मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ३३

3
काशीखण्डः · 33

ज्ञानवापीवर्णनम्

अगस्त्य उवाच

स्कंदज्ञानोदतीर्थस्य माहात्म्यं वद सांप्रतम् ॥

ज्ञानवापीं प्रशंसंति यतः स्वर्गौकसोप्यलम्

॥१॥

स्कंद उवाच

घटोद्भव महाप्राज्ञ शृणु पापप्रणोदिनीम् ॥

ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाधुना

॥२॥

अनादिसिद्धे संसारे पुरा देवयुगे मुने ॥

प्राप्तः कुतश्चिदीशानश्चरन्स्वैरमितस्ततः

॥३॥

न वर्षंति यदाभ्राणि न प्रावर्तंत निम्रगाः ॥

जलाभिलाषो न यदा स्नानपानादि कर्मणि

॥४॥

क्षारस्वादूदयोरेव यदासीज्जलदर्शनम् ॥

प्रथिव्यां नरसंचारे वतर्माने क्वचित्क्वचित्

॥५॥

निर्वाणकमलाक्षेत्रं श्रीमदानंदकाननम् ॥

महाश्मशानं सर्वेषां बीजानां परमूषरम्

॥६॥

महाशयनसुप्तानां जंतूनां प्रतिबोधकम् ॥

संसारसागरावर्त पतज्जंतुतरंडकम्

॥७॥

यातायातातिसंखिन्न जंतुविश्राममंडपम ॥

अनेकजन्मगुणित कर्मसूत्रच्छिदाक्षुरम्

॥८॥

सच्चिदानंदनिलयं परब्रह्मरसायनम् ॥

सुखसंतानजनकं मोक्षसाधनसिद्धिदम्

॥९॥

प्रविश्य क्षेत्रमेतत्स ईशानो जटिलस्तदा ॥

लसत्त्रिशूलविमलरश्मिजालसमाकुलः

॥१०॥

आलुलोके महालिंगं वैकुंठपरमेष्ठिनोः ॥

महाहमहमिकायां प्रादुरास यदादितः

॥११॥

ज्योतिर्मयीभिर्मालाभिः परितः परिवेष्टितम् ॥

वृंदैर्वृंदारकर्षीणां गणानां च निरंतरम्

॥१२॥

सिद्धानां योगिनां स्तोमैरर्च्यमानं निरंतरम् ॥

गीयमानं च गंधर्वैः स्तूयमानं च चारणैः

॥१३॥

अंगहारैरप्सरोभिः सेव्यमानमनेकधा ॥

नीराज्यमानं सततं नागीभिर्मणिदीपकैः

॥१४॥

विद्याधरीकिन्नरीभिस्त्रिकालं कृतमंडनम् ॥

अमरीचमरीराजि वीज्यमानमितस्ततः

॥१५॥

अस्येशानस्य तल्लिंगं दृष्ट्वेच्छेत्यभवत्तदा ॥

स्नपयामि महल्लिंगं कलशैः शीतलैर्जलैः

॥१६॥

चखान च त्रिशूलेन दक्षिणाशोपकंठतः ॥

कुंडं प्रचंडवेगेन रुद्रोरुद्रवपुर्धरः

॥१७॥

पृथिव्यावरणांभांसि निष्क्रांतानि तदा मुने ॥

भूप्रमाणाद्दशगुणैर्यैरियं वसुधावृता

॥१८॥

तैर्जलैः स्नापयांचक्रे त्वत्स्पृष्टैरन्यदेहिभिः तुषारैर्जाड्यविधुरैर्जंजपूकौघहारिभिः

॥१९॥

सन्मनोभिरिवात्यच्छैरनच्छैर्व्योमवर्त्मवत् ॥

ज्योत्स्नावदुज्ज्वलच्छायैः पावनैः शंभुनामवत्

॥२०॥

पीयूषवत्स्वादुतरैः सुखस्पर्शैर्गवांगवत् ॥

निष्पापधीवद्गंभीरैस्तरलैः पापिशर्मवत्

॥२१॥

विजिताब्जमहागंधैः पाटलामोदमोदिभिः ॥

अदृष्टपूर्वलोकानां मनोनयनहारिभिः

॥२२॥

अज्ञानतापसंतप्त प्राणिप्राणैकरक्षिभिः ॥

पंचामृतानां कलशैः स्नपनातिफलप्रदैः

॥२३॥

श्रद्धोपस्पर्शि दृदयलिंग त्रितयहेतुभिः ॥

अज्ञानतिमिरार्काभैर्ज्ञानदान निदायकैः

॥२४॥

विश्वभर्तुरुमास्पर्शसुखातिसुखकारिभिः ॥

महावभृथसुस्नान महाशुद्धिविधायिभिः

॥२५॥

सहस्रधारैः कलशैः स ईशानो घटोद्भव ॥

सहस्रकृत्वः स्नपयामास संहृष्टमानसः

॥२६॥

ततः प्रसन्नो भगवान्विश्वात्मा विश्वलोचनः ॥

तमुवाच तदेशानं रुद्रं रुद्रवपुर्धरम्

॥२७॥

तव प्रसन्नोस्मीशान कर्मणानेन सुव्रत ॥

गुरुणानन्यपूर्वेण ममातिप्रीतिकारिणा

॥२८॥

ततस्त्वं जटिलेशान वरं ब्रूहि तपोधन ॥

अदेयं न तवास्त्यद्य महोद्यमपरायण

॥२९॥

ईशान उवाच

यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि ॥

तदेतदतुलं तीर्थं तव नाम्नास्तु शंकर

॥३०॥

विश्वेश्वर उवाच

त्रिलोक्यां यानि तीर्थानि भूर्भुवःस्वः स्थितान्यपि ॥

तेभ्योखिलेभ्यस्तीर्थेभ्यः शिवतीर्थमिदं परम्

॥३१॥

शिवज्ञानमिति ब्रूयुः शिवशब्दार्थचिंतकाः ॥

तच्च ज्ञानं द्रवीभूतमिह मे महिमोदयात्

॥३२॥

अतो ज्ञानोद नामैतत्तीर्थं त्रैलोक्यविश्रुतम् ॥

अस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते

॥३३॥

ज्ञानोदतीर्थसंस्पर्शादश्वमेधफलं लभेत् ॥

स्पर्शनाचमनाभ्यां च राजसूयाश्वमेधयोः

॥३४॥

फल्गुतीर्थे नरः स्नात्वा संतर्प्य च पितामहान् ॥

यत्फलं समवाप्नोति तदत्र श्राद्धकर्मणा

॥३५॥

गुरुपुष्यासिताष्टम्यां व्यतीपातो यदा भवेत् ॥

तदात्र श्राद्धकरणाद्गयाकोटिगुणं भवेत्

॥३६॥

यत्फलं समवाप्नोति पितॄन्संतर्प्य पुष्करे ॥

तत्फलं कोटिगुणितं ज्ञानतीर्थे तिलोदकैः

॥३७॥

सन्निहत्यां कुरुक्षेत्रे तमोग्रस्ते विवस्वति ॥

यत्फलं पिंडदानेन तज्ज्ञानोदे दिने दिने

॥३८॥

पिंडनिर्वपणं येषां ज्ञानतीर्थे सुतैः कृतम् ॥

मोदंते शिवलोके ते यावदाभूतसंप्लवम्

॥३९॥

अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः ॥

प्रातः स्नात्वाथ पीतांभस्त्वंतर्लिंगमयो भवेत्

॥४०॥

एकादश्यामुपोष्यात्र प्राश्नाति चुलुकत्रयम् ॥

हृदये तस्य जायंते त्रीणि लिंगान्यसंशयम्

॥४१॥

ईशानतीर्थे यः स्नात्वा विशेषात्सोमवासरे ॥

संतर्प्य देवर्षि पितॄन्दत्त्वा दानम स्वशक्तितः

॥४२॥

ततः समर्च्य श्रीलिंगं महासंभारविस्तरैः ॥

अत्रापि दत्त्वा नानार्थान्कृतकृत्योभवेन्नरः

॥४३॥

उपास्य संध्यां ज्ञानोदे यत्पापं काललोपजम् ।

क्षणेन तदपाकृत्य ज्ञानवाञ्जायते द्विजः

॥४४॥

शिवतीर्थमिदं प्रोक्तं ज्ञानतीर्थमिदं शुभम् ॥

तारकाख्यमिदं तीर्थं मोक्षतीर्थमिदं धुवम्

॥४५॥

स्मरणादपि पापौघो ज्ञानोदस्य क्षयेद्ध्रुवम् ॥

दर्शनात्स्पर्शनात्स्नानात्पानाद्धर्मादिसंभवः

॥४६॥

डाकिनीशाकिनी भूतप्रेतवेतालराक्षसाः ॥

ग्रहाः कूष्मांडझोटिंगाः कालकर्णी शिशुग्रहाः

॥४७॥

ज्वरापस्मारविस्फोटद्वितीयकचतुर्थकाः ॥

सर्वे प्रशममायांति शिवर्तार्थजलेक्षणात्

॥४८॥

ज्ञानोदतीर्थपानीयैर्लिंगं यः स्नापयेत्सुधीः ॥

सर्वतीर्थोदकैस्तेन ध्रुवं संस्नापितं भवेत्

॥४९॥

ज्ञानरूपोह मेवात्र द्रवमूर्तिं विधाय च ॥

जाड्यविध्वंसनं कुर्यां कुर्यां ज्ञानोपदेशनम्

॥५०॥

इति दत्त्वा वराञ्छंभुस्तत्रैवांतरधीयत ॥

कृतकृत्यमिवात्मानं सोप्यमंस्तत्रिशूलभृत्

॥५१॥

ईशानो जटिलो रुद्रस्तत्प्राश्य परमोदकम् ॥

अवाप्तवान्परं ज्ञानं येन निर्वृतिमाप्तवान्

॥५२॥

स्कंद उवाच

कलशोद्भव चित्रार्थमितिहासं पुरातनम् ॥

ज्ञानवाप्यां हि यद्वृत्तं तदाख्यामि निशामय

॥५३॥

हरिस्वामीति विख्यातः काश्यामासीद्विजः पुरा ॥

तस्यैका तनया जाता रूपेणाऽप्रतिमा भुवि

॥५४॥

न समा शीलसंपत्त्या तस्या काचन भूतले ॥

कलाकलापकुशला स्वरेणजितकोकिला

॥५५॥

न नारी तादृगस्तीह ना भरी किन्नरी न च [ ॥

विद्याधरी न नो नागी गंधर्वी नासुरी न च

॥५६॥

सर्वसौंदर्यनिलया सर्वलक्षणसत्खनिः ॥

अधिशेते ध्रुवं ध्वांतं तन्मौलिं ब्रध्न साध्वसात्

॥९७॥

तदास्य शरणं यातो मन्ये दर्शभयाच्छशी ॥

दिवापि न त्यजेत्तां तु त्रस्तश्चंडमरीचितः

॥५८॥

तद्भ्रूर्भ्रमरराजीव गंडपत्रलतांतरे ॥

उदंचन्न्यंचदुड्डीन गतेरभ्यासभाजिनी

॥५९॥

तच्चारुलोचनक्षेत्रे विचरंतौ च खंजनौ ॥

सदैव शारदीं प्रीतिं निर्विशेते निजेच्छया

॥६०॥

सुदत्या रदनश्रेणी छेदेषु विषमेषुणा ॥

विहिता कांचनी रेखा क्वेंदावेतावती कला

॥६१॥

प्रायो मदन भूपाल हर्म्य रत्नांतरे शुभे ॥

जितप्रवालसुच्छाये तस्या रदनवाससी

॥६२॥

स्वर्गे मर्त्ये च पाताले नैषा रेखा क्वचित्स्त्रियाम् ॥

तत्कंठरेखात्रितय व्याजेन शपते स्मरः

॥६३॥

शंके चित्त भुवो राज्ञो लसत्पटकुटीद्वयम् ॥

अनर्घ्यरत्नकोशाढ्यं तम्या वक्षोरुहद्वयम्

॥६४॥

अनंगभू नियमतोऽदृश्ये मध्ये नतभ्रुवः ॥

रोमालीलक्षिकामूर्ध्वामिव यष्टिं विधिर्व्यधात्

॥६५॥

तस्या नाभीदरीं प्राप्य कंदर्पोऽनंगता गतः ॥

पुनः प्राप्तुमिवांगानि तप्यते परमं तपः

॥६६॥

गुरुणैतन्नितंबेन महामन्मथ दीक्षया ॥

भुवि के के युवानो न स्वाधीना प्रापितादृशाम्

॥६७॥

ऊरुस्तंभेन चैतस्याः स्तंभवत्कस्यनो मनः ॥

तस्तंभेन मुने वापि सुवृत्तेन सुवर्तनम्

॥६८॥

पादांगुष्ठनखज्योतिः प्रभया कस्य न प्रभा ॥

विवेकजनिताऽध्वंसि मुने तस्या मृगीदृशः

॥६९॥

सा प्रत्यहं ज्ञानवाप्यां स्नायं स्नायं शिवालये ॥

संमार्जनादि कर्माणि कुरुतेऽनन्यमानसा

॥७०॥

तत्पादप्रतिबिंबेषु रेखा शष्पांकुरं चरन् ॥

नान्यद्वनांतरं याति काश्यां यूनां मनोमृगः

॥७१॥

तदास्य पंकजं हित्वा यूनां नेत्रालिमालया ॥

न लतांतरमासेवि अप्यामोदप्रसूनयुक्

॥७२॥

सुलोचनापि सा कन्या प्रेक्षेतास्यं न कस्यचित् ॥

सुश्रवा अपि सा बाला नादत्ते कस्यचिद्वचः

॥७३॥

सुशीला शीलसंपन्ना रहस्तद्विरहातुरैः ॥

प्रार्थितापि सुरूपाढ्यैर्नाभिलाषं बबंध सा

॥७४॥

धनैस्तस्याजनेतापि युवभिः प्रार्थितो बहु ॥

नाशकत्तां सुलीलां सदातुं शीलोर्जितश्रियम्

॥७५॥

ज्ञानोदतीर्थभजनात्सा सुशीला कुमाग्किा ॥

बहिरंतस्तदाऽद्राक्षीत्सर्वलिंगमयं जगत

॥७६॥

कदाचिदेकदा तां तु प्रसुप्तां सदनांगणे ॥

मोहितो रूपसंपत्त्या कश्चिद्विद्याधरोऽहरत्

॥७७॥

व्योमवर्त्मनितां रात्रौ यावन्मलयपर्वतम् ॥

स निनीषति तावच्च विद्युन्माली समागतः

॥७८॥

राक्षसो भीषणवपुः कपालकृतकुंडलः ॥

वसारुधिरलिप्तांगः श्मश्रुलः पिंगलोचनः

॥७९॥

राक्षस उवाच

ममदृग्गोचरं यातो विद्याधरकुमारक ॥

अद्य त्वामेतया सार्धं प्रेषयामि यमालयम्

॥८०॥

इति श्रुत्वाथ सा वाक्यं व्याघ्राघ्राता मृगी यथा ॥

चकंपेऽतीव संभीता कदलीदलवन्मुहुः

॥८१॥

निजघान त्रिशूलेन रक्षो विद्याधरं च तम् ॥

विद्याधरकुमारोपि नितरां मधुराकृतिः

॥८२॥

तद्भीषणत्रिशूलेन भिन्नोस्को महाबलः ॥

जघान मुष्टिघातेन वज्रपातोपमेन तम्

॥८३॥

नरमांसवसामत्तं विद्युन्मालिनमाहवे ॥

चूर्णितो मुष्टिपातेन सोऽपतद्वसुधातले

॥८४॥

राक्षसो मृत्युवशगो वज्रेणेव महीधरः ॥

विद्याधरोपि तच्छूलघातेन विकलीकृतः

॥८५॥

उवाच गद्गदं वाक्यं विघूर्णित विलोचनः ॥

प्रिये मुधा समानीता सुशित्यर्धोक्तिमुच्चरन्

॥८६॥

जहौ प्राणान्रणे वीरस्तां प्रियां परितः स्मरन्

॥८७॥

अनन्यपूर्वसंस्पर्श सुखं समनुभूय सा ॥

तमेव च पतिं मत्वा चक्रे शोकाग्निसात्तनुम्

॥८८॥

लिंगत्रयशरीरिण्यास्तस्याः सान्निध्यतः स हि ॥

दिव्यं वपुः समासाद्य राक्षसस्त्रिदिवं ययौ

॥८९॥

रणे पणीकृतप्राणो विद्याधरसुतोपि सः ॥

अंते प्रियां स्मरन्प्राप जनुर्मलयकेतुतः

॥९०॥

ध्यायंती सापि तं बाला विद्याधरकुमारकम् ॥

विरहाग्नौ विसृष्टासुः कर्णाटे जन्मभागभूत्

॥९१॥

सुतो मलयकेतोस्तां कालेन परिणीतवान् ॥

माल्यकेतुरनंगश्रीः पित्रा दत्तां कलावतीम्

॥९२॥

सापि प्राग्वासनायोगाल्लिंगार्चनरता सती ॥

हित्वा मलयजक्षोदं विभूतिं बह्वमंस्त वै

॥९३॥

मुक्ता वैदूर्य माणिक्य पुष्परागेभ्य एव सा ॥

मेने रुद्राक्षनेपध्यमनर्घ्यं गर्भसुंदरी

॥९४॥

कलावती माल्यकेतुं पतिं प्राप्य पतिव्रता ॥

अपत्यत्रितयं लेभे दिव्यभोगसमृद्धिभाक्

॥९५॥

एकदा कश्चिदौदीच्यो माल्यकेतुं नरेश्वरम् ॥

चित्रकृच्चित्रपटिकां चित्रां दर्शितवानथ

॥९६॥

तां तु चित्रपटीं राजा कलावत्यै समर्पयत् ॥

साथ चित्रपटीं रम्यां संप्रहृष्टतनूरुहा

॥९७॥

मुहुर्मुहुः प्रपश्यंती रहसि प्राणदेवताम् ॥

विसस्मार स्वमपि च समाधिस्थेव योगिनी

॥९८॥

क्षणमुन्मील्य नयने कृत्वा नेत्रातिथिं पटीम् ॥

तर्जन्यग्रमथोत्क्षिप्य स्वात्मानं समबोधयत्

॥९९॥

संभेदोयमसे रम्य उपलोलार्कमग्रतः ॥

उपश्रीकेशवपदं वरणैषा सरिद्वरा

॥१००॥

स्वगें प्रार्थितसंस्पर्शा सैषा स्वर्गतरंगिणी ॥

उदग्वहाभिलष्यंति यां दिवोद्युसदः सदा

॥१॥

अलक्ष्यामोक्षलक्ष्मी र्या वेदांते परिपठ्यते ॥

विमुक्तये सतां सैषा श्रीमती मणिकर्णिका

॥२॥

मरणं मंगलं यत्र सफलं यत्र जीवितम् ॥

स्वर्गस्तृणायते यत्र सैषा श्रीमणिकर्णिका

॥३॥

यत्र संपत्तिसंभारान्विश्राण्य निधनेच्छया ॥

यतिव्रतं समालंब्य तिष्ठते मूलकंदभुक्

॥४॥

यत्र त्रिमार्गं गांगं गां मार्गमाणोमृतान्हरः ॥

स्वमौलिबालचंद्रेण मुक्तिमार्गं प्रदर्शयन्

॥५॥

संसारं यत्र दुर्वारं प्रतारयति शंकरः ॥

मृता अप्यमृतायंते कर्णधाराद्यतो नराः

॥६॥

संसारासारपदवी यत्र स्याददवीयसी ॥

कर्णे जपान्महेशानात्करुणा वरुणालयात्

॥७॥

अनेक भवसंभूत प्रभूत सुकृतैर्नराः ॥

कर्णे जपं भवं यत्र लभंते ते भवापहम्

॥८॥

स्वीकृत्य क्षेत्रसंन्यासं यद्बलेन महाधियः ॥

तृणं कृतातं मन्यंते सेयं श्रीमणिकर्णिका

॥९॥

तृणीकृत्य निजं देहं यत्र राजर्षिसत्तमः ॥

हरिश्चंद्रः सपत्नीको व्यक्रीणाद्भूरयं हि सा

॥११०॥

अभिलष्यंति यत्रत्यमपि वैकुण्ठवासिनः ॥

सैकतं मृदुलं तल्पं सैषा श्रीमणिकर्णिका

॥११॥

अनेक जन्म जनित कर्मसूत्रनियंत्रणम् ॥

उन्मुच्य यत्र मुक्ताः स्युः सैषा श्रीमणिकर्णिका

॥१२॥

सत्यलोकेऽपि ये लोकास्तेऽर्थयंति निरंतरम् ॥

यामहो दीर्घनिद्रायै सेयं श्रीमणिकर्णिका

॥१३॥

अयं हि स कुलस्तंभो यत्र श्रीकालभैरवः ॥

क्षेत्रपापकृतः शास्ति दर्शयंस्तीव्रयातनाम्

॥१४॥

अन्यत्र विहितं पापं नश्येत्काशीनिरीक्षणात् ॥

काश्यां कृतानां पापानां दारुणेयं तु यातना

॥१५॥

कपालमोचनं तीर्थमेतत्तदपि पावनम् ॥

कपालं पतितं यत्र विधेर्भैरवपाणितः

॥१६॥

ऋणत्रयाद्विमुच्यंते यत्र स्नाता नरोतमाः ॥

तीर्थं विशुद्धिजनकं तदेतदृणमोचनम्

॥१७॥

प्रणवाख्यं परंब्रह्म यत्र नित्यं प्रकाशते ॥

सपंचायतनोपेत ॐकारेशोयमद्भुतः

॥१८॥

अश्च उश्च मकारश्च नादोबिंदुश्च पंचमः ॥

पंचात्मकं परंब्रह्म यत्र नित्यं प्रकाशते

॥१९॥

एषा मत्स्योदरी रम्या यत्स्नातो मानवोत्तमः ॥

मातुर्जातूदरदरीं न विशेदेष निश्चयः

॥१२०॥

त्रिलोचनोयं भगवान्कुर्यादेव त्रिलोचनम् ॥

निजभक्तं कृपायुक्तस्त्वपि देशातंर स्थितम्

॥२१॥

असौ कामेश्वरो देवो यः कामान्पूरयेत्सताम् ॥

दुर्वासा अपि यत्राप निजकाममहोदयम्

॥२२॥

स्वयं लीनो महेशोत्र भक्तकामसमृद्धये ॥

तस्मात्स्वर्लीनसंज्ञास्य देवदेवस्य शूलिनः

॥२३॥

वाराणस्यां महादेवो यः पुराणेषु पठ्यते ॥

क्षेत्राभिमानी भगवांस्तत्प्रासादोयमद्भुतः

॥२४॥

असौ स्कंदेश्वरो देवः श्रद्धया यद्विलोकनात् ॥

आजन्मब्रह्मचर्यस्य फलमाप्नोति मानवः

॥२५॥

विनायकेश्वरश्चायं सर्वसिद्धि प्रदायकः ॥

यत्सेवया प्रणश्यंति नृणां सर्वे विनायकाः

॥२६॥

इयं वाराणसी देवी साक्षान्मूर्त्तिमयी शुभा ॥

यस्या विलोकनात्पुंसां भूयो नो गर्भसंभवः

॥२७॥

पार्वतीश्वरलिंगस्य महदायतनं त्विदम् ॥

यत्र नित्यं महेशानो गौर्या सह विमुक्तिदः

॥२८॥

एष भृंगीश्वरः श्रीमान्महापातकनाशनः ॥

जीवन्मुक्तोऽभवद्भृंगी यस्य लिंगस्य सेवया

॥२९॥

चतुर्वेदेश्वरश्चैष चतुर्वेदधरो विधिः ॥

लभेद्यद्वीक्षणाद्विप्रो वेदाध्ययनजं फलम्

॥१३०॥

यज्ञैः संस्थापितं चैतल्लिंगं यज्ञेश्वराभिधम् ॥

यदर्चनाल्लभेन्मर्त्यः सर्वयागफलं महत्

॥३१॥

पुराणेश्वर नामैतल्लिंगमष्टादशांगुलम् ॥

अष्टादशानां विद्यानां स्यादाधारो यदीक्षणात्

॥३२॥

धर्मशास्त्रेश्वरश्चायं स्मृतिभिश्च प्रतिष्ठितः ॥

स्मृत्यध्ययनजं पुण्यं यद्विलोकनतो भवेत्

॥३३॥

सारस्वतमिदं लिंगं सर्वजाड्यविनाशकृत् ॥

सर्वतीर्थेश्वरं लिंगमेतत्सद्यो विशुद्धिदम्

॥३४॥

शैलेश्वरस्य लिंगस्य मंडपोयं महाद्भुतः ॥

सर्वेषां रत्नजातानां यो बिभर्ति परां श्रियम्

॥३५॥

सप्तसागरसंज्ञं वै लिंगमेतन्मनोहरम् ॥

यद्वीक्षणाल्लभेन्मर्त्यः सप्ताब्धिस्नानजं फलम्

॥३६॥

असौ मंत्रेश्वरः श्रीमान्मंत्रजाप्यफलप्रदः ॥

सप्तकोटिमहामंत्रैः स्थापितो यः पुरा युगे

॥३७॥

त्रिपुरेशस्य लिंगस्य पुरः कुंडमिदं महत् ॥

त्रिपुरैः खानितं पूर्वं त्रिपुरारिप्रियं परम्

॥३८॥

इदं वाणेश्वरं लिंगं सहस्रभुजपूजितम् ॥

द्विभुजस्यापि बाणस्य सहस्रभुजहेतुकम्

॥३९॥

वैरोचनेश्वरश्चैष पुरः प्रह्लादकेशवात् ॥

बलिकेशवनामासावेष नारदकेशवः

॥१४०॥

आदिकेशव पूर्वेण त्वयमादित्यकेशवः ॥

भीष्मकेशवनामासौ दत्तात्रेयेश्वरस्त्वयम्

॥४१॥

दत्तात्रेयेश्वरात्पूर्वमेष आदि गदाधरः ॥

भृगुकेशवनामासावेष वामनकेशवः

॥४२॥

नरनारायणावेतौ यज्ञवाराहकेशवः ॥

विदारनारसिंहोयं गोपीगोविंद एष ह

॥४३॥

एष लक्ष्मीनृसिंहस्य प्रासादो रत्नकेतनः ॥

यस्य प्रसादात्प्रह्लादः पदमैंद्रमवाप्तवान्

॥४४॥

अखर्वसिद्धिदः पुंसामेष खर्वविनायकः ॥

शेषमाधवनामासौ शेषेण स्थापितः पुरा

॥४५॥

यस्य भक्ता न दह्यंते त्वपि संवर्तवह्निना ॥

शंखमाधवनामासौ शंखं हत्वात्र संस्थितः

॥४६॥

इदं सारस्वतं स्रोतः परं ब्रह्मरसायनम् ॥

सरस्वत्या महानद्याः संगमो यत्र गंगया

॥४७॥

यत्राप्लुता नरा भूयः संभवंति न भूतले ॥

श्रीबिंदुमाधवस्त्वेष साक्षाल्लक्ष्मीपतिः परः

॥४८॥

श्रद्धया यं नमन्मर्त्यो न वसेद्गर्भवेश्मनि ॥

न दारिद्र्यमवाप्नोति व्याधिभिर्नाभिभूयते

॥४९॥

बिंदुमाधवभक्तो यस्तं यमोपि नमस्यति ॥

प्रणवात्मा य एकोऽस्ति नादबिंदु स्वरूपधृक्

॥१५०॥

अमूर्तं यत्परं ब्रह्म बिंदुमाधव एव सः ॥

एतत्पंचनदं तीर्थं पंचब्रह्मात्मसंज्ञकम्

॥५१॥

यत्र स्नातो न गृह्णीयाच्छरीरं पांचभौतिकम् ॥

एषा सा मंगलागौरी काश्यां परममंगलम्

॥५२॥

यत्प्रसादादवाप्नोति नरोऽत्र च परत्र च ॥

मयूखादित्यसंज्ञोयं रश्मिमाली तमोपहः

॥५३॥

गभस्तीशो महालिंगमेतद्दिव्यमहःप्रदम् ॥

मृकंडुसूनुनाप्यत्र तपस्तप्तं पुरा महत्

॥५४॥

लिंगं संस्थाप्य परमं स्वनाम्नायुःप्रदं परम् ॥

किरणेश्वरनामैतल्लिंगं त्रैलोक्यविश्रुतम्

॥५५॥

सकृन्न तमिदं लोकं नयेत्किरणमालिनः ॥

धौतपापेश्वरं लिंगमेतत्पातकधावनम्

॥५६॥

निर्वाणनरसिंहोयं भक्तनिर्वाणकारणम् ॥

मणिप्रदीपनागोयं महामणिविभूषणः

॥५७॥

यदर्चनान्नरो जातु न नागैः परिभूयते ॥

कपिलेशमिदं लिंगं कपिलेन प्रतिष्ठितम्

॥५८॥

मुच्यंते कपयोप्यस्य दर्शनात्किमु मानवाः ॥

प्रियव्रतेश्वरं लिंगं महदेतत्प्रकाशते

॥५९॥

यस्यार्चनाल्लभेज्जंतुः प्रियत्वं सर्वजन्तुषु ॥

इदमायतनं श्रेष्ठं मणिमाणिक्यनिर्मितम्

॥१६०॥

श्रीमतः कालराजस्य कलिकालार्तिहारिणः ॥

निजभक्तं जनं पाति यः पापात्पापभक्षणः

॥६१॥

क्षेत्रविघ्नकरान्पापान्यातयन्यातना शतैः ॥

इयं मंदाकिनी रम्या तपस्तप्तुमिहागता

॥६२॥

काशीवाससुखं प्राप्य नाद्यापि दिवमीहते ॥

स्नात्वात्र संतर्प्य पितॄञ्छ्राद्धं कृत्वा विधानतः

॥६३॥

नरो न नरकं पश्येदपि दुष्कृतकर्मकृत् ॥

यानि कानि च लिंगानि काश्यां संति सहस्रशः

॥६४॥

रत्नभूतमिदं तेषु लिंगं रत्नेश्वराभिधम् ॥

रत्नेश्वरप्रसादेन भुक्त्वा रत्नान्यनेकशः

॥६५॥

पुरुषार्थमहारत्नं निर्वाणं को न लब्धवान् ॥

कृत्तिवासेश्वरस्यैषा महाप्रासादनिर्मितिः

॥६६॥

यां दृष्ट्वापि नरो दूरात्कृत्तिवासः पदं लभेत् ॥

सर्वेषामपि लिंगानां मौलित्वं कृत्तिवाससः

॥६७॥

ॐकारेशः शिखा ज्ञेया लोचनानि त्रिलोचनः ॥

गोकर्णभारभूतेशौ तत्कर्णौ परिकीर्तितौ

॥६८॥

विश्वेश्वराविमुक्तौ च द्वावेतौ दक्षिणौ करौ ॥

धर्मेशमणिकर्णेशौ द्वौ करौ दक्षिणेतरौ

॥६९॥

कालेश्वरकपर्दीशौ चरणावतिनिर्मलौ ॥

ज्येष्ठेश्वरो नितंबश्च नाभिर्वै मध्यमेश्वरः

॥१७०॥

कपर्दोस्य महादेवः शिरोभूषा श्रुतीश्वरः ॥

चंद्रेशो हृदयं तस्य आत्मा वीरेश्वरः परः

॥७१॥

लिंगं तस्य तु केदारः शुक्रं शुक्रेश्वरं विदुः ॥

अन्यानि यानि लिंगानि परः कोटि शतानि च

॥७२॥

ज्ञेयानि नखलोमानि वपुषो भूषणान्यपि ॥

यावेतौ दक्षिणौ हस्तौ नित्यनिर्वाणदौ हि तौ

॥७३॥

जंतूनामभयं दत्त्वा पततां मोहसागरे ॥

इयं दुर्गा भगवती पितृलिंगमिदं परम्

॥७४॥

इयं हि चित्रघंटेशी घंटाकर्ण ह्रदस्त्वयम् ॥

इयं सा ललिता गौरी विशालाक्षीयमद्भुता

॥७५॥

आशाविनायकस्त्वेष धर्मकूपोयमद्भुतः ॥

यत्र पिंडान्नरो दत्त्वा पितॄन्ब्रह्मपदं नयेत्

॥७६॥

एषा विश्वभुजा देवी विश्वैकजननी परा ॥

असौ बंदी महादेवी नित्यं त्रैलोक्यवंदिता

॥७७॥

निगडस्थानपि जनान्पाशान्मोचयति स्मृता ॥

दशाश्वमेधिकं तीर्थमेतत्त्रैलोक्यवंदितम्

॥७८॥

यत्राहुतित्रयेणापि अग्निहोत्रफलं लभेत् ॥

प्रयागाख्यमिदं स्रोतः सर्वतीर्थोत्तमोत्तमम्

॥७९॥

अशोकाख्यमिदं तीर्थं गंगाकेशव एष वै ॥

मोक्षद्वारमिदं श्रेष्ठं स्वर्ग द्वारमिदं विदुः

॥१८०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे ज्ञानवापीवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥