पाराशर्यमुने व्यास कुमारः कुंभजन्मने
सूत उवाच
पाराशर्यमुने व्यास कुमारः कुंभजन्मने ॥
यदावदत्कथामेतां तदा क्व द्रुपदात्मजा
॥१॥व्यास उवाच
पुराणसंहितां सूत ब्रूते त्रैकालिकीं कथाम् ॥
संदेहो नात्र कर्तव्यो यतस्तद्गोचरोखिलम्
॥२॥स्कंद उवाच
आकर्णय मुने पूर्वं पंचवक्त्रो हरः स्वयम् ॥
पृथिव्यां पंचधा भूत्वा प्रादुरासीज्जगद्धितः
॥३॥उमापि च जगद्धात्री द्रुपदस्य महीभुजः ॥
यजतो वह्निकुंडाच्च प्रादुश्चक्रेति सुंदरी
॥४॥पंचापि पांडुतनयाः साक्षाद्रुद्रवपुर्धराः ॥
अवतेरुरिह स्वर्गाद्दुष्टसंहारकारकाः
॥५॥नारायणोपि कृष्णत्वं प्राप्य तत्साहचर्यकृत् ॥
उद्वृत्तवृत्तशमनः सद्वृत्तस्थितिकारकः
॥६॥प्रतपंतः पृथिव्यां ते पार्थाश्चेरुः पृथक्पृथक् ॥
उदयानुदयौ तस्मिन्संपदां विपदामपि
॥७॥कदाचित्ते महावीरा भ्रातृव्यप्रतिपादिताम् ॥
विपत्तिमाप्य महतीं बभूवुः काननौकसः
॥८॥पांचाल्यपि च तत्पत्नी पतिव्यसनतापिता ॥
धर्मज्ञा प्राप्य तन्वंगी ब्रध्नमाराधयद्भृशम्
॥९॥आराधितोथ सविता तया द्रुपदकन्यया ॥
सदर्वी सपिधानां च स्थालिकामक्षयां ददौ
॥१०॥उवाच च प्रसन्नात्मा भास्करो द्रुपदात्मजाम्
॥२३॥आराधयंतीं भावेन सर्वत्र शुचिमानसाम्
॥११॥स्थाल्यैतया महाभागे यावंतोऽन्नार्थिनो जनाः ॥
तावंतस्तृप्तिमाप्स्यंति यावच्च त्वं न भोक्ष्यसे
॥१२॥भुक्तायां त्वयि रिक्तैषा पूर्णभक्ता भविप्यति ॥
रसवद्व्यंजननिधिरिच्छाभक्ष्यप्रदायिनी
॥१३॥इत्थं वरस्तया लब्धः काश्यामादित्यतो मुने ॥
अपरश्च वरो दत्तस्तस्यै देवेन भास्वता
॥१४॥रविरुवाच
विश्वेशाद्दक्षिणेभागे यो मां त्वत्पुरतः स्थितम् ॥
आराधयिष्यति नरः क्षुद्बाधा तस्य नश्यति
॥१५॥अन्यश्च मे वरो दत्तो विश्वेशेन पतिव्रते ॥
तपसा परितुष्टेन तं निशामय वच्मि ते
॥१६॥प्राग्रवे त्वां समाराध्य यो मां द्रक्ष्यति मानवः ॥
तस्य त्वं दुःखतिमिरमपानुद निजैः करैः
॥१७॥अतो धर्माप्रिये नित्यं प्राप्य विश्वेश्वराद्वरम् ॥
काशीस्थितानां जंतूनां नाशयाम्यघसंचयम्
॥१८॥ये मामत्र भजिष्यंति मानवाः श्रद्धयान्विताः ॥
त्वद्वरोद्यतपाणिं च तेषां दास्यामि चिंतितम्
॥१९॥भवतीं मत्समीपस्थां युधिष्ठिरपतिव्रताम् ॥
विश्वेशाद्दक्षिणेभागे दंडपाणेः समीपतः
॥२०॥येर्चयिष्यंति भावेन पुरुषा वास्त्रियोपि वा ॥
तेषां कदाचिन्नो भावि भयं प्रियवियोगजम्
॥२१॥न व्याधिजं भयं क्वापि न क्षुत्तृड्दोषसंभवम् ॥
द्रौपदीक्षणतः काश्यां तव धर्मप्रियेनघे
॥२२॥इति दत्त्वा वरान्देव आदित्यः सर्वदः सताम् ॥
शंभुमाराधयामास धर्मं द्रौपद्युपाययौ
॥२३॥आदित्यस्य कथामेतां द्रौपद्याराधितस्य वै ॥
यः श्रोष्यति नरो भक्त्या तस्यैनः क्षयमेष्यति
॥२४॥स्कंद उव।
च ॥
द्रौपदादित्यमाहात्म्यं संक्षेपात्कथितं मया ॥
मयूखादित्यमाहात्म्यं शृण्विदानीं घटोद्भव ॥
पुरा पंचनदे तीर्थे त्रिषुलोकेषु विश्रुते ॥
सहस्ररश्मिर्भगवांस्तपस्तेपे सुदारुणम्
॥२६॥प्रतिष्ठाप्य महालिंगं गभस्तीश्वर संज्ञितम् ॥
गौरीं च मंगला नाम्नीं भक्तमंगलदां सदा
॥२७॥दिव्यवर्षसहस्रं तु शतेन गुणितं मुने ॥
आराधयञ्शिवं सोमं सोमार्धकृतशेखरम्
॥२८॥स्वरूपतस्तु तपनस्त्रिलोकीतापनक्षमः ॥
ततोतितीव्र तपसा जज्वाल नितरां मुने
॥२९॥मयूखैस्तत्र सवितुस्त्रैलोक्यदहनक्षमैः ॥
ततं समस्तं तत्काले द्यावाभूम्योर्यदंतरम्
॥३०॥वैमानिकैर्विष्णुपदे तत्यजे च गतागतम् ॥
तीव्रे पतंगमहसि पतंगत्वभयादिव
॥३१॥मयूखा एव दृश्यंते तिर्यगूर्ध्वमधोपि च ॥
आदित्यस्य न चादित्यो नीपपुष्पस्थितेरिव
॥३२॥तस्यवै महसां राशेस्तपोराशेस्तपोर्चिषाम् ॥
चकंपे साध्वसात्तीव्रा त्रैलोक्यं सचराचरम्
॥३३॥सूर्य आत्मास्य जगतो वेदेषु परिपठ्यते ॥
स एव चेज्वालयिता को नस्त्राता भवेदिह
॥३४॥जगच्चक्षुरसौ सूर्यो जगदात्मैष भास्करः ॥
जगद्योयन्मृतप्रायं प्रातःप्रातः प्रबोधयेत्
॥३५॥तमोंधकूपपतितमुद्यन्नेष दिनेदिने ॥
प्रसार्य परितः पाणीन्प्राणिजातं समुद्धरेत्
॥३६॥उदितेऽत्रोदिमो नित्यमस्तं यात्यस्तमाप्नुमः ॥
उदयेऽनुदये तस्मादस्माकं कारणं रविः
॥३७॥इति व्याकुलितं विश्वं पश्यन्विश्वेश्वरः स्वयम् ॥
विश्वत्राता वरं दातुं संजग्मे तिग्मरश्मये
॥३८॥मयूखमालिनं शंभुरालोक्याति सुनिश्चलम् ॥
समाधि विस्मृतात्मानं विसिस्माय तपः प्रति
॥३९॥उवाच च प्रसन्नात्मा श्रीकंठः प्रणतार्तिहृत् ॥
अलं तप्त्वा वरं ब्रूहि द्युमणे महसां निधे
॥४०॥निरुद्धेंद्रियवृत्तित्वाद्ब्रध्नो ध्यानसमाधिना ॥
न जग्राह वचः शंभोर्द्वित्रिरुक्तोप्यकर्णवत्
॥४१॥काष्ठीभूतं तु तं ज्ञात्वा शिवः पस्पर्श पाणिना ॥
महातपः समुद्भूत संतापामृतवर्षिणा
॥४२॥तत उन्मीलयांचक्रे लोचने विश्वलोचनः ॥
तस्योदयमिव प्राप्य प्रगे पंकजिनीवनी
॥४३॥परिव्यपेतसंतापस्तपनः स्पर्शनाद्विभोः ॥
अवग्रहितसस्यश्रीरुल्ललास यथांबुदात्
॥४४॥मित्रो नेत्रातिथीकृत्य त्र्यक्षं प्रत्यक्षमग्रतः ॥
दंडवत्प्रणनामोच्चैस्तुष्टाव च पिनाकिनम्
॥४५॥रविरुवाच
देवदेव जगतांपते विभो भर्ग भीम भव चंद्रभूषण ॥
भूतनाथ भवभीतिहारक त्वां नतोस्मि नतवांछितप्रद
॥४६॥चंद्रचूडमृड धूर्जटे हर त्र्यक्ष दक्ष शततंतुशातन ॥
शांतशाश्वत शिवापते शिव त्वां नतोस्मि नतवांछितप्रद
॥४७॥नीललोहित समीहितार्थ दहे(?)द्व्येकलोचन विरूपलोचन ॥
व्योमकेशपशुपाशनाशन त्वां नतोस्मि नतवांछितप्रद
॥४८॥वामदेवशितिकंठशूलभृच्चंद्रशेखर फणींद्रभूषण ॥
कामकृत्पशुपते महेश्वर त्वां नतोस्मि नतवांछितप्रद
॥४९॥त्र्यंबक त्रिपुरसूदनेश्वर त्राणकृत्त्रिनयनत्रयीमय ॥
कालकूट दलनांतकांतक त्वां नतोस्मि नतवांछितप्रद
॥५०॥शर्वरीरहितशर्वसर्वगस्वर्गमार्गसुखदापवर्गद ॥
अंधकासुररिपो कपर्दभृत्त्वां नतोस्मि नतवांछितप्रद
॥५१॥शंकरोग्रगिरिजापते पते विश्वनाथविधिविष्णु संस्तुत ॥
वेदवेद्यविदिताऽखिलेंगि तत्वां नतोस्मि नतवांछितप्रद
॥५२॥विश्वरूपपररूप वर्जितब्रह्मजिह्मरहितामृतप्रद ॥
वाङमनोविषयदूरदूरगत्वां नतोस्मि नतवांछितप्रद
॥५३॥इत्थं परीत्य मार्तंडो मृडं देवं मृडानिकाम् ॥
अथ तुष्टाव प्रीतात्मा शिववामार्धहारिणीम्
॥५४॥रविरुवाच
देवि त्वदीयचरणांबुजरेणुगौरीं भालस्थलीं वहति यः प्रणतिप्रवीणः ॥
जन्मांतरेपि रजनीकरचारुलेखा तां गौरयत्यतितरां किल तस्य पुंसः
॥५५॥श्रीमंगले सकलमंगलजन्मभूमे श्रीमंगले सकलकल्मषतूलवह्ने ॥
श्रीमंगले सकलदानवदर्पहंत्रि श्रीमंगलेऽखिलमिदं परिपाहि विश्वम्
॥५६॥विश्वेश्वरि त्वमसि विश्वजनस्य कर्त्री त्वं पालयित्र्यसि तथा प्रलयेपिहंत्री ॥
त्वन्नामकीर्तनसमुल्लसदच्छपुण्या स्रोतस्विनी हरति पातककूलवृक्षान्
॥५७॥मातर्भवानि भवती भवतीव्रदुःखसंभारहारिणि शरण्यमिहास्ति नान्या ॥
धन्यास्त एव भुवनेषु त एव मान्या येषु स्फुरेत्तवशुभः करुणाकटाक्षः
॥५८॥ये त्वा स्मरंति सततं सहजप्रकाशां काशीपुरीस्थितिमतीं नतमोक्षलक्ष्मीम् ॥
तान्संस्मरेत्स्मरहरो धृतशुद्धबुद्धीन्निर्वाणरक्षणविचक्षणपात्रभूतान्
॥५९॥मातस्तवांघ्रियुगलं विमलं हृदिस्थं यस्यास्ति तस्य भुवनं सकलं करस्थम् ॥
यो नामतेज एति मंगलगौरि नित्यं सिद्ध्यष्टकं न परिमुंचति तस्य गेहम्
॥६०॥त्वं देवि वेदजननी प्रणवस्वरूपा गायत्र्यसि त्वमसि वै द्विजकामधेनुः ॥
त्वं व्याहृतित्रयमिहाऽखिलकर्मसिद्ध्यै स्वाहास्वधासि सुमनः पितृतृप्तिहेतुः
॥६१॥गौरि त्वमेव शशिमौलिनि वेधसि त्वं सावित्र्यसि त्वमसि चक्रिणि चारुलक्ष्मीः ॥
काश्यां त्वमस्यमलरूपिणि मोक्षलक्ष्मीस्त्वं मे शरण्यमिह मंगलगौरि मातः
॥६२॥स्तुत्वेति तां स्मरहरार्धशरीरशोभां श्रीमंगलाष्टक महास्तवनेन भानुः ॥
देवीं च देवमसकृत्परितः प्रणम्य तूष्णीं बभूव सविता शिवयोः पुरस्तात्
॥६३॥देवदेव उवाच
उत्तिष्ठोत्तिष्ठ भद्रं ते प्रसन्नोस्मि महामते ॥
मित्रमन्नेत्रगो नित्यं प्रपश्ये तच्चराचरम्
॥६४॥मम मूर्तिर्भवान्सूर्य सर्वज्ञो भव सर्वगः ॥
सर्वेषां महसां राशिः सर्वेषां सर्वकर्मवित्
॥६५॥सर्वेषां सर्वदुःखानि भक्तानां त्वं निराकुरु ॥
त्वया नाम्नां चतुःषष्ट्या यदष्टकमुदीरितम्
॥६६॥अनेन मां परिष्टुत्य नरो मद्भक्तिमाप्स्यति ॥
अष्टकं मंगलागौर्या मंगलाष्टकसंज्ञकम्
॥६७॥अनेन मंगलागौरीं स्तुत्वा मंगलमाप्स्यति ॥
चतुःषष्ट्यष्टकं स्तोत्रं मंगलाष्टकमेव च
॥६८॥एतत्स्तोत्रवरं पुण्यं सर्वपातकनाशनम् ॥
दूरदेशांतरस्थोपि जपन्नित्यं नरोत्तमः
॥६९॥त्रिसंध्यं परिशुद्धात्मा काशीं प्राप्स्यति दुर्लभाम् ॥
अनेन स्तोत्रयुग्मेन जप्तेन प्रत्यहं नृभिः
॥७०॥ध्रुवदैनंदिनं पापं क्षालितं नात्र संशयः ॥
न तस्य देहिनो देहे जातु चित्किल्बिषस्थितिः
॥७१॥त्रिकालं योजयेन्नित्यमेतत्स्तोत्रद्वयंशुभम् ॥
किंजप्तैर्बहुभिः स्तोत्रैश्चंचलश्रीप्रदैर्नृणाम्
॥७२॥एतत्स्तोत्रद्वयं दद्यात्काश्यां नैःश्रेयसीं श्रियम् ॥
तस्मात्सर्वप्रयत्नेन मानवैर्मोक्षकांक्षिभिः
॥७३॥एतत्स्तोत्रद्वयं जप्यं त्यक्त्वा स्तोत्राण्यनेकशः ॥
प्रपंच आवयोरेव सर्व एष चराचरः
॥७४॥तदावयोःस्तवादस्मान्निष्प्रपंचो जनो भवेत् ॥
समृद्धिमाप्य महतीं पुत्रपौत्रवतीमिह
॥७५॥अंते निर्वाणमाप्नोति जपन्स्तोत्रमिदं नरः ॥
अन्यच्च शृणु सप्ताश्व ग्रहराज दिवाकर
॥७६॥त्वया प्रतिष्ठितं लिंगं गभस्तीश्वरसंज्ञितम् ॥
सेवितं भक्तिभावेन सर्वसिद्धिसमर्पकम्
॥७७॥त्वया गभस्तिमालाभिश्चांपेयांबुजकांतिभिः ॥
यदर्चित्वैश्वरं लिंगं सर्वभावेन भास्कर
॥७८॥गभस्तीश्वर इत्याख्यां ततो लिंगमवाप्स्यति ॥
अर्चयित्वा गभस्तीशं स्नात्वा पंचनदे नरः
॥७९॥न जातु जायते मातुर्जठरे धूतकल्मषः ॥
इमां च मंगलागौरीं नारी वा पुरुषोपि वा
॥८०॥चैत्रशुक्लतृतीयायामुपोषणपरायणः ॥
महोपचारैः संपूज्य दुकूलाभरणादिभिः
॥८१॥रात्रौ जागरणं कृत्वा गीतनृत्यकथादिभिः ॥
प्रातः कुमारीः संपूज्य द्वादशाच्छादनादिभिः
॥८२॥संभोज्यपरमान्नाद्यैर्दत्त्वान्येभ्योपि दक्षिणाम् ॥
होमं कृत्वा विधानेन जातवेदस इत्यृचा
॥८३॥अष्टोत्तरशताभिश्च तिलाज्याहुतिभिः प्रगे ॥
एकं गोमिथुनं दत्त्वा ब्राह्मणाय कुटुंबिने
॥८४॥श्रद्धया समलंकृत्य भूषणैर्द्विजदंपती ॥
भोजयित्वा महार्हान्नैः प्रीयेतां मंगलेश्वरौ
॥८५॥इति मंत्रं समुच्चार्य प्रातः कृत्वाथ पारणम् ॥
न दुर्भगत्वमाप्नोति न दारिद्र्यं कदाचन
॥८६॥न वै संतानविच्छित्तिं भोगोच्छित्तिं न जातुचित् ॥
स्त्री वैधव्यं न चाप्नोति न नायोषिद्वियोगभाक्
॥८७॥पापानि विलयं यांति पुण्यराशिश्च लभ्यते ॥
अपि वंध्या प्रसूयेत कृत्वैतन्मंगलाव्रतम्
॥८८॥एतद्व्रतस्य करणात्कुरूपत्वं न जातुचित् ॥
कुमारी विंदतेत्यंतं गुणरूपयुतं पतिम्
॥८९॥कुमारोपि व्रतं कृत्वा विंदति स्त्रियमुत्तमाम् ॥
संति व्रतानि बहुशो धनकामप्रदानि च
॥९०॥नाप्नुयुर्जातुचित्तानि मंगलाव्रततुल्यताम् ॥
कर्तव्या चाब्दिकी यात्रा मधौ तस्यां तिथौ नरैः
॥९१॥सर्वविघ्नप्रशांत्यर्थं सदा काशीनिवासिभिः ॥
अपरं द्युमणे वच्मि तव चात्र तपस्यतः
॥९२॥मयूखा एव खे दृष्टा न च दृष्टं कलेवरम् ॥
मयूखादित्य इत्याख्या ततस्ते दितिनंदन
॥९३॥त्वदर्चनान्नृणां कश्चिन्न व्याधिः प्रभविष्यति ॥
भविष्यति न दारिद्र्यं रविवारे त्वदीक्षणात्
॥९४॥इत्थं मयूखादित्यस्य शिवो दत्त्वा बहून्वरान् ॥
तत्रैवांतर्हितो भूतो रविस्तत्रैव तस्थिवान्
॥९५॥श्रुत्वाख्यानमिदं पुण्यं मयूखादित्यसंश्रयम् ॥
द्रौपदादित्यसहितं नरो न निरयं व्रजेत्
॥९६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखण्डे पूर्वार्द्धे द्रौपदादित्यमयूखादित्ययोर्वर्णनं नामैकोनपंचाशत्तमोध्यायः ॥ ४९ ॥