मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ५१

3
काशीखण्डः · 51

पार्वती हृदयानंद सर्वज्ञांगभव प्रभो

अथ श्रीकाशीखंडोत्तरार्धं प्रारभ्यते

श्रीगणेशाय नमः

अगस्तिरुवाच

पार्वती हृदयानंद सर्वज्ञांगभव प्रभो ॥

किंचित्प्रष्टुमनाः स्वामिंस्तद्भवान्वक्तुमर्हति

॥१॥

दक्ष प्रजापतेः पुत्री कश्यपस्य परिग्रहः ॥

गरुत्मतः प्रसूः साध्वी कुतो दास्यमवाप सा

॥२॥

स्कंद उवाच

हंजिकात्वं यथा प्राप्ता विनता सा तपस्विनी ॥

तदप्यहं समाख्यामि निशामय महामते

॥३॥

कद्रूरजीजनत्पुत्राञ्शतं कश्यपतः पुरा ॥

उलूकमरुणं तार्क्ष्यमसूत विनता त्रयम्

॥४॥

कौशिको राज्यमाप्यापि श्रेष्ठत्वात्पक्षिणां मुने ॥

निर्गुणत्वाच्च तैः सर्वैः स राज्यादवरोपितः

॥५॥

क्रूराक्षोयं दिवांधोयं सदा वक्रनखस्त्वसौ ॥

अतीवोद्वेगजनकं सर्वेषामस्य भाषणम्

॥६॥

इत्थं तस्य गुणग्रामान्विकथ्य बहुशः खगाः ॥

नाद्यापि वृण्वते राज्ये कमपि स्वैरचारिणः

॥७॥

कौशिकेथ तथावृत्ते पुत्रवीक्षणलालसा ॥

अंडं प्रस्फोटयामास मध्यमं विनता तदा

॥८॥

पूर्णे वर्षसहस्रे तु प्रस्फोट्य घटसंभव ॥

तदभेदितयौत्सुक्यादंडमष्टमके शते

॥९॥

तावत्सर्वाणि गात्राणि तस्यातिमहसः शिशोः ॥

ऊर्वोरुपरिसिद्धानि दंडांतर्निवासिनः

॥१०॥

अंडान्निर्गतमात्रेण क्रोधारुणमुखश्रिया ॥

अर्धनिष्पन्नदेहेन शिशुना शापिता प्रसूः

॥११॥

जनयित्रि त्वया दृष्ट्वा काद्रवेयान्स्वलीलया ॥

खेलतो मातुरुत्संगे यदंडं व्याधित द्विधा

॥१२॥

तदनिष्पन्न सर्वांगः शपामि त्वा विहंगमे ॥

तेषामेवैधि दासी त्वं सपत्न्यंग भुवामिह

॥१३॥

वेपमानाथ तच्छापादिदं प्रोवाच पक्षिणी ॥

अनूरो ब्रूहि मे शापावसानं मातुरंगज

॥१४॥

अनूरुरुवाच

अंडं तृतीयं मा भिंधि ह्यनिष्पन्नं ममेव हि ॥

अस्मिन्नंडे भविष्यो यः स ते दास्यं हरिष्यति

॥१५॥

इत्युक्त्वा सोरुणोगच्छदुड्डीयानंदकाननम् ॥

यत्र विश्वेश्वरो दद्यादपि पंगोः शुभां गतिम्

॥१६॥

एतत्ते पृच्छतः ख्यातं विनता दास्यकारणम् ॥

मुने प्रसंगतो वच्मि अरुणादित्यसंभवम्

॥१७॥

अनूरुत्वादनूरुर्योरुणः क्रोधारुणो यतः ॥

वाराणस्यां तपस्तप्त्वा तेनाराधि दिवाकरः

॥१८॥

सोपि प्रसन्नो दत्त्वाथ वरांस्तस्मा अनूरवे ॥

आदित्यस्तस्य नाम्नाभूदरुणादित्य इत्यपि

॥१९॥

अर्क उवाच

तिष्ठानूरो मम रथे सदैव विनतात्मज ॥

जगतां च हितार्थाय ध्वांतं विध्वंसयन्पुरः

॥२०॥

अत्र त्वत्स्थापितां मूर्तिं ये भजिष्यंति मानवाः ॥

वाराणस्यां महादेवोत्तरे तेषां कुतो भयम्

॥२१॥

येर्चयिष्यंति सततमरुणादित्यसंज्ञकम् ॥

मामत्र तेषां नो दुःखं न दारिद्र्यं न पातकम्

॥२२॥

व्याधिभिर्नाभिभूयंते नो पसर्गैश्च कैश्चन ॥

शोकाग्निना न दह्यंते ह्यरुणादित्यसेवनात्

॥२३॥

अथ स्यंदनमारोप्य नीतवानरुणं रविः ॥

अद्यापि स रथे सौरे प्रातरेव समुद्यति

॥२४॥

यः कुर्यात्प्रातरुत्थाय नमस्कारं दिनेदिने ॥

अरुणाय ससूर्याय तस्य दुःखभयं कुतः

॥२५॥

अरुणादित्यमाहात्म्यं यः श्रोष्यति नरोत्तमः ॥

न तस्य दुष्कृतं किंचिद्भविष्यति कदाचन

॥२६॥

स्कंद उवाच

वृद्धादित्यस्य माहात्म्यं शृणु ते कथयाम्यहम् ॥

यस्य श्रवणमात्रेण नरो नो दुष्कृतं भजेत्

॥२७॥

पुरात्र वृद्धहारीतो वाराणस्यां महातपाः ॥

महातपः समृद्ध्यर्थं समाराधितवान्रविम्

॥२८॥

मूर्तिं संस्थाप्य शुभदां भास्वतः शुभलक्षणाम् ॥

दक्षिणेन विशालाक्ष्या दृढभक्तिसमन्वितः

॥२९॥

तुष्टस्तस्मै वरं प्रादाद्ब्रध्नो वृद्धतपस्विने ॥

अलं विलंब्य याचस्व कस्ते देयो वरो मया

॥३०॥

सोथ प्रसन्नाद्द्युमणेरवृणीत वरं मुनिः ॥

यदि प्रसन्नो भगवान्युवत्वं देहि मे पुनः

॥३१॥

तपःकरण सामर्थ्यं स्थविरस्य न मे यतः ॥

पुनस्तारुण्यमाप्तोहं चरिष्याम्युत्तमं तपः

॥३२॥

तप एव परो धर्मस्तप एव परं वसु ॥

तप एव परः कामो निर्वाणं तप एव हि

॥३३॥

ऋतेन तपसः क्वापि लभ्या ऐश्वर्यसंपदः ॥

पदं ध्रुवादिभिः प्रापि केवलं तपसो बलात्

॥३४॥

ततस्तपश्चरिष्यामि लोकद्वयमहत्त्वदम् ॥

प्राप्य त्वद्वरदानेन यौवनं सर्वसंमतम्

॥३८३॥

धिग्जरांप्राणिनामत्र यया सर्वो विरज्यति ॥

जरातुरेंद्रियग्रामे स्त्रियोपि नयतः स्वसात्

॥३६॥

वरं मरणमेवास्तु मा जरास्त्वतिशोच्यकृत् ॥

क्षणं दुःखं च मरणं जरा दुःखं क्षणेक्षणे

॥३७॥

कांक्षंति दीर्घतपसे चिरमायुर्जितेंद्रियाः ॥

धनं दानाय पुत्राय कलत्रं मुक्तये धियम्

॥३८॥

वृद्धस्यवार्धकं ब्रध्नस्तत्क्षणादपहृत्य वै ॥

ददौ च चारुता हेतुं तारुण्यं पुण्यसाधनम्

॥३९॥

एवं स वृद्धहारीतो वाराणस्यां महामुनिः ॥

संप्राप्य यौवनं ब्रध्नात्तप उग्रं चचार ह

॥४०॥

वृद्धेनाराधितो यस्माद्धारीतेन तपस्विना ॥

आदित्यो वार्धकहरो वृद्धादित्यस्ततः स्मृतः

॥४१॥

वृद्धादित्यं समाराध्य वाराणस्यां घटोद्भव ॥

जरा दुर्गति रोगघ्नं बहवः सिद्धिमागताः

॥४२॥

वृद्धादित्यं नमस्कृत्य वाराणस्या रवौ नरः ॥

लभेदभीप्सितां सिद्धिं न क्वचिद्दुर्गतिं लभेत्

॥४३॥

स्कंद उवाच

अतः परं शृणु मुने केशवादित्यमुत्तमम् ॥

यथा तु केशवं प्राप्य सविता ज्ञानमाप्तवान्

॥४४॥

व्योम्नि संचरमाणेन सप्ताश्वेनादिकेशवः ॥

एकदा दर्शिभावेन पूजयँल्लिंगमैश्वरम्

॥४५॥

कौतुकादिव उत्तीर्य हरे रविरुपाविशत् ॥

निःशब्दो निश्चलः स्वस्थो महाश्चर्यसमन्वितः

॥४६॥

प्रतीक्षमाणोवसरं किंचित्प्रष्टुमना हरिम् ॥

हरिं विसर्जितार्चं च प्रणनाम कृतांजलिः

॥४७॥

स्वागतं ते हरिः प्राह बहुमानपुरःसरम् ॥

स्वाभ्याशं आसयामास भास्वंतं नतकंधरम्

॥४८॥

अथावसरमालोक्य लोकचक्षुरधोक्षजम् ॥

नत्वा विज्ञापयामास कृतानुज्ञोऽसुरारिणा

॥४९॥

रविरुवाच

अंतरात्मासि जगतां विश्वंभर जगत्पते ॥

तवापि पूज्यः कोप्यस्ति जगत्पूज्यात्र माधव

॥५०॥

त्वत्तश्चाविर्भवेदेतत्त्वयि सर्वं प्रलीयते ॥

त्वमेव पाता सर्वस्य जगतो जगतांनिधे

॥५१॥

इत्याश्चर्यं समालोक्य प्राप्तोस्म्यत्र तवांतिकम् ॥

किमिदं पूज्यते नाथ भवता भवतापहृत्

॥५२॥

इति श्रुत्वा हृषीकेशः सहस्रांशोरुदीरितम् ॥

उच्चैर्माशंस सप्ताश्वं वारयन्करसंज्ञया

॥५३॥

श्रीविष्णुरुवाच

देवदेवो महादेवो नीलकंठ उमापतिः ॥

एक एव हि पूज्योत्र सर्वकारणकारणम्

॥५४॥

अत्र त्रिलोचनादन्यं समर्चयतियोल्पधीः ॥

सलोचनोपि विज्ञेयो लोचनाभ्यां विवर्जितः

॥५५॥

एको मृत्युंजयः पूज्यो जन्ममृत्युजराहरः ॥

मृत्युंजयं किलाभ्यर्च्य श्वेतो मृत्युंजयोभवत्

॥५६॥

कालकालं समाराध्य भृंगी कालं जिगायवै ॥

शैलादिमपि तत्याज मृत्युर्मृत्युंजयार्चकम्

॥५७॥

विजिग्ये त्रिपुरं यस्तु हेलयैकेषु मोक्षणात् ॥

तं समभ्यर्च्य भूतेशं को न पूज्यतमो भवेत्

॥५८॥

त्रिजगज्जयिनो हेतोस्त्र्यक्षस्याराधनं परम् ॥

को नाराधयति ब्रध्नसारस्य स्मरविद्विषः

॥५९॥

यस्याक्षिपक्ष्मसंकोचाज्जगत्संकोचमेत्यदः ॥

विकस्वरं विकासाच्च कस्य पूज्यतमो न सः

॥६०॥

शंभोर्लिंगं समभ्यर्च्य पुरुषार्थचतुष्टयम् ॥

प्राप्नोत्यत्र पुमान्सद्यो नात्र कार्या विचारणा

॥६१॥

समर्च्य शांभवं लिंगमपिजन्मशतार्जितम् ॥

पापपुंजं जहात्येव पुमानत्र क्षणाद्ध्रुवम्

॥६२॥

किंकिं न संभवेदत्र शिवलिंगसमर्चनात् ॥

पुत्राः कलत्र क्षेत्राणि स्वर्गो मोक्षोप्यसंशयम्

॥६३॥

त्रैलोक्यैश्वर्यसंपत्तिर्मया प्राप्ता सहस्रगो ॥

शिवलिंगार्चनादेकात्सत्यंसत्यं पुनःपुनः

॥६४॥

अयमेव परोयोगस्त्विदमेव परं तपः ॥

इदमेव परं ज्ञानं स्थाणुलिंगं यदर्च्यते

॥६५॥

यैर्लिंगं सकृदप्यत्र पूजितं पार्वतीपतेः ॥

कुतो दुःखभयं तेषां संसारे दुःखभाजने

॥६६॥

सर्वं परित्यज्य रवे यो लिंगं शरणं गतः ॥

न तं पापानि बाधंते महांत्यपि दिवाकर

॥६७॥

लिंगार्चने भवेद्वृद्धिस्तेषामेवात्र भास्कर ॥

येषां पुनर्भवच्छेदं चिकीर्षति महेश्वरः

॥६८॥

न लिंगाराधनात्पुण्यं त्रिषुलोकेषु चापरम् ॥

सर्वतीर्थाभिषेकः स्याल्लिंगस्नानांबु सेवनात्

॥६९॥

तस्माल्लिंगं त्वमप्यर्क समर्चय महेशितुः ॥

संप्राप्तं परमां लक्ष्मीं महातेजोभि जृंभणीम्

॥७०॥

इति श्रुत्वा हरेर्वाक्यं तदारभ्य सहस्रगुः ॥

विधाय स्फाटिकं लिंगं मुनेद्यापि समर्चयेत्

॥७१॥

गुरुत्वेन तदाकल्य विवस्वानादिकेशवम् ॥

तत्रोपतिष्ठतेद्यापि उत्तरेणादिकेशवात्

॥७२॥

अतः स केशवादित्यः काश्यां भक्ततमोनुदः ॥

समर्चितः सदा देयान्मनसो वांछितं फलम्

॥७३॥

केशवादित्यमाराध्य वाराणस्यां नरोत्तमः ॥

परमं ज्ञानमाप्नोति येन निर्वाणभाग्भवेत्

॥७४॥

तत्र पादोदके तीर्थेकृतसर्वोदकक्रियः ॥

विलोक्य केशवादित्यं मुच्यते जन्मपातकैः

॥७५॥

अगस्ते रथसप्तम्यां रविवारो यदाप्यते ॥

तदा पादोदके तीर्थे आदिकेशव सन्निधौ

॥७६॥

स्नात्वोषसि नरो मौनी केशवादित्यपूजनात् ॥

सप्तजन्मार्जितात्पापान्मुक्तो भवति तत्क्षणात्

॥७७॥

यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु ॥

तन्मे रोगं च शोकं च माकरी हंतु सप्तमी

॥७८॥

एतज्जन्मकृतं पापं यच्च जन्मांतरार्जितम् ॥

मनोवाक्कायजं यच्च ज्ञाताज्ञाते च ये पुनः

॥७९॥

इति सप्तविधं पापं स्नानान्मे सप्तसप्तिके ॥

सप्तव्याधिसमायुक्तं हर माकरि सप्तमि

॥८०॥

एतन्मंत्रत्रयं जप्त्वा स्नात्वा पादोदके नरः ॥

केशवादित्यमालोक्य क्षणान्निष्कलुषो भवेत्

॥८१॥

केशवादित्यमाहात्म्यं शृण्वञ्श्रद्धासमन्वितः ॥

नरो न लिप्यते पापैः शिवभक्तिं च विंदति

॥८२॥

स्कंद उवाच

अतः परं शृणु मुने विमलादित्यमुत्तमम् ॥

हरिकेशवने रम्ये वाराणस्यां व्यवस्थितम्

॥८३॥

उच्चदेशेभवत्पूर्वं विमलो नाम बाहुजः ॥

स प्राक्तनात्कर्मयोगाद्विमले पथ्यपि स्थितः

॥८४॥

कुष्ठरोगमवाप्योच्चैस्त्यक्त्वा दारान्गृहं वसु ॥

वाराणसीं समासाद्य ब्रध्नमाराधयत्सुधीः

॥८५॥

करवीरैर्जपाभिश्च गंधकैः किंशुकैः शुभैः ॥

रक्तोत्पलैरशोकैश्च स समानर्च भास्करम्

॥८६॥

विचित्ररचनैर्माल्यैः पाटलाचंपकोद्भवैः ॥

कुंकुमागुरुकर्पूरमिश्रितैः शोणचंदनैः

॥८७॥

देवमोहनधूपैश्च बह्वामोदततांबरैः ॥

कर्पूरवर्तिदीपैश्च नैवेद्यैर्घृतपायसैः

॥८८॥

अर्घदानैश्च विधिवत्सौरेः स्तोत्रजपैरपि ॥

एवं समाराधयतस्तस्यार्को वरदोभवत्

॥८९॥

उवाच च वरं ब्रूहि विमलामलचेष्टित ॥

कुष्ठश्च ते प्रयात्वेष प्रार्थयान्यं वरं पुनः

॥९०॥

आकर्ण्य विमलश्चेत्थमालापं रश्मिमालिनः ॥

प्रणतो दंडवद्भूमौ संप्रहष्टतनूरुहः

॥९१॥

शनैर्विज्ञापयांचक्र एकचक्ररथं रविम् ॥

जगच्चक्षुरमेयात्मन्महाध्वांतविधूनन

॥९२॥

यदि प्रसन्नो भगवन्यदि देयो वरो मम ॥

तदा त्वद्भक्तिनिष्ठा ये कुष्ठं मास्तु तदन्वये

॥९३॥

अन्येपि रोगा मा संतु मास्तु तेषां दरिद्रता ॥

मास्तु कश्चन संतापस्त्वद्भक्तानां सहस्रगो

॥९४॥

श्रीसूर्य उवाच

तथास्त्विति महाप्राज्ञ शृण्वन्यं वरमुत्तमम् ॥

त्वयेयं पूजिता मूर्तिरेवं काश्यां महामते

॥९५॥

अस्याः सान्निध्यमत्राहं न त्यक्ष्यामि कदाचन ॥

प्रथिता तव नाम्ना च प्रतिमैषा भविष्यति

॥९६॥

विमलादित्य इत्याख्या भक्तानां वरदा सदा ॥

सर्वव्याधि निहंत्री च सर्वपापक्षयंकरी

॥९७॥

इति दत्त्वा वरान्सूर्यस्तत्रैवांतरधीयत ॥

विमलो निर्मलतनुः सोपि स्वभवनं ययौ

॥९८॥

इत्थं स विमलादित्यो वाराणस्यां शुभप्रदः ॥

तस्य दर्शनमात्रेण कुष्ठरोगः प्रणश्यति

॥९९॥

यश्चैतां विमलादित्यकथां वै शृणुयान्नरः ॥

प्राप्नोति निर्मलां शुद्धिं त्यज्यते च मनोमलैः

॥१००॥

स्कंद उवाच

गंगादित्योस्ति तत्रान्यो विश्वेशाद्दक्षिणेन वै ॥

तस्य दर्शनमात्रेण नरः शुद्धिमियादिह

॥१॥

यदा गंगा समायाता भगीरथपुरस्कृता ॥

तदा गंगां परिष्टोतुं रविस्तत्रैव संस्थितः

॥२॥

अद्याप्यहर्निशं गंगां संमुखीकृत्य भास्करः ॥

परिष्टौति प्रसन्नात्मा गंगाभक्तवरप्रदः

॥३॥

गंगादित्यं समाराध्य वाराणस्यां नरोत्तमः ॥

दुर्गतिं जातु न क्वापि लभते न च रोगभाक्

॥४॥

स्कंद उवाच

अन्यच्छृणु महाभाग यमादित्यस्य संभवम् ॥

यच्छ्रुत्वापि नरो जातु यमलोकं न पश्यति

॥५॥

यमेशात्पश्चिमे भागे वीरेशात्पूर्वतो मुने ॥

यमादित्यं नरो दृष्ट्वा यमलोकं न पश्यति

॥६॥

यमतीर्थे नरः स्नात्वा भूतायां भौमवासरे ॥

यमेश्वरं विलोक्याशु सर्वैः पापैः प्रमुच्यते

॥७॥

यमतीर्थे यमः पूर्वं तप्त्वा सुविमलं तपः ॥

यमेशं च यमादित्यं प्रत्यष्ठाद्भक्तसिद्धिदम्

॥८॥

यमेन स्थापितो यस्मादादित्यस्तत्र कुंभज ॥

अतः स हि यमादित्यो यामीं हरति यातनाम्

॥९॥

यमेशं च यमादित्यं यमेन स्थापितं नमन् ॥

यमतीर्थे कृतस्नानो यमलोकं न पश्यति

॥११०॥

यमतीर्थे चतुर्दश्यां भरण्यां भौमवासरे ॥

तर्पणं पिंडदानं च कृत्वा पित्रनृणी भवेत्

॥११॥

अभिलष्यंति सततं पितरो नरकौकसः ॥

भौमै भरण्यां भूतायां यदि योगोयमुत्तमम्

॥१२॥

काश्यां कश्चिद्यमे तीर्थे कृत्वा स्नानं महामतिः ॥

अपि यस्तर्पणंकुर्यात्सतिलं नो विमुक्तये

॥१३॥

किं गया गमनैः पुंसां किं श्राद्धैर्भूरिदक्षिणैः ॥

यदि काश्यां यमे तीर्थे योगेस्मिञ्श्राद्धमाप्यते

॥१४॥

श्राद्धं कृत्वा यमे तीर्थे पूजयित्वा यमेश्वरम् ॥

यमादित्यं नमस्कृत्य पितॄणामनृणो भवेत्

॥१५॥

स्कंद उवाच

इति ते द्वादशादित्याः कथिता पापनाशनाः ॥

यत्संभवं समाकर्ण्य नरो न निरयी भवेत्

॥१६॥

अन्येपि संति घटज रविभक्तैरनेकशः ॥

काश्यां संस्थापिताः सूर्या गुह्यकार्कादयः किल

॥१७॥

श्रुत्वाध्यायानिमान्पुण्यान्द्वादशादित्यसूचकान् ॥

श्रावयित्वापि नो मर्त्यो दुर्गतिं याति कुत्रचित्

॥११८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायामुत्तरार्द्धे चतुथें काशीखण्डे अरुणवृद्धकेशवविमलगंगायमादित्यवर्णनंनामैकपंचाशत्तमोऽध्यायः ॥ ५१ ॥