मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय १८

3
काशीखण्डः · 18

मुक्तिपुर्यां सुसंस्नातो मायापुर्यां गतासुकः

अगस्तिरुवाच

इति शृण्वन्कथां रम्यां शिवशर्माऽथ माथुरः ॥

मुक्तिपुर्यां सुसंस्नातो मायापुर्यां गतासुकः

॥१॥

नेत्रयोः प्राघुणी चक्रे ततः सप्तर्षिमंडलम् ॥

व्रजन्स वैष्णवं लोकमंते विष्णुपुरीक्षणात्

॥२॥

उवाच च प्रसन्नात्मा स्तुतश्चारणमागधैः ॥

प्रार्थितो देवकन्याभिस्तिष्ठ तिष्ठेति चक्षणम्

॥३॥

स्थिता सुतासु निःश्वसस्य मंदभाग्या वयं त्विति ॥

गतः पुण्यतमाँल्लोकानसौ यत्पुण्यवत्तमः

॥४॥

इति शृणवन्मुखात्तासां वचनानि विमानगः ॥

देवौ कस्यायमतुलो लोकस्तेजोमयः शुभः

॥५॥

इति द्विजवचः श्रुत्वा प्रोचतुर्गणसत्तमौ ॥

शिवशर्मञ्छिवमते सदा सप्तर्षयोमलाः

॥६॥

वसंतीह प्रजाः स्रष्टुं विनियुक्ताः प्रजासृजा ॥

मरीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः

॥७॥

वसिष्ठश्च महाभागो ब्रह्मणो मानसाः सुताः ॥

सप्त ब्रह्माण इत्येते पुराणे निश्चयं गताः

॥८॥

संभूतिरनसूया च क्षमा प्रीतिश्च सन्नतिः ॥

स्मृतिरूर्जा क्रमादेषां पत्न्यो लोकस्य मातरः

॥९॥

एतेषां तपसा चैतद्धार्यते भुवनत्रयम् ॥

उत्पाद्य ब्रह्मणा पूर्वमेते प्रोक्ता महर्षयः

॥१०॥

प्रजाः सृजत रे पुत्रा नानारूपाः प्रयत्नतः ॥

ततः प्रणम्य ब्रह्माणं तपसे कृतनिश्चयाः

॥११॥

अविमुक्तं समासाद्य क्षेत्रंक्षेत्रज्ञधिष्ठितम् ॥

मुक्तये सर्वजंतूनामविमुक्तं शिवेन यत्

॥१२॥

प्रतिष्ठाप्य च लिंगानि ते स्वनाम्नांकितानि च ॥

शिवेति परया भक्त्या तेपुरुग्रं तपो भृशम

॥१३॥

तुष्टस्तत्तपसा शंभुः प्राजापत्यपदं ददौ ॥

लिंगान्यत्रीश्वरादीनि दृष्ट्वा काश्यां प्रयत्नतः

॥४॥

प्राजापत्येऽत्र ते लोके वसंत्युज्ज्वलतेजसः ॥

गोकर्णेशस्य सरसः प्रत्यक्तीरे प्रतिष्ठितम्

॥१५॥

लिंगमत्रीश्वरं दृष्ट्वा ब्रह्मतेजोभिवर्धते ॥

कर्कोट वाप्या ईशाने मरीचेः कुंडमुत्तमम्

॥१६॥

तत्र स्नात्वा नरो भक्त्त्या भ्राजते भास्करो यथा ॥

मरीचीश्वर संज्ञं तु तत्र लिंगं प्रतिष्ठितम्

॥१७॥

तल्लिंगदर्शनाद्विप्र मारीचं लोकमाप्नुयात् ॥

कांत्या मरीचिमालीव शोभते पुरुषर्षभः

॥१८॥

पुलहेश पुलस्त्येशौ स्वर्गद्वारस्य पश्चिमे ॥

तौ दृष्ट्वा मनुजो लोके प्राजापत्ये महीयते

॥१९॥

हरिकेशवने रम्ये दृष्ट्वैवांगिरसेश्वरम् ॥

इह लोके वसेद्विप्र तेजसापरिबृंहितः

॥२०॥

वरणायास्तटे रम्ये दृष्ट्वा वासिष्ठमीश्वम् ॥

क्रत्वीश्वरं च तत्रैव लभते वसतिं त्विह

॥२१॥

काश्यामेतानि लिंगानि सेवितानि शुभैषिभिः ॥

मनोभिवांछितं दद्युरिह लोके परत्र च

॥२२॥

गणावूचतुः

शिवशर्मन्महाभाग तिष्ठते सात्र सुंदरी ॥

अरुंधती महापुण्या पतिव्रतपरायणा

॥२३॥

यस्याः स्मरणमात्रेण गंगास्नान फलं लभेत् ॥

अंतःपुरचरैर्द्वित्रैः पवित्रैः सहितो विभुः

॥२४॥

सदा नारायणो देवो यस्याश्चक्रे कथां मुदा ॥

कमलायाः पुरोभागे पातिव्रत्य सुतोषितः

॥२५॥

पतिव्रतास्वरुंधत्याः कमले विमलाशयः ॥

यथास्ति न तथाऽन्यस्याः कस्याश्चित्कापि भामिनि

॥२६॥

न तद्रूपं न तच्छीलं न तत्कौलीन्यमेव च ॥

न तत्कलासुकौशल्यं पत्युः शुश्रूषणं न तत्

॥२७॥

न माधुर्यं न गांभीर्यं न चार्यपरितोषणम् ॥

अरुंधत्या यथा देवि तथाऽन्यासां क्वचित्प्रिये

॥२८॥

धन्यास्ता योषितो लोके सभाग्याः शुद्धबुद्धयः ॥

अरुंधत्याः प्रसंगे या नामापि परिगृह्णते

॥२९॥

यदा पतिव्रतानां तु कथास्मद्भवने भवेत् ॥

तदा प्राथमिकीं रेखामेषाऽलंकुरुते सती ॥

4.1.18.३० !।

ब्रुवतोरिति संकथां तथा गणयोर्वैष्णवयोर्मुदावहाम् ॥

ध्रुवलोकउपागतस्ततो नयनातिथ्यमतथ्यवर्जितः

॥३१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे सप्तर्षिलोकवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥