इमां गंधवतीं पुण्यां पुरीं वायोर्विलोकय
गणावूचतुः
इमां गंधवतीं पुण्यां पुरीं वायोर्विलोकय ॥
वारुण्या उत्तरे भागे महाभाग्यनिधे द्विज
॥१॥अस्यां प्रभंजनो नाम जगत्प्राणोदिगीश्वरः ॥
आराध्य श्रीमहादेवं दिक्पालत्वमवाप्तवान्
॥२॥पुरा कश्यपदायादः पूतात्मेति च विश्रुतः ॥
धूर्जटे राजधान्यां स चचार विपुलं तपः
॥३॥वाराणस्यां महाभागो वर्षाणामयुतं शतम् ॥
स्थापयित्वा महालिंगं पावनं पवनेश्वरम्
॥४॥यस्य दर्शनमात्रेण पूतात्मा जायते नरः ॥
पापकंचुकमुत्सृज्य स वसेत्पावने पुरे
॥५॥ततस्तस्योग्रतपसा तपसाफलदः शिवः ॥
आविरासीत्ततो लिंगाज्ज्योतीरूपो महेश्वरः
॥५॥उवाच च प्रसन्नात्मा करुणामृतसागरः ॥
उत्तिष्ठोत्तिष्ठ पूतात्मन्वरं वरय सुव्रत
॥७॥अनेन तपसोग्रेण लिंगस्याराधनेन च ॥
तवादेयं न पूतात्मंस्त्रैलोक्ये सचराचरे
॥८॥पूतात्मोवाच
देवदेवमहादेव देवानामभयप्रद ॥
ब्रह्मनारायणेंद्रादि सर्वदेवपदप्रद
॥९॥वेदास्त्वां न च विंदंति किमात्मक इति प्रभो ॥
प्राप्ताः शतपथत्वं च नेतिनेतीतिवादिनः
॥१०॥ब्रह्मविष्ण्वोपि गिरां गोचरो न च वाक्पतेः ॥
प्रमथेशं कथं स्तोतुं मादृशः प्रभवेत्प्रभो
॥११॥प्रसह्य प्रमिमीतेश भक्तिर्मांस्तुतिकर्मणि ॥
करोमि किं जगन्नाथ न वश्यानींद्रियाणि मे
॥१२॥विश्वं त्वं नास्ति वै भेदस्त्वमेकः सर्वगो यतः ॥
स्तुत्यं स्तोता स्तुतिस्त्वं च सगुणो निर्गुणो भवान्
॥१३॥सर्गात्पुरा भवानेको रूपनाम विवर्जितः ॥
योगिनोपि न ते तत्त्वं विंदंति परमार्थतः
॥१४॥यदैकलो न शक्नोषि रंतुं स्वैरचर प्रभो ॥
तदिच्छा तवयोत्पन्ना सेव्या शक्तिरभूत्तव
॥१५॥त्वमेको द्वित्वमापन्नः शिवशक्तिप्रभेदतः ॥
त्वं ज्ञानरूपो भगवान्स्वेच्छा शक्तिस्वरूपिणी
॥१६॥उभाभ्यां शिवशक्तिभ्या युवाभ्यां निजलीलया ॥
उत्पादिता क्रियाशक्तिस्ततः सर्वमिदं जगत्
॥१७॥ज्ञानशक्तिर्भवानीश इच्छाशक्तिरुमा स्मृता ॥
क्रियाशक्तिरिदं विश्वमस्य त्वं कारणं ततः
॥१८॥दक्षिणांगं तव विधिर्वामांगं तव चाच्युतः ॥
चंद्रसूर्याग्निनेत्रस्त्वं त्वन्निःश्वासः श्रुतित्रयम्
॥१९॥त्वत्स्वेदादंबुनिधयस्तव श्रोत्रं समीरणः ॥
बाहवस्ते दशदिशो मुखं ते ब्राह्मणाः स्मृताः
॥२०॥राजन्यवर्यास्ते बाहु वैश्या ऊरुसमुद्भवाः ॥
पद्भ्यां शूद्रस्तवेशान केशास्ते जलदाः प्रभो
॥२१॥त्वं पुं प्रकृतिरूपेण ब्रह्मांडमसृजः पुरा ॥
मध्ये ब्रह्मांडमखिलं विश्वमेतच्चराचरम्
॥२२॥अतस्त्वत्तो न मन्येऽहं किंचिद्भिन्नं जगन्मय ॥
त्वयि सर्वाणि भूतानि सर्वभूतमयो भवान्
॥२३॥नमस्तुभ्यं नमस्तुभ्यं नमस्तुऽभ्यं नमोनमः ॥
अयमेव वरो नाथ त्वयि मेऽस्तु स्थिरा मतिः
॥२४॥इत्युक्तवति देवेश स्तस्मिन्पूतात्मनि प्रभुः ॥
स्वमूर्तित्वं समारोप्य दिक्पालपदमादधे
॥२५॥सर्वगो मम रूपेण सर्वतत्त्वावबोधकः ॥
सर्वेषामायुषोरूपं भवानेव भविष्यति
॥२६॥तव लिंगमिदं दिव्यं ये द्रक्ष्यंतीह मानवाः ॥
सर्वभोगसमृद्धास्ते त्वल्लोकसुखभागिनः
॥२७॥पवमानेश्वरं लिंगं मध्ये जन्मसकृन्नरः ॥
यथोक्तविधिना पूज्य सुगंधस्नपनादिभिः
॥२८॥सुगंधचंदनैः पुष्पैर्मम लोके महीयते ॥
ज्येष्ठेशात्पश्चिमेभागे वायुकुंडोत्तरेण तु
॥२९॥पावमानं समाराध्य पूतो भवति तत्क्षणात् ॥
इति दत्त्वा वरान्देवस्तस्मिँल्लिंगे लयं ययौ
॥३०॥गणावूचतुः
इति गंधवती पुर्याः स्वरूपं ते निरूपितम् ॥
तस्याः प्राच्यां कुबेरस्य श्रीमत्येषालकापुरी
॥३१॥शंभोः सखित्वमापेदे नाथोस्या भक्तियोगतः ॥
निधीनां पद्ममुख्यानां दाता भोक्ता हरार्चनात्
॥३२॥शिवशर्मोवाच
कोसौ कस्य पुनः कीदृग्भक्तिरस्य सदाशिवे ॥
यया सखित्वमापन्नो देवदेवस्यधूर्जटेः
॥३३॥इति श्रोतुं मम मनः श्रुतिगोचरतां गतम् ॥
युवयोर्वाक्सुधास्वाद मेदुरोदरमंथरम्
॥३४॥गणावूचतुः
शिवशर्मन्महाप्राज्ञ परिशुद्धेंद्रियेश्वर ॥
सुतीर्थक्षालिताशेषजन्मजातमहामल
॥३५॥सुहृदि प्रेमसंपन्ने त्वय्यनुद्यं न किंचन ॥
साधुभिः सह संवादः सर्वश्रेयोऽभिवृद्धये
॥३६॥आसीत्कांपिल्यनगरे सोमयाजिकुलोद्भवः ॥
दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः
॥३७॥वेदवेदांगवेदार्थान्वेदोक्ताचारचंचुरः ॥
राजमान्यो बहुधनो वदान्यः कीर्तिभाजनम्
॥३८॥अग्निशुश्रूषणरतो वेदाध्ययनतत्परः ॥
तस्य पुत्रो गुणनिधिश्चंद्रबिंबसमाकृतिः
॥३९॥कृतोपनयनः सोथ विद्यां जग्राह भूरिशः ॥
अथ पित्रानभिज्ञातो द्यूतकर्मरतोऽभवत्
॥४०॥आदायादाय बहुशो धनं मातुः सकाशतः ॥
ददाति द्यूतकारेभ्यो मैत्री तैश्च चकार सः
॥४१॥संत्यक्त ब्राह्मणाचारः संध्यास्नानपराङ्मुखः ॥
निंदको वेदशास्त्राणां देवब्राह्मणनिंदकः
॥४२॥स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक् ॥
नटपाखंडिभंडैश्च बद्धप्रेमपरंपरः
॥४३॥प्रेरितोपि जनन्या स न याति पितुरंतिकम् ॥
गृहकार्यांतरव्यग्रो दीक्षितो दीक्षितायिनीम्
॥४४॥यदा यदैव तां पृच्छेदयेगुणनिधिः सुतः ॥
न दृश्यते मया गेहे क्व याति विदधाति किम्
॥४५॥तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः ॥
स्नात्वा समर्च्य वै देवानेतावंतमनेहसम्
॥४६॥अधीत्याध्ययनार्थं स द्वित्रैर्मित्रैः समं ययौ ॥
एकपुत्रेति तन्माता प्रतारयति दीक्षितम्
॥४७॥न तत्कर्म च तद्वृत्तं किंचिद्वेत्ति स दीक्षितः ॥
स च केशांतकर्मास्य कृत्वा वर्षेऽथ षोडशे
॥४८॥गृह्योक्तेन विधानेन पाणिग्राहमकारयत् ॥
प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु
॥४९॥शास्ति स्नेहार्द्रहृदया क्रोधनस्ते पितेत्यलम् ॥
यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति
॥५०॥आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम् ॥
लोकमान्योस्ति ते तातः सदाचारैर्न वै धनैः
॥५१॥ब्राह्मणानां धनं पुत्र सद्विद्या साधुसंगमः ॥
सच्छ्रोत्रियास्त्वनूचाना दीक्षिताः सोमयाजिनः
॥५२॥इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः ॥
त्यक्त्वा दुर्वृत्तसंसर्गं साधुसंगरतो भव
॥५३॥सद्विद्या सुमनो धेहि ब्राह्मणाचारमाचर ॥
तवानुरूपारूपेण वयसाकुलशीलतः
॥५४॥ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी ॥
तव पत्नी गुणनिधे साध्वी मधुरभाषिणी
॥५५॥एतां संवृणु सद्वृत्तां पितृभक्तियुता भव ॥
श्वशुरोपि हि ते मान्यः सर्वत्र गुणशीलतः
॥५६॥ततोऽपत्रपसे किं न त्यज दुर्वृत्ततां शिशो ॥
मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः
॥५७॥तेभ्योपि न बिभेषि त्वं शुद्धोस्युभय वंशतः ॥
पश्यैतान्प्रतिवेश्मस्थान्ब्राह्मणानां कुमारकान्
॥५८॥गृहेपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् ॥
राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत
॥५९॥श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति ॥
बालचेष्टितमेवैतद्वदंत्यद्यापि ते जनाः
॥६०॥अनंतरं हसिष्यंति युक्तं दीक्षिततास्त्विति ॥
सर्वेप्याक्षारयिष्यंति तव विप्रं च मां च वै
॥६१॥मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति ॥
पिता पितेन पापीयाञ्च्छ्रुतिस्मृतिपथीनकिम्
॥६२॥तदंघ्रिलीनमनसो मम साक्षी महेश्वरः ॥
न चर्तुस्नातयापीह मुखं दुष्टस्य वीक्षितम्
॥६३॥अहो बलीयान्सविधिर्येन जाता भवानिति ॥
प्रतिक्षणं जनन्येति शिक्ष्यमाणोतिदुर्मदः
॥६४॥न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः ॥
मृगया मद्य पैशुन्य वेश्याचौर्यदुरोदरैः
॥६५॥सपारदारैर्व्यसनैरेभिः कोत्र न खंडितः ॥
यद्यन्मध्ये गृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः
॥६६॥अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम् ॥
नवरत्नमयीं मातुः करतः पितुरूर्मिकाम
॥६७॥स्वपंत्यास्त्वेकदाऽऽदाय दुरोदरिकरेऽर्पयत् ॥
एकदा गच्छता राजभवनान्निजमुद्रिका
॥६८॥दीक्षितेन परिज्ञाता दैवाद्द्यूतकृतः करे ॥
उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका ॥
पृष्टस्तेनाथ निर्बंधादसकृत्प्रत्युवाच किम्
॥६९॥ममाक्षिपसि विप्रोच्चैः किं मया चौर्य कर्मणा ॥
लब्धा मुद्रा त्वदीयेन पुत्रेणैषा ममार्पिता
॥७०॥मम मातुर्हि पूर्वे द्युर्जित्वानीतो हि शाटकः ॥
न केवलं ममाप्येतदंगुलीयं समर्पितम्
॥७१॥अन्येषां द्यूतकर्तृणां भूरि तेनार्पितं वसु ॥
रत्नकुप्यदुकूलानि भृंगारुप्रभृतीनि च
॥७२॥भाजनानि विचित्राणि कांस्य ताम्रमयानि च ॥
नग्नीकृत्यप्रति दिनं बद्ध्यंते द्यूतकारिभिः
॥७३॥न तेन सदृशः कश्चिदाक्षिको भूमिमंडले ॥
अद्य यावत्त्वया विप्र दुरोदरशिरोमणिः
॥७४॥कथं नाज्ञायि तनयो ऽविनयानयकोविदः ॥
इति श्रुत्वा त्रपाभार विनम्रतरकंधरः
॥७५॥प्रावृत्य वाससा मौलिं प्राविशन्निजमंदिरम् ॥
महापतिव्रतामास्य पत्नीं प्रोवाच तामथ
॥७६॥दीक्षितायिनि कुत्रासि क्व ते गुणनिधिः सुतः ॥
अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका
॥७७॥अंगोद्वर्तन काले या त्वया मेंऽगुलितो हृता ॥
नवरत्नमयीं शीघ्रं तामानीय प्रयच्छ मे
॥७८॥इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायिनी ॥
प्रोवाच सा तु माध्याह्नीं क्रियां निष्पादयत्वथ
॥७९॥व्यग्रास्मि देवपूजार्थमुपहारादि कर्मणि ॥
समयोयमतिक्रामेदतिथीनां प्रियातिथे
॥८०॥इदानीमेव पक्वान्नकरणव्यग्रया मया ॥
स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम्
॥८१॥दीक्षित उवाच
हंहो सत्पुत्रजननि नित्यं सत्यप्रभाषिणि ॥
यदायदा त्वां संपृच्छे तनयः क्व गतस्त्विति
॥८२॥तदातदेति त्वं ब्रूया नाथेदानीं स निर्गतः ॥
अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैः सयुग्बहिः
॥८३॥कुतस्त्वच्छाटकः पत्नि मांजिष्ठो यो मयाऽर्पितः ॥
लंबते वस्त्रधान्यांयस्तथ्यं ब्रूहि भयं त्यज
॥८४॥सांप्रतं नेक्ष्यते सोपि भृंगारुर्मणिमंडितः ॥
पट्टसूत्रमयीसापि त्रिपटी क्व नृपार्पिता
॥८५॥क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा ॥
नागदंतमयी सा क्व सुखकौतुकमंचिका
॥८६॥क्व सा पर्वतदेशीया चंद्रकांतशिलोद्भवा ॥
दीपिका व्यग्रहस्ताग्रा सालंकृच्छालभंजिका
॥८७॥किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा ॥
तदाभ्यवहरिष्येहमुपयंस्याम्यहं यदा
॥८८॥अनपत्योस्मि तेनाहं दुष्टेन कुलदूषिणा ॥
उत्तिष्ठानय दर्भांबु तस्मै दद्यां तिलांजलिम्
॥८९॥अपुत्रत्वं वरं नृणां कुपुत्रात्कुलपांसनात् ॥
त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी
॥९०॥स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्निकस्यचित् ॥
श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः
॥९१॥श्रुत्वा तथा स वृत्तांतं प्राक्तनं स्वं विनिंद्य च ॥
कांचिद्दिशं समालोच्य निर्ययौ दीक्षितांगजः
॥९२॥चिंतामवाप महतीं क्व यामि करवाणि किम् ॥
नाहमभ्यस्तविद्योस्मि न चैवास्ति धनोस्म्यहम्
॥९३॥देशांतरे ह्यस्ति धनः सद्विद्यः सुखमेधते ॥
भयमस्ति धने चौरात्सविद्यः सर्वतोऽभयः
॥९४॥यायजूके कुले जन्म क्वक्व मे व्यसनं तथा ॥
अहो बलीयान्स विधिर्भाविकर्मानुसंधयेत्
॥९५॥भिक्षितुं नाधिगच्छामि न मे परिचितः क्वचित् ॥
न च पार्श्वे धनं किंचित्किमत्र शरणं भवेत्
॥९६॥सदाभ्युदिते भानौ प्रसूर्मे मृष्टभोजनम् ॥
दद्यादद्यात्र कं याचे याचेह जननी न मे
॥९७॥इति चिंतयतस्तस्य भानुरस्ताचलं गतः ॥
एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः
॥९८॥महोपहारानादाय नगराद्बहिरभ्यगात् ॥
समभ्यर्चितुमीशानं शिवरात्रावुपोषितः
॥९९॥पक्वान्नगंधमाघ्राय क्षुधितः स तमन्वगात् ॥
इदमन्नं मया ग्राह्यं शिवायोपस्कृतं निशि
॥१००॥इत्याशामवलंब्याथ द्वारि शंभोरुपाविशत् ॥
ददर्श च महापूजां तेन भक्तेन निर्मिताम्
॥१॥विधाय नृत्यगीतादि भक्ताः सुप्ताः क्षणं यदा ॥
नैवेद्यं स तदाऽऽदातुं गर्भागारं विवेश ह
॥२॥दीपं मंदप्रभं दृष्ट्वा पक्वान्नावेक्षणाय सः ॥
निजचैलांचलाद्वर्तिं दत्त्वा समुददीपयत्
॥३॥ततः पक्कान्नमादाय त्वरितं गच्छतो बहिः ॥
तस्य पादतलाघातात्प्रसुप्तः कोप्यबुध्यत
॥४॥कोयंकोयं त्वरापन्नश्चोरोयं गृह्यतामिति ॥
यावद्भूयात्समागत्य तावत्स पुररक्षकैः
॥५॥पलायमानो निहतः क्षणात्पंचत्वमागतः ॥
अभक्षयच्च नैवेद्यं भाविपुण्यबलान्न सः
॥६॥अथ बद्धः समागत्य पाशमुद्गरपाणिभिः ॥
निनीषुभिः सयमिनीं यामैः स विकटैर्भटैः
॥७॥तावत्पारिषदाः प्राप्ताः किंकिणीजालमालितम् ॥
दिव्यंविमानमादाय तं नेतुं शूलपाणयः
॥८॥शंभोर्गणान्समालोक्य भीतैस्तैर्यमकिंकरैः ॥
अवादिप्रणतैरित्थं दुर्वृत्तोयं गणा द्विजः
॥९॥कुलाचारप्रतीपोयं पित्रोर्वाक्यपराङ्मुखः ॥
सत्यशौचपरिभ्रष्टःसंध्यास्नानविवर्जितः
॥११०॥आस्तां दूरेऽस्य कर्माणि शिवनिर्माल्यहारकः ॥
प्रत्यक्षतोऽत्र वीक्षध्वमस्पृश्योयं भवादृशाम्
॥११॥शिवनिर्माल्यभोक्तारः शिवनिर्माल्यलंघकाः(?) ॥
शिवनिर्माल्यदातारः स्पर्शस्तेषां ह्यपुण्यकृत्
॥१२॥विषमालोड्य वापे यं श्रेयोवाऽनशनं परम् ॥
सेवितव्यं शिवस्वं न प्राणः कंठगतैरपि
॥१३॥यूयं प्रमाणं धर्मेषु यथा न च तथा वयम् ॥
अस्ति चेद्धर्मलेशोस्य गणास्तच्छृणुमो वयम्
॥१४॥इत्थं तद्वाक्यमाकर्ण्य प्रोचुः पारिषदास्ततः ॥
किंकराः शिवधर्मा ये सूक्ष्मास्ते वै भवादृशैः
॥१५॥स्थूललक्ष्यैः कथं लक्ष्या लक्ष्या ये सूक्ष्मदृष्टिभिः ॥
अनेनानेन सा कर्म यत्कृतं शृणुतेह तत्
॥१६॥पतंती लिंगशिरसि दीपच्छाया निवारिता ॥
स्वचैलांचलतोऽनेन दत्त्वादीपे दशां निशि
॥१७॥अपरोपि परो धर्मो जातस्तत्रास्य किंकराः ॥
शृण्वता शिवनामानि प्रसंगादपिगृह्णतः
॥१८॥भक्तेन विधिना पूजा क्रियमाणा निरीक्षिता ॥
उपोषिते न भूतायामनेन स्थिरचेतसा
॥१९॥कलिंगराजोभविताऽधुनाविधुतकल्मषः ॥
एष द्विजवरो दूता यूयं यात यथागताः
॥१२०॥पार्षदैर्यमदूतेभ्यो मोचितस्त्विति स द्विजः ॥
अरिंदमस्य तनयः कलिंगाधितेर्दमः
॥२१॥क्रमाद्राज्यमवाप्याथ पितर्युपरते युवा ॥
नान्यं धर्मं विजानाति दुर्दमो भूपतिर्दमः
॥२२॥शिवालयेषु सर्वेषु दीपदानादृते द्विज ॥
ग्रामाधीशान्समाहूय सर्वान्त्स्वविषयस्थितान्
॥२३॥इत्थमाज्ञापयामास स मे दंड्यो भविष्यति ॥
यस्य यस्याभितो ग्रामं यावंतश्च शिवालयाः
॥२४॥तत्र तत्र सदा दीपो द्योतनीयोऽविचारितम् ॥
ममाज्ञाभंगदोषेण शिरश्छेत्स्याम्यसंशयम्
॥२५॥इति तद्भयतो दीप्ता दीपाः प्रति शिवालयम् ॥
अनेनैव स धर्मेण यावज्जीवं दमो नृपः
॥२६॥धर्मर्द्धि महतीं प्राप्य कालधर्मवशं गतः ॥
सदीपवासनायागोद्बहून्दीपान्प्रदीप्य वै
॥२७॥अलकायाः पतिरभूद्रत्नदीपशिखाश्रयः ॥
एवं फलति कालेन शिवेऽल्पमपि यत्कृतम्
॥२८॥इति ज्ञात्वा शिवे कार्यं भजनं स्वसुखार्थिभिः ॥
क्व स दीक्षितदायादः सर्वधर्म पराङ्मुखः
॥२९॥स्वार्थदीपदशोद्योत लिंगमौलि तमोहरः ॥
कलिंगविषये राज्यं प्राप्तो धर्मरतिः सदा
॥१३०॥शिवालये समुद्दीप्य दीपान्प्राग्वासनोदयात् ॥
क्वैषा दिक्पालपदवी शिवशर्मन्विलोकय ॥
मनुष्यधर्मणानेन सांप्रतं येह भुज्यते
॥३१॥गणावूचतुः
सर्वदैव शिवेनासौ सखित्वं च यथेयिवान् ॥
तदप्येकमना विप्र संशृणुष्व ब्रवावहै
॥३२॥पाद्मे कल्पे पुरा विप्र ब्रह्मणो मानसात्सुतात् ॥
पुलस्त्याद्विश्रवा जज्ञे तस्य वैश्रवणः सुतः
॥३३॥तेनेयमलका भुक्ता पुरी विश्वकृता कृता ॥
आराध्यं त्र्यंबकं देवमत्युग्रतपसा पुरा
॥३४॥व्यतीते तत्र कल्पे वै प्रवृत्ते मेघवाहने ॥
याज्ञदत्तिरसौश्रीदस्तपस्तेपे सुदुःसहम्
॥३५॥भक्तिप्रभावं विज्ञाय शंभोस्तद्दीपमात्रतः ॥
पुरीं पुरारेः संप्राप्य काशिकां चित्प्रकाशिकाम्
॥३६॥शिवैकदशमुद्बोध्य चित्ररत्नप्रदीपकम् ॥
अनन्यभक्तिस्नेहाढ्यं तन्महोध्याननिश्चलम्
॥३७॥शिवैक्यसुमहापात्रं तपोग्निपरिबृंहितम् ॥
कामक्रोधमहाविघ्नपतंगाघातवर्जितम्
॥३८॥प्राणसंरोधनिर्वातं निर्मलं निर्मलेक्षणात् ॥
संस्थाप्य शांभवं लिंगं सद्भावकुसुमार्चितम्
॥३९॥तावत्तताप स तपस्त्वगस्थिपरिशेषितम् ॥
यावद्बभूव तद्वर्ष्म वर्षाणामयुतं शतम्
॥१४०॥ततः सह विशालाक्ष्या देवो विश्वेश्वरः स्वयम् ॥
अलकापतिमालोक्य प्रसन्नेनांतरात्मना
॥४१॥लिंगे मनः समाधाय स्थितं स्थाणुस्वरूपिणम् ॥
उवाच वरदोस्मीति तप्त्वालमलकापते
॥४२॥उन्मील्य नयने यावत्स पश्यति तपोधनः ॥
तावदुद्यत्सहस्रांशु सहस्राधिक तेजसम्
॥४३॥पुरो ददर्श श्रीकंठं चंद्रचूडमुमाधवम् ॥
तत्तेजः परिभूताक्षितेजाः संमील्य लोचने
॥४४॥उवाच देवदेवेशं मनोरथपथातिगम् ॥
निजांघ्रिदर्शनेनाथ दृक्सामर्थ्यं प्रयच्छ मे
॥४५॥अयमेव वरो नाथ यत्त्वं साक्षान्निरीक्ष्यसे ॥
किमन्येन वरेणेश नमस्ते शशिशेखर
॥४६॥इति तद्वचनं श्रुत्वा देवदेव उमापतिः ॥
ददौ दर्शनसामर्थ्यं स्पृष्ट्वा पाणितलेन तम्
॥४७॥प्रसार्य नयने पूर्वमुमामेव व्यलोकयत् ॥
शंभोः समीपे कायोषिदेषा सर्वांगसुंदरी
॥४८॥अनया किंतपस्तप्तं ममापि तपसोधिकम् ॥
अहो रूपमहो प्रेम सौभाग्यश्रीरहो भृशम्
॥४९॥क्रूरदृग्वीक्षते यावत्पुनःपुनरिदं वदन् ॥
तावत्पुस्फोट तन्नेत्रं वामं वामा विलोकनात
॥१५०॥अथ देव्यब्रवीद्देवं किमसौ दुष्टतापसः ॥
असकृद्वीक्ष्य मां वक्ति न्यक्कुर्वन्मे तपःप्रभाम्
॥५१॥असकृद्दक्षिणेनाक्ष्णा पुनर्मामेवपश्यति ॥
असूयमानो मे रूपं प्रेमसौभाग्यसंपदः
॥५२॥इति देवीगिरं श्रुत्वा प्रहस्य प्राह तां प्रभुः ॥
उमे त्वदीयः पुत्रोयं न च क्रूरेण चक्षुषा
॥५३॥संपश्यते तपो लक्ष्मीं तव किं त्वधिवर्णयेत् ॥
इति देवीं समाभाष्य तमीशः पुनरब्रवीत्
॥५४॥वरान्ददामि ते वत्स तपसानेन तोषितः ॥
निधीनामधिनाथस्त्वं गुह्यकानां भवेश्वरः
॥५५॥यक्षाणां किन्नराणां च राजा राज्ञां च सुव्रत ॥
पतिः पुण्यजनानां च सर्वेषां धनदो भव
॥५६॥मया सख्यं च ते नित्यं वत्स्यामि च तवांतिके ॥
अलकां निकषामित्र तव प्रीतिविवृद्धये
॥५७॥आगच्छ पादयोरस्याः पत ते जननी त्वियम् ॥
इति दत्त्वा वरान्देवः पुनराह शिवां शिवः ॥
प्रसादं कुरु देवेशि तपस्विन्यंगजेऽत्र वै
॥५८॥देव्युवाच
वत्स ते निश्चला भक्तिर्भवे भवतु सर्वदा ॥
भवैकांषेंगो(?)गोनेत्रेण वामेन स्फुटितेन ह
॥५९॥देवेन दत्ता ये तुभ्यं वराः संतु तथैव ते ॥
कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत
॥१६०॥त्वयेदं स्थापितं लिंगं तव नाम्ना भविष्यति ॥
सिद्धिदं साधकानां च सर्वपापहरं परम्
॥६१॥न धनेन वियुज्येत न सख्या न च बांधवैः ॥
कुबेरेश्वरलिंगस्य कुर्याद्यो दर्शनं नरः
॥६२॥विश्वेशाद्दक्षिणेभागे कुबेरेशं समर्चयेत् ॥
नरो लिप्येत नो पापैर्न दारिद्र्येण नोऽसुखैः
॥६३॥इति दत्त्वा वरान्देवो देव्या सह महेश्वरः ॥
धनदाया विवेशाथ धाम वैश्वेश्वरं परम्
॥६४॥गणावूचतुः
इत्थं सखित्वं श्रीशंभोः प्रापैष धनदः परम् ॥
अलकां निकषाचैष कैलासः शंकरालयः
॥६५॥पुर्यां यक्षेश्वराणां ते स्वरूपमिति वर्णितम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो नरो मुच्येदसंशयम्
॥१६६॥इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे गंधवत्यलकावर्णनं नाम त्रयोदशोध्यायः ॥ १३ ॥