ओंकारमाहात्म्यम्
स्कंद उवाच
शृणु वातापि संहर्तः काश्यां पातकतंकिनी ॥
पद्मकल्पे तु या वृत्ता दमनस्य द्विजन्मनः
॥१॥भारद्वाजस्य तनयो दमनो नाम नामतः ॥
कृतमौंजीविधिः सोथ विद्याजातं प्रगृह्य च
॥२॥संसारदुःखबहुलं जीवितं चापि चंचलम् ॥
विज्ञाय दमनो विद्वान्निर्जगाम गृहान्निजात्
॥३॥कांचिद्दिशं समालंब्य निर्वेदं परमं गतः ॥
प्रत्याश्रमं प्रतिनगं प्रत्यब्धि प्रतिकाननम्
॥४॥प्रतितीर्थं प्रतिनदि स बभ्राम तपोयुतः ॥
यावंत्यायतनानीह तिष्ठंति परितो भुवम्
॥५॥अध्युवास स तावंति संयतेंद्रियमानसः ॥
परं न मनसः स्थैर्यं क्वापि प्रापि च तेन वै
॥६॥मनोरथोपदेष्टा च कुत्रचित्क्वापि नेक्षितः ॥
कदाचिद्दैवयोगात्स दमनो नाम तापसः
॥७॥रेवातटे निरैक्षिष्ट तीर्थं चामरकंटकम् ॥
महदायतनं पुण्यमोंकारस्यापि तत्र वै
॥८॥दृष्ट्वा हृष्टमना आसीच्चेतः स्थैर्यमवाप ह ॥
अथ पाशुपतांस्तत्र स निरीक्ष्य तपोधनान्
॥९॥304b विभूतिभूषिततनून्कृतलिंगसमर्चनान् ॥
विहितप्राणयात्रांश्च कृतागमविचारणान्
॥१०॥स्वस्थोपविष्टान्स्वपुरोरग्रतोऽचलमानसान् ॥
प्रणम्योपाविशत्तत्र तदाचार्यस्य सन्निधौ
॥११॥प्रबद्धहस्तयुगलः प्रणमतरकंधरः ॥
अथ पाशुपताचार्यो गर्गो नाम महामुनिः
॥१२॥वार्धकेन समाक्रांतस्तपसा कृशविग्रहः ॥
शंभोराराधनेनिष्ठः श्रेष्ठः सर्वतपस्विषु
॥१३॥पप्रच्छ दमनं चेति कस्त्वं कस्मादिहागतः ॥
तरुणोपि विरक्तोसि कुतस्तद्वद सत्तम
॥१४॥इति प्रणयपूर्वं स निशम्य दमनोऽब्रवीत् ॥
भगोः पाशुपताचार्य सर्वज्ञाराधनप्रिय
॥१५॥कथयामि यथार्थं ते निजचेतोविचेष्टितम् ॥
अहं ब्राह्मणदायादो वेदशास्त्रकृतश्रमः
॥१६॥संसारासारतां ज्ञात्वा वानप्रस्थमशिश्रियम् ॥
अनेनैव शरीरेण महासिद्धिमभीप्सता
॥१७॥स्नातं बहुषु तीर्थेषु मंत्रा जप्तास्तु कोटिशः ॥
देवताः सेविता बह्व्यो हवनं च कृतं बहु
॥१८॥शुश्रूषिताश्च गुरवो बहवो बह्वनेहसम् ॥
महाश्मशानेषु निशा भूयस्योप्यतिवाहिताः
॥१९॥शिखराणि गिरींद्राणां मया चाध्युषितान्यहो ॥
दिव्यौषधि सहस्राणि मया संसाधितान्यपि
॥२०॥रसायनानि बहुशः सेवितानि मया पुनः ॥
महासाहसमालंब्य सिद्धाध्युषितकंदराः
॥२१॥मया प्रविष्टा बहुशः कृतांतवदनोपमाः ॥
तपश्चापि महत्तप्तं बहुभिर्नियमैर्यमैः
॥२२॥परं किंचित्क्वचिन्नैक्षि सिद्ध्यंकुरमपि प्रभो ॥
इदानीं त्वामनुप्राप्य महीं पर्यटता मया
॥२३॥मनसः स्थैर्यमापन्नमिव संप्राप्तसिद्धिना ॥
अवश्यं त्वन्मुखांभोजाद्यद्वचो निःसरिष्यति
॥२४॥तेनैव महती सिद्धिर्भवित्री मम नान्यथा ॥
तद्ब्रूहि सूपदेशं च कथं सिद्धिर्भवेन्मम
॥२५॥अनेनैव शरीरेण पार्थिवेन प्रथीयसी ॥
दमनस्य निशम्येति गर्गाचार्यो वचस्तदा
॥२६॥प्रत्यक्षदृष्टं प्रोवाच महदाश्चर्यमुत्तमम् ॥
सर्वेषां शृण्वतां तत्र शिष्याणां स्थिरचेतसाम् ॥
मुमुक्षूणां धृतवतां महापाशुपतं व्रतम्
॥२७॥गर्ग उवाच
अनेनैवेह देहेन यदि त्वं सिद्धिकामुकः ॥
शृणुष्वावहितो भूत्वा तदा ते कथयाम्यहम्
॥२८॥अविमुक्ते महाक्षेत्रे सर्वसिद्धिप्रदे सताम् ॥
धर्मार्थकाममोक्षाख्य रत्नानां परमाकरे
॥२९॥305a समाश्रितानां जंतूनां सर्वेषां सर्वकर्मणाम् ॥
शलभानां प्रदीपाभे तमःस्तोम महाद्विपि
॥३०॥कर्मभूरुह दावाग्नौ संसाराब्ध्यौर्वशोचिपि ॥
निर्वाणलक्ष्मी क्षीराब्धौ सुखसंकेतसद्मनि
॥३१॥दीर्घनिद्रा प्रसुप्तानां परमोद्बोधदायिनि ॥
यातायातश्रमापन्नप्राणिमार्गमहीरुहि
॥३२॥अनेकजन्मजनित महापापाद्रिवज्रिणि ॥
नामोच्चारकृतां पुंसां महाश्रेयो विधायिनि
॥३३॥विश्वेशितुः परेधाम्नि सीम्नि स्वर्गापवर्गयोः ॥
स्वर्धुनी लोलकल्लोला नित्यक्षालित भूतले
॥३४॥एवंविधे महाक्षेत्रे सर्वदुःखौघहारिणि ॥
प्रत्यक्षं मम यद्वृत्तं तद्ब्रवीमि महामते
॥३५॥यत्र कालभयं नास्ति यत्र नास्त्येनसो भयम् ॥
तत्क्षेत्रमहिमानं कः सम्यग्वर्णयितुं क्षमः
॥३६॥तीर्थानि यानि लोकेस्मिञ्जंतूनामघहान्यहो ॥
तानि सर्वाणि शुद्ध्यर्थं काशीमायांति नित्यशः
॥३७॥अपि काश्यां वसेद्यस्तु सर्वाशी सर्वविक्रयी ॥
स यां गतिं लभेन्मर्त्यो यज्ञैर्दानैर्न सान्यतः
॥३८॥रागबीजसमुद्भूतः संसारविटपो महान् ॥
दीर्घस्वाप कुठारेण च्छिन्नः काश्यां न वर्धते
॥३९॥सर्वेषामूषराणां तु काशी परम ऊषरः ॥
वप्तुर्बीजमिदं तस्मिन्नुप्तं नैव प्ररोहति
॥४०॥स्मरिष्यंतीह ये काशीमवश्यं तेपि साधवः ॥
तेप्यघौघ विनिर्मुक्ता यास्यंति गतिमुत्तमाम्
॥४१॥विभूतिः सर्वलोकानां सत्यादीनां सुभंगुरा ॥
अभंगुरा विमुक्तस्य सा तु लभ्या शिवाज्ञया
॥४२॥कृमिकीटपतंगानामविमुक्ते तनुत्यजाम् ॥
विभूतिर्दृश्यते या सा क्वास्ति ब्रह्मांडमंडले
॥४३॥वाराणसी यदा प्राप्ता कदाचित्कालपर्ययात् ॥
स उपायो विधातव्यो येन नो निष्क्रमो बहिः
॥४४॥पूर्वतो मणिकर्णीशो ब्रह्मेशो दक्षिणे स्थितः ॥
पश्चिमे चैव गोकर्णो भारभूतस्तथोत्तरे
॥४५॥305b इत्येतदुत्तमं क्षेत्रमविमुक्ते महाफलम् ॥
मणिकर्णी ह्रदे स्नात्वा दृष्ट्वा विश्वेश्वरंविभुम्
॥४६॥क्षेत्रं प्रदक्षिणीकृत्य राजसूयफलं लभेत् ॥
तत्र श्राद्धप्रदातुश्च मुच्यंते प्रपितामहाः
॥४७॥अविमुक्त समं क्षेत्रमपि ब्रह्मांडगोलके ॥
न विद्यते क्वचित्सत्यं सत्यं साधकसिद्धिदम्
॥४८॥रक्षंति सततं क्षेत्रं यत्र पाशासिपाणयः ॥
महापारिषदा उग्राः क्रूरेभ्योऽक्रूरबुद्धयः
॥४९॥प्राग्द्वारमट्टहासश्च गणकोटिपरीवृतः ॥
रक्षेदहर्निशं क्षेत्रं दुर्वृत्तेभ्यो विभीषणः
॥५०॥तथैव भूतधात्रीशः क्षेत्रदक्षिणरक्षकः ॥
गोकर्णः पश्चिमद्वारं पाति कोटिगणावृतः
॥५१॥उदग्द्वारं तथा रक्षेद्घंटाकर्णो महागणः ॥
ऐशंकोणं छागवक्त्रो भीषणो वह्निदिग्दलम्
॥५२॥रक्षः काष्ठां शंकुकर्णो दृमिचंडो मरुद्दिशम् ॥
इत्थं क्षेत्रं सदा पांति गणा एतेऽति भास्वराः
॥८५३॥कालाक्षोरण भद्रस्तु कौलेयः कालकंपनः ॥
एते पूर्वेण रक्षंति गंगापारे स्थिता गणाः
॥५४॥वीरभद्रो नभश्चैव कर्दमालिप्तविग्रहः ॥
स्थूलकर्णो महाबाहुरसिपारे व्यवस्थिताः
॥५५॥विशालाक्षो महाभीमः कुंडोदरमहोदरौ ॥
रक्षंति पश्चिमद्वारं देहलीदेशसंस्थिताः
॥५६॥नंदिसेनश्च पंचालः खरपादकरंटकः ॥
आनंदोगोपको बभ्रू रक्षंति वरणातटे
॥५७॥तस्मिन्क्षेत्रे महापुण्ये लिंगमोंकारसंज्ञकम् ॥
तत्र सिद्धिं परां प्राप्ता देहेनानेन साधकाः
॥५८॥कपिलश्चैव सावर्णिः श्रीकंठः पिगलोंशुमान् ॥
एते पाशुपताः सिद्धास्तल्लिंगाराधनेन हि
॥५९॥एकदा तस्य लिंगस्य कृत्वा पंचापिपूजनम् ॥
नृत्यतः सहुडुत्कारं तस्मिँल्लिंगे लयं ययुः
॥६०॥अन्यच्च ते प्रवक्ष्यामि तत्र यद्वृत्तमद्भुतम् ॥
निशामय महाबुद्धे दमन द्विजसत्तम
॥६१॥एका भेकी मुने तत्र चरंती लिंग सन्निधौ ॥
प्रदक्षिणं सदा कुर्यान्निर्माल्याक्षतभक्षिणी
॥६२॥सा तत्र मृत्युं न प्राप शिवनिर्माल्यभक्षणात् ॥
क्षेत्रादन्यत्र मरणं जातं तस्यास्तदेनसः
॥६३॥वरं विषमपिप्राश्यं शिवस्वं नैव भक्षयेत् ॥
विषमेकाकिनं हंति थिवस्वं पुत्रपौवकम्
॥६४॥शिवस्य परिपुष्टांगाः स्पर्शनीया न साधुभिः ॥
तेन कर्मविपाकेन ततस्ते रौरवौकसः
॥६५॥कश्चित्काकः समालोक्य मंडूकीं तामितस्ततः ॥
पोप्लूयमानामादाय चंच्वा क्षेत्राद्बहिर्गतः
॥६६॥306a वर्षाभ्वी तेन सा क्षिप्ता काकेन क्षेत्रबाह्यतः ॥
अथ सा कालतो भेकी तत्रैव क्षेत्रसत्तमे
॥६७॥प्रदक्षिणीकरणतो लिंगस्यस्पर्शनादपि ॥
पुण्यापुण्यवतीजाता कन्यापुष्पबटोर्गृहे
॥६८॥शुभावयवसंस्थाना शुभलक्षणलक्षिता ॥
परं गृध्रमुखी जाता निर्माल्याक्षतभक्षणात्
॥६९॥सम्यग्गीतरहस्यज्ञा नितरां मधुरस्वरा ॥
सप्तस्वरास्त्रयो ग्रामा मूर्च्छनास्त्वैकविंशतिः
॥७०॥ताना एकोनपंचाश ताला एकोत्तरंशतम् ॥
रागाः षडेव तेषां तु पंचपंचापि चांगनाः
॥७१॥306b षड्विंशद्रागरागिण्य इति रागि मुदावहाः ॥
देशकाल विभेदेन पंचषष्टिस्तथा पराः
॥७२॥यावंत एव तालाः स्यु रागास्तावंत एव हि ॥
इति गीतोपनिषदा प्रत्यहं सा शुभव्रता
॥७३॥माधवी मधुरालापा सदोंकारं समर्चयेत् ॥
प्राप्याप्यनर्घ्यतारुण्यं सा तु पुष्पबटोः सुता
॥७४॥प्राग्जन्मवासनायोगादोंकारं बह्वमंस्त वै ॥
स्वभाव चंचलं चेतस्तस्यास्तल्लिंग सेवनात्
॥७५॥दमनस्थैर्यमगमद्योगेनेव महात्मनः ॥
न दिवा बाधयांचक्रे क्षुत्तृण्निद्रा क्षपा सुताम्
॥७६॥अतंद्रितमना आसीत्सा तल्लिंग निरीक्षणे ॥
अक्ष्णोर्निमेषा यावंतस्तस्या आसन्दिवानिशम्
॥७७॥तावत्कालस्तया साध्व्या महान्विघ्नोऽनुमीयते ॥
निमेषांतरितः कालो यो यो व्यथोंगतो मम ॥
लिंगानवेक्षणात्तत्र प्रायश्चित्तं कथं भवेत
॥७८॥इति संचितयंत्येव सेवां तत्याज नोंकृतेः ॥
जलाभिलाषिणी सा तु लिंगनामामृतं पिबेत्
॥७९॥नान्य द्दिदृक्षिणी तस्या अक्षिणी श्रुतिगे अपि ॥
विहाय लिंगमोंकारं हृद्विहायः स्थितं सताम्
॥८०॥तस्याः शब्दग्रहौ नान्य शब्दग्रहणतत्परौ ॥
अतीव निपुणौ जातौ तत्सन्माल्यकरौकरौ
॥८१॥नान्यत्र चरणौ तस्याश्चरतः सुखवांछया ॥
त्यक्त्वोंकाराजिरक्षोणीं क्षुण्णां निर्वाणपद्मया
॥८२॥ओंकारं प्रणवं सारं परब्रह्मप्रकाशकम् ॥
शब्दब्रह्मत्रयीरूपं नादबिंदुकलालयम्
॥८३॥सदक्षरं चादिरूपं विश्वरूपं परावरम् ॥
वरं वरेण्यं वरदं शाश्वतं शांतमीश्वरम्
॥८४॥307a सर्वलोकैकजनकं सर्वलोकैकरक्षकम् ॥
सर्वलोकैकसंहर्तृ सर्वलोकैकवंदितम्
॥८५॥आद्यंतरहितं नित्यं र्शिवं शंकरमव्ययम् ॥
एकगुणत्रयातीतं भक्तस्वांतकृतास्पदम्
॥८६॥निरुपाधिं निराकारं निर्विकारं निरंजनम् ॥
निर्मलं निरहंकारं निष्प्रपंचं निजोदयम्
॥८७॥स्वात्माराममनंतं च सर्वगं सर्वदर्शिनम् ॥
सर्वदं सर्वभोक्तारं सर्वं सर्वसुखास्पदम्
॥८८॥वागिंद्रियं तदीयं च प्रोच्चरत्तदहर्निशम् ॥
नामांतरं न गृह्णाति क्वचिदन्यस्यकस्यचित्
॥८९॥एतन्नामाक्षररसं रसयंती दिवानिशम् ॥
रसना नैव जानाति तस्या अन्यद्रसांतरम्
॥९०॥संमार्जनं रंगमालाः प्रासादं परितः सदा ॥
विदध्यान्माधवी तत्र तथार्चा पात्रशोधनम्
॥९१॥तत्र पाशुपता ये वै प्रणवेशार्चने रताः ॥
तांश्च शुश्रूषयेन्नित्यं पितृबुद्ध्याति भक्तितः
॥९२॥वैशाखस्य चतुर्दश्यामेकदा सा तु माधवी ॥
रात्रौ जागरणं कृत्वा दिवोपवसान्विता
॥९३॥यात्रामिलितभक्तेषु प्रातर्यातेषु सर्वतः ॥
संमार्जनादिकं कृत्वा लिंगमभ्यर्च्य हर्षतः
॥९४॥गायंती मधुरं गीतं नृत्यंती निजलीलया ॥
ध्यायंती लिंगमोंकारं तत्र लिंगे लयं ययौ
॥९५॥अनेनैव शरीरेण पार्थिवेन महामतिः ॥
अस्मदाचार्यमुख्यानां पश्यतां च तपस्विनाम्
॥९६॥प्रादुर्बभूव यल्लिंगाज्ज्योतिर्जटिलितांबरम् ॥
तत्र ज्योतिषि सा बाला ज्योतिर्मय्यपि साप्यभूत्
॥९७॥राधशुक्लचतुर्दश्यामद्यापि क्षेत्रवासिनः ॥
तत्र यात्रां प्रकुर्वंति महोत्सवपुरःसराः
॥९८॥तत्र जागरणं कृत्वा चतुर्दश्यामुपोषिताः ॥
प्राप्नुवंति परं ज्ञानं यत्रकुत्रापि वै मृताः
॥९९॥ब्रह्मांडोदर मध्ये तु यानि तीर्थानि सर्वतः ॥
तानि वैशाखभूतायामायांत्योंकृति दर्शने
॥१००॥लिंगाग्रे श्रीमुखी नाम्नी गुहास्ति परमोत्तमा ॥
पातालस्य च तद्द्वारं तत्र सिद्धा वसंति हि
॥१॥तिष्ठेयुः पंचरात्रं ये गुहायां तत्र सुव्रताः ॥
ते नागकन्याः पश्यंति ब्रूयुस्ताश्च शुभाशुभम्
॥२॥कंदरोत्तरदिग्भागे तत्र कूपो रसोदकः ॥
आषण्मासं च तत्पीत्वा पिबेद्ब्रह्मरसायनम्
॥३॥तत्र नादेश्वरं लिंगं दृष्ट्वा नादनिदानभूः ॥
सर्वनादात्मकं विश्वं तच्छ्रवो गोचरी भवेत्
॥४॥तत्र मत्स्योदरीं स्नात्वा स्वर्धुनीं वरुणाप्लुताम् ॥
कृतकृत्यो भवेज्जंतुर्नैव शोचति कुत्रचित्
॥५॥307b असंख्याता गताः सिद्धिमोंकारेश्वरसेवकाः ॥
पार्थिवेनैव देहेन दिव्यभूतेन तत्क्षणात्
॥६॥अविमुक्तं परं क्षेत्रं ब्रह्मांडादपि सर्वतः ॥
ततोपि पर ओंकार उक्तो मत्स्योदरी तटे
॥७॥प्रणवेशोंऽग यैः काश्यां न नतो नापि चार्चितः ॥
किमर्थं ते समुत्पन्ना मातृतारुण्यहारिणः
॥८॥यदा प्रभृति विश्वेशो मंदरादागतोऽभवत् ॥
तस्मिन्नानंद गहने तदाप्रभृति सत्तम
॥९॥सर्वाण्यायतनान्याशु साब्धीनि स गिरीण्यपि ॥
स नदीनि स तीर्थानि स द्वीपानि ययुस्ततः
॥११०॥इदानीं मम भाग्येन स्मारितोहं त्वया मुने ॥
अहमप्यागमिष्यामि यामः काशीं शनैः शनैः
॥११॥एतेपि मम शिष्या ये महापाशुपतव्रताः ॥
काशीं यियासवस्तेपि यतः सर्वे मुमुक्षवः
॥१२॥अपि वार्धकमासाद्य यैः काशी नैव शीलिता ॥
मानुषे दुर्लभे नष्टे कुतस्तेषां महासुखम्
॥१३॥यावन्नेंद्रिय वैकल्यं यावन्नैवायुषः क्षयः ॥
तावत्सेव्यं प्रयत्नेन शंभोरानंदकाननम्
॥१४॥य आनंदवनं शंभोः शिश्रियुः श्रीनिकेतनम् ॥
अचलाश्रीर्न मुंचेत्तान्महासौख्यैकशेवधीन्
॥१५॥इत्याख्याय कथां रम्यां गर्गः पाशुपतोत्तमः ॥
भारद्वाजेन सहितः प्राप वाराणसीं पुरीम्
॥१६॥दमनोपि हि धर्मात्मा गर्गाचार्येण संयुतः ॥
आराध्य श्रीमदोंकारं तस्मिँल्लिंगे लयं गतः
॥१७॥स्कंद उवाच
इल्वलारे परं स्थानमोंकारमविमुक्तके ॥
तत्र सिद्धिपरां जग्मुः साधका बहुशो मुने
॥१८॥कलौ कलुषचित्तानां पुरो नाख्येयमेव हि ॥
प्रणवेश्वरमाहात्म्यं नास्तिकानां विशेषतः
॥१९॥ये निंदंति महादेवं क्षेत्रं निंदंति येऽधियः ॥
पुराणं ये च निंदंति ते संभाष्या न कुत्रचित्
॥१२०॥ओंकारसदृशं लिंगं न क्वचिज्जगतीतले ॥
इति गौर्यै समाख्यातं देवदेवेन निश्चितम्
॥१२१॥इममध्यायमाकर्ण्य नरस्तद्गतमानसः ॥
विमुक्तः सर्वपापेभ्यः शिवलोकमवाप्नुयात्
॥१२२॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थेकाशीखंड उत्तरार्ध ओंकारमाहात्म्यं नाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥