मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ५३

3
काशीखण्डः · 53

गणप्रेषणम्

अगस्तिरुवाच

अपूवेंयं कथा ख्याता ब्रह्मणो ब्रह्मवित्तम ॥

किं चकार पुनः शंभुस्तत्र ब्रह्मण्यपि स्थिते

॥१॥

स्कंद उवाच

शृण्वगस्त्य महाभाग काश्यां ब्रह्मण्यपिस्थिते ॥

गिरिशश्चिंतयामास भृशमुद्विग्नमानसः

॥२॥

पुरी सा यादृशी काशी वशीकरणभूमिका ॥

न तादृशीदृशीहासीत्क्वचिन्मे प्रायशो ध्रुवम्

॥३॥

यो यो याति पुरीं तां तु स स तत्रैव तिष्ठति ॥

अभूवन्ननुयोगिन्योऽयोगिन्यः काशिसंगताः

॥४॥

अकिंचित्करतां प्राप्तः स सहस्रकरोप्यरम् ॥

विधिर्विधानदक्षोपि न मे स सविधोभवत्

॥५॥

चिंतयन्निति देवेशो गणानारहूय भूरिशः ॥

प्रेषयामास भो यात क्षिप्रं वाराणसीं पुरीम्

॥६॥

किं कुर्वंति तु योगिन्यः किं करोति स भानुमान् ॥

गत्वा वित्त त्वरायुक्ता विधिश्च विदधाति किम्

॥७॥

नामग्राहं ततःऽप्रैषीद्बहुमान पुरःसरम् ॥

शंकुकर्ण महाकाल घटाकर्ण महोदर

॥८॥

सोमनंदिन्नंदिषेण काल पिंगल कुक्कुट ॥

कुंडोदर मयूराक्ष बाण गोकर्ण तारक

॥९॥

तिलपर्ण स्मृलकर्ण दृमिचंड प्रभामय ॥

सुकेश विंदते छाग कपर्दिन्पिंगलाक्षक

॥१०॥

वीरभद्र किराताख्य चतुर्मुख निकुंभक ॥

पंचाक्षभारभूताख्य त्र्यक्ष क्षेमक लांगलिन्

॥११॥

विराध सुमुखाषाढे भवंतो मम सूनवः ॥

यथेमौ स्कंदहेरंबौ नैगमेयो यथा त्वयम्

॥१२॥

यथा शाखविशाखौ च यथेमौ नंदिभृंगिणौ ॥

भवत्सु विद्यमानेषु महाविक्रमशालिषु

॥१३॥

काशीप्रवृत्तिं नो जाने दिवोदासनृपस्य च ॥

योगिन्यर्कविधीनां च तद्द्वौ यातं भवत्स्वमू

॥१४॥

शंकुकर्णमहाकालौ कालस्यापि प्रकंपनौ ॥

ज्ञातुं वाराणसीवार्तामायातं चत्वरान्वितौ

॥१५॥

कृतप्रतिज्ञौ तो(?) तूर्णं प्राप्य वाराणसीं पुरीम् ॥

शंकुकर्णमहाकालौ विस्मृत्य शांभवीं गिरम्

॥१६॥

यथैंद्रजालिकीं दृष्ट्वा मायामिह विचक्षणः ॥

क्षणेन मोहमायाति काशीं वीक्ष्य तथैव तौ

॥१७॥

अहो मोहस्य माहात्म्यमहो भाग्यविपर्ययः ॥

निर्वाणराशिं यत्काशीं प्राप्य यांत्यन्यतोऽबुधाः

॥१८॥

तत्यजे यैरियं काशी महाशीर्वादभूभिका ॥

तेषां करतलान्मुक्तिः प्राप्तापि परितो गता

॥१९॥

यत्र सर्वावभृथतः स्नानमात्रं विशिष्यते ॥

अप्युष्णीकृतपानीयैस्तां काशीं कः परित्यजेत्

॥२०॥

यत्रैकपुष्पदानेन शिवलिंगस्य मूर्धनि ॥

दशसौवर्णिकं पुण्यं कस्तां काशीं परित्यजेत्

॥२१॥

यत्र दंडप्रणामेन अप्येकेन शिवाग्रतः ॥

तुच्छमेंद्रपदंप्राहुस्तां काशीं को विमुंचति

॥२२॥

यत्रैकद्विजमात्रं तु भोजयित्वा यथेच्छया ॥

वाजपेयाधिकं पुण्यं तां काशीं को विमुंचति

॥२३॥

एकां गां यत्र दत्त्वा वै विधिवद्ब्राह्मणाय वै ॥

लभेदयुत गोपुण्यं कस्तां काशीं त्यजेत्सुधीः

॥२४॥

एकलिंगं प्रतिष्ठाप्य यत्र संस्थापितं भवेत् ॥

अपि त्रैलोक्यमखिलं तां काशीं कः समुज्झति

॥२५॥

परिनिश्चित्य तावित्थं लिंगे संस्थाप्य पुण्यदे ॥

तत्रैव संस्थितिं प्राप्तौ काशीं नाद्यापि मुंचतः

॥२६॥

शंकुकर्णेश्वरं लिंगं शंकुकर्ण ग णार्चितम् ॥

दृष्ट्वा न जायते जंतुर्जातु मातुर्महोदरे

॥२७॥

विश्वेशाद्वायुदिग्भागे शंकुकर्णेश्वरं नरः ॥

संपूज्य न विशेदत्र घोरे संसारसागरे

॥२८॥

महाकालेश्वरं लिंगं महाकालगणार्चितम् ॥

अर्चयित्वा च नत्वा च स्तुत्वा कालभयं कुतः

॥२९॥

स्कंद उवाच

शंकुकर्णे महाकाले चिरंतन विलंबिते ॥

ज्ञात्वा सर्वज्ञनाथोथ प्राहैपीदपरौ गणौ

॥३०॥

घंटाकर्ण त्वमागच्छ महोदर महामते ॥

काशीं यातं युवां तूर्णं ज्ञातुं तत्रत्य चेष्टितम्

॥३१॥

इत्यगस्ते गणौ तौ तु गत्वा काशीं महापुरीम् ॥

व्यावृत्याद्यापि नो यातौ क्वापि तत्रैव संस्थितौ

॥३२॥

घंटाकर्णेश्वरं लिंगं घंटाकर्ण गणोत्तमः ॥

काश्यां संस्थाप्य विधिवत्स्वयं तत्रैव निर्वृतः

॥३३॥

कुंडं तत्रैव संस्थाप्य लिंगस्नपनकर्मणे ॥

नाद्यापि स त्यजेत्काशीं ध्यायँल्लिंगं तथैव हि

॥३४॥

महोदरोपि तत्प्राच्यां शिवध्यानपरायणः ॥

महोदरेश्वरं लिंगं ध्यायेदद्यापि कुंभज

॥३५॥

महोदरेश्वरं दृष्ट्वा वाराणस्यां द्विजोत्तम ॥

कदाचिदपि वै मातुः प्रविशेन्नौदरीं दरीम्

॥३६॥

घंटाकर्ण ह्रदे स्नात्वा दृष्ट्वा व्यासेश्वरं विभुम् ॥

यत्र कुत्र विपन्नोपि वाराणस्यां मृतो भवेत्

॥३७॥

घंटाकर्णे महातीर्थे श्राद्धं कृत्वा विधानतः ॥

अपि दुर्गतिमापन्नानुद्धरेत्सप्तपूर्वजान्

॥३८॥

निमज्ज्याद्यापि तत्कुंडे क्षण योवहितो भवेत् ॥

विश्वेश्वरमहापूजा घंटारावाञ्शृणोति सः

॥३९॥

वदंति पितरः काश्यां घंटाकर्णेमलेजले ॥

दाता तिलोदकस्यापि वंशे नः कोपि जायते

॥४०॥

यद्वंश्या मुनयः काश्यां घंटाकर्णे महाह्रदे ॥

कृतोदकक्रियाः प्राप्ताः परां सिद्धिं घटोद्भव

॥४१॥

स्कंद उवाच

घंटाकर्णे गणे याते प्रयाते च महोदरे ॥

विसिस्माय स्मरद्वेष्टा मौलिमांदोलयन्मुहुः

॥४२॥

उवाच च मनस्येव हरः स्मित्वा पुनःपुनः ॥

महामोहनविद्यासि काशि त्वां पर्यवैम्यहम्

॥४३॥

पुराविदः प्रशंसंति त्वां महामोहहारिणीम् ॥

काशींत्विति न जानंति महामोहनभूरियम्

॥४४॥

प्रेषयिष्याम्यहं सर्वान्भवती मोहयिष्यति ॥

इति सम्यग्विजानामि काशि त्वां मोहनोषधिम्

॥४९॥

तथापि प्रेषयिष्यामि यावान्मेस्ति परिच्छदः ॥

नोद्यमाद्विरमंतीह ज्ञानिनः साध्यकर्मणि

॥४६॥

नोद्यमाद्विरतिः कार्या क्वापि कार्ये विचक्षणैः ॥

प्रतिकूलोपि खिद्येत विधिस्तत्सततोद्यमात्

॥४७॥

शीतोष्णभानू स्वर्भानु ग्रस्तावपि नभोंगणे ॥

गतिं न त्यजतोद्यापि प्रक्रांतव्य कृतोद्यमौ

॥४८॥

एकत्र हंति कार्याणि प्रातिकूल्याद्विधिर्मुहुः ॥

एकत्रकरणीयानि सेत्स्यंत्यत्र भृशोद्यमात्

॥४९॥

दैवं पूर्वकृतं कर्म कथ्यते नेतरत्पुनः ॥

तन्निराकरणे यत्नः स्वयं कार्यो विपश्चिता

॥५०॥

भाजनोपस्थितं दैवाद्भोज्यं नास्यं स्वयं विशेत् ॥

हस्तवक्त्रोद्यमात्तच्च प्रविशेदौदरीं दरीम्

॥५१॥

इत्युद्यमं समर्थ्येशो निश्चितं दैवजित्वरम् ॥

पुनश्च प्रेषयांचक्रे गणान्पंचमहारयान्

॥५२॥

सोमनंदी नंदिषेणः कालपिंगलकुक्कुटाः ॥

तेद्यापि न निवर्तंते काश्यां जीवामृता यथा

॥५३॥

तेपि स्वनाम्ना लिंगानि शंभुसंतुष्टि काम्यया ॥

प्रतिष्ठाप्य स्थिताः काश्यां विश्वनिर्वाणजन्मनि

॥५४॥

सोमनंदीश्वरं दृष्ट्वा लिंगं नंदवने परम् ॥

सोमलोके परानंदं प्राप्नुयाद्भक्तिमान्नरः

॥५५॥

तदुत्तरे विलोक्याथ नंदिषेणेश्वरं नरः ॥

आनंदसेनां संप्राप्य जयेन्मृत्युमपि क्षणात्

॥५६॥

कालेश्वरं महालिंगं गंगायाः पश्चिमोत्तरे ॥

प्रणम्य कालपाशेन नो बध्येत कदाचन

॥५७॥

पिंगलेश्वरमभ्यर्च्य कालेशात्किंचिदुत्तरे ॥

लभते पिंगलज्ञानं येन तन्मयतां व्रजेत्

॥५८॥

कुक्कुटेश्वर लिंगस्य येत्र भक्तिं वितन्वते ॥

कुक्कुटांडाकृतेस्तस्य न ते गर्भमवाप्नुयुः

॥५९॥

स्कंद उवाच

सोमनंदि प्रभृतिषु मुने पंचगणेष्वपि ॥

आनंदकाननं प्राप्य स्थितेषु स्थाणुरब्रवीत्

॥६०॥

कार्यमस्माकमेवैतद्यदि सम्यग्विमृश्यते ॥

अनेनोपाधिनाप्येते तत्र तिष्ठंतु मामकाः

॥६१॥

प्रमथेषु प्रविष्टेषु मायावीर्यमहत्स्वपि ॥

अहमेव प्रविष्टोस्मि वाराणस्यां न संशयः

॥६२॥

क्रमेण प्रेषयिष्यामि योस्ति मे स्वपरिच्छदः ॥

तत्र सर्वेषु यातेषु ततो यास्याम्यहं पुनः

॥६३॥

संप्रधार्येति हृदये देवदेवेन शूलिना ॥

प्रैषिष्ट प्रमथानां तु ततो गणचतुष्टयम्

॥६४॥

कुंडोदरो मयूराख्यो बाणो गोकर्ण एव च ॥

मायाबलं समाश्रित्य काशीं प्रविविशुर्गणाः

॥६५॥

कृत्वोपायशतं तैस्तु दिवोदासस्य संभ्रमे यदैकोपि समर्थो न तदा तत्रैव संस्थितम्

॥६६॥

अपराधशतेष्वीशः केन तुष्यति कर्मणा ॥

संप्रधार्येति ते चक्रुर्लिंगाराधनमुत्तमम्

॥६७॥

एकस्मिञ्शांभवे लिंगे विधिनात्र समर्चिते ॥

क्षमेत्त्र्यक्षोपराधानां शतं मोक्षं च यच्छति

॥६८॥

न तुष्यति तथा शंभुर्यज्ञदानतपोव्रतैः ॥

यथा तुष्येत्सकृल्लिंगे विधिनाभ्यर्चिते सति

॥६९॥

लिंगार्चनविधानज्ञो लिंगार्चनरतः सदा ॥

त्र्यक्ष एव स विज्ञेयः साक्षाद्द्व्यक्षोपि मानवः

॥७०॥

न गोशतप्रदानेन न स्वर्णशतदानतः ॥

तत्फलं लभ्यते पुंभिर्यत्सकृल्लिंगपूजनात्

॥७१॥

अश्वमेधादिभिर्यागैर्न तत्फलमवाप्यते ॥

यत्फलं लभ्यते मर्त्यैर्नित्यं लिंगप्रपूजनात्

॥७२॥

स्नापयित्वा विधानेन यो लिंगस्नपनोदकम् ॥

त्रिः पिबेत्त्रिविधं पापं तस्येहाशु प्रणश्यति

॥७३॥

लिंग स्नपनवार्भिर्यः कुर्यान्मूर्ध्न्यभिषेचनम् ॥

गंगास्नानफलं तस्य जायतेत्र विपाप्मनः

॥७४॥

लिंगं समर्चितं दृष्ट्वा यः कुर्यात्प्रणतिं सकृत् ॥

संदेहो जायते तस्य पुनर्देहनिबंधने

॥७५॥

लिंगं यः स्थापयेद्भक्त्या सप्तजन्मकृतादघात् ॥

मुच्यते नात्र संदेहो विशुद्धः स्वर्गभाग्भवेत्

॥७६॥

विचार्येति गणैः काश्यां स्वामिद्रोहोपशांतये ॥

प्रतिष्ठितानि लिंगानि महापातकभिंद्यपि

॥७७॥

कुंडोदरेश्वरं लिंगं दृष्ट्वा लोलार्कसन्निधौ ॥

सर्वपापविनिर्मुक्तः शिवलोके महीयते

॥७८॥

कुंडोदरेश्वराल्लिंगात्प्रतीच्यामसिरोधसि ॥

मयूरेश्वरमभ्यर्च्य न गर्भं प्रतिपद्यते

॥७९॥

मयूरेशप्रतीच्यां च लिंगं बाणेश्वरं महत् ॥

तस्य दर्शनमात्रेण सर्वैः पापैः प्रमुच्यते

॥८०॥

गोकर्णेशं महालिंगमंतर्गेहस्य पश्चिमे ॥

द्वारे समर्च्य वै काश्यां न विघ्नैरभिभूयते

॥८१॥

गोकर्णेश्वर भक्तस्य पंचत्व समये सति ॥

ज्ञानभ्रंशो न जायेत क्वचिदप्यंतमृच्छतः

॥८२॥

स्कंद उवाच

चिरयत्सुगणेष्वेषु चतुर्ष्वपिगणेश्वरः ॥

महिमानं महत्त्वं तु तत्काश्याः पर्यवर्णयत्

॥८३॥

वैष्णव्या मायया विश्वं भ्राम्येतात्र ययाखिलम् ॥

ध्रुवं मूर्तिमती सैषा काशी विश्वैकमोहिनी

॥८४॥

अपास्य सोदरान्दारान्पुत्रं क्षेत्रं गृहं वसु ॥

अप्यंगीकृत्य निधनं सर्वे काशीमुपासते

॥८५॥

मरणादपि नो काश्यां भयं यत्र मनागपि ॥

गणास्तत्र तु तिष्ठंतः कुतो मत्तोपि बिभ्यति

॥८६॥

मरणं मंगलं यत्र विभूतिर्यत्र भूषणम् ॥

कौपीनं यत्र कौशेयं काशी कुत्रोपमीयते

॥८७॥

निर्वाणरमणी यत्र रंकं वाऽरंकमेव वा ॥

ब्राह्मणं वा श्वपाकं वा वृणीते प्रांत्यभूषणम्

॥८८॥

मृतानां यत्र जंतूनां निर्वाणपदमृच्छताम् ॥

कोट्यंशेनापि न समा अपि शक्रादयः सुराः

॥८९॥

यत्र काश्यां मृतो जंतुर्ब्रह्मनारायणादिभिः ॥

प्रबद्ध मूर्धांजलिभिर्नमस्येतातियत्नतः

॥९०॥

यत्र काश्यां शवत्वेपि जंतुर्नाशुचितां व्रजेत् ॥

अतस्तत्कर्णसंस्पर्शं करोम्यहमपि स्वयम्

॥९१॥

यस्तु काशीति काशीति द्विस्त्रिर्जपति पुण्यवान् ॥

अपि सर्वपवित्रेभ्यः स पवित्रतरो महान्

॥९२॥

येन काशी हृदि ध्याता येन काशीह सेविता ॥

तेनाहं हृदि संध्यातस्तेनाहं सेवितः सदा

॥९३॥

काशीं यः सेवते जंतुर्निर्विकल्पेन चेतसा ॥

तमहं हृदये नित्यं धारयामि प्रयत्नतः

॥९४॥

स्वयं वस्तुमशक्तोपि वासयेत्तीर्थवासिनम् ॥

अप्येकमपि मूल्येन स वस्तुःफलभाग्ध्रुवम्

॥९५॥

काश्यां वसंति ये धीरा आपंचत्व विनिश्चयाः ॥

जीवन्मुक्तास्तु ते ज्ञेया वंद्याः पूज्यास्त एव हि

॥९६॥

इत्थं विमृश्य बहुशः स्थाणुर्वाराणसीगुणान् ॥

गणानन्यान्समाहूय प्राहिणोत्प्रीतिपूर्वकम्

॥९७॥

तारकत्वं समागच्छ गच्छाति स्वच्छमानस ॥

दिवोदासो वृषावासो यामधीष्टे वरां पुरीम्

॥९८॥

तिलपर्ण स्धूलकर्ण दृमिचंड प्रभामय ॥

सुकेश विंदते छाग कपर्दिन्पिंगलाक्षक

॥९९॥

वीरभद्र किराताख्य चतुर्मुख निकुंभक ॥

पंचाक्ष भारभूताख्य त्र्यक्ष क्षेमकलांगलिन्

॥१००॥

विराध सुमुखाषाढे यांतु सर्वे पृथक्पृथक् ॥

एते गणा महाभागाः स्वामिभक्ता दृढव्रताः

॥१॥

कृत्वा माया बहुविधा बहुरूपा विचक्षणाः ॥

अनिमेषेक्षणास्तस्थुः क्षोणीशच्छिद्रकांक्षिणः

॥२॥

अपरुज्ञात तच्छिद्रा विद्रावितयशोधनाः ॥

आः किमेतदहोजातं निनिंदुः स्वमितीह ते

॥३॥

गणा ऊचुः

धिगस्मान्स्वामिना नित्यं कृतसंभावनान्मुहुः ॥

मनुष्यमात्रमप्यत्र यैरेकं न वशीकृतम्

॥४॥

बहुमानेन दानेन सौहार्देन महीयसा ॥

कृतप्रसादांस्त्र्यक्षेण धिङ्नस्तत्कार्यवंचकान्

॥५॥

का गतिर्नो भवित्रीह स्वामिकृत्यप्रमादिनाम् ॥

अंधं तमोमये लोके ध्रुवं वासो भविष्यति

॥६॥

अकृतस्वामिकार्याणामहो जीवितधारिणाम् ॥

अक्षतेंद्रियवृत्तीनां दुर्गतिश्च पदे पदे

॥७॥

लब्धसंभावनानां च न्यक्कृतस्वामिकर्मणाम् ॥

भृत्यानां भूरिभाजां च भंगुराः स्युर्मनोरथाः

॥८॥

अनिष्पादितकार्यार्था ये मुखं प्रेक्षयंत्यहो ॥

अपत्रपाः पुरो भर्तुस्तैर्भूर्भारवतीत्वियम्

॥९॥

नाद्रीणां न समुद्राणां न द्रुमाणां महीयसाम् ॥

भूतधात्र्यास्तथा भारो यथा स्वामिद्रुहां महान्

॥११०॥

अहो पौराणिकी गाथा स्मृतास्माभिरनिंदिता ॥

तदर्थमवलंब्येह स्थास्यामः कृतनिश्चयाः

॥११॥

अनाकलितपुण्यानां परिक्षीणधनायुषाम् ॥

सर्वोपायविहीनानां गतिर्वाराणसीपुरी

॥१२॥

अपुण्यभारखिन्नानां पश्चात्तापमुपेयुषाम् ॥

विष्वगूर्ध्वगतीनां च गतिर्वाराणसीपुरी

॥१३॥

स्वामिद्रुहः कृतघ्नाश्च ये च विश्रंभघातकाः ॥

तेषां क्वापि गतिर्नास्ति मुक्त्वा वाराणसीं पुरीम्

॥१४॥

इत्थं निश्चित्य गाथार्थं प्रमथा अवतस्थिरे ॥

अविज्ञातस्वरूपाश्च दिवोदासेन भूभुजा

॥१५॥

न बुबोध स भूपालो नितरां बुद्धिमानपि ॥

विबुधान्विविधाकारैः स्थितानीशप्रभावतः

॥१६॥

चित्रं न चित्रगुप्तोपि वेत्ति वाराणसीस्थितान् ॥

जंतून्का गणनान्येषां मर्त्यलोकनिवासिनाम्

॥१७॥

अविच्छिन्न प्रभावाणामपरिच्छिन्न तेजसाम् ॥

कृतलिंगप्रतिष्ठानां नांतं प्राप्नोति धर्मराट्

॥१८॥

इति ते प्रमथाः सर्वे घटोद्भव महामुने ॥

कृतलिंगार्चनाः काशीं नाद्याप्युज्झंति शर्मदाम्

॥१९॥

तारकेशं महालिंगं तारकाख्यो गणोत्तमः ॥

तारकज्ञानदं पुंसां मुनेऽद्यापि समर्चयेत्

॥१२०॥

तारकेश्वरलिंगस्य कृत्वा भक्तिसुनिश्चलाम् ॥

सुखेन तारकज्ञानं लभ्यते तैर्नरोत्तमैः

॥२१॥

तिलपर्णेश्वरं लिंगं तिलपर्ण प्रतिष्ठितम् ॥

तिलप्रमाणमप्यत्र दृष्ट्वा पापं न संभवेत्

॥२२॥

स्थूलकर्णेश्वरं लिंगं परिपूज्य नरोत्तमः ॥

न दुर्गतिमवाप्नोति पुण्यमाप्नोति चोत्तमम्

॥२३॥

दृमिचंडेश्वरं लिंगं तथा लिंगं प्रभामयम् ॥

आराध्य तत्प्रतीच्यां च न पापैरभिभूयते

॥२४॥

प्रभामयेश्वरं लिंगं दृष्ट्वान्यत्रापि संस्थितः ॥

प्रभामयेन यानेन शिवलोके व्रजेत्सुधीः

॥२५॥

सुकेशेश्वरमभ्यर्च्य हरिकेशवने नरः ॥

षाट्कौशिकमयं देहं धारयेन्न पुनःपुनः

॥२६॥

विंदतीशं नरोभ्यर्च्य भीमचंडी समीपतः ॥

त्यक्त्वा प्रचंडमप्येनो मोक्षं विंदति शाश्वतम्

॥२७॥

छागलेशं महालिंगं पित्रीश्वरसमीपगम् ॥

विलोक्य पशुवत्कोपि न पापं प्राकृतं स्पृशेत्

॥२८॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखण्डे उत्तरार्द्धे वाराणसीवर्णनं गणप्रेषणं नाम त्रिपंचाशत्तमोऽध्यायः ॥ ५३ ॥