मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ८६

3
काशीखण्डः · 86

प्रादुर्भावः

पार्वत्युवाच

विश्वकर्मेश्वरं लिंगं यत्काश्यां प्रथितं परम् ॥

तस्य लिंगस्य कथय देवदेव समुद्भवम्

॥१॥

देवदेव उवाच

शृणु देवि प्रवक्ष्यामि कथां पातकनाशिनीम् ॥

विश्वकर्मेश लिंगस्य प्रादुर्भावं मनोहरम्

॥२॥

विश्वकर्माभवत्पूर्वं ब्रह्मणस्त्वपरा तनुः ॥

त्वष्टुः प्रजापतेः पुत्रो निपुणः सर्वकर्मसु

॥३॥

कृतोपनयनः सोथ बालो गुरुकुले वसन् ॥

चकार गुरुशुश्रूषां भिक्षान्नकृतभोजनः

॥४॥

एकदा तद्गुरुः प्राह प्रावृट्काले समागते ॥

कुरूटजं मदर्थं त्वं यथा प्रावृण्न बाधते

॥५॥

यत्कदाचिन्न भज्येत न पुरातनतां व्रजेत् ॥

गुरुपत्न्यात्वभिहितो रे त्वाष्ट्र कुरु कंचुकम्

॥६॥

ममांगयोग्यं नो गाढं न श्लथं च प्रयत्नतः ॥

विनैव वाससा चारु वाल्कलं च सदोज्ज्वलम्

॥७॥

गुरुपुत्रेण चाज्ञप्तो ममार्थं पादुके कुरु ॥

यदारूढस्य मे पादौ न पंकः संस्पृशेत्क्वचित्

॥८॥

चर्मादिबंधनिर्मुक्ते धावतो मे सुखप्रदे ॥

याभ्यां च संचरे वारि स्थल भूमाविव द्रुतम्

॥९॥

गुरुकन्यापि तं प्राह त्वाष्ट्र मे श्रवणोचिते ॥

भूषणे स्वेन हस्तेन कुरु कांचननिर्मिते

॥१०॥

कुमारी क्रीडनीयानि कौतुकानि च देहि मे ॥

दंतिदंतमयान्येव स्वहस्तरचितानि च

॥११॥

गृहोपकरणं द्रव्यं मुसलोलूखलादिकम् ॥

तथा घटय मेधाविन्यथा त्रुट्यति न क्वचित्

॥१२॥

अक्षालितान्यपि यथा नित्यं पीठानि सत्तम ॥

उज्ज्वलानि भवंत्येव स्थालिकाश्च तथा कुरु

॥१३॥

सूपकर्मण्यपि च मां प्रशाधि त्वष्ट्रनंदन ॥

यथांगुल्यो न दह्यंते पाकः स्याच्च यथा शुभः

॥१४॥

एकस्तंभमयं गेहमेकदारुविनिर्मितम् ॥

तथा कुरु वरं त्वाष्ट्र यत्रेच्छा तत्र धारये

॥१५॥

ये सहाध्यायिनोप्यस्य वयोज्येष्ठाश्च तेपि हि ॥

सर्वेसर्वे समीहंते कर्म तत्कृतमेव हि

॥१६॥

तथेति स प्रतिज्ञाय सर्वेषां पुरतोद्रिजे ॥

मध्ये वनं प्राविशच्च महाचिंताभयार्दितः

॥१७॥

किंचित्कर्तुं न जानाति प्रतिज्ञातं च तेन वै ॥

सर्वेषां पुरतः सर्वं करिष्यामीति निश्चितम्

॥१८॥

किं करोमि क्व गच्छामि को मे साहाय्यमर्पयेत् ॥

बुद्धेरपि वनस्थस्य शरणं कं व्रजामि च

॥१९॥

अंगीकृत्य गुरोर्वाक्यं गुरुपत्न्या गुरोः शिशोः ॥

यो न निष्पादयेन्मूढः स भवेन्निरयी नरः

॥२०॥

गुरुशुश्रूषणं धर्म एको हि ब्रह्मचारिणाम् ॥

अनिष्पाद्य तु तद्वाक्यं कथं मे निष्कृतिर्भवेत्

॥२१॥

गुरूणां वाक्यकरणात्सर्व एव मनोरथाः ॥

सिद्ध्यंतीतरथा नैव तस्मात्कार्यं हि तद्वचः

॥२२॥

कथं तद्वचसः सिद्धिं प्राप्स्याम्यत्र वने स्थितः ॥

कश्च मेत्र सहायी स्याद्धिषणादुर्बलस्य वै

॥२३॥

आस्तां गुरुकथा दूरं योऽन्यस्यापि लघोरपि ॥

ओमित्युक्त्वा न कुरुते कार्यं सोथ व्रजत्यधः

॥२४॥

कथमेतानि कर्माणि करिष्येऽज्ञोऽसहायवान् ॥

अंगीकृतानि तद्भीत्या नमस्ते भवितव्यते

॥२५॥

यावदित्थं चिंतयति स त्वाष्ट्रो वनमध्यगः ॥

तावत्तदेव संप्राप्तस्तेनैकोऽदर्शि तापसः

॥२६॥

अथ नत्वा स तं प्राह वने दृष्टं तपस्विनम् ॥

को भवान्मानसं मे यो नितरां सुखयत्यहो

॥२७॥

त्वद्दर्शनेन मे गात्रं चिंतासंतापतापितम् ॥

हिमानी गाहनेनेव शीतलं भवति क्षणम्

॥२८॥

किं त्वं मे प्राक्तनं कर्म प्राप्तं तापसरूपधृक् ॥

अथवा करुणावार्धिराविर्भूतः शिवो भवान्

॥२९॥

योसि सोसि नमस्तुभ्यमुपदेशेन युंक्ष्व माम् ॥

गुरूक्तं गुरुपत्न्युक्तं गुर्वपत्योक्तमेव च

॥३०॥

कथं कर्तुमहं शक्तः कर्म तत्र दिशाद्भुतम् ॥

कुरु मे बुद्धिसाहाय्यं निर्जने बंधुतां गतः

॥३१॥

इत्युक्तस्तेन स वने तापसो ब्रह्मचारिणा ॥

कारुण्यपूर्णहृदयो यथोक्तमुपदिष्टवान्

॥३२॥

य आप्तत्वेन संपृष्टो दुर्बुद्धिं संप्रयच्छति ॥

स याति नरकं घोरं यावदाभूतसंप्लवम्

॥३३॥

तापस उवाच

ब्रह्मचारिञ्शृणु ब्रूयां किमद्भुततरं त्विदम् ॥

विश्वेशानुग्रहाद्ब्रह्माप्यभवत्सृष्टिकोविदः

॥३४॥

यदि त्वं त्वाष्ट्र सर्वज्ञं काश्यामाराधयिष्यसि ॥

ततस्ते विश्वकर्मेति नाम सत्यं भविष्यति

॥३५॥

विश्वेशानुग्रहात्काश्यामभिलाषा न दुर्लभाः ॥

सुलभो दुर्लभो वै यद्यत्र मोक्षस्तनुत्यजाम्

॥३६॥

सृष्टेःकरण सामर्थ्यं सृष्टिरक्षाप्रवीणता ॥

विधिना विष्णुना प्रापि विश्वेशानुग्रहात्परात्

॥३७॥

याहि वैश्वेश्वरं सद्म पद्मया समधिष्ठितम् ॥

निर्वाणसंज्ञया बाला यदीच्छेः स्वान्मनोरथान्

॥३८॥

स हि सर्वप्रदः शंभुर्याचितश्चोपमन्युना ॥

पयोमात्रं ददौ तस्मै सर्वं क्षीराब्धिमेव च

॥३९॥

आनंदकानने शंभोः किं किं केन न लभ्यते ॥

यत्र वासकृतां पुंसां धर्मराशिः पदेपदे

॥४०॥

स्वर्धुनी स्पर्शमात्रेण महापातकसंततिः ॥

यत्र संक्षयति क्षिप्रं तां काशीं को न संश्रयेत्

॥४१॥

न तादृग्धर्मसंभारो लभ्यते क्रतुकोटिभिः ॥

यादृग्वाराणसी वीथी संचारेण पदेपदे

॥४२॥

धर्मार्थकाममोक्षाणां यद्यत्रास्ति मनोरथः ॥

तदा वाराणसीं याहि याहि त्रैलोक्यपावनीम्

॥४३॥

सर्वकामफलप्राप्तिस्तदैव स्याद्ध्रुवं नृणाम् ॥

यदैव सर्वदः सर्वः काश्यां विश्वेश्वरः श्रितः

॥४४॥

स तापसोक्तमाकर्ण्य त्वाष्ट्र इत्थं सुहृष्टवान् ॥

काशीसंप्रात्युपायं च तमेव समपृच्छत

॥४५॥

त्वाष्ट्र उवाच

तदानंदवनं शंभोः क्वास्ति तापससत्तम ॥

यत्र नो दुर्लभं किंचित्साधकानां त्रयीस्थितम्

॥४६॥

स्वर्गे वा मर्त्यलोके वा बलिसद्मनि वा मुने ॥

क्व तदानंदगहनं यत्रानंदपयोब्धिजा

॥४७॥

यत्र विश्वेश्वरो देवो विश्वेषां कर्णधारकः ॥

व्याचष्टे तारकं ज्ञानं येन तन्मयतां ययुः

॥४८॥

सुलभा यत्र नियतमानंदवनचारिणः ॥

अपि नैःश्रेयसी लक्ष्मीः किमन्येल्प मनोरथाः

॥४९॥

कस्तां मां प्रापयेच्छंभोः कथं यामि तथा वद ॥

स तपस्वीति तद्वाक्यमाकर्ण्य श्रद्धयान्वितम्

॥५०॥

प्राहागच्छ नयामि त्वां यियासुरहमप्यहो ॥

दुर्लभं प्राप्य मानुष्यं यदि काशी न सेविता

॥५१॥

पुनःक्व नृत्वं श्रेयोभूः क्व काशीकर्मबंधहृत् ॥

वृथागते हि मानुष्ये काशीप्राप्तिविवर्जनात्

॥५२॥

आयुष्यं च भविष्यं च सर्वमेव वृथागतम् ॥

अतोहं सफलीकर्तुं मानुष्यं चातिचंचलम्

॥५३॥

यास्यामि काशीमायाहि मायां हित्वा त्वमप्यहो ॥

इति तेन सह त्वाष्ट्रो मुनिनातिकृपालुना

॥५४॥

पुरीं वैश्वेश्वरीं प्राप्तो मनःस्वास्थ्यमवाप च ॥

ततः प्रापय्य तां काशीं तापसः क्वाप्यतर्कितम्

॥५५॥

जगाम कुंभसंभूत स त्वाष्ट्रोपीत्यमन्यत ॥

अवश्यं स हि विश्वेशः सर्वेषां चिंतितप्रदः

॥५६॥

सत्पथस्थिरवृतीनां दूरस्थोपि समीपगः ॥

यस्मिन्प्रसन्नदृक्त्र्यक्षस्तं दविष्ठमपि ध्रुवम्

॥५७॥

सुनेदिष्ठं करोत्येव स्वयंवर्त्मोपदेशयन् ॥

क्वाहं तत्र वने बालश्चिंताकुलितमानसः ॥

क्व तापसः स यो मां वै सूदिश्येह चानयत्

॥५८॥

खेलोयमस्य त्र्यक्षस्य यस्य भक्तस्य कुत्रचित् ॥

न दुर्लभतरं किंचिदहो क्वाहं क्व काशिका

॥५९॥

नाराधितो मया शंभुः प्राक्तने जन्मनि क्वचित् ॥

शरीरित्वानुमानेन ज्ञातमेतदसंशयम्

॥६०॥

अस्मिञ्जन्मनि बालत्वान्न चैवाराधितः स्फुटम् ॥

प्रत्यक्षमेव मे वैतत्कुतोनुग्रहधीर्मयि

॥६१॥

आज्ञातं गुरुभक्तिर्मे हेतुः शंभुप्रसादने ॥

ययेहानुगृहीतोस्मि विश्वेशेन कृपालुना

॥६२॥

अथवा कारणापेक्षस्त्र्यक्षस्त्वितरदेववत् ॥

रंकमप्यनुगृह्णाति केवलं कारणं कृपा

॥६३॥

यदि नो मय्यनुक्रोशः कथं तापससंगतिः ॥

तद्रूपेण स्वयं शंभुरानिनायेह मां ध्रुवम्

॥६४॥

न दानानि न वै यज्ञा न तपांसि व्रतानि च ॥

शंभोः प्रसादहेतूनि कारणं तत्कृपैव हि

॥६५॥

दयामपि तदा कुर्यादसौ विश्वेश्वरः पराम् ॥

यदाश्रुत्युक्तमध्वानं सद्भिः क्षुण्णं न संत्यजेत्

॥६६॥

अनुक्रोशं समर्थ्येति स त्वाष्ट्रः र्शाभवं शुचिः ॥

संस्थाप्य लिंगमीशस्याराधयत्स्वस्थमानसः

॥६७॥

आनीय पुष्पसंभारमार्तवं काननाद्बहु ॥

स्नात्वाभ्यर्चयतीशानं कंदमूलफलाशनः

॥६८॥

इत्थं त्वष्टृतनूजस्य लिंगाराधनचेतसः ॥

त्रिहायनात्प्रसन्नोभूत्तस्येशः करुणानिधिः

॥६९॥

तस्मादेव हि लिंगाच्च प्रादुर्भूय भवोऽब्रवीत् ॥

वरं वरय रे त्वाष्ट्र दृढभक्त्यानया तव

॥७०॥

प्रसन्नोस्मि भृशं बाल गुर्वर्थकृतचेतसः ॥

गुरुणा गुरुपत्न्या च गुर्वपत्यद्वयेन च

॥७१॥

यथार्थितं तथा कर्तुं ते सामर्थ्यं भविष्यति

॥७२॥

अन्यान्वरांश्च ते दद्यां त्वाष्ट्र तुष्टस्त्वदर्चया ॥

ताञ्शृणुष्व महाभाग लिंगस्यास्याद्भुतश्रियः

॥७३॥

त्वं सुवर्णादिधातूनां दारूणां दृषदामपि ॥

मणीनामपिरत्नानां पुष्पाणामपि वाससाम्

॥७४॥

कर्पूरादिसुगंधीनां द्रव्याणामप्यपामपि ॥

कंदमूलफलानां च द्रव्याणामपि च त्वचाम्

॥७५॥

सर्वेषां वस्तुजातानां कर्तुं कर्म प्रवेत्स्यसि ॥

यस्य यस्य रुचिर्यत्र सद्म देवालयादिषु

॥७६॥

तस्य तस्येह तुष्ट्यै त्वं तथा कर्तुं प्रवेत्स्यसि ॥

सर्वनेपथ्यरचनाः सर्वाः सूपस्य संस्कृतीः

॥७७॥

सर्वाणि शिल्पकार्याणि तौर्यत्रिकमथापि च ॥

सर्वं ज्ञास्यसि कर्तुं त्वं द्वितीय इव पद्मभूः

॥७८॥

नानाविधानि यंत्राणि नानायुधविधानकम् ॥

जलाशयानां रचनाः सुदुर्गरचनास्तथा

॥७९॥

तादृक्कर्तुं पुरा वेत्सि यादृङ्नान्योऽधियास्यति ॥

कलाजातं हि सर्वं त्वमवयास्यसि मे वरात्

॥८०॥

सर्वेंद्रजालिकी विद्या त्वदधीना भविष्यति ॥

सर्वकर्मसु कौशल्यं सर्वबुद्धिवरिष्ठताम्

॥८१॥

सर्वेषां च मनोवृत्तिं त्वं ज्ञास्यसि वरान्मम ॥

किं बहूक्तेन यत्स्वर्गे यत्पाताले यदत्र च

॥८२॥

अतिलोकोत्तरं कर्म तत्सर्वं वेत्स्यसि स्वयम्

॥८३॥

विश्वेषां विश्वकर्माणि विश्वेषु भुवनेषु च ॥

यतो ज्ञास्यसि तन्नाम विश्वकर्मेति तेऽनघ

॥८४॥

अपरः को वरो देयस्तव तं प्रार्थयाश्वहो ॥

तवादेयं न मे किंचिल्लिंगार्चनरतस्य हि

॥८५॥

अन्यत्रापि हि यो लिंगं समर्चयति सन्मतिः ॥

तस्यापि वांछितं देयं किंपुनर्योविकाशिकम्

॥८६॥

येन काश्यां समभ्यर्चि येन काश्यां प्रतिष्ठितम् ॥

येन काश्यां स्तुतं लिंगं स मे रूपाय दर्पणः

॥८७॥

तत्त्वं स्वच्छोसि मुकुरो मम नेत्रत्रयस्य हि ॥

काश्यां लिंगार्चनात्त्वाष्ट्र वरं वरय सुव्रत

॥८८॥

काश्यां यो राजधान्यां मे हित्वा मामन्यमर्चयेत् ॥

स वराकोल्पधीर्मुष्टोऽल्पतुष्टिर्मुक्तिवर्जितः

॥८९॥

तदानंदवनेह्यत्र समर्च्योहं मुमुक्षुभिः ॥

द्रुहिणोपेंद्रचंद्रेंद्रैरिहान्यो न समर्च्यते

॥९०॥

यथानंदवनं प्राप्य त्वं मामर्चितवानसि ॥

तथान्ये पुण्यकर्माणो मामभ्यर्च्यैव मामिताः

॥९१॥

अनुग्राह्योऽसि नितरां ततो वरय दुर्लभम् ॥

श्राणितं तदवैहि त्वं वद मा चिरयस्व भोः

॥९२॥

विश्वकर्मोवाच

इदं यत्स्थापितं लिंगं मयाज्ञेनापि शंकर ॥

तल्लिंगमन्येप्याराध्य संतु समृद्धिभाजनम्

॥९३॥

अन्यच्च नाथ प्रार्थ्योसि तच्च विश्राणयिष्यसि ॥

मया विनिर्मापयिता स्वं प्रासादं कदा भवान्

॥९४॥

देवदेव उवाच

एवमस्तु यदुक्तं ते तव लिंगसमर्चकाः ॥

समृद्धिभाजनं वै स्युः स्युश्च निर्वाणदीक्षिताः

॥९५॥

यदा च राजा भविता दिवोदासो विधेर्वरात् ॥

तदा मे वचनात्तात प्रासादं मे विधास्यति

॥९६॥

नवीकृत्य पुनः काशी निर्विष्टा तेन भूभुजा ॥

गणेशमायया राज्यात्परिनिर्विण्णचेतसा

॥९७॥

विष्णोः सदुपदेशाच्च मामेव शरणं गतः ॥

निर्वाणलक्ष्मीः प्राप्तेह हित्वा राज्यश्रियं चलाम्

॥९८॥

विश्वकर्मन्व्रज गुरोः शासनाय यतस्व च ॥

गुरुभक्तिकृतो यस्मान्मद्भक्ता नात्र संशयः

॥९९॥

ये गुरुं चावमन्यंते तेवमान्या मयाप्यहो ॥

तस्माद्गुरूपदिष्टं हि कुरु शिष्यसमीहितम्

॥१००॥

तत आगत्य मे पार्श्वं यावन्निर्वाणमेष्यसि ॥

तावत्स्थास्यसि शुद्धात्मा देवानां हितमाचरन्

॥१॥

तवात्र लिंगे सततं स्थास्याम्यहमभीष्टदः ॥

अस्य लिंगस्य भक्तानां निर्वाणश्रीरदूरतः

॥२॥

अंगारेशादुदीच्यां ये त्वल्लिंगस्यसमर्चकाः ॥

तेषां मनोरथावाप्तिर्भविष्यति पदेपदे

॥३॥

इत्युक्त्वांतर्दधे देवस्त्वाष्ट्रोपि गुरुमाप्तवान् ॥

गुरोः समीहितं भूरि विधाय स गृहान्ययौ

॥४॥

गृहेपि मातापितरौ संतोष्य निजकर्मणा ॥

तदुक्ताज्ञां समाधाय पुनः काशीं समाययौ

॥५॥

स्वलिंगाराधनासक्तो नाद्यापि त्वष्टृनंदनः ॥

काशीं त्यजति मेधावी सर्वदेव प्रियं चरन्

॥६॥

ईश्वर उवाच

पृष्टानि यानि र्लिगानि त्वया देवि गिरींद्रजे ॥

काशी मुक्तौ समर्थानि तान्युक्तानि मया तव

॥७॥

लिंगमोंकारसंज्ञं च तथा देवं त्रिविष्टपम् ॥

महादेवः कृत्तिवासा रत्नेशश्चंद्रसंज्ञकः

॥८॥

केदारश्चापि धर्मेशस्तथा वीरेश्वराभिधः ॥

कामेशविश्वकर्मेशौ मणिकर्णीश्वरस्तथा

॥९॥

ममार्च्यमविमुक्ताख्यं ततो देवि ममा ख्यकम् ॥

विश्वनाथेति विश्वस्मिन्प्रथितं विश्वसौख्यदम्

॥११०॥

अविमुक्तं समासाद्य येन विश्वेश्वरोर्चितः ॥

न तस्यास्ति पुनर्जन्म कल्पकोटिशतेष्वपि

॥११॥

अष्टौ मासान्विहारः स्याद्यतीनां संयतात्मनाम् ॥

एकत्र चतुरोमासानब्दं नावास इष्यते

॥१२॥

अविमुक्ते प्रविष्टानां विहारो नैव युज्यते ॥

मोक्षोप्यसंशयश्चात्र तस्मात्त्याज्या न काशिका

॥१३॥

आनंदकाननं हित्वा नान्यद्गच्छेत्तपोवनम् ॥

तपोयोगश्च मोक्षश्च यतोत्रैव मदाश्रयात्

॥१४॥

कृपया सर्वजंतूनां क्षेत्रमेतन्मया कृतम् ॥

अवश्यमेव सिद्ध्यंति क्षेत्रेस्मिन्सिद्धिकांक्षिणः

॥२५॥

अतीतं वर्तमानं च जानतोऽज्ञानतः कृतम् ॥

यदेनस्तल्लयं यायादानंदवनवीक्षणात्

॥१६॥

अत्युग्रैश्च तपोभिर्यन्महादानैर्महाव्रतैः ॥

नियमैश्च यमैः सम्यक्त्वयोगेन महामखैः

॥१७॥

वेदांतशास्त्राभ्यसनैः सर्वोपनिषदाश्रयात् ॥

एभिर्वै यदवाप्येत तत्काश्यां हेलयाप्यते

॥१८॥

कर्मसूत्रेण बद्धा वै भ्राम्यंते तावदेव हि ॥

यावद्वैश्वेश्वरे धाम्नि मम नैव तनुत्यजः

॥१९॥

काश्यां स्वलीलया देवि तिर्यग्योनिजुषामपि ॥

ददामि चांते तत्स्थानं यत्र यांति न याज्ञिकाः

॥१२०॥

भूतग्रामोऽखिलोप्यत्र मुक्तिक्षेत्रे कृतालयः ॥

कालेन निधनं यातो यात्येव परमां गतिम्

॥२१॥

विषयासक्तचित्तोपि त्यक्तधर्मरतिस्त्वपि ॥

कालेनोज्झितदेहोऽत्र न संसारं पुनर्विशेत्

॥२२॥

प्रयागे यत्फलं देवि माघे चोपनिमज्जनात् ॥

तत्फलं कोटिगुणितं वाराणस्यां क्षणेक्षणे

॥२३॥

अस्य क्षेत्रस्य महिमा कोपि वाचामगोचरः ॥

उद्देशमात्रमाख्यायि मया ते प्रीतिकाम्यया

॥२४॥

चतुर्दशानां लिंगानां श्रुत्वाख्यानानि सत्तमः ॥

चतुर्दश सुलोकेषु पूजां प्राप्स्यत्यनुत्तमाम्

॥१२५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे विश्वकर्मेश प्रादुर्भावो नाम षडशीतितमोऽध्यायः ॥ ८६ ॥