सप्तपुरीवर्णनम्
अगस्तिरुवाच
मथुरायां द्विजः कश्चिदभूद्भूदेवसत्तमः ॥
तस्य पुत्रो महातेजाः शिवशर्मेति विश्रुतः
॥१॥अधीत्यवेदान्विधिवदर्थं विज्ञाय तत्त्वतः।
. पठित्वा धर्मशास्त्राणि पुराणान्यधिगम्य च
॥२॥अंगान्यभ्यस्य तर्कांश्च परिलोड्य समंततः ॥
मीमांसाद्वयमालोक्य धनुर्वेदं विगाह्य च
॥३॥आयुर्वेदं विचार्यापि नाट्यवेदे कृतश्रमः ॥
अर्थशास्त्राण्यनेकानि प्राप्याश्वगजचेष्टितम्
॥४॥कलासु च कृताभ्यासो मन्त्रशास्त्रविचक्षणः ॥
भाषाश्च नाना देशानां लिपीर्ज्ञात्वा विदेशजाः
॥५॥अर्थानुपार्ज्य धर्मेण भुक्त्वा भोगान्यदृच्छया ॥
उत्पाद्य पुत्रान्सुगुणांस्तेभ्यो ह्यर्थं विभज्य च
॥६॥यौवनं गत्वरं ज्ञात्वा जरां दृष्ट्वाश्रितां श्रुतिम् ॥
चिन्तामवाप महती शिवशर्मा द्विजोत्तमः
॥७॥पठतो मे गतः कालस्तथोपार्जयतो धनम् ॥
नाराधितो महेशानः कर्मनिर्मूलनक्षमः
॥८॥न मया तोषितो विष्णुः सर्वपापहरो हरिः ॥
सर्वकामप्रदो नृणां गणेशो नार्चितो मया
॥९॥तमस्तोमहरः सूर्यो नार्चि तो वै मया क्वचित् ॥
महामाया जगद्धात्री न ध्याता भवबंधहृत्
॥१०॥न प्रीणिता मया देवा यज्ञैः सर्वैः समृद्धिदाः ॥
तुलसीवन शुश्रूषा न कृता पापशांतये
॥११॥न मया तर्पिता विप्रा मृष्टान्नैर्मधुरै रसैः ॥
इहापि च परत्रापि विपदामनुतारकाः
॥१२॥बहुपुष्पफलोपेताः सुच्छायाः स्निग्धपल्लवाः ॥
पथि नारोपिता वृक्षा इहामुत्रफलप्रदाः
॥१३॥दुकूलैः स्वानुकूलैश्च चोलैः प्रत्यंगभूषणैः ॥
नालंकृताः सुवासिन्य इहामुत्रसुवासदाः
॥१४॥द्विजाय नोर्वरा दत्ता यमलोकनिवारिणी ॥
सुवर्णं न सुवर्णाय दत्तं दुरितहृत्परम्
॥१५॥नालंकृता सवत्सा गौः पात्राय प्रतिपादिता ॥
इह पापापहंत्र्याशु सप्तजन्मसुखावहा
॥१६॥ऋणापनुत्तये मातुः कारितो न जलाशयः ॥
नातिथिस्तोषितः क्वापि स्वर्गमार्गप्रदर्शकः
॥१७॥छत्रोपानत्कुंडिकाश्च नाध्वगाय समर्पिताः ॥
यास्यतः संयमिन्यां हि स्वर्गमार्गसुखप्रदाः
॥१८॥न च कन्याविवाहार्थं वसु क्वापि मयार्पितम् ॥
इह सौख्यसमृद्ध्यर्थं दिव्यकन्यार्पकं दिवि
॥१९॥न वाजपेयावभृथे स्नातो लोभवशादहम् ॥
इह जन्मनि चान्यस्मिन्बहुमृष्टान्नपानदे
॥२०॥न मया स्थापितं लिंगं कृत्वा देवालयं शुभम ॥
यस्मिन्संस्थापिते लिंगो विश्वं संस्थापितं भवेत्
॥२१॥विष्णोरायतनं नैव कृतं सर्वसमृद्धिदम् ॥
न च सूर्यगणेशानां प्रतिमाः कारिता मया
॥२२॥न गौरी न महालक्ष्मीश्चित्रेपि परिलेखिते ॥
प्रतिमाकरणे चैषां न कुरूपो न दुर्भगः
॥२३॥सुसूक्ष्माणि विचित्राणि नोज्ज्वलान्यंबराण्यपि ॥
समर्पितानि विप्रेभ्यो दिव्यांबर समृद्धये
॥२४॥न तिलाश्च घृतेनाक्ताः सुसमिद्धे हुताशने ॥
हुता वै मन्त्रपूताश्च सर्वपापापनुत्तये
॥२५॥श्रीसूक्तं पावमानी च ब्राह्मणो मंडलानि च ॥
जप्तं पुरुषसूक्तं न पापारि शतरुद्रियम्
॥२६॥अश्वत्थ सेवा न कृता त्यक्त्वा चार्कं त्रयोदशीम् ॥
सद्यः पापहरा सा हि न रात्रौ न भृगोर्दिने
॥२७॥शयनीयं न चोत्सृष्टं मृदुला च प्रतूलिका ॥
दीपीदर्पणसंयु्क्तं सर्वभोगसमृद्धिदम्
॥२८॥अजाश्वमहिषी मेषी दासी कृष्णाजिनं तिलाः ॥
सकरंभास्तोयकुंभा नासनं मृदुपादुके
॥२९॥पादाभ्यंगं दीपदानं प्रपादानं विशेषतः ॥
व्यजनं वस्त्रतांबूलं तथान्यन्मुखवासकृत
॥३०॥नित्यश्राद्धं भूतबलिं तथाऽतिथि समर्चनम् ॥
विशन्त्यन्यानि दत्त्वा च प्रशस्यानि यमालये
॥३१॥न यमं यमदूतांश्च नयामीरपि यातनाः ॥
पश्यन्ति ते पुणयभाजो नैतच्चापि कृतं मया
॥३२॥कृच्छ्रचांद्रायणादीनि तथा नक्तव्रतानि च ॥
शरीरशुद्धिकारीणि न कृतानि क्वचिन्मया
॥३३॥गवाह्निकं च नोदत्तं कोकंडूतिर्न वै कृता ॥
नोद्धृता पंकमग्ना गौर्गोलोकसुखदायिनी
॥३४॥नार्थिनः प्रार्थितैरर्थैः कृतार्था हि मया कृताः ॥
देहिदेहीति जल्पाको भविष्याम्यन्यजन्मनि
॥३५॥न वेदा न च शास्त्राणि नार्धो दारा न नो सुतः ॥
न क्षेत्रं न च हर्म्यादि मायांतमनुयास्यति
॥३६॥शिवशर्मेति संचिंत्य बुद्धिं संधाय सर्वतः ॥
निश्चिकाय मनस्येवं भवेत्क्षेमतरं मम
॥३७॥यावत्स्वस्थोस्ति मे देहो यावन्नेंद्रियविक्लवः ॥
तावत्स्वश्रेयसां हेतुं तीर्थयात्रां करोम्यहम्
॥३८॥दिनानि पंचपाण्येवमतिवाह्य गृहो द्विजः ॥
शुभे तिथौ शुभे वारे शुभलग्नबले द्विजः
॥३९॥उपोष्य रजनीमेकां प्रातः श्राद्धं विधाय च ॥
गणेशान्ब्राह्मणान्नत्वा भुक्त्वा प्रस्थितवान्सुधीः
॥४०॥इति निश्चित्य निर्वाणपदनिःश्रेणिकां पराम् ॥
सर्वेषामेव जंतूनां तत्र संस्थितिकारिणाम्
॥४१॥अथ पंथानमाक्रम्य कियंतमपि स द्विजः ॥
मुहूर्तं पथि विश्रम्याचिंतयत्प्राक्क्व याम्यहम्
॥४२॥भुवि तीर्थान्यनेकानि लोलमायुश्चलं मनः ॥
ततः सप्तपुरीर्यायां सर्वतीर्थानि तत्र यत्
॥४३॥अयोध्यां च पुरीं गत्वा सरयूमवगाह्य च ॥
तत्तत्तीर्थेषु संतर्प्य पितॄन्पिंडप्रदानतः
॥४४॥पंचरात्रमुषित्वा तु ब्राह्मणान्परिभोज्य च ॥
प्रयागमगमद्विप्रस्तीर्थराजं सुहृष्टवत्
॥४५॥सिताऽसिते सरिच्छ्रेष्ठे यत्रास्तां सुरदुर्लभे ॥
यत्राप्लुतो नरः पापः परं ब्रह्माधिगच्छति
॥४६॥क्षेत्रं प्रजापतेः पुण्यं सर्वेषामेव दुर्लभम् ॥
लभ्यते पुण्यसंभारैर्नान्यथार्थस्य राशिभिः
॥४७॥दमयंतीं कलिं कालं कलिंदतनयां शुभाम् ॥
आगत्य मिलिता यत्र पुण्या स्वर्गतरंगिणी
॥४८॥प्रकृष्टं सर्वयागेभ्यः प्रयागमिति गीयते ॥
यज्वनां पुनरावृत्तिर्न प्रयागार्द्रवर्ष्मणाम्
॥४९॥यत्र स्थितः स्वयं साक्षाच्छूलटंको महेश्वरः ॥
तत्राप्लुतानां जंतूनां मोक्षवर्त्मोपदेशकः
॥५०॥तत्राऽक्षय्यवटोऽप्यस्ति सप्तपातालमूलवान् ॥
प्रलयेपि यमारुह्य मृकंडतनयोऽवसत्
॥५१॥हिरण्यगर्भो विज्ञेयः स साक्षाद्वटरूपधृक् ॥
तत्समीपे द्विजान्भक्त्या संभोज्याक्षय पुण्यभाक्
॥५२॥यत्र लक्ष्मीपतिः साक्षाद्वैकुंठादेत्य मानवान् ॥
श्रीमाधवस्वरूपेण नयेद्विष्णोः परं पदम्
॥५३॥श्रुतिभिः परिपठ्येते सिताऽसित सरिद्वरे ॥
तत्राप्लुतां गाह्यमृतं भवंतीति विनिश्चितम्
॥५४॥शिवलोकाद्ब्रह्मलोकादुमालोकवरात्पुनः ॥
कुमारलोकाद्वैकुंठात्सत्यलोकात्समंततः ॥
तपोजनमहर्भ्यश्च सर्वे स्वर्लोकवासिनः ॥
भुवोलोकाच्च भूर्लोकान्नागलोकात्तथाऽखिलात्
॥५६॥अचला हिमवन्मुख्याः कल्पवृक्षादयो नगाः ॥
स्नातुं माघे समायांति प्रयागमरुणोदये
॥५७॥दिगंगनाः प्रार्थयंति यत्प्रयागानिलानपि ॥
तेपि नः पावयिष्यंति किं कुर्मः पंगवो वयम्
॥५८॥अश्वमेधादियागाश्च प्रयागस्य रजः पुनः ॥
तुलितं ब्रह्मणा पूर्वं न ते तद्रजसा समाः
॥५९॥मज्जागतानि पापानि बहुजन्मार्जितान्यपि ॥
प्रयागनामश्रवणात्क्षीयंतेऽतीव विह्वलम्
॥६०॥धर्मतीर्थमिदं सम्यगर्थतीर्थमिदं परम् ॥
कामिकं तीर्थमेतच्च मोक्षतीर्थमिदं ध्रुवम्
॥६१॥ब्रह्महत्यादि पापानि तावद्गर्जंति देहिषु ॥
यावन्मज्जंति नो माघे प्रयागे पापहारिणि
॥६२॥तद्विष्णोः परमं पदं सदा पश्यंति सूरयः ॥
एतद्यत्पठ्यते वेदे तत्प्रयागं पुनः पुनः
॥६३॥सरस्वती रजो रूपा तमोरूपा कलिंदजा ॥
सत्त्वरूपा च गंगात्र नयंति ब्रह्मनिर्गुणम्
॥६४॥इयं वेणीहि निःश्रेणी ब्रह्मणो वर्त्मयास्यतः ॥
जंतोर्विशुद्धदेहस्य श्रद्धाऽश्रद्धाप्लुतस्य च
॥६५॥काशीति काचिदबला भुवनेषु रूढा लोलार्क केशवविलोलविलोचना ॥
तद्दोर्युगं च वरणासिरियं तदीया वेणीति याऽत्र गदिताऽक्षयशर्मभूमिः
॥६६॥अगस्तिरुवाच
सुधर्मिणि गुणांस्तस्य कोत्र वर्णयितुं क्षमः ॥
तीर्थराजप्रयागस्य तीर्थैः संसेवितस्य च
॥६७॥पापिनां यानि पापानि प्रसह्य क्षालितान्यहो ॥
तच्छुद्ध्यै सेव्यते तीर्थैः प्रयागमधिकं ततः
॥६८॥प्रयागस्य गुणान्ज्ञात्वा शिवशर्मा द्विजः सुधीः ॥
तत्र माघमुष्त्वाऽथ प्राप वाराणसीं पुरीम्
॥६९॥प्रवेश एव संवीक्ष्य स देहलिविनायकम् ॥
अन्वलिंपत्ततो भक्त्या साज्यसिंदूरकर्दमैः
॥७०॥निवेद्यमोदकान्पंच वंचयंतं निजं जनम् ॥
महोपसर्गवर्गेभ्यस्ततोंऽतः क्षेत्रमाविशत्
॥७१॥आगत्य दृष्ट्वा मणिकर्णिकायामुदग्वहां स्वर्गतरंगिणीं सः ॥
संक्षीणपुण्येतरपुण्यकर्मणां नृणां गणैः स्थाणुगणैरिवावृताम्
॥७२॥सचैलमाप्लुत्य जलेऽमलेऽमलेऽविलंबमालंबित शुद्धबुद्धिः ॥
संतर्प्य देर्वीषमनुष्यदिव्यपितॄन्पितॄन्स्वान्सहि कर्मकांडवित्
॥७३॥विधाय च द्राक्स हि पंचतीर्थिकां विश्वेशमाराध्य ततो यथास्वम् ॥
पुनःपुनर्वीक्ष्यपुरीं पुरारेरिदं मयालोकिनवेति विस्मितः ॥
न स्वः पुरी सा त्वनया पुरासमं समंजसापि प्रतिसाम्यमावहेत ॥
प्रबंधभेदाद्व्यतिरिक्तपुस्तकप्रतिर्यथा सल्लिपिभेदभंगतः
॥७५॥पयोपि यत्रत्यमचिंत्यवैभवं दिविस्थिता साधुसुधाप्यतोमुधा ॥
तथा प्रसूतेस्तु पयोधरे पयो न पीयते पीतमिदं यदि क्वचित्
॥७६॥अनामयाश्चिंतनया न येशितुर्जनामनाग्यत्र विना पिनाकिना ॥
न कर्मसत्कर्मकृतोपि कुर्वतेऽनुकुर्वते शर्वगणांश्च सर्वतः ॥
न वर्ण्यते कैः किल काशिकेयं जंतोः स्थितस्यात्र यतोंतकाले ॥
पचेलिमैः प्राक्कृतपुण्यभारैरोंकारमोंकारयतींदुमौलिः
॥७८॥संसारिचिंतामणिरत्र यस्मात्तं तारकं सज्जनकर्णिकायाम् ॥
शिवोभिधत्ते सहसांऽतकाले तद्गीयतेसौ मणि कर्णिकेति
॥७९॥मुक्तिलक्ष्मी महापीठ मणिस्तच्चरणाब्जयोः ॥
कर्णिकेयं ततः प्राहुर्यां जना मणिकर्णिकाम्
॥८०॥जरायुजांडजोद्भिज्जाः स्वेदजाह्यत्र वासिनः ॥
न समा मोक्षभाजस्ते त्रिदशैर्मुक्तिदुर्दशैः
॥८१॥मम जन्म वृथाजातं दुर्वृत्तस्य जडात्मनः ॥
नाद्ययावन्मयै क्षिष्ट काशिका मुक्तिकाशिका
॥८२॥पुनःपुनश्च तत्क्षेत्रमतिथीकृत्यनेत्रयोः ॥
विचित्रं च पवित्रं च तृप्तिं नाधिजगाम ह
॥८३॥सप्तानां च पुरीणां हि धुरी णामवयाम्यहम् ॥
वाराणसीं सुनिर्वाणविश्राणनविचक्षणाम्
॥८४॥तथापि न चतस्रोन्या मया दृग्गोचरीकृताः ॥
तासां प्रभावं विज्ञायाप्यागमिष्याम्य हं पुनः
॥८५॥तीर्थयात्रां प्रतिदिनं कुर्वन्नूनं सवत्सरम् ॥
न प्राप सर्वतीर्थानि तीर्थं काश्यां तिलेतिले
॥८६॥अगस्तिरुवाच
जानन्न पि गुणान्देवि क्षेत्रस्यास्य परान्द्विजः ॥
नाना प्रमाणैः प्रवणो निरगात्स तथाप्यहो
॥८७॥किं कुर्वंति हि शास्त्राणि सप्रमाणानि सुंदरि ॥
महामायां भवित्री तां को निवारयितुं क्षमः
॥८८॥कः समुच्चलितं चेतस्तोयंवा संप्रतीपयेत् ॥
प्रोच्चथानस्थितमपि स्वभावोयच्चलस्तयोः
॥८९॥शिवशर्मा व्रजन्सोथ देशाद्देशांतरं क्रमात् ॥
महाकाल पुरीं प्राप कलिकालविवर्जिताम्
॥९०॥कल्पेकल्पेखिलंविश्वं कालयेद्यः स्वलीलया ॥
तं कालं कलयित्वा यो महाकालो भवत्किल
॥९१॥पापादवंती सा विश्वमवंतीति निगद्यते ॥
युगेयुगेन्यनाम्नी सा कलावुज्जयिनीति च
॥९२॥विपन्नो यत्र वै जंतुः प्राप्यापि शवतां स्फुटम् ॥
न पूतिगंधमाप्नो ति समुच्छ्रयति न क्वचित्
॥९३॥यमदूता न यस्यां हि प्रविशंति कदाचन ॥
परःकोटीनि लिंगानि तस्यां संति पदेपदे
॥९४॥हाटकेशो महाकालस्तारके शस्तथैव च ॥
एकलिंगं त्रिधा भूत्वा त्रिलोकीं व्याप्य संस्थितम्
॥९५॥ज्योतिः सिद्धवटे ज्योतिस्ते पश्यंतीह ये द्विजाः ॥
अथवाश्रीमहाकालद्रष्टारः पुण्यराशयः
॥९६॥महाकालस्य तल्लिंगं यैर्दृष्टं कष्टिभिः क्वचित ॥
न स्पृष्टास्ते महापापैर्न दृष्टास्ते यमोद्भटैः
॥९७॥महाकालपताकाग्रैः स्पृष्टपृष्ठास्तुरंगमाः ॥
अरुणस्य कशाघातं क्षणं विश्रमयंति खे
॥९८॥महाकालमहाकालमहाकालेतिसंततम् ॥
स्मरतःस्मरतो नित्यं स्मरकर्तृस्मरांतकौ
॥९९॥एवमाराध्य भूतेशं महाकालं ततो द्विजः ॥
जगाम नगरीं कांतीं कांतां त्रिभुवनादपि
॥१००॥लक्ष्मीकांतः स्वयं साक्षाज्जंतूंस्तत्रनिवासिनः ॥
श्रीकांतानेव कुरुते परत्रेह च निश्चितम्
॥१॥दृष्ट्वा कांतीं कांतिमतीं कांतिमद्भिर्निषेविताम् ॥
कांतिमानभवत्सोपि नाकांतिस्तत्र कस्यचित्
॥२॥तत्र कृत्यं च यत्कृत्यं तत्कृत्वा सर्वकृत्यवित् ॥
सप्तरात्रमुषित्वा तु ययौ द्वारवतीं पुरीम्
॥३॥चतुर्णामपि वर्गाणां यत्र द्वाराणि सर्वतः ॥
अतो द्वारवतीत्युक्ता विद्वद्भिस्तत्त्ववेदिभिः
॥४॥अस्थीन्यपि च जंतूनां यत्र चक्रांकितान्यहो ॥
किं चित्रं तत्र यत्र स्युः शंखचक्रांकितैः करैः
॥५॥अंतकः शिक्षयत्येव निजदूतान्मुहुर्मुहुः ॥
ते त्याज्या यैर्द्वारवत्या नामापि परिगृह्यते
॥६॥श्रीखंडे क्व स आमोदः स्वर्णे वर्णः क्व तादृशः ॥
तत्पावित्र्यं क्व वै तीर्थे तद्गोपीचंदने यथा
॥७॥दूताः शृण्वंतु यद्भालं गोपचंदनलांछितम् ॥
ज्वलदिंगलवत्सोपि दूरे त्याज्यः प्रयत्नतः
॥८॥तुलस्यलंकृता ये ये तुलसी नामजापकाः ॥
तुलसीवनपाला ये ते त्याज्या दूरतो भटाः
॥९॥युगेयुगे द्वारवत्या रत्नानि परितो मुषन् ॥
अब्धीरत्नाकरोद्यापि लोकेषु परिगीयते
॥११०॥द्वारवत्यां म्रियंते ये जंतवः कालनोदिताः ॥
चतुर्भुजाः स्युर्वैकुंठे ते पीतांबरधारिणः
॥११॥तत्रापि संतर्प्य पितॄन्ससदेवर्षिमानवान् ॥
तत्र तेषु च तीर्थेषु सस्नौ सर्वेष्वतंद्रितः
॥१२॥ततो मायापुरीं प्राप्तो दुष्प्रापां पापकारिभिः ॥
यत्र सा वैष्णवी माया मायापाशैर्नपाशयेत्
॥१३॥केचिदूचुर्हरिद्वारं मोक्षद्वारं ततः परे ॥
गंगाद्वारं च केप्याहुः केचिन्मायापुरं पुनः
॥१४॥यतो विनिर्गता गंगा ख्याता भागीरथी भुवि ॥
यन्नामोच्चारणात्पुंसां पापं या ति सहस्रधा
॥१५॥वैकुंठस्यैकसोपानं हरिद्वारं जगुर्जनाः ॥
अत्राप्लुता नरा यांति तद्विष्णोःपरमं पदम्
॥१६॥तीर्थोपवासकं कृत्वा निशाजागरणं तथा ॥
प्रातः स्नात्वा च गंगायां तर्प्यान्संतर्पप्य सर्वतः
॥१७॥यावत्स पारणं कर्तुमियेष द्विजसत्तमः ॥
तावच्छीतज्वराक्रांतश्चकंपेऽत्यर्थमातुरः
॥१८॥वैदेशिकस्तथैकाकी तथाऽतिज्वरपीडितः ॥
चिंतामवाप महती किमेतत्समुपस्थितम्
॥१९॥चिंतार्णवे निमग्नोभूत्त्यक्ताशो जीविते धने ॥
सांयात्रिक इवागाधे भिन्नपोतो महार्णवे
॥१२०॥क्वक्षेत्रं क्व कलत्रं मे क्व पुत्राः क्व च तद्वसु ॥
क्व तद्विचित्रं वै हर्म्यं क्व सा पुस्तकसंभृतिः
॥२१॥अद्यापि नायुः पर्याप्तं प लितं न तथा मयि ॥
ज्वरोयं दारुणः प्राप्तः कालज्ञश्चातिदारुणः
॥२२॥मृत्युर्मूर्ध्निकृतावासो वासो दूरे व्यवस्थितः ॥
अग्नौ गृहोपरि प्राप्ते कूपं तु खनयेदिह
॥२३॥किमेभिश्चिंतनैर्व्यर्थैरतितापकरैर्मम ॥
चिंतयामि हृषीकेशं शिवदं शिवमेव च
॥२४॥अथवा मुक्त्युपायो वै मयैकः सदनुष्ठितः ॥
मुक्तिपुर्यस्तु सप्तैताः स्वनेत्रविषयीकृताः
॥२५॥स्वर्गापवर्गयोरेकः साध्यो हि विदुषा ध्रुवम् ॥
तयोरसाधने पश्चात्संतापेन च तप्यते
॥२६॥अथवा चिंतया किं मे त्वनया दुरवस्थया ॥
रणे वा मरणं श्रेयस्तीर्थेवात्र यथा मम
॥२७॥किमहं मंदभागीव रथ्यां क्वापि म्रियेधुना ॥
भागीरथ्यां म्रिये चाद्य का चिंता मम मूढवत्
॥२८॥चर्मास्थि संचयेनाहमनेन वपुषा ध्रुवम् ॥
प्राप्स्यामि निधनादत्र सिद्धिं नैःश्रेयसीं ध्रुवम्
॥२९॥एवं चिंतयतस्तस्य पीडासीदतिदारुणा ॥
कोटि वृश्चिकदष्टस्य यावस्था तामवाप सः
॥१३०॥स्मर्तव्यं विस्मृतं सर्वं क्वाहं कोहं न वेत्ति च ॥
दिनानि सप्तसप्तेति स्थित्वा पंचत्वमागतः
॥३१॥तावद्वैकुठभुवनाद् विमानं समुपस्थितम् ॥
तार्क्ष्योपलक्षितो यत्र ध्वजश्चातिसमुच्छ्रितः
॥३२॥अधिष्ठितं सुकन्यानां स्वर्णकौशेयवाससाम् ॥
चामरव्यग्रहस्तानां सहस्रेणातिविस्तृतम्
॥३३॥पुण्यशीलसुशीलाभ्यां गणाभ्यां च विराजितम् ॥
चतुर्भुजाभ्यां स्वास्याभ्यां किंकिणीजालमालितम्
॥३४॥तद्विमानमथारुह्य पीतवासाश्चतुर्भुजः ॥
अलंचक्रे नभोवर्त्म स द्विजो दिव्यभूषणः
॥१३५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां सहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सप्तपुरीवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥