त्रिलोचनप्रभावः
स्कंद उवाच
शृणुष्व मैत्रावरुणे पुराकल्पे रथंतरे ॥
इतिहास इहासीद्यः पीठे विरजसंज्ञिते
॥१॥त्रिलोचनस्य प्रासादे मणिमाणिक्यनिर्मिते ॥
नानाभंगि गवाक्षाढ्ये रत्नसानाविवायते
॥२॥कदाचिदपि कल्पांते द्यो लोके भ्रंशति क्षये ॥
प्रोत्तंभनं स्तंभ इव दत्तो विश्वकृता स्वयम्
॥३॥मरुत्तरंगिताग्राभिः पताकाभिरितस्ततः ॥
सन्निवारयतीवेत्थमघौघान्विशतो मुने
॥४॥देदीप्यमान सौवर्ण कलशेन विराजिते ॥
पार्वणेन शशांकेन खेदादिव समाश्रिते
॥५॥तत्र पारावतद्वंद्वं वसेत्स्वैरं कृतालयम् ॥
प्रातःसायं च मध्याह्ने कुर्वन्नित्यं प्रदक्षिणम्
॥६॥उड्डीयमानं परितः पक्षवातेरितस्ततः ॥
रजःप्रासादसंलग्नं दूरीकुर्वद्दिनेदिने
॥७॥त्रिलोचनेति सततं नाम भक्तैरुदाहृतम् ॥
त्रिविष्टपेति च तथा तयोः कर्णातिथी भवेत्
॥८॥चतुर्विधानि वाद्यानि शंभुप्रीतिकराण्यलम् ॥
तयोः कर्णगुहां प्राप्य प्रतिशब्दं प्रतन्वते
॥९॥मंगलारार्तिकज्योतिस्त्रिसंध्यं पक्षिणोस्तयोः ॥
नेत्रांत निर्विशन्नित्यं भक्तचेष्टां प्रदर्शयेत्
॥१०॥प्राणयात्रां विहायापि कदाचित्स्थिरमानसौ ॥
नोड्डीयवांछितं यातः पश्यंतौ कौतुकं खगौ
॥११॥तत्र भक्तजनाकीर्णं प्रासादं परितो मुने ॥
तंडुलादि चरंतौ तौ कुर्वाते च प्रदक्षिणम्
॥१२॥देवदक्षिणदिग्भागे चतुःस्रोतस्विनी जलम् ॥
तृषार्तौ धयतो विप्र स्नातौ जातु चिदंडजौ
॥१३॥तयोरित्थं विचरतोस्त्रिलोचनसमीपतः ॥
अगाद्बहुतिथः कालो द्विजयोः साधुचेष्टयोः
॥१४॥अथ देवालयस्कंधे गवाक्षांतर्गतौ च तौ ॥
श्येनेन केनचिद्दृष्टौ क्रूरदृष्ट्या सुखस्थितौ
॥१५॥तच्च पारावतद्वंद्वं श्येनः परिजिघृक्षुकः ॥
अवतीर्यांबरादाशु प्रविष्टोन्यशिवालये
॥१६॥ततो विलोकयामास तदागमविनिर्गमौ ॥
केन मार्गेण विशतो दुर्गमेतौ पतत्त्रिणौ
॥१७॥केनाध्वना च निर्यातः क्व काले कुरुतश्च किम् ॥
कथं युगपदे तौ मे ग्राह्यौ स्वैरं भविष्यतः
॥१८॥मध्ये दुर्गप्रविष्टौ च ममवश्याविमौ न यत् ॥
एकदृष्टिः क्षणं तस्थौ श्येन इत्थं विचिंतयन्
॥१९॥अहो दुर्गबलं प्राज्ञाः शंसंत्येवेति हेतुतः ॥
दुर्बलोप्याकलयितुं सहसारिर्न शक्यते
॥२०॥करिणां तु सहस्रेण वराश्वानां न लक्षतः ॥
तत्कर्मसिद्धिर्नृपतेर्दुर्गेणैकेन यद्भवेत्
॥२१॥दुर्गस्थो नाभिभूयेत विपक्षः केनचित्क्वचित् ॥
स्वतंत्रं यदि दुर्गं स्यादमर्मज्ञप्रकाशितम्
॥२२॥इति दुर्गबलं शंसञ्श्येनो रोषारुणेक्षणः ॥
असाध्वसौ कलरवौ वीक्ष्य यातो नभोंगणम्
॥२३॥अथ पारावतीदक्षा विपक्षं प्रेक्ष्य पक्षिणम् ॥
महाबलं दुर्गबला प्राह पारावतं पतिम्
॥२४॥कलरव्युवाच
प्रिय पारावत प्राज्ञ सर्वकामि सुखारव ॥
तव दृग्विषयं प्राप्तः श्येनोय प्रबलो रिपुः
॥२५॥सावज्ञं वाक्यमाकर्ण्य पारावत्याः स तत्पतिः ॥
पारावतीमुवाचेदं का चिंतेति तव प्रिये
॥२६॥पारावत उवाच
कति नाम न संतीह सुभगे व्योमचारिणः ॥
कति देवालयेष्वेषु खगा नोपविशंति हि
॥२७॥कति चैव न पश्यंति नौ सुखस्थाविह प्रिये ॥
तेभ्यो यदीह भेतव्यं कुतो नौ तत्सुखं प्रिये
॥२८॥रमस्व त्वं मया सार्धं त्यज चिंतामिमां शुभे ॥
अस्य श्येनवराकस्य गणनापि न मे हृदि
॥२९॥इत्थं पारावतवचः श्रुत्वा पारावती ततः ॥
मौनमालंब्य संतस्थे पत्युः पादार्पितेक्षणा
॥३०॥हितवर्त्मोपदिश्यापि प्रिय प्रियचिकीर्षया ॥
साध्व्या जोषं समास्थेयं कार्यं पत्युर्वचः सदा
॥३१॥अन्येद्युरप्यथायातः श्येनो पश्यत्स दंपती ॥
अपरिच्छिन्नया दृष्ट्या यथा मृत्युर्गतायुषम्
॥३२॥अथ मंडलगत्या स प्रासादं परितो भ्रमन् ॥
निरीक्ष्य तद्गतायातौ यातो गगनमार्गतः
॥३३॥गतेऽथ नभसि श्येने पुनः पारावतांगना ॥
प्रोवाच प्रेयसी नाथ दृष्टो दुष्टस्त्वयाऽहितः
॥३४॥तस्या वाक्यं समाकर्ण्य पुनः कलरवोब्रवीत् ॥
किं करिष्यत्यसौ मुग्धे मम व्योमविहारिणः
॥३५॥दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम् ॥
अयं न ता गतीर्वेत्ति या वेदाहं नभोंगणे
॥३६॥प्रडीनोड्डीन संडीन कांडव्याडकपाटिकाः ॥
स्रंसनी मंडलवती गतयोष्टावुदाहृताः
॥३७॥यथैतास्विह कौशल्यं मयि पारावति प्रिये ॥
गतिषु क्वापि कस्यापि पक्षिणो न तथांबरे
॥३८॥सुखेन तिष्ठ का चिंता मयि जीवति ते प्रिये ॥
इति तद्वचनं श्रुत्वा सास्थिता मूकवत्सती
॥३९॥अपरेद्युरपि श्येनस्तत्र भारशिलातले ॥
कियदंतरमासाद्योपविष्टोऽतिप्रहृष्टवत्
॥४०॥आयामं तत्र संस्थित्वा तत्कुलायं विलोक्य च ॥
पुनर्विनिर्गतः श्येनः सापि भीताब्रवीत्पुनः
॥४१॥प्रियस्थानमिदं त्याज्यं दुष्टदृष्टिविदूषितम् ॥
असौ क्रूरोति निकटमुपविष्टोऽतिहृष्टवत्
॥४२॥सावज्ञं स पुनः प्राह किं करिष्यत्यसौ प्रिये ॥
मृगाक्षीणां स्वभावोयं प्रायशो भीरुवृत्तयः
॥४३॥इतरेद्युरपि प्राप्तः स च श्येनो महाबलः ॥
तयोरभिमुखं तत्र स्थितो याम द्वयावधि
॥४४॥पुनर्विलोक्य तद्वर्त्म शीघ्रं यातो यथागतम् ॥
गतेथ शकुनौ तस्मिन्सा बभाषे विहंगमी
॥४५॥नाथ स्थानांतरं यावो मृत्युर्नौ निकटोत्र यत् ॥
पुनर्दुष्टे प्रणष्टेस्मिन्नावां स्यावः सुखं प्रिय
॥४६॥प्रिय यस्य सपक्षस्य गतिः सर्वत्र सिद्धिदा ॥
स किं स्वदेशरागेण नाशं प्राप्नोति बुद्धिमान्
॥४७॥सोपसर्गं निजं देशं त्यक्त्वा योन्यत्र न व्रजेत् ॥
स पंगुर्नाशमाप्नोति कूलस्थित इव द्रुमः
॥४८॥प्रियोदितं निशम्येति स भवित्री दशार्दितः ॥
सरीढं पुनरप्याह प्रिये मा भैः खगात्ततः
॥४९॥अथापरस्मिन्नहनि स श्येनः प्रातरेव हि ॥
तद्द्वारदेशमासाद्य सायं यावत्स्थितो बलः
॥५०॥अस्ताचलस्य शिखरं याते भानौ गते खगे ॥
कुलायाद्बाह्यमागत्योवाच पारावती पतिम्
॥५१॥नाथ निर्गमनस्यायं कालः कालोऽतिदूरतः ॥
यावत्तावद्विनिर्याहि त्यक्त्वा मामपि सन्मते
॥५२॥त्वयि जीवति दुष्प्राप्यं न किंचिज्जगतीतले ॥
पुनर्दाराः पुनर्मित्रं पुनर्वसु पुनर्गृहम्
॥५३॥यद्यात्मा रक्षितः पुंसा दारैरपि धनैरपि ॥
तदा सर्वं हरिश्चंद्रभूपेनेवेह लभ्यते
॥५४॥अयमात्मा प्रियो बंधुरयमात्मा महद्धनम् ॥
धमार्थकाममोक्षाणामयमात्मार्जकः परः
॥५५॥यावदात्मनि वै क्षेमं तावत्क्षेमं जगत्त्रये ॥
सोपि क्षेमः सुमतिना यशसा सह वांछ्यते
॥५६॥यशोहीनं तु यत्क्षेमं तत्क्षेमान्निधनं वरम् ॥
तद्यशः प्राप्यते पुंभिर्नीतिमार्गप्रवर्तने
॥५७॥अतो नीतिपथं श्रुत्वा नाथ स्थानादितो व्रज ॥
न गमिष्यसि चेत्प्रातस्ततो मे संस्मरिष्यसि
॥५८॥इत्युक्तोपि स वै पत्न्या पारावत्या सुमेधया ॥
न निर्ययौ प्रतिस्थानाद्भवित्र्या प्रतिवारितः
॥५९॥अथोषसि समागत्य श्येनेन बलिना तदा ॥
तन्निर्गमाध्वा संरुद्धः किंचिद्भक्ष्यवता मुने
॥६०॥दिनानि कतिचित्तत्र स्थित्वा श्येनो महामतिः ॥
पारावतमुवाचेदं धिक्त्वां पौरुषवर्जितम्
॥६१॥किंवा युध्यस्व दुर्बुद्धे किंवा निर्याहि मे गिरा ॥
क्षुधाक्षीणो मृतः पश्चान्निरयं यास्यसि ध्रुवम्
॥६२॥द्वौ भवंतावहं चैकश्चलौ जयपराजयौ !।
स्थानार्थं युध्यतः सत्त्वात्स्वर्गो वा दुर्गमेव वा
॥६३॥पुरुपार्थं समालंब्य ये यतंते महाधियः ॥
विधिरेव हि साहाय्यं कुर्यात्तत्सत्त्वचोदितः
॥६४॥इत्थं स श्येनसंप्रोक्तः पत्न्याप्युत्साहितः खगः ॥
अयुध्यत्तेन श्येनेन स्वदुर्गद्वारमाश्रितः
॥६५॥क्षुधितस्तृषितः सोथ श्येनेन बलिना धृतः ॥
चरणेन दृढेनाशु चंच्वा सापि धृता खगी
॥६६॥तावादायोड्डयांचक्रे श्येनो व्योमनि सत्वरम् ॥
चिंतयद्भक्षणस्थानमन्यपक्षिविवर्जितम्
॥६७॥अथ पत्न्या कलरवः प्रोक्तस्तत्र सुमेधया ॥
वचोवमानितं नाथ त्वया मे स्त्रीति बुद्धितः
॥६८॥अतोऽवस्थामिमां प्राप्तः किं कुर्यामबलायतः ॥
अधुनापि वचश्चैकं करोषि यदि मे प्रिय
॥६५॥तदा हितं ते वक्ष्यामि कुरु चैवाविचारितम् ॥
ममैकवाक्यकरणात्स्त्रीजितो न भविप्यसि
॥७०॥यावदास्यगतास्म्यस्य यावत्खस्थो न भूमिगः ॥
तावदात्मविमुक्त्यैवमरेः पादं दृढं दश
॥७१॥इति पत्नीवचः श्रुत्वा तथा स कृतवान्खगः ॥
सपीडितो दृढं पादे श्येनश्चीत्कृतवान्बहु
॥७२॥तेन चीत्करणेनाथ मुक्ता सा मुखसंपुटात् ॥
पादांगुलि श्लथत्वेन सोपि पारावतोऽपतत्
॥७३॥विपद्यपि च न प्राज्ञैः संत्या ज्यः क्वचिदुद्यमः ॥
क्व चंचुपुटस्तस्य क्व च तत्पादपीडनम्
॥७४॥क्व च द्वयोस्तथाभूता दरेर्मोक्षणमद्भुतम् ॥
दुर्बलेप्युद्यमवति फलं भाग्यं यतोऽर्पयेत्
॥७५॥तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः ॥
प्रशंसंत्युद्यमं चातो विपद्यपि मनीषिणः
॥७६॥अथ तौ कालयोगेन विपन्नौ सरयूतटे ॥
मुक्तिपुर्यामयोध्यायामेको विद्याधरोऽभवत्
॥७७॥मृतानां यत्र जंतूनां काशीप्राप्तिर्भवेद्ध्रुवम् ॥
मंदारदामतनयो नाम्ना परिमलालयः
॥७८॥अनेकविद्यानिलयः कलाकौशलभाजनम् ॥
कौमारं वय आसाद्य शिवभक्तिपरोभवत्
॥७९॥नियमं चातिजग्राह विजितेंद्रियमानसः ॥
एकपत्नीव्रतं नित्यं चरिष्यामीति निश्चितम्
॥८०॥परयोषित्समासक्तिरायुः कीर्ति बलं सुखम् ॥
हरेत्स्वर्ग गतिं चापि तस्मात्तां वर्जयेत्सुधीः
॥८१॥अपरं चापि नियमं स शुचिष्मान्समाददे ॥
गतजन्मांतराभ्यासात्त्रिलोचनसमाश्रयात्
॥८२॥समस्तपुण्यनिलयं समस्तार्थप्रकाशकम् ॥
समस्तकामजनकं परानंदैककारणम्
॥८३॥यावच्छरीरमरुजं यावन्नेंद्रियविप्लवः ॥
तावत्त्रिलोचनं काश्यामनर्च्याश्नामि नाण्वपि
॥८४॥इत्थं मांदारदामिः स नित्यं परिमलालयः ॥
काश्यां त्रिविष्टपं द्रष्टुं समागच्छेत्प्रयत्नवान्
॥८५॥पारावत्यपि सा जाता रत्नदीपस्य मंदिरे ॥
नागराजस्य पाताले नाम्ना रत्नावलीति च
॥८६॥समस्तनागकन्यानां रूपशीलकलागुणैः ॥
एकैव रत्नभूतासीद्रत्नदीपोरगात्मजा
॥८७॥तस्या सखीद्वयं चासीदेका नाम्ना प्रभावती ॥
कलावती तथान्या च नित्यं तदनुगे उभे
॥८८॥स्वदेहादनपायिन्यौ छायाकांती यथा तया ॥
ते द्वे सख्यावभूतांहि रत्नावल्या घटोद्भव
॥८९॥सा तु बाल्ये व्यतिक्रांते किंचिदुद्रिन्नयौवना ॥
शिवभक्तं स्वपितरं दृष्ट्वा नियममग्रहीत्
॥९०॥पितस्त्रिलोचनं काश्यामर्चयित्वा दिनेदिने ॥
आभ्यां सखीभ्यां सहिता मौनं त्यक्ष्यामि नान्यथा
॥९१॥एवं नागकुमारी सा सखीद्वयसमन्विता ॥
त्रिलोचनं समभ्यर्च्य गृहानहरहोव्रजेत्
॥९२॥दिनेदिने सा प्रत्यग्रैः कुसुमैरिष्टगंधिभिः ॥
सुविचित्राणि माल्यानि परिगुंफ्यार्चयेद्विभुम्
॥९३॥तिस्रोपि गीतं गायंति लसद्गांधारसुंदरम् ॥
रासमंडलभेदेन लास्यं तिस्रोपि कुर्वते
॥९४॥वीणावेणुमृदंगांश्च लयतालविचक्षणाः ॥
वादयंति मुदा युक्तास्तिस्रोपीश्वरसन्निधौ
॥९५॥इत्थमाराधयंतीशं तिस्रो नागकुमारिकाः ॥
विचित्रगंधमालाभिः संमार्जनविलेपनैः
॥९६॥एकदा माधवे मासि तृतीयायामुपोषिताः ॥
रात्रौ जागरणं कृत्वा नृत्यगीतकथादिभिः
॥९७॥प्रातश्चतुर्थीं स्नात्वाथ तीर्थं पैलिपिले शुभे ॥
त्रिलोचनं समर्च्याथ प्रसुप्ता रंगमंडपे
॥९८॥सुप्तासु तासु बालासु त्रिनेत्रः शशिभूषणः ॥
शुद्धकर्पूरगौरांगो जटामुकुटमंडलः
॥९९॥तमालनीलसुग्रीवः स्फुरत्फणिविभूषणः ॥
वामार्धविलसच्छक्तिर्नागयज्ञोपवीतवान्
॥१००॥तस्मादेव विनिष्क्रम्य लिंगात्पन्नगमेखलात् ॥
उवाच च ततो बाला विभुरुत्तिष्ठतेति सः
॥१॥उत्थाय ता विनिर्मार्ज्य लोचने श्रुतिसंगते ॥
अंगमोटनवत्यश्च जृंभाभिः क्वणिताननाः
॥२॥यावत्पश्यंति पुरतः संभ्रमापन्नमानसाः ॥
अतर्कितागमस्तावत्ताभिर्दृष्टस्त्रिलोचनः
॥३॥ववंदुरथ ता बाला ज्ञात्वा लक्ष्मभिरीश्वरम् ॥
तुष्ट्वुश्च प्रहृष्टास्याः सन्नकंठ्योतिगद्गदम्
॥४॥जयशंभो जयेशान जय सर्वग सर्वद ॥
जय त्रिपुरसंहर्तर्जयांधकनिषूदन
॥५॥जय जालंधरहर जय कंदर्पदर्पहृत् ॥
जय त्रैलोक्यजनक जय त्रैलोक्यवर्धन
॥६॥जय त्रैलोक्यनिलय जय त्रैलोक्यवंदित ॥
जय भक्तजनाधीन जय प्रमथनायक
॥७॥जय त्रिपथगापाथः प्रक्षालितजटातट ॥
जय चंद्रकलाज्योतिर्विद्योतितजगत्त्रय
॥८॥जय सर्पफणारत्न प्रभाभासितविग्रह ॥
जयाद्रिराजतनया तपःक्रीतार्धदेहक
॥९॥जय श्मशाननिलय जय वाराणसीप्रिय ॥
जयानंदवनाध्यासि प्राणिनिर्वाणदायक
॥११०॥जय विश्वपते शर्व शर्वरीपरिवर्जित ॥
जय नृत्यप्रियेशोग्र जय गीतविशारद
॥११॥जय प्रणवसद्वास जय धाम महानिधे ॥
जय शूलिन्विरूपाक्ष जय प्रणतसर्वद
॥१२॥विधिः सर्वविधिज्ञोपि न त्वां स्तोतुं विचक्षणः ॥
वाचो वाचस्पतेर्नाथ त्वत्स्तुतौ परिकुंठिताः
॥१३॥विदंति वेदाः सर्वज्ञ न त्वां नाथ यथार्थतः ॥
मनतीह मनो न त्वामनंतं चादिवर्जितम्
॥१४॥नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः ॥
त्रिलोचन नमस्तुभ्यं त्रिविष्टप नमोस्तु ते
॥१५॥इत्युक्त्वा दंडवद्भूमौ प्रणिपेतुः कुमारिकाः ॥
अथोत्थाप्य कुमारीस्ताः प्रोवाच शशिभूषणः
॥१६॥सुतो मंदारदाम्नश्च नाम्ना परिमलालयः ॥
पतिर्विद्याधरवरो भवतीनां भविष्यति
॥१७॥चिरं विद्याधरे लोके भोगान्भुक्त्वा समंततः ॥
ततो निर्वेदमापन्नाः काशीसिद्धिमवाप्स्यथ
॥१८॥यूयं तिस्रोपि मे भक्ताः स च विद्याधरो युवा ॥
चत्वारोप्येत एवात्र प्रतिमोक्षमवाप्स्यथ
॥१९॥जन्मांतरेपि मे सेवा भवतीभिश्च तेन च ॥
विहिता तेन वो जन्म निर्मलं भक्तिभावितम्
॥१२०॥एतच्च भवती स्तोत्रं यः पठिष्यति मे पुरः ॥
तस्य कामं प्रदास्यामि भवतीनामिव स्फुटम्
॥२१॥त्यजेत्क्षपाकृतं पापं शुचिः प्रातः पठन्नरः ॥
दिवाकृतमलं हंति सायं पठनतः स्फुटम्
॥२२॥इत्युक्तवति देवेशे ताः कन्या हृष्टमानसाः ॥
प्रणम्य प्रोचुरीशानं प्रबद्धकरसंपुटाः
॥२३॥नागकन्या ऊचुः
पृच्छामो ब्रूहि नो नाथ करुणाकर शंकर ॥
जन्मांतरे कथं सेवा चतुर्भिर्भवतः कृता
॥२४॥भवप्राग्भव वृत्तांतं तस्यापि सुकृतात्मनः ॥
अस्माकमपि चाख्याहि कृपां कुरु कृपानिधे
॥२५॥इति श्रुत्वा प्रणयतो बालोदीरितमीशिता ॥
प्रोवाच तासां तस्यापि भवांतरविचेष्टितम्
॥२६॥ईश्वर उवाव ॥
शृणुध्वं नागतनयास्तिस्रोपि हि समाहिताः ॥
प्राग्भवे भवतीनां च तस्यापि कथयाम्यहम्
॥९७॥एषा रत्नावली पूर्वमासीत्पारावती खगी ॥
स च विद्याधरवरः पतिरस्याः खगोभवत्
॥२८॥प्रासादेत्र ममैताभ्यामुषितं सुचिरं सुखम् ॥
रजःप्रासादसंलग्नं नुन्नं पक्षानिलैः पुनः
॥२९॥उपरिष्टादधस्ताच्च कृता बह्व्यः प्रदक्षिणाः ॥
व्योम्ना संचरमाणाभ्यां संचरद्भ्यां ममाजिरे
॥१३०॥स्नातं चतुर्नदे तीर्थे पीतं तत्रांबु चासकृत् ॥
आभ्यां कलरवाभ्यां च कृतः कलरवो मुदे
॥३१॥एताभ्यां स्थिरचेतोभ्यां मुदिताभ्यामतीव हि ॥
दृष्टानि कौतुकान्यत्र मम भक्तैः कृतानि वै
॥३२॥अमूभ्यां बहुशो दृष्टा मम मंगलदीपिकाः ॥
पीतं श्रुतिपुटाभ्यां च मम नामाक्षरामृतम्
॥३३॥तिर्यग्योनिप्रभावेन न मृतौ मम सन्निधौ ॥
मृतं पुर्यामयोध्यायां काशीप्राप्तिकृति ध्रुवम्
॥३४॥अयोध्यानिधनादेषा रत्नदीपसुताभवत् ॥
पतिः पारावतोऽस्याः स जातो विद्याधरांगजः
॥३५॥एषा प्रभावती नागी नागराजस्य पद्मिनः ॥
इह जन्मनि कन्यासीत्पूर्वं जन्म ब्रवीमि वः
॥३६॥त्रिशिखस्योरगेंद्रस्य सुता चेयं कलावती ॥
एतस्या अपि वृत्तांतं निशामयत वच्म्यहम्
॥३७॥भवांतरे तृतीयेऽतः कन्ये चारायणस्य ह ॥
आस्तां महर्षेः शीलाढ्ये प्रेमवत्यौ परस्परम्
॥३८॥पित्रा चारायणेनापि ताभ्यां संप्रेरितेन ते ॥
आमुष्यायण पुत्राय दत्ते नारायणाय हि
॥३९॥अप्राप्तयौवनः सोथ समिदाहरणाय वै ॥
गतो विधिवशाद्दष्टो दंदशूकेन कानने
॥१४०॥भवानीगौतमी नाम्न्यो ते तु चारायणांगजे ॥
वैधव्य दुःखमापन्ने दैन्यग्रस्ते बभूवतुः
॥४१॥अतएव प्रयत्नेन परिणेता विवर्जयेत् ॥
देवतासरिदाह्वानां कन्या पाणिग्रहे सुधीः
॥४२॥अथर्षेः कस्यचिद्दैवादाश्रमे परमाद्भुते ॥
रंभाफलान्यदत्तानि मोहाज्जगृहतुस्तदा
॥४३॥कृत्वा मासोपवासादि व्रतानि ब्राह्मणांगजे ॥
अवाप्य निधनं कालाच्छाखामृग्यौ बभूवतुः
॥४४॥फलचौर्यविपाकेन वानरीत्वं तयोरभूत् ॥
शीलरक्षणधर्मेण काश्यां जनिमवापतुः
॥४५॥स च नारायणो विप्रः पितृशुश्रूषणव्रतः ॥
दष्टोपि दंदशूकेन काश्यां पारावतोभवत्
॥४६॥एवं भवांतरेचासीदेतयोः पतिरेष कः ॥
तिसृणां भवतीनां च भावी भर्ताधुनापि हि
॥४७॥प्रासादस्यास्य पार्श्वे तु न्यग्रोधस्तु महानभूत् ॥
तस्मिञ्शाखिनि शाखाढ्ये शाखामृग्यौ बभूवतुः
॥४८॥चतुःस्रोतस्विनी तीर्थे क्रीडया च ममज्जतुः ॥
पपतुश्चापि पानीयं तस्मिंस्तीर्थं तृषातुरे
॥४९॥जातिस्वभावचापल्यात्क्रीडंत्यौ च प्रदक्षिणम् ॥
चक्रतुर्बहुकृत्वश्च लिंगं ददृशतुर्बहु
॥१५०॥विचरंत्याविति स्वैरं तत्र न्यग्रोध सन्निधौ ॥
केनचिद्योगिवेषेण पाशेन च नियंत्रिते
॥५१॥भिक्षार्थं शिक्षिते तेन तदुत्प्लुत्यादि नर्तनम् ॥
अथ ते क्वापि मर्कट्यौ कालधर्मवशंगते
॥५२॥काशीवासज पुण्येन त्रैलोचन्यानुसेवया ॥
प्रादक्षिण्यादिरूपिण्या जाते नागसुते इति
॥५३॥अधुना तं पतिं प्राप्य विद्याधरकुमारकम् ॥
निर्विश्य स्वर्गभोगांश्च काश्यां निर्वृतिमेष्यथ
॥५४॥यदल्पमपि वै काश्यां कृतं कर्म शुभावहम् ॥
तस्य मोक्षः परीपाको निश्चितं मदनुग्रहात्
॥५५॥त्रिलोक्या अपि सर्वस्याः श्रेष्ठा वाराणसी पुरी ॥
ततोपि लिंगमोंकारं ततोप्यत्र त्रिलोचनम्
॥५६॥तिष्ठमानोत्र लिंगेहं भक्तमुक्तिं दिशाम्यहम् ॥
ततः सर्वप्रयत्नेन काश्यां पूज्यस्त्रिलोचनः
॥५७॥इत्युक्त्वा देवदेवेशस्तत्प्रासादांतरं विशत् ॥
अवाच्यरूपमासाद्य स्थूलं त्रिभुवनादपि
॥५८॥ताश्च स्वं स्वं पदं प्राप्य तद्वृत्तांतमशेषतः ॥
स्वमातृपुरतश्चोक्त्वा कृतकृत्या इवाभवन्
॥५९॥एकदा माधवे मासि महायात्रा समागता ॥
विद्याधरास्तथा नागा मिलिताः सपरिच्छदाः
॥१६०॥विरजस्के महाक्षेत्रे त्रिलोचनसमीपतः ॥
देवस्य वरदानाच्च पृष्ट्वान्योन्यं कुलावलीम्
॥६१॥विद्याधराय ता नागैः कन्यास्तिस्रोपि कल्पिताः ॥
मंदारदामा संतुष्टः प्राप्य तच्च स्नुषात्रयम्
॥६२॥रत्नदीपश्च नागेंद्रः पद्मी च भुजगेश्वरः ॥
त्रिशिखोपि फणींद्रश्च हृष्टा एते त्रयोपि च
॥६३॥जामातरं समासाद्य शुभं परिमलालयम् ॥
अन्योन्यं स्वजनास्ते तु मुदा विकसितेक्षणाः
॥६४॥विवाहोत्सव माकल्प्य स्वं स्वं भुवनमाविशन् ॥
त्रिलोचनस्य लिंगस्य वर्णयंतोतिगौरवम्
॥६५॥स च विद्याधरः श्रीमान्नागीभिर्विपुलं सुखम् ॥
भुक्त्वा वाराणसीं प्राप्य संसेव्याथ त्रिलोचनम्
॥६६॥गायन्गीतं सुमधुरं नागीभिः सहितः कृती ॥
आत्मानं चातिसंस्मृत्य मध्ये लिंगं लयं गतः
॥६७॥स्कंद उवाच
त्रिलोचनस्य महिमा कलौ देवेन गोपितः ॥
अतोल्पसत्त्वा मनुजा न तल्लिंगमुपासते
॥६८॥त्रिलोचनकथामेतां श्रुत्वा पापान्वितोप्यहो ॥
विपाप्मा जायते मर्त्यो लभते च परां गतिम्
॥१६९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे त्रिलोचनप्रभावोनाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥