस्राणि तस्य स्युश्च पदेपदे
॥८६॥दुर्गाकुंडे नरः स्नात्वा सर्वदुर्गार्तिहारिणीम् ॥
दुर्गां संपूज्य विधिवन्नवजन्माघमुत्सृजेत्
॥८७॥सा दुर्गाशक्तिभिः सार्धं काशीं रक्षति सर्वतः ॥
ताः प्रयत्नेन संपूज्या कालरात्रिमुखा नरैः
॥८८॥रक्षंति क्षेत्रमेतद्वै तथान्या नवशक्तयः ॥
उपसर्गसहस्रेभ्यस्ता वैदिग्देवताक्रमात्
॥८९॥शतनेत्रा सहस्रास्या तथायुतभुजापरा ॥
अश्वारूढा गजास्या च त्वरिता शववाहिनी
॥९०॥विश्वा सौभाग्यगौरी च सृष्टाः प्राच्यादिमध्यतः ॥
एता यत्नेन संपूज्याः क्षेत्ररक्षणदेवताः
॥९१॥तथैव भैरवाश्चाष्टौ दिक्ष्वष्टासु प्रतिष्ठिताः ॥
रक्षंति सततं काशीं निर्वाणश्रीनिकेतनम्
॥९२॥रुरुश्चंडोसितांगश्च कपाली क्रोधनस्तथा ॥
उन्मत्तभैरवस्तद्वत्क्रमात्संहारभीषणौ
॥९३॥चतुःषष्टिस्तु वेताला महाभीषणमूर्तयः ॥
रुंडमुंडस्रजः सर्वे कर्त्रीखर्परपाणयः
॥९४॥श्ववाहना रक्तमुखा महादंष्ट्रा महाभुजाः ॥
नग्ना विमुक्तकेशाश्च प्रमत्ता रुधिरासवैः
॥९५॥नानारूपधराः सर्वे नानाशस्त्रास्त्र पाणयः ॥
तदाकारैश्च तद्भृत्यैः कोटिशः परिवारिताः
॥९६॥विद्युज्जिह्वो ललज्जिह्वः क्रूरास्यः क्रूरलोचनः ॥
उग्रो विकटदंष्ट्रश्च वक्रास्यो वक्रनासिकः
॥९७॥जंभको जृंभणमुखो ज्वालानेत्रो वृकोदरः ॥
गर्तनेत्रो महानेत्रस्तुच्छनेत्रोंऽत्रमण्डनः
॥९८॥ज्वलत्केशः कंबुशिराः खर्वग्रीवो महाहनुः ॥
महानासो लंबकर्णः कर्णप्रावरणोनसः
॥९९॥इत्यादयो मुने क्षेत्रं दुर्वृत्तरुधिरप्रियाः ॥
त्रासयंतो दुराचारान्रक्षंति परितः सदा
॥१००॥त्रैलोक्यविजयाद्याश्च ज्वालामुख्यंतगाश्च याः ॥
शक्तयोऽत्र मया ख्याता मुने कलशसंभव
॥१॥ताः काशीं परिरक्षंति चतुर्दिक्षूद्यतायुधाः ॥
ताः समर्च्याः प्रयत्नेन महाविघ्न प्रशांतये
॥२॥भैरवा रुरुमुख्याश्च महाभयनिवारकाः ॥
संपूज्याः सर्वदा काश्यां सर्वसंपत्तिहेतवः
॥३॥विद्युज्जिह्वप्रभृतयो वेताला उग्ररूपिणः ॥
अत्युग्रानपि विघ्नौघान्हरिष्यंत्यर्चिता इह
॥४॥तथा भूतावली चात्र नानाभीषणरूपिणी ॥
उदायुधाऽवति पुरीं शतकोटिमिता मुने
॥५॥निर्वाणलक्ष्मीक्षेत्रस्य पालयित्री पदेपदे ॥
एता वै देवताः पूज्याः काश्यां निर्वाणकांक्षिभिः
॥६॥श्रुत्वाध्यायमिमं पुण्यं नरो दुर्गजयाभिधम् ॥
नानाशक्तिसमायुक्तं दुर्गमाशु तरिष्यति
॥७॥य एते भैरवाः प्रोक्ता ये वेताला उदाहृताः ॥
तेषां नामानि चाकर्ण्य नरो विप्रैर्न दूयते
॥८॥अदृष्टा अपि ते भूता एतदाख्यानपाठकम् ॥
रक्षिष्यंति प्रयत्नेन सह श्रोतृजनेन च
॥९॥तस्मात्सर्वप्रयत्नेन काशीभक्तिपरैर्नरैः ॥
श्रोतव्यमिदमाख्यानं महाविघ्ननिवारणम्
॥११०॥गृहेपि यस्य लिखितमेतत्स्थास्यति पूजितम् ।
तस्यापदां सहस्राणि नाशयिष्यंति देवताः
॥११॥काश्यां यस्यास्ति वै प्रेम तेन कृत्वाऽऽदरं गुरुम् ॥
श्रोतव्यमिदमाख्यानं वज्रपंजरसन्निभम्
॥११२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे दुर्गाविजयो नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥