मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ६१

3
काशीखण्डः · 61

षडास्य माधवाख्यानं श्रुतं मे पापनाशनम्

अगस्त्य उवाच

षडास्य माधवाख्यानं श्रुतं मे पापनाशनम् ॥

महिमापि श्रुतः श्रेयान्सम्यक्पंचनदस्य वै

॥१॥

यदग्निबिंदुना पृच्छि माधवो दैत्यसूदनः ॥

तस्योत्तरं समाख्याहि यथाख्यातं मधुद्विषा

॥२॥

स्कंद उवाच

शृण्वगस्त्य महर्षे त्वं कथ्यमानं मयाधुना ॥

माधवेन यथाचक्षि मुनये चाग्निबिंदवे

॥३॥

बिंदुमाधव उवाच

आदौ पादोदके तीर्थे विद्धि मामादिकेशवम् ॥

अग्निबिंदो महाप्राज्ञ भक्तानां मुक्तिदायकम्

॥४॥

अविमुक्तेऽमृते क्षेत्रे येर्चयंत्यादिकेशवम् ॥

तेऽमृतत्वं भजंत्येव सर्वदुःखविवर्जिताः

॥५॥

संगमेशं महालिंगं प्रतिष्ठाप्यादिकेशवः ॥

दर्शनादघहं नृणां भुक्तिं मुक्तिं दिशेत्सदा

॥६॥

याम्यां पादोदकाच्छ्वेतद्वीपतीर्थं महत्तरम् ॥

तत्राहं ज्ञानदो नृणां ज्ञानकेशवसंज्ञकः

॥७॥

श्वेतद्वीपे नरः स्नात्वा ज्ञानकेशवसन्निधौ ॥

न ज्ञानाद्भ्रश्यते क्वापि ज्ञानकेशवपूजनात्

॥८॥

तार्क्ष्यकेशवनामाहं तार्क्ष्यतीर्थे नरोत्तमैः ॥

पूजनीयः सदा भक्त्या तार्क्ष्य वत्ते प्रिया मम

॥९॥

तत्रैव नारदे तीर्थेस्म्यहं नारदकेशवः ॥

ब्रह्मविद्योपदेष्टा च तत्तीर्थाप्लुत वर्ष्मणाम्

॥१०॥

प्रह्लादतीर्थं तत्रैव नाम्ना प्रह्लादकेशवः ॥

भक्तैः समर्चनीयोहं महाभक्ति समृद्धये

॥११॥

तीर्थेंऽबरीषे तत्राहं नाम्नैवादित्यकेशवः ॥

पातकध्वांतनिचयं ध्वंसयामीक्षणादपि

॥१२॥

दत्तात्रेयेश्वराद्याम्यामहमादिगदाधरः ॥

हरामि तत्र भक्तानां संसारगदसंचयम्

॥१३॥

तत्रैव भार्गवे तीर्थे भृगुकेशव नामतः ॥

काशीनिवासिनः पुंसो बिभर्मि च मनोरथैः

॥१४॥

वामनाख्येमहातीर्थे मनःप्रार्थितदे शुभे ॥

पूज्योहं शुभमिच्छद्भिर्नाम्ना वामनकेशवः

॥१५॥

नरनारायणे तीर्थे नरनारायणात्मकम् ॥

भक्ताः समर्च्य मां स्युर्वै नरनारायणात्मकाः

॥१६॥

तीर्थे यज्ञवराहाख्ये यज्ञवाराहसंज्ञकः ॥

नरैः समर्चनीयोहं सर्वयज्ञफलेप्सुभिः

॥१७॥

विदारनरसिंहोहं काशीविघ्नविदारणः ॥

तन्नाम्नि तीर्थे संसेव्यस्तीर्थोपद्रवशांतये

॥१८॥

गोपीगोविंदतीर्थे तु गोपीगोविंदसंज्ञकम् ॥

समर्च्य मां नरो भक्त्या मम मायां न संस्पृशेत्

॥१९॥

मुने लक्ष्मीनृसिंहोस्मि तीर्थे तन्नाम्नि पावने ॥

दिशामि भक्तियुक्तेभ्यः सदानैः श्रेयसीं श्रियम्

॥२०॥

शेषमाधवनामाहं शेषतीर्थेऽघहारिणि ॥

विश्राणयाम्यशेषाश्च विशेषान्भक्तचिंतितान्

॥२१॥

शंखमाधवतीर्थे च स्नात्वा मां शंखमाधवम् ॥

शंखोदकेन संस्नाप्य भवेच्छंखनिधेः पतिः

॥२२॥

हयग्रीवे महातीर्थे मां हयग्रीवकेशवम् ॥

प्रणम्य प्राप्नुयान्नूनं तद्विष्णोः परमंपदम्

॥२३॥

भीष्मकेशवनामाहं वृद्धकालेशपश्चिमे ॥

उपसर्गान्हरे भीष्मान्सेवितो भक्तियुक्तितः

॥२४॥

निर्वाणकेशवश्चाहं भक्तनिर्वाणसूचकः ॥

लोलार्कादुत्तरेभागे लोलत्वं चेतसो हरे

॥२५॥

वंद्यस्त्रिलोकसुंदर्या याम्यां यो मां समर्चयेत् ॥

काश्यां ख्यातं त्रिभुवनकेशवं न स गर्भभाक्

॥२६॥

ज्ञानवाप्याः पुरोभागे विद्धि मां ज्ञानमाधवम् ॥

तत्र मां भक्तितोभ्यर्च्य ज्ञानं प्राप्नोति शाश्वतम्

॥२७॥

श्वेतमाधवसंज्ञोहं विशालाक्ष्याः समीपतः ॥

श्वेतद्वीपेश्वरं रूपं कुर्यां भक्त्या समर्चितः

॥२८॥

उदग्दशाश्वमेधान्मां प्रयागाख्यं च माधवम् ॥

प्रयागतीर्थे सुस्नातो दृष्ट्वा पापैः प्रमुच्यते

॥२९॥

प्रयागगमने पुंसां यत्फलं तपसि श्रुतम् ॥

तत्फलं स्याद्दशगुणमत्र स्नात्वा ममाग्रतः

॥३०॥

गंगायमुनयोः संगे यत्पुण्यं स्नानकारिणाम् ॥

काश्यां मत्सन्निधावत्र तत्पुण्यं स्याद्दशोत्तरम्

॥३१॥

दानानि राहुग्रस्तेर्के ददतां यत्फलं भवेत् ॥

कुरुक्षेत्रे हि तत्काश्यामत्रैव स्याद्दशाधिकम्

॥३२॥

गंगोत्तरवहा यत्र यमुना पूर्ववाहिनी ॥

तत्संभेदं नरः प्राप्य मुच्यते ब्रह्महत्यया

॥३३॥

वपनं तत्र कर्तव्यं पिंडदानं च भावतः ॥

देयानि तत्र दानानि महाफलमभीप्सुना

॥३४॥

गुणाः प्रजापतिक्षेत्रे ये सर्वे समुदीरिताः ॥

अविमुक्ते महाक्षेत्रेऽसंख्याताश्च भवंति हि

॥३५॥

प्रयागेशं महालिंगं तत्र तिष्ठति कामदम् ॥

तत्सान्निध्याच्च तत्तीर्थं कामदं परिकीर्तितम्

॥३६॥

काश्यां माघः प्रयागे यैर्न स्नातो मकरार्कगः ॥

अरुणोदयमासाद्य तेषां निःश्रेयसं कुतः

॥३७॥

काश्युद्भवे प्रयागे ये तपसि स्नांति संयताः ॥

दशाश्वमेधजनितं फलं तेषां भवेद्ध्रुवम्

॥३८॥

प्रयागमाधवं भक्त्या प्रयागेशं च कामदम् ॥

प्रयागे तपसि स्नात्वा येर्चयंत्यन्वहं सदा

॥३९॥

धनधान्यसुतर्द्धीस्ते लब्ध्वा भोगान्मनोरमान् ॥

भुक्त्वेह परमानंदं परं मोक्षमवाप्नुयुः

॥४०॥

माघे सर्वाणि तीर्थानि प्रयागमवियांति हि ॥

प्राच्युदीची प्रतीचीतो दक्षिणाधस्तथोर्ध्वतः

॥४१॥

काशीस्थितानि तीर्थानि मुने यांति न कुत्रचित् ॥

यदि यांति तदा यांति तीर्थत्रयमनुत्तमम्

॥४२॥

आयांत्यूर्जे पंचनदे प्रातःप्रातर्ममांतिकम् ॥

महाघौघप्रशमने महाश्रेयोविधायिनि

॥४३॥

प्राप्य माघमघारिं च प्रयागेश समीपतः ॥

प्रातःप्रयागे संस्नांति सर्वतीर्थानि मामनु

॥४४॥

समासाद्य च मध्याह्नमभियांति च नित्यशः ॥

संस्नातुं सर्वतीर्थानि मुक्तिदां मणिकर्णिकाम्

॥४५॥

काश्यां रहस्यं परममेतत्ते कथितं मुने ॥

यथा तीर्थत्रयीश्रेष्ठा स्वस्वकाले विशेषतः

॥४६॥

अन्यद्रहस्यं वक्ष्यामि न वाच्यं यत्रकुत्रचित् ॥

अभक्तेषु सदा गोप्यं न गोप्यं भक्तिमज्जने

॥४७॥

काश्यां सर्वाणि तीर्थानि एकैकादुत्तरोत्तरम् ॥

महैनांसि प्रहंत्येव प्रसह्य निज तेजसा

॥४८॥

एतदेव रहस्यं ते वाराणस्या उदीर्यते ॥

उत्क्षिप्यैकांगुलिं तथ्यं श्रेष्ठैका मणिकर्णिका

॥४९॥

गर्जंति सर्वतीर्थानि स्वस्वधिष्ण्यगतान्यहो ॥

केवलं बलमासाद्य सुमहन्माणिकर्णिकम्

॥५०॥

पापानि पापिनां हत्वा महांत्यपि बहून्यपि ॥

काशीतीर्थानि मध्याह्ने प्रायश्चित्तचिकीर्षया

॥५१॥

पर्वस्वपर्वस्वपि वा नित्यं नियमवं त्यहो ॥

निर्मलानि भवंत्येव विगाह्य मणिकर्णिकाम्

॥५२॥

विश्वेशो विश्वया सार्धं सदोपमणिकर्णिकम् ॥

मध्यंदिनं समासाद्य संस्नाति प्रतिवासरम्

॥५३॥

वैकुंठादप्यहं नित्यं मध्याह्ने मणिकर्णिकाम् ॥

विगाहे पद्मया सार्धं मुदा परमया मुने

॥५४॥

सकृन्ममाख्यां गृणतां निर्हरन्यदघान्यहम् ॥

हरिनामसमापन्नस्तद्बलान्माणिकर्णिकात्

॥५५॥

सत्यलोकात्प्रतिदिनं हं सयानः पितामहः ॥

माध्याह्निक विधानाय समायान्मणिकर्णिकाम्

॥५६॥

इंद्राद्या लोकपालाश्च मरीच्याद्या महर्षयः ॥

माध्याह्निकीं क्रियां कर्तुं समीयुर्मणिकर्णिकाम्

॥५७॥

शेषवासुकिमुख्याश्च नागा वै नागलोकतः ॥

समायांतीह मध्याह्ने संस्नातुं मणिकर्णिकाम्

॥५८॥

चराचरेषु सर्वेषु यावंतश्च सचेतनाः ॥

तावंतः स्नांति मध्याह्ने मणिकर्णी जलेमले

॥५९॥

के माणिकर्णिकेयानां गुणानां सुगरीयसाम् ॥

शक्ता वर्णयितुं विप्राऽसंख्येयानां मदादिभिः

॥६०॥

चीर्णान्युग्राण्यरण्येषु तैस्तपांसि तपोधनैः ॥

यैरियं हि समासादि मुक्तिभूर्मणिकर्णिका

॥६१॥

विश्राणितमहादानास्त एव नरपुंगवाः ॥

चरमे वयसि प्राप्ता यैरेषा मणिकर्णिका

॥६२॥

चीर्णसर्वव्रतास्ते तु यथोक्तविधिना ध्रुवम् ॥

यैः स्वतल्पीकृता माणिकर्णिकेयी स्थली मृदुः

॥६३॥

त एव धन्या मर्त्येस्मिन्सर्वक्रतुषु दीक्षिताः ॥

त्यक्त्वा पुण्यार्जितां लक्ष्मीमैक्षियैर्मणिकर्णिका

॥६४॥

कृता नानाविधा धर्मा इष्टापूर्तास्तु तैर्नृभिः ॥

वार्धकं समनुप्राप्य प्रापि यैर्मणिकर्णिका

॥६५॥

रत्नानि सदुकूलानि कांचनं गजवाजिनः ॥

देयाः प्राज्ञेन यत्नेन सदोपमणिकर्णिकम्

॥६६॥

पुण्येनोपार्जितं द्रव्यमत्यल्पमपि यैर्नरैः ॥

दत्तं तदक्षयं नित्यं मुनेधिमणिकणिंकम्

॥६७॥

कुर्याद्यथोक्तमप्येकं प्राणायामं नरोत्तमः ॥

यस्तेन विहितो नूनं षडंगो योग उत्तमः

॥६८॥

जप्त्वैकामपि गायत्रीं संप्राप्य मणिकर्णिकाम् ॥

लभेदयुतगायत्रीजपनस्य फलं स्फुटम्

॥६९॥

एकामप्याहुतिं प्राज्ञो दत्त्वोपमणिकर्णिकम् ॥

यावज्जीवाग्निहोत्रस्य लभेदविकलं फलम्

॥७०॥

इति श्रुत्वा हरेर्वाक्यमग्निबिंदुर्महातपाः ॥

प्रणिपत्य महाभक्त्या पुनः पप्रच्छ माधवम्

॥७१॥

अग्निबिंदुरुवाच

विष्णो कियत्परीमाणा पुण्यैषा मणिकर्णिका ॥

ब्रूहि मे पुंङरीकाक्ष नत्वत्तस्तत्त्ववित्परः

॥७२॥

श्रीविष्णुरुवाच

आगंगा केशवादा च हरिश्चंद्रस्य मंडपात् ॥

आमध्याद्देवसरितः स्वर्द्वारान्मणिकर्णिका

॥७३॥

स्थूलमेतत्परीमाणं सूक्ष्मं च प्रवदामि ते ॥

हरिश्चंद्रस्य तीर्थाग्रे हरिश्चंद्रविनायकः

॥७४॥

सीमाविनायकश्चात्र मणिकर्णी ह्रदोत्तरे ॥

सीमाविनायकं भक्त्या पूजयित्वा नरोत्तमः

॥७५॥

मोदकैः सोपचारैश्च प्राप्नुयान्मणिकर्णिकाम् ॥

हरिश्चंद्रे महातीर्थे तर्पयेयुः पितामहान्

॥७६॥

शतं समाःसु तृप्ताः स्युः प्रयच्छंति च वांच्छितम् ॥

हरिश्चंद्रे महातीर्थे स्नात्वा श्रद्धान्वितो नरः

॥७७॥

हरिश्चंद्रेश्वरं नत्वा न सत्यात्परिहीयते ॥

ततः पर्वततीर्थं च पर्वतेश्वर संनिधौ

॥७८॥

अधिष्ठानं महामेरोर्महापातकनाशनम् ॥

तत्र स्नात्वार्चयित्वेशं किंचिद्दत्त्वा स्वशक्तितः

॥७९॥

अध्यास्य मेरुशिखरं दिव्यान्भोगान्समश्नुते ॥

कंबलाश्वतरं तीर्थं पर्वतेश्वर दक्षिणे

॥८०॥

कंबलाश्वतरेशं च तत्तीर्थात्पश्चिमे शुभम् ॥

तस्मिंस्तीर्थे कृतस्नानस्तल्लिंगं यः समर्चयेत्

॥८१॥

अपि तस्य कुले जाता गीतज्ञाः स्युः श्रियान्विताः ॥

चक्रपुष्करिणी तत्र योनिचक्र निवारिणी

॥८२॥

संसारचक्रे गहने यत्र स्नातो विशेन्नना ॥

चक्रपुष्करिणी तीर्थ ममाधिष्ठानमुत्तमम्

॥८३॥

समाः परार्धसंख्यातास्तत्र तप्तं महातपः ॥

तत्र प्रत्यक्षतां यातो मम विश्वेश्वरः परः

॥८४॥

तत्र लब्धं मयैश्वर्यमविनाशि महत्तरम् ॥

चक्रपुष्करिणी चैव ख्याताभून्मणिकर्णिका

॥८५॥

द्रवरूपं परित्यज्य ललनारूपधारिणी ॥

प्रत्यक्षरूपिणी तत्र मयैक्षि मणिकर्णिका

॥८६॥

तस्या रूपं प्रवक्ष्यामि भक्तानां शुभदं परम् ॥

यद्रूपध्यानतः पुंभिराषण्मासं त्रिसंध्यतः

॥८७॥

प्रत्यक्षरूपिणी देवी दृश्यते मणिकर्णिका ॥

चतुर्भुजा विशालाक्षी स्फुरद्भालविलोचना

॥८८॥

पश्चिमाभिमुखी नित्यं प्रबद्धकरसंपुटा ॥

इंदीवरवतीं मालां दधती दक्षिणे करे

॥८९॥

वरोद्यते करे सव्ये मातुलुंग फलं शुभम् ॥

कुमारीरूपिणी नित्यं नित्यं द्वादशवार्षिकी

॥९०॥

शुद्धस्फटिककांतिश्च सुनील स्निग्धमूर्द्धजा ॥

जितप्रवालमाणिक्य रमणीय रदच्छदा

॥९१॥

प्रत्यग्रकेतकीपुष्पलसद्धम्मिल्ल मस्तका ॥

सर्वांग मुक्ताभरणा चंद्रकांत्यंशुकावृता

॥९२॥

पुंडरीकमयीं मालां सश्रीकां बिभ्रती हृदि ॥

ध्यातव्यानेन रूपेण मुमुक्षुभिरहर्निशम्

॥९३॥

निर्वाणलक्ष्मीभवनं श्रीमतीमणिकर्णिका ॥

मंत्रं तस्याश्च वक्ष्यामि भक्तकल्पद्रुमाभिधम् ॥

यस्यावर्तनतः सिद्ध्येदपि सिद्ध्यष्टकं नृणाम्

॥९४॥

वाग्भवमायालक्ष्मीमदनप्रणवान्वदेत्पूर्वम् ॥

भांत्यं बिंदूपेतं मणिपदमथ कर्णिके सहृत्प्रणवपुटः

॥९५॥

मंत्रःसुरद्रुमसमः समस्तसुखसंततिप्रदो जप्यः ॥

तिथिभिः परिमितवर्णः परमपदं दिशति निशितधियाम्

॥९६॥

तारस्तारतृतीयो बिंद्वंतोमणिपदं ततः कर्णिके ॥

प्रणवात्मिपदं केन म इति मनुसंख्यवर्णमनुः

॥९७॥

अयं मंत्रोऽनिशं जप्यः पुंभिर्मुक्तिमभीप्सुभिः ॥

होमो दशांशकः कार्यः श्रद्धाबद्धादरैर्नृभिः

॥९८॥

परिप्लुतैः पुंडरीकैर्गव्येन हविषास्फुटैः ॥

सशर्करेण मेधावी सक्षौद्रेण सदाशुचिः

॥९९॥

त्रिलक्षमंत्र जप्येन मृतो देशांतरेष्वपि ॥

अवश्यं मुक्तिमाप्नोति मंत्रस्यास्य प्रभावतः

॥१००॥

सौवर्णीं प्रतिमा कार्या नवरत्नसमन्विता ॥

पूर्वोक्तरूपसंपन्ना संपूज्या सा प्रयत्नतः

॥१॥

संपूज्यावा सदा गेहे नरैर्मोक्षैककांक्षिभिः ॥

मणिकर्ण्यामथाक्षेप्या समभ्यर्च्य प्रयत्नतः

॥२॥

संसारभीरुभिः पुंभिः श्रद्धाबद्धादरैरिह ॥

उपायः समनुष्ठेयो ह्यपि दूरनिवासिभिः

॥३॥

मणिकर्ण्यां कृतस्नानो मणिकर्णीश वीक्षणात् ॥

जननी जठरावासे वसतिं न लभेन्नरः

॥४॥

मणिकर्णीश्वरं लिंगंं पुरासंस्थापितं मया ॥

प्राग्द्वारेंतर्गृहस्यात्र समर्च्यो मोक्षकांक्षिभिः

॥५॥

ततः पाशुपतं तीर्थमवाच्यां मणिकर्णितः ॥

कृतोदकक्रियस्तत्र पश्येत्पशुपतीश्वरम्

॥६॥

यत्र पाशुपतो योग उपदिष्टः पिनाकिना ॥

ममापि विधिमुख्यानां सुराणां पशुपाशहृत्

॥७॥

अतः पशुपतिर्यत्र लिंगरूपधरः स्वयम् ॥

पशुपाशविमोक्षाय नित्यं काश्यां प्रकाशते

॥८॥

तत्र चैत्र चतुर्दश्यां शुक्लायां शुचिमानसैः ॥

कार्या यात्रा प्रयत्नेन रात्रौ जागरणं तथा

॥९॥

पूजयित्वा पशुपतिमुपोषणपरायणाः ॥

पशुपाशैर्न बध्यंते दर्शे विहितपारणाः

॥११०॥

रुद्रावासस्ततस्तीर्थं तीर्थात्पाशुपतात्पुरः ॥

तत्र स्नात्वा नरैरर्च्यो रुद्रावासेश्वरो हरः

॥११॥

मणिकर्णीश्वराद्याम्यां रुद्रावासेश्वरं नरः ॥

समाराध्य वसेल्लोके रुद्रावासे न संशयः

॥१२॥

विश्वतीर्थं ततो याम्यां विश्वैस्तीर्थैरधिष्ठितम् ॥

तत्र स्नात्वा नरो भक्त्या विश्वनाथं विलोकयेत्

॥१३॥

विश्वां गौरीं च तदनु पूजयित्वाति भक्तितः ॥

विश्वस्य पूज्यो भवति ततो विश्वमयो भवेत्

॥१४॥

मुक्तितीर्थं च तदनु तत्रापि कृतमज्जनः ॥

मोक्षेश्वरं ततोभ्यर्च्य मोक्षमाप्नोत्यसंशयम्

॥१५॥

अविमुक्तेश्वरात्पश्चान्मोक्षेशं वीक्ष्य मानवः ॥

न पुनर्मानवेलोके यातायातं करोत्यहो

॥१६॥

अविमुक्तेश्वरं तीर्थं मुक्तितीर्थान्मनाक्परे ॥

तत्राप्लुत्याविमुक्तेशमर्चयित्वा विमुच्यते

॥१७॥

तत्परे तारकं तीर्थं यत्र विश्वेश्वरः स्वयम् ॥

आचष्टे तारकं ब्रह्ममृतकर्णेमृतात्मकम्

॥१८॥

सुस्नातस्तारके तीर्थे तारकेश्वर दर्शनात् ॥

संसारसागरं तीर्त्वा तारयेत्स्वपितॄनपि

॥१९॥

तत्राभ्याशे स्कंदतीर्थं तत्राप्लुत्य नरोत्तमः ॥

दृष्ट्वा षडाननं चैव जह्यात्षाट्कौशिकीं तनुम्

॥१२०॥

तारकेश्वर पूर्वेण दृष्ट्वा देवं षडाननम् ॥

वसेत्षडानने लोके कौमारं वपुरुद्वहन्

॥२१॥

ढुंढितीर्थं ततः पुण्यं नरस्तत्र कृतोदकः ॥

ढुंढिं गणपतिं स्तुत्वा न विघ्नैरभिभूयते

॥२२॥

भवानीतीर्थमतुलं ढुंढितीर्थस्य दक्षिणे ॥

तत्र स्नात्वा विधानेन भवानीं परिपूज्य च

॥२३॥

दुकूले रत्ननेपथ्यैर्नैवेद्यैर्बहुविस्तरैः ॥

पुष्पैर्धूपैः प्रदीपैश्च भवानी शो प्रपूज्य च

॥५४॥

समस्तमर्चितं तेन त्रैलोक्यं सचराचरम् ॥

भवानीशंकरौ काश्यामर्चितौ श्रद्धया तु यैः

॥२५॥

चैत्राष्टम्यां महायात्रां भवान्याः कारयेत्सुधीः ॥

अष्टाधिकाः प्रकर्तव्याः शतकृत्वः प्रदक्षिणाः

॥२६॥

प्रदक्ष्रिणीकृतातेन सप्तद्वीपवती मही ॥

सशैला ससमुद्रा च साश्रमा च सकानना

॥२७॥

अष्टौ प्रदक्षिणा देयाः प्रत्यहं तुष्टितत्परैः ॥

नमनीयौ प्रयत्नेन भवानीशंकरौ सदा

॥२८॥

भक्तानां कामदा नित्यं भवानी वाससां प्रदा ॥

अतो भवानी संपूज्या काश्यां तीर्थनिवासिभिः

॥२९॥

योगक्षेमं सदा कुर्याद्भवानी काशिवासिनाम् ॥

तस्माद्भवानी संसेव्या सततं काशिवासिभिः

॥१३०॥

भिक्षणीया सदा भिक्षा भिक्षुणा मोक्षकांक्षिणा ॥

यतो भिक्षाप्रदा काश्यां विश्वेशस्य कुटुंबिनी

॥३१॥

गृहमध्येत्र विश्वेशो भवानी तत्कुटुंबिनी ॥

सर्वेभ्यः काशिसंस्थेभ्यो मोक्षभिक्षां प्रयच्छति

॥३२॥

दुष्प्रापमपि यत्किंचित्काशीक्षेत्रनिवासिनाम् ॥

तत्सुप्राप्यं करोत्येव भवानी पूजिता नृभिः

॥३३॥

कुर्याज्जागरणं रात्रौ महाष्टम्यां व्रती नरः ॥

प्रातर्भवानीमभ्यर्च्य प्राप्नुयाद्वांछितं फलम्

॥३४॥

शुक्रेशात्पश्चिमाशायां भवानीं योऽभिवीक्षते ॥

सर्वे मनोरथास्तस्य सिद्ध्यंतीह न सं शयः

॥३५॥

काश्यां सदैव वस्तव्यं स्नातव्योत्तरवाहिनी ॥

भवानीशंकरौ सेव्यौ प्राप्तव्ये भुक्तिमुक्तिके

॥३६॥

मातर्भवानि तव पादरजोभवानि मातर्भवानि तवदासतरो भवानि ॥

मातर्भवानि नभवानि यथाभवेस्मिंस्त्वद्भाग्भवान्यनुदिनं न पुनर्भवानि

॥३७॥

तिष्ठता गच्छता वापि स्वपता जाग्रतापि वा ॥

अयमत्र सदा जप्यः सुखाप्त्यै काशिवासिना

॥३८॥

ईशानतीर्थं तत्रैव भवानीतीर्थसन्निधौ ॥

तत्र स्नातो य ईशानमर्चयेन्न स जन्मभाक्

॥३९॥

ज्ञानतीर्थं च तत्रैव ज्ञानदं सवर्दा नृणाम् ॥

कृताभिषेकस्तत्तीर्थे दृष्ट्वा ज्ञानेश्वरं शिवम्

॥१४०॥

ज्ञानवापीसमीपस्थो ज्ञानेशो यैः समर्चितः ॥

ज्ञानभ्रंशो न तेषां स्यादपि पंचत्वमृच्छताम्

॥४१॥

शैलादितीर्थं तत्रैव परमर्द्धि प्रकाशकम् ॥

तत्र श्राद्धादिकं कृत्वा दत्त्वा दानं स्वशक्तितः

॥४२॥

शैलादीश्वरमालोक्य ज्ञानवाप्या उदग्दिशि ॥

लभेद्गणत्वपदवीं नात्र कार्या विचारणा

॥४३॥

नंदितीर्थादवाच्यां तु विष्णुतीर्थं परं मम ॥

तत्र पिंडान्विनिर्वाप्य पितॄणामनृणो भवेत्

॥४४॥

विष्णुतीर्थे कृतस्नानो यो मां विष्णुं विलोकयेत् ॥

विश्वेशाद्दक्षिणेपार्श्वे विष्णुलोकं स गच्छति

॥४५॥

यः प्रत्येकादशीं प्राप्य शयनीं बोधिनीं तथा ॥

कुर्याज्जागरणं रात्रौ मम मूर्तिसमीपतः

॥४६॥

प्रातः समर्च्य मां भक्त्या भोजयित्वा द्विजानपि ॥

दत्त्वा गाः कांचनं भूमिं न भूयो भूमिभाग्भवेत्

॥४७॥

कृत्वा तत्र व्रतोत्सर्गं वित्तशाठ्यविवर्जितः ॥

सम्यग्व्रतफलं धीमान्प्राप्नोत्येव ममाज्ञया

॥४८॥

मम तीर्थादवाच्यां तु ती र्थं पैतामहं शुभम् ॥

तत्र श्राद्धविधानेन तर्पयित्वा पितामहान्

॥४९॥

पितामहेश्वरं लिंगं ब्रह्मनालोपरिस्थितम् ॥

पूजयित्वा नरो भक्त्या ब्रह्मलोकमवाप्नुयात्

॥१५०॥

ब्रह्मस्रोतः समीपे तु कृतं कर्म शुभाशुभम् ॥

परामक्षयतामेति शुभमेव ततश्चरेत्

॥५१॥

अत्यल्पमपि यत्कर्म कृतमत्र शुभाशुभम् ॥

प्रलयेपि न तस्यास्ति प्रलयो मुनिसत्तम

॥५२॥

नाभितीर्थमिदं प्रोक्तं नाभिभूतं यतः क्षितेः ॥

अपि ब्रह्मांडगोलस्य नाभिरेषा शुभोदया

॥५३॥

सा माणिकर्णिकेयीयं नाभिर्गांभीर्यभूमिका ॥

ब्रह्मांडगोलकं सर्वं यस्यामेति लयोदयम्

॥५४॥

ब्रह्मनालं परं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥

तत्संगमे नरः स्नात्वा कोटिजन्म मलं हरेत्

॥५५॥

ब्रह्मनाले पतेद्येषामपि कीकसमात्रकम् ॥

ब्रह्मांडमंडपांतस्ते न विशंति कदाचन

॥५६॥

ततो भागीरथेस्तीर्थं ब्रह्मनालाच्च दक्षिणे ॥

तत्र स्नात्वा नरः सम्यङ्मुच्यते ब्रह्महत्यया

॥५७॥

भागीरथीश्वरं लिंगं स्वर्गद्वारस्य सन्निधौ ॥

दर्शनाद्ब्रह्महत्यायाः पुरश्चरणमुच्यते

॥५८॥

अशुभां गतिमापन्ना यस्य पूर्वे पितामहाः ॥

तेन भागीरथी तीर्थे तर्पणीयाः प्रयत्नतः

॥५९॥

तत्र भागीरथे तीर्थे श्राद्धं कृत्वा विधानतः ॥

ब्राह्मणान्भोजयित्वा तु ब्रह्मलोके नयेत्पितॄन्

॥१६०॥

तद्दक्षिणे महातीर्थं खुरकर्तरि संज्ञितम् ॥

गोलोकादागताभिश्च गोभिर्यत्खुरकोटिभिः

॥६१॥

स्थपुटीकृतभूभागं ततस्तत्खुर कर्तरि ॥

तस्मिंस्तीर्थे कृतस्नानः कृतपिंडोदकक्रियः

॥६२॥

खुरकर्तरीशं लिंगं दृष्ट्वा गोलोकमाप्नुयात् ॥

गोधनैर्न विमुच्येत तल्लिंगस्य समर्चनात्

॥६३॥

दक्षिणे खुरकर्तर्या मार्कंडं तीर्थमुत्तमम् ॥

कृतश्राद्धविधानश्च तस्मिंस्तीर्थेऽघहारिणि

॥६४॥

मार्कंडेयेश्वरं लिंगं दृष्ट्वायुर्दीर्घमाप्नुयात् ॥

ब्रह्मतेजोभिवृद्धिं च कीर्तिं च परमां भुवि

॥६५॥

वसिष्ठतीर्थं परमं महापातकनाशनम् ॥

तर्पयित्वा पितॄंस्तत्र वसिष्ठेशं विलोक्य च

॥६६॥

नरो न लिप्यते पापैर्जन्मत्रयसमर्जितैः ॥

वसिष्ठलोके वसति ब्रह्मतेज समन्वितः

॥६७॥

तत्रैवारुधंती तीर्थं स्त्रीणां सौभाग्यवधर्नम् ॥

पतिव्रताभिस्तत्तीर्थं गाहनीयं विशेषतः

॥६८॥

पौंश्चल्यजनितो दोषस्तत्तीर्थपरिमज्जनात् ॥

क्षणाद्विनाश मागच्छेदरुंधत्याः प्रभावतः

॥६९॥

मार्कंडेयेश्वरात्प्राच्यां वसिष्ठेश्वर पूजनात् ॥

निष्पापो जायते मर्त्यो महत्पुण्यमवाप्नुयात्

॥१७०॥

मूर्ती वसिष्ठारुंधत्योस्तत्र पूज्ये प्रयत्नतः ॥

न स्त्री वैधव्यमाप्नोति न पुमान्स्त्री वियोगिताम्

॥७१॥

वसिष्ठतीर्थतो याम्यां नर्मदातीर्थमुत्तमम् ॥

विधाय श्राद्धं मेधावी नर्मदेशंविलोक्य च

॥७२॥

तत्र दत्त्वा महादानं पद्मयानविमुच्यते ॥

ततस्त्रिसंध्यं वै तीर्थं त्रिसंध्येश्वर पूर्वतः

॥७३॥

तत्र तीर्थे नरः स्नात्वा कृत्वा संध्यां विधानतः ॥

संध्याकाल विलोपोत्थपातकैर्नाभिभूयते

॥७४॥

त्रिसंध्येश्वरमालोक्य कृतसंध्यस्त्त्रिकालतः ॥

त्रिवेदावर्तजं पुण्यं प्राप्नुयाच्छ्रद्धया द्विजः

॥७५॥

ततोऽनुयोगिनीतीर्थं नरस्तत्र कृताप्लवः ॥

दृष्ट्वा तु योगिनीपीठं योगसिद्धिमवाप्नुयात्

॥७६॥

अगस्ति तीर्थे तत्रास्ति महाघौघ विघातकृत् ॥

तत्र स्नात्वा प्रयत्नेन दृष्ट्वागस्तीचश्वरं विभुम्

॥७७॥

अगस्तिकुंडे च ततः संतर्प्य च पितामहान् ॥

अगस्तिना समेतां च लोपामुद्रां प्रणम्य च

॥७८॥

सर्वपापविनिर्मुक्तः सर्वक्लेशविवर्जितः ॥

गच्छेत्स पूर्वजैः सार्धं शिवलोकं नरोत्तमः

॥७९॥

दक्षिणेऽगस्त्यतीर्थाच्च तीर्थमस्त्यतिपावनम् ॥

गंगाकेशवसंज्ञं च सर्वपातकनाशनम्

॥१८०॥

तत्र मे शुभदां मूर्तिं मुने तत्तीर्थसंज्ञिकाम् ॥

संपूज्य श्रद्धया धीमान्मम लोके महीयते

॥८१॥

तत्र पिंडान्विनिर्वाप्य दत्त्वा दानं स्वशक्तितः ॥

शतसांवत्सरीं तृप्तिं पितॄणां स समर्पयेत्

॥८२॥

मणिकर्णी परीमाणमेतत्ते कीर्तितं महत् ॥

सीमाविनायकाद्याम्यां सर्वविघ्नविघातनात्

॥८३॥

वैरोचनेश्वरात्प्राच्यामहं वैकुंठमाधवः ॥

तत्र मां भक्तितोभ्यर्च्य वैकुंठार्चामवाप्नुयात्

॥८४॥

वीरमाधवसंज्ञोहं वीरेशात्पश्चिमे मुने ॥

तत्र व्रती समभ्यर्च्य न यामीं यातनां लभेत्

॥८५॥

कालमाधवनामाहं कालभैरव सन्निधौ ॥

कलिः कालो न कलयेन्मद्भक्तमिति निश्चितम्

॥८६॥

मार्गशीर्षस्य शुक्लायामेकादश्यामुपोषितः ॥

तत्र जागरणं कृत्वा यमं नालोकयेत्क्वचित्

॥८७॥

निर्वाणनरसिंहोहं पुलस्तीश्वरदक्षिणे ॥

भक्तो निर्वाणमाप्नोति तन्मृर्तिनमनादपि

॥८८॥

महाबलनृसिंहोहमोंकारात्पूर्वतो मुने ॥

दूतान्महाबलान्याम्यान्न पश्येत्तु तदर्चकः

॥६९॥

प्रचंडनरसिंहोहं चंडभैरवपूर्वतः ।

प्रचंडमप्यघं कृत्वा निष्पाप्मा स्यात्तदर्चनात्

॥१९०॥

अहं गिरिनृसिंहोस्मि तद्देहलिविनायकात् ॥

प्राच्यां प्रबलपापौ घगजानां प्रविदारणः

॥९१॥

महाभयहरश्चाहं नरसिंहो महामुने ॥

पितामहेश्वरात्पश्चाद्भक्त साध्वससाध्वसः

॥९२॥

अत्युग्रनरसिंहोहं कलशेश्वरपश्चिमे ॥

अत्युग्रमपि पापौघं हरामि श्रद्धयार्चितः

॥९३॥

ज्वालामालीनृसिंहोऽहं ज्वालामुख्याः समीपतः ॥

संज्वालयामि पापौघ तृणानि परिपूजितः

॥९४॥

कोलाहलनृसिंहोस्मि दैत्यदानवमर्दनः ॥

ममनामसमुच्चारादघकोलाहलो यतः

॥९५॥

कंकालभैरवो यत्र काशीरक्षणदक्षधीः ॥

तत्र मां भक्तितोभ्यर्च्य नोपसर्गैर्निरुध्यते

॥९६॥

विटंकनरसिंहोस्मि नीलकंठेश्वरादनु ॥

तत्र मां श्रद्धया पूज्य नरो भवति निर्भयः

॥९७॥

अनंतवामनश्चाहमनंतेश्वरसन्निधौ ॥

अनंतान्यपि भक्तस्य कलुषाणि हरेऽर्चितः

॥९८॥

दधिवामनसंज्ञोहं भक्तानां दधिभक्तदः ॥

यन्नामस्मरणादेव न दरिद्रो नरो भवेत्

॥९९॥

त्रिविक्रमोस्म्यहं काश्यामुदीच्यां च त्रिलोचनात् ॥

ददामि पूजितो लक्ष्मीं हरामि वृजिनान्यपि

॥२००॥

बलिवामननामाहं बलिना परिपूजितः ॥

बलिभद्रेश्वरात्प्राच्यां भक्तानां बलवर्धनः

॥११॥

दक्षिणे भवतीर्थाच्च ताम्रद्वीपादिहागतः ॥

नाम्ना ताम्रवराहोस्मि भक्तानां चिंतितार्थदः

॥२॥

मुने धरणिवाराहः प्रयागेश्वरसन्निधौ ॥

स्नात्वा वाराहतीर्थेत्र दृष्ट्वा मां किटि रूपिणम्

॥३॥

संपूज्य बहुभावेन न विशेद्योनिसंकटम् ॥

तत्राल्पमपि दत्त्वान्नं धरादानफलं लभेत्

॥४॥

महाकलुषगंभीर सागरे निपतञ्जनः ॥

मम भक्त्युडुपं प्राप्य प्रलयेपि न मज्जति

॥५॥

अहं कोकावराहोस्मि किटीश्वरसमीपतः ॥

तत्र मां पूजयन्मर्त्यो लभते चिंतितफलम्

॥६॥

नारायणाः शतं पंच शतं च जलशायिनः ॥

त्रिंशत्कमठरूपाणि मत्स्यरूपाणि विंशतिः

॥७॥

गोपालाश्च शतं साष्टं बुद्धाः संति सहस्रशः ॥

त्रिंशतरामाश्च रामा एकोत्तरंशतम्

॥८॥

विष्णुरूपोस्म्यहं चैको मुक्तिमंडपमध्यतः ॥

मुनेकृतप्रसादेन विश्वेशेन श्रितः स्वयम्

॥९॥

नारायणस्वरूपेण गणाश्चक्रगदोद्यताः ॥

कुर्वंति रक्षां क्षेत्रस्य परितो नियुतानि षट्

॥२१०॥

सोग्निबिंदुरिति श्रुत्वा संप्रहृष्टतनूरुहः ॥

पुनः पप्रच्छ मेधावी मूर्तिभेदान्वद प्रभो

॥११॥

हिताय निजभक्तानां मम संदेहशांतये ॥

कति ते मूर्तयोनंत कथं ज्ञेयास्तथा वद

॥१२॥

इत्याकर्ण्य वचस्तस्याग्निबिंदोस्तपसां निधेः ॥

उवाच भगवान्विष्णुर्मूर्तिभेदाननुक्रमात

॥१३॥

याञ्श्रुत्वापि हि नो मर्त्यो यमगोचरतां व्रजेत् ॥

केशवादींश्चतुर्विंशद्भेदानाह प्रजापतिः

॥१४॥

श्रीविष्णुरुवाच

अग्निबिंदो महाप्राज्ञ शृणु ते कथयाम्यहम् ॥

आद्यदक्षिणहस्ताच्च विद्धि सृष्टिक्रमान्मुने

॥१५॥

शंखचक्रगदापद्मैर्मूर्तिं जानीहि कैशवीम् ॥

पूजिता या नृणां कुर्याच्चिंतितार्थमसंशयम्

॥१६॥

मधुहा परिचेतव्यः शंखपद्मगदासिभिः ॥

वैरिणो नाशमायांति तन्मूर्तिपरिसेवनात्

॥१७॥

संकर्षणः समर्च्योत्र शंखाब्जारिगदायुधः ॥

तन्मूर्तिपूजनाज्जातु जंतुर्न स्यात्पुनर्भवी

॥१८॥

शंखकौमोदकीचक्रपद्मैर्दामोदरोर्च्यते ॥

ददाति वित्तं पुत्रांश्च गोधनं धान्यमेव हि

॥१९॥

वामनः शंखचक्राब्जगदाभिरुपलक्षितः ॥

लक्ष्मीवंतं जनं कुर्याद्गृहेपि परिधारितः

॥२२०॥

पांचजन्यं गदांपद्मं चित्रमूर्ति सुदर्शनम् ॥

प्रद्युम्नः पूज्यते मर्त्यैर्बहुद्युम्नं प्रयच्छति

॥२१॥

ऊर्ध्ववामकरात्सृष्ट्या विष्ण्वाद्यं षट्कमुच्यते ॥

यस्य स्मरणमात्रेण विलीयंतेघराशयः

॥२२॥

शंखारिभ्यां गदाब्जाभ्यां पूज्यो विष्णुः श्रिये नरैः ॥

शंखपद्मगदाचक्रैर्माधवः परमर्द्धिदः

॥२३॥

ध्येयोऽनिरुद्धः संसिद्ध्यै शंखाब्जारिगदोद्यतः ॥

शंखेन गदया चक्रांबुजाभ्यां पुरुषोत्तमः

॥२४॥

अधोक्षजो जनिहरः शंखार्यब्जगदो मुने ॥

शंखकौमोदकीपद्मचक्रैर्ध्येयो जनार्दनः

॥२५॥

अधोवामकरात्सृष्ट्या षडगोंविदादि मूर्तयः ॥

शंखं चक्रं गदां पद्मं गोविंदो बिभृयात्सदा

॥२६॥

शंखपद्मगदाचक्रैरर्च्यो लक्ष्म्यै त्रिविक्रमः ॥

शंखाब्जचक्रं बिभ्राणो गदावाञ्श्रीधरः श्रिये

॥२७॥

हृषीकेशश्च शंखेन गदाचक्रांबुजैर्मतः ॥

नृसिंहः शंखचक्राभ्यां पद्मेन गदयोह्यते

॥२८॥

अच्युत शंखभृन्नित्यं गदापद्मरथांगवान् ॥

दक्षिणाधः करादूह्या वासुदेवादयश्च षट्

॥२९॥

वासुदेवश्च शंखारि गदाजलजभृत्सदा ॥

शंखांबुज गदाचक्री ध्येयो नारायणो नृभिः

॥२३०॥

शंखी पद्मी पद्मनाभो ज्ञेयश्चक्री गदी मुने ॥

उपेंद्रः शंखवान्नित्यं गदारि कमलायुधः

॥३१॥

हरिर्हरेदघं शंखी चक्री पद्मी गदी नृणाम् ॥

शंखेन गदया पद्मचक्राभ्यां कृष्ण उच्यते

॥३२॥

एते भेदा मया ख्याताः स्वमूर्तीनां महामुने ॥

यान्विज्ञाय ध्रुवं मर्त्यो भुक्तिं मुक्तिं च विंदति

॥३३॥

एवं वदति गोविंदे मुनये चाग्निबिंदवे ॥

पक्षींद्रः पक्षविक्षिप्तविपक्षोऽक्षिपथं गतः

॥३४॥

प्राह च प्रणिपत्याशु त्र्यक्षस्यागमनं मुदा ॥

संभ्रमेण हृषीकेशः क्वेश इत्यवदत्ततः

॥३५॥

गरुड उवाच

प्रत्यक्षः क्रियतामेष महावृषभकेतनः ॥

यस्य ध्वजस्य रत्नार्चिः पूरयेद्रोदसीमिमाम्

॥३६॥

लोकलोचननिर्माण सफलीकरणक्षमम् ॥

कोटिमार्तंडविद्योत प्रद्योतित दिगाननम्

॥३७॥

निरीक्ष्य पुंडरीकाक्षस्त्र्यक्षस्य वृषभध्वजम् ॥

विमानिनां विमानौघैः परीतगगनांगणम्

॥३८॥

महावाद्यनि नादौघैःप्रतिस्वानित कंदरम् ॥

विद्याधरी परिक्षिप्त पुष्पांजलि सुगंधितम्

॥३९॥

प्रणम्य दूरादपिच संप्रहृष्टतनूरुहः ॥

अभ्युत्थातुं मनश्चक्रे शंखचक्रगदाधरः

॥२४०॥

अग्निबिंदुमथ प्राह मुक्तिदस्तु मुदांनिधिः ॥

इदं सुदर्शनं चक्रं स्पृशासव्येनपाणिना

॥४१॥

अग्निबिंदुरितिप्रोक्तः स्पृशेद्यावत्सुदर्शनम् ॥

तावत्सुदर्शनो जातः परमानुग्रहाद्धरेः

॥४२॥

स्कंद उवाच

ज्योतीरूपोथ स मुनिः कौस्तुभे ज्योतिषां तनौ ॥

एकीभूतः कलशज बिंदुमाधवसेवनात्

॥४३॥

बिंदुमाधवपादाब्ज भ्रमरीकृतमानसाः ॥

अग्निबिंदूपमांयांति कलशोद्भव निश्चितम्

॥४४॥

काश्यां सदैव वस्तव्यं द्रष्टव्यो बिंदुमाधवः ॥

श्रोतव्यमिदमाख्यानं जेतव्या जगतां गतिः

॥४५॥

पुण्या पंचनदोत्पत्तिः पुण्या माधवसंकथा ॥

पुण्यो वाराणसी वासः संभवेत्पुण्यजन्मनाम्

॥४६॥

अग्निबिंदोः स्तुतिं योत्र माधवाग्रे पठिष्यति ॥

समृद्धसर्वकामः स मोक्षलक्ष्मीपतिर्भवेत्

॥४७॥

श्राद्धकाले सदा जप्यमिदमाख्यानमुत्तमम् ॥

द्विजानां भुंजमानानां पुरस्तात्परतृप्तये

॥४८॥

जप्तव्यमिदमाख्यानं पर्वकाले विशेषतः ॥

पुण्ये पंचनदाभ्याशे पुण्यलक्ष्मीविवृद्धये

॥४९॥

पठितव्यः प्रयत्नेन बिंदुमाधवसंभवः ॥

श्रोतव्यः परया भक्त्या भुक्तिमुक्तिसमृद्धये

॥२५०॥

संप्राप्ते वासरे विष्णो रात्रौ जागरणान्वितः ॥

श्रुत्वाख्यानमिदं पुण्यं वैकुंठे वसतिं लभेत्

॥२५१॥

इति श्रीस्कांदे महापुरण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे बिंदुमाधवाविर्भावो माधवाग्निबिंदुसंवाद वैष्णवतीर्थमाहात्म्यवर्णनं नामैकषष्टितमोध्यायः ॥ ६१ ॥