लिंगनिर्णयः
स्कन्द उवाच
ज्येष्ठेश्वरस्य परितो लिंगान्यन्यानि यानि तु ॥
तानि ते कथयिष्यामि शृणु वातापितापन
॥१॥ज्येष्ठेशाद्दक्षिणे भागे लिंगमप्सरसां शुभम् ॥
तत्रैवाप्सरसः कूपः सौभाग्योदकसंज्ञकः
॥२॥तत्कूपजलसुस्नातो विलोक्याप्सरसेश्वरम् ॥
न दौर्भाग्यमवाप्नोति नारी वा पुरुषोथवा
॥३॥तत्रैव कुक्कुटेशाख्यं लिंगं वापीसमीपगम् ॥
तस्य पूजनतः पुंसां कुटुंबं परिवर्धते
॥४॥पितामहेश्वरं लिंगं ज्येष्ठवापीतटे शुभम् ॥
तत्र श्राद्धं नरः कृत्वा पितॄणां मुदमर्पयेत्
॥५॥पितामहेशान्नैर्ऋत्यां पूजनीयं प्रयत्नतः ॥
गदाधरेश्वरं लिंगं पितॄणां परितृप्तिदम्
॥६॥दिशि पुण्यजनाख्यायां लिंगाज्ज्येष्ठेश्वरान्मुने ॥
वासुकीश्वरसंज्ञं च लिंगमर्च्यं समंततः
॥७॥तत्र वासुकिकुंडे च स्नानदानादिकाः क्रियाः ॥
सर्पभीतिहराः पुंसां वासुकीशप्रभावतः
॥८॥यः स्नातो नागपंचम्यां कुंडे वासुकिसंज्ञिते ॥
न तस्य विषसंसर्गो भवेत्सर्पसमुद्भवः
॥९॥कर्तव्या नागपञ्चम्यां यात्रा वर्षासु तत्र वै ॥
नागाः प्रसन्ना जायंते कुले तस्यापि सर्वदा
॥१०॥तत्कुण्डात्पश्चिमे भागे लिंगं वै तक्षकेश्वरम् ॥
पूजनीयं प्रयत्नेन भक्तानां सर्वसिद्धिदम्
॥११॥मुनेस्तस्योत्तरे भागे कुण्डं तक्षकसंज्ञितम् ॥
कृतोदकक्रियस्तत्र न सर्पैरभिभूयते
॥१२॥तत्कुण्डादुत्तरे भागे क्षेत्रं क्षेमकरः सदा ॥
भक्तानां साध्वसध्वंसी कपाली नाम भैरवः
॥१३॥भैरवस्य महाक्षेत्रं तद्वै साधकसिद्धिदम् ॥
तत्र संसाधिता विद्याः षण्मासातत्सिद्धिमाप्नुयुः
॥१४॥तत्र चण्डी महामुण्डा भक्तविघ्नोपशांतिदा।
बलिपूजोपहाराद्यैः पूज्या स्वाभीष्टसिद्धये
॥१५॥तस्या यात्रां तु यः कुर्यान्महाष्टम्यां नरोत्तमः ॥
यशस्वी पुत्रपौत्राढ्यो लक्ष्मीवाँश्चापि जायते
॥१६॥महामुण्डा प्रतीच्यां तु चतुःसागरवापिका ॥
तस्यां स्नातो भवेत्स्नातः सागरेषु चतुर्ष्वपि
॥१७॥महाप्रसिद्धं तत्स्थानं चतुःसागरसंज्ञितम् ॥
चत्वारि तत्र लिंगानि सागरैः स्थापितानि च
॥१८॥तस्या वाप्याश्चतुर्दिक्षु पूजितानि दहंत्यघम् ॥
तदुत्तरे महालिंगं वृषभेश्वरसंज्ञितम्
॥१९॥हरस्य वृषभेणैव स्थापितं तत्स्वभक्तितः ॥
तस्य दर्शनतः पुंसां षण्मासान्मुक्तिरुद्भवेत्
॥२०॥वृषेश्वरादुदीच्यां तु गंधर्वेश्वरसंज्ञितम् ॥
गंधर्वकुण्डं तत्प्राच्यां तत्र स्नात्वा नरोत्तमः
॥२१॥गंधर्वेश्वरमभ्यर्च्य दत्त्वा दानानि शक्तितः ॥
सन्तर्प्य पितॄदेवांश्च गंधर्वैः सह मोदते
॥२२॥कर्कोटनामा नागोस्ति गन्धर्वेश्वरपूर्वतः ॥
तत्र कर्कोटवापी च लिंगं कर्कोटकेश्वरम्
॥२३॥तस्यां वाप्यां नरः स्नात्वा कर्कोटेशं समर्च्य च ॥
कर्कोटनागमाराध्य नागलोके महीयते
॥२४॥कर्कोट नागो यैर्दृष्टस्तद्वाप्यां विहितोदकैः ॥
क्रमते न विषं तेषां देहे स्थावरजंगमम्
॥२५॥कर्कोटेशात्प्रतीच्यां तु धुंधुमारीश्वराभिधम् ॥
तल्लिंगाभ्यर्चनात्पुंसां न भवेद्वैरिजं भयम्
॥२६॥पुरूरवेश्वरं लिंगं तदुदीच्यां व्यवस्थितम् ॥
द्रष्टव्यं तत्प्रयत्नेन चतुर्वर्गफलप्रदम्
॥२७॥दिग्गजेनार्चितं लिंगं सुप्रतीकेन तत्पुरः ॥
सुप्रतीकेश्वरं नाम्ना यशोबलविवर्धनम्
॥२८॥सरश्च सुप्रतीकाख्यं तत्पुरो भासते महत् ॥
तत्र स्नात्वा च तल्लिंगं दृष्ट्वा दिक्पतितां लभेत्
॥२९॥तत्रास्त्येका महागौरी नाम्ना विजयभैरवी ॥
रक्षार्थमुत्तराद्वारि स्थिता पूज्येष्टसिद्धये
॥३०॥वरणायास्तटे रम्ये गणौ हुंडनमुंडनौ ॥
क्षेत्ररक्षां विधत्तस्तौ विघ्नस्तंभन कारकौ
॥३१॥तौ द्रष्टव्यौ प्रयत्नेन क्षेत्रनिर्विघ्न हेतवे ॥
हुंडनेशं मुंडनेशं तत्र दृष्ट्वा सुखी भवेत्
॥३२॥स्कंद उवाच
इल्वलारे कथामेकां शृणुष्वावहितो भव ॥
वरणायास्तटे रम्ये यद्वृत्त पूर्वमुत्तमम्
॥३३॥एकदाद्रींद्रमालोक्य मेना संहृष्टमानसम् ॥
उमां संस्मृत्य निःश्वस्य प्रोवाचेति पतिव्रता
॥३४॥मेनोवाच
आर्यपुत्र न जानामि प्रवृत्तिमपि कांचन ॥
विवाहसमयादूर्ध्वं तस्या गौर्या गिरीश्वर
॥३५॥स वृषेंद्रगतिर्देवो भस्मोरग विभूषणः ॥
महापितृवनावासो दिग्वासाः क्वास्ति संप्रति
॥३६॥अष्टौ या मातरो दृष्टा ब्राह्मी प्रभृतयः प्रिय ॥
स्वस्वरूपास्ता मन्येऽहं बालिकाः कष्टहेतवः
॥३७॥तस्यैकस्य न कोप्यन्योस्त्यद्वितीयस्य शूलिनः ॥
तदुदंतप्रवृत्त्यै च क्रियतामुद्यमो विभो
॥३८॥तस्याः प्रियाया वाक्येन तदपत्यप्रियो गिरिः ॥
उवाच वचनं सास्रमुमा वात्सल्यसन्नगीः
॥३९॥गिरिराज उवाच
अहमेव गमिष्यामि तस्या मेने गवेषणे ॥
नितरां बाधते प्रेम तददृष्ट्यग्निदूषितम्
॥४०॥यदा प्रभृति सा गौरी निर्गता मम सद्मतः ॥
मन्ये मेने तदारभ्य पद्मसद्मा विनिर्ययौ
॥४१॥तदालापामृतधयौ न मे शब्दग्रहौ प्रिये ॥
प्राणेश्वरि तदारभ्य स्यातां शब्दांतरग्रहौ
॥४२॥जैवातृकी यतोह्नः स्याद्दूरीभूता दृशोर्मम ॥
अहो जैवातृकी ज्योत्स्ना ततोह्नोति दुनोति माम्
॥४३॥इत्युक्त्वादाय रत्नानि वासांसि विविधानि च ॥
धराधरेंद्रो निर्यातः शुभलग्नबलोदये
॥४४॥अगस्त्य उवाच
कानि कानि च रत्नानि कियंत्यपि च षण्मुख ॥
यान्यादाय प्रतस्थे स तानि मे ब्रूहि पृच्छतः
॥४५॥स्कंद उवाच
तुला मुक्ताफलानां तु कोटिद्वय परीमिताः ॥
तथा वारितराणां च हीरकाणां तुला शतम्
॥४६॥नवलक्षाधिकं विप्र षडस्राणां सुतेजसाम् ॥
लक्षद्वयं विदूराणां तुलाविमलवर्चसाम
॥४७॥कोटयः पद्मरागाणां पंचावैहि तुला मुने ॥
पुष्पराग तुलालक्षं गुणितं नवसंख्यया
॥४८॥तथा गोमेद रत्नानां तुलालक्षमिता मुनै ॥
इंद्रनीलमणीनां च तुलाः कोट्यर्ध संमिताः
॥४९॥गरुडोद्गाररत्नानां तुलाः प्रयुतसंमिताः ॥
शुद्धविद्रुमरत्नानां तुलाश्च नवकोटयः
॥५०॥अष्टांगाभरणानां च संख्या कर्तुं न शक्यते ॥
वाससां च विचित्राणां कोमलानां तथा मुने
॥५१॥चामराणि च भूयांसि द्रव्याण्यामोदवंति च ॥
सुवर्णदासदास्यादीन्यसंख्यातानि वै मुने
॥५२॥सर्वाण्यपि समादाय प्रतस्थे भूधरेश्वरः ॥
आगत्य वरणातीरं दूरात्काशीमलोकयत्
॥५३॥अनेकरत्ननिचयैः खचिताऽखिलभूमिकाम् ॥
नानाप्रासादमाणिक्यज्योतिस्ततततांबराम्
॥५४॥सौधाग्रविविधस्वर्णकलशोज्वलदिङ्मुखाम् ॥
जयंतीवैजयंतीनां निकरैस्त्रिदिवस्थलीम्
॥५५॥महासिद्ध्यष्टकस्यापि क्रीडाभवनमद्भुतम् ॥
जितकल्पदुमवनां वनैः सर्वफलावनैः
॥५६॥इति काशीसमृद्धिं स विलोक्याभूद्विलज्जितः ॥
उवाच च मनस्येव भूधरेंद्र इदं वचः
॥५७॥प्रासादेषु प्रतोलीषु प्राकारेषु गृहेषु च ॥
गोपुरेषु विचित्रेषु कपाटेषु तटेष्वपि
॥५८॥मणिमाणिक्यरत्नानामुच्छलच्चारुरोचिषाम् ॥
ज्योतिर्जालैर्जटिलितं ययेदमवलोक्यते
॥५९॥द्यावाभूम्योरंतरालं तथेति समवैम्यहम् ॥
ईदृक्संपत्तिसंभारः कुवेरस्यापि नो गृहे
॥६०॥अपि वैकुंठभुवने नेतरस्येह का कथा ॥
इति यावद्गिरींद्रोसौ संभावयति चेतसि
॥६१॥तावत्कार्पटिकः कश्चित्तल्लोचनपथं गतः ॥
आहूय बहुमानं तमपृच्छच्चाचलेश्वरः
॥६२॥हिमवानुवाच
हंहो कार्पटिक श्रेष्ठ अध्यास्वैतदिहासनम् ॥
स्वपुरोदंतमाख्याहि किमपूर्वमिहाध्वग
॥६३॥कोत्र संप्रत्यधिष्ठाता किमधिष्ठातृ चेष्टितम् ॥
यदि जानासि तत्सर्वमिहाचक्ष्व ममाग्रतः
॥६४॥सोपि कार्पटिकस्तस्य गिरिराजस्य भाषितम् ॥
समाकर्ण्य समाचष्टुं मुने समुपचक्रमे
॥६५॥कार्पटिक उवाच
आचक्षे शृणु राजेंद्र यत्पृष्टोस्मि त्वयाखिलम् ॥
अहानि पंचषाण्येव व्यतिक्रांतानि मानद
॥६६॥समायाते जगन्नाथे पर्वतेंद्र सुतापतौ ॥
सुंदरान्मंदरादद्रेर्दिवोदासे गते दिवि
॥६७॥यो वै जगदधिष्ठाता सोधिष्ठातात्र सर्वगः ॥
सर्वदृक्सर्वदः शर्वः कथं न ज्ञायते विभो
॥६८॥मन्ये दृषत्स्वरूपोसि दृषदोपि कठोरधीः ॥
यतो विश्वेश्वरं काश्यां न वेत्सि गिरिजापतिम्
॥६९॥स्वभावकठिनात्मापि स वरं हिमवान्गिरिः ॥
प्राणाधिक सुता दानाद्यो धिनोद्विश्वनायकम्
॥७०॥बिभ्रत्सहज काठिन्यं जातो गौरीगुरुर्गुरुः ॥
शंभुं प्रपूज्य सुतया स्रजा विश्वगुरोरपि
॥७१॥चेष्टितं तस्य को वेद वेदवेद्यस्य चेशितुः ॥
मनागिति च जानेहं तच्चेष्टितमिदं जगत्
॥७२॥अधिष्ठाता मया ख्यातस्तथाधिष्ठातृ चेष्टितम् ॥
अपूर्वं यत्त्वयापृष्टं तदाख्यामि च तच्छृणु
॥७३॥शुभे ज्येष्ठेश्वरस्थाने सांप्रतं स उमापतिः ॥
काशीं प्राप्य मुदा तिष्ठेद्गिरिराजांगजा सखः
॥७४॥स्कंद उवाच
यदा यदा स गिरिजा मृदुनामाक्षरामृतम् ॥
आविष्करोति पथिकोऽद्रींद्रो हृष्येत्तदातदा
॥७५॥उमानामामृतं पीतं येनेह जगतीतले ॥
न जातु जननीस्तन्यं स पिबेत्कुंभसंभव
॥७६॥उमेतिद्व्यक्षरं मंत्रं योऽहर्निशमनुस्मरेत् ॥
न स्मरेच्चित्रगुप्तस्तं कृतपापमपि द्विज
॥७७॥पुनः शुश्राव हिमवान्हृष्टः कार्पटिकोदितम् ॥
कार्पटिक उवाच ॥
राजन्विश्वेश्वरार्थेयः प्रासादो विश्वकर्मणा
॥७८॥निर्मीयते सुनिर्माणो जन्मि निर्वाणदायिनः ॥
तदपूर्वं न कर्णाभ्यामप्याकर्णितवानहम्
॥७९॥यत्रातिमित्रतेजोभिः शलाकाभिः समंततः ॥
मणिमाणिक्यरत्नानां प्रासादेभित्तयः कृताः
॥८०॥यत्र संति शतं स्तंभा भास्वंतो द्वादशोत्तराः ॥
एकैकं भुवनं धर्तुमष्टाष्टाविति कल्पिताः
॥८१॥चतुर्दशसु या शोभा विष्टपेषु समंततः ॥
तस्मिन्विमाने सास्तीह शतकोटिगुणोत्तरा
॥८२॥चंद्रकांतमणीनां च स्तंभाधार शिलाश्च याः ॥
चित्ररत्नमयैस्तंभैः स्तंभितास्तत्प्रभाभराः
॥८३॥पद्मरागेंद्रनीलानां शालीनाः शालभंजिकाः ॥
नीराजयंत्यहोरात्रं यत्र रजप्रदीपकैः
॥८४॥स्फुरत्स्फटिकनिर्माण श्लक्ष्ण पद्मशिलातले ॥
अनेकरत्नरूपाणि विचित्राणि समंततः
॥८५॥आरक्तपीतमंजिष्ठ नीलकिर्मीरवर्णकैः ॥
विन्यस्तानीव भासंते चित्रे चित्रकृतायतः
॥८६॥दृक्पिच्छिला विलोक्यंते माणिक्यस्तंभराजयः ॥
यतोऽविमुक्ते स्वक्षेत्रे मोक्षलक्ष्म्यंकुरा इव
॥८७॥रत्नाकरेभ्यः सर्वेभ्यो गणा रत्नोच्चयान्बहून् ॥
राशींश्चक्रुः समानीय यत्राद्रिशिखरोपमान्
॥८८॥यत्र पातालतलतो नागानां कोशवेश्मतः ॥
गणैर्मणिगणाः सर्वे समाहृत्य गिरीकृताः
॥८९॥शिवभक्तः स्वयं यत्र पौलस्त्यः स्वद्रिकूटतः ॥
कोटिहाटककूटानि आनयामास राक्षसैः
॥९०॥प्रासादनिर्मितिं श्रुत्वा भक्ता द्वीपांतरस्थिताः ॥
माणिक्यानि समाजह्रुर्यथासंख्यान्यहो नृप
॥९१॥चिंतामणिः स्वयं यत्र कमर्णे विश्वकर्मणे ॥
विश्राणयेदहोरात्रं विचित्रांश्चिं तितान्मणीन्
॥९२॥नानावर्णपताकाश्च यत्र कल्पमहीरुहः ॥
अनल्पाः कल्पयंत्येव नित्यभक्तिसमन्विताः
॥९३॥अब्धयो यत्र सततं दधिक्षीरेक्षुसर्पिषाम् ॥
पंचामृतानां कलशैः स्नपयंति दिनेदिने
॥९४॥यत्र कामदुघा नित्यं स्नपयेन्मधुधारया ॥
स्वदुग्धया स्वयं भक्त्या विश्वेशं लिंगरूपिणम्
॥९५॥गंधसाररसैर्यं च सेवते मलयाचलः ॥
कर्पूररंभा कर्पूरपूरैर्भक्त्या निषेवते
॥९६॥इत्याद्य पूर्वं यत्रास्ति प्रत्यहं शंकरालये ॥
कथं तं त्वमुमाकातं न वेत्सि कठिनाशय
॥९७॥इति तस्य समृद्धिं तां दृष्ट्वा जामातुरद्रिराट ॥
त्रपया परिभूतोभून्नितरां कुंभसंभव
॥९८॥तस्मै कार्पटिकायाथ स दत्त्वा पारितोषिकम् ॥
पुनश्चिंतापरोजातोऽद्रिराट्कार्पटिके गते
॥९९॥उवाचेति मनस्येव विस्मयोत्फुल्ललोचनः ॥
अहो भद्रमिदं जातं यत्त्वया श्रावि शर्मभाक्
॥१००॥यावत्संपत्तिसंभारः श्रूयते दृश्यतेत्र वै ॥
जामातुरत्र सदने लीला त्रिजगतीपतेः
॥१॥ततः प्राभृतकस्तुच्छो नितरां प्रतिभाति मे ॥
कन्यार्थं यो मया नीतो जामातुः परितोषकृत्
॥२॥अहं मन्ये तथैवासौ यथादर्शि मया पुरा ॥
वृद्धोक्षमात्रसंपत्तिः सर्वकर्मपराङ्मुखः
॥३॥नैनं कोपि विजानीयान्नान्वयोस्य कदाऽचन ॥
नामापि यस्य नैकं च किंदेशीयश्च नोह्यते
॥४॥किंवृत्तश्च किमाचारो नाममात्रेण चेश्वरः ॥
ऐश्वर्यसूचकं वस्तु यस्य किंचिन्न लक्ष्यते
॥५॥सोसौ निर्वाणसंपत्तिं रंकायापि ददात्यहो ॥
सुमुखः सर्वकर्माणि फलवंति करोति सः
॥६॥वेदवेद्यो हि सर्वज्ञो यत्संतानोऽखिलं जगत् ॥
यं न कोपि हि वेदादौ वेदवेद्यः स एष वै
॥७॥योनभिज्ञः सदाज्ञातः स सर्वज्ञोयमेव हि ॥
यस्यैकमपि नो नाम पुंसा ज्ञेयं न केनचित्
॥८॥सर्वेषां सर्वनामानि यस्य नामानि निश्चितम् ॥
सोसौ हि सर्वदेशीयः सर्वेभ्यः सर्वसिद्धिदः
॥९॥यस्य देशो न विदितो यस्तु वृत्तिपराङ्मुखः ॥
आचारहीनमिव यं पुराऽपश्यं कठोरधीः
॥११०॥श्रुतिस्मृती यतः सर्वमाचारं वित्त एव हि ॥
नाममात्रेण नियतं यमज्ञासिषमीश्वरम्
॥११॥साक्षादीश्वर एवैष सोन्येष्वैश्वर्यसूचकः ॥
अपि सर्वगुणाधारो गुणातीतः परापरः
॥१२॥अर्वाचीन इहाप्येष पराचीनः परात्परः ॥
भूधराणामहं नाथो विश्वनाथ उमापतिः
॥१३॥अहं प्रमितसंपत्तिरप्रमेय धनोह्यसौ ॥
तुच्छप्राभृत कस्तस्मान्नेदानीमस्य दर्शनम्
॥१४॥करिष्येथ करिष्यामि व्यावृत्त्यागत्य कर्हिचित् ॥
संप्रधार्येति मनसि सायं स च गिरीश्वरः
॥१५॥आहूय सर्वाननुगान्पार्वतीयान्महाबलान् ॥
आदिष्टवानिदं वाक्यं सर्वे यूयं बलाधिकाः
॥१६॥कुर्वंत्वेकं ममादेशं यावन्नोद्यति भानुमान् ॥
तावच्छिवालयं चैकं विदधत्वत्र सत्वरम्
॥१७॥यस्मिन्कृते कृतार्थः स्यामिह लोके परत्र च ॥
समागत्येह काश्यां यः कुर्यादेकं शिवालयम्
॥१८॥तेन त्रैलोक्यमखिलं सालयं कृतमेव हि ॥
तेन दत्तानि दानानि महांति विधिपूर्वकम्
॥१९॥सुपर्वणि सुपात्राय सुताथ श्रद्धयाधिकम् ॥
येन स्ववित्तमानेन धर्मोपार्जित वित्ततः
॥१२०॥कृतं शंभोर्महासद्म न तं पद्मा त्यजेत्क्वचित् ॥
तपांसि तेन तप्तानि शीर्णपर्णाशनान्यपि
॥२१॥वाराणसीं समासाद्य येनाकारि शिवालयः ॥
अशेषाः सुविशेषाढ्या इष्टांस्तेन महामखाः
॥२२॥आनंदकानने येन देवदेवालयः कृतः ॥
इति तस्य समादेशं समाकर्ण्यानुगास्ततः
॥२३॥चक्रुर्देवालयं श्रेष्ठं यावद्व्युष्टा न यामिनी ॥
तावच्छैलेश्वरं लिंगं शैलेशेन प्रतिष्ठितम् ॥
चंद्रकांतमणेश्चंचत्कांतिश्चेतितमंडपम्
॥२४॥अलेखयत्प्रशस्तिं च प्रशस्ताक्षरमालिनीम् ॥
व्याचक्षाणां निजां सर्वं गोत्रेभ्योप्यधिकोन्नतिम्
॥२५॥ततोऽरुणोदये जाते स्नात्वा पंचनदे ह्रदे ॥
शैलराजः कालराजं नमस्कृत्य समर्च्य च
॥२६॥तत्र राशिं समुत्सृज्य परितस्तवरितो ययौ ॥
पार्वतीयैरनुगतः सर्वैरपि निजालयम्
॥२७॥ततः प्रातः समालोक्य गणौ हुंडनमुंडनो ॥
हृष्टौ देवालयं रम्यं वरणायास्तटे शुभे
॥२८॥अदृष्टपूर्वदेवाय निवेदयितुमागतौ ॥
तौ तु दृष्ट्वा महादेवमुमादर्शितदर्पणम्
॥२९॥प्रणम्य दंडवद्भूमौ कृतांजलिपुटौ गणौ ॥
कृताभ्यनुज्ञो भ्रूक्षेपाद्विज्ञप्तिमथ चक्रतुः
॥१३०॥देवदेव न जानीवः केनचिद्दृढभक्तिना ॥
अतीव रम्यः प्रासादो निर्मितो वरणातटे
॥३१॥आसायं नैक्षिचावाभ्यां दृष्टोद्यैव प्रगे विभो ॥
गणोदितमितीशानो निशम्याह गिरींद्रजाम्
॥३२॥विज्ञातसर्ववृत्तांतः सर्वज्ञोप्यनभिज्ञवत् ॥
अचलेंद्रागजेयावस्तत्प्रासादविलोकने
॥३७॥इत्युक्त्वेशः सगिरिजो निरगात्सगणो मुने ॥
महास्यंदनमारुह्य प्रासादं द्रष्टुमुत्सुकः
॥३४॥अथालुलोके गिरिशः प्रासादं वरणातटे ॥
अतीव रम्यरचनं यामिनीमात्रनिर्मितम्
॥३५॥स्यंदनादवरुह्याथ गर्भागारमवीविशत् ॥
ददर्श च महालिंगं चंद्रकांतशिलामयम्
॥३६॥देदीप्यमानं महसा मोक्षलक्ष्म्यंकुराकृति ॥
दृष्टिप्रसादजननं पुनर्जननशातनम्
॥३७॥केनेदं स्थापितं लिंगं यावज्जिज्ञासतीश्वरः ॥
तावद्दर्श पुरतः प्रशस्तिं कर्तृसूचिकाम् ॥
वाचयित्वेव च मनाङ्मनस्येव मनोजहृत् ॥
उवाच देवो दिष्ट्येति प्रेक्षस्वात्मपितुः कृतिम्
॥३९॥उमा श्रुत्येति संहृष्टा कदंबकुसुमश्रियम् ॥
आनंदांकुरलक्ष्मीवदंगेषु परिबिभ्रती
॥१४०॥ततो व्यजिज्ञपद्देवं देवी पादौ प्रणम्य च ॥
अस्मिँल्लिंगवरे नाथ त्वया स्थेयमहर्निशम्
॥४१॥अस्य लिंगस्य ये भक्ता शैलेशस्य महेशितुः ॥
तेभ्यस्त्वं महतीमृद्धिं दास्यसीह परत्र च
॥४२॥तथेति देव उक्त्वा तां पार्वतीं पुनरब्रवीत् ॥
वरणायां कृतस्नानैः शैलेशो यैः समर्चितः
॥४३॥पितॄन्संतर्प्य च मुदा दत्त्वा दानानि शक्तितः ॥
न तेषां पुनरावृत्तिरत्र संसारवर्त्मनि
॥४४॥शैलैश्वरे महालिंगे नित्यं स्थास्याम्यहं शुभे ॥
प्रदास्यामि परां मुक्तिमेतल्लिंगार्चके जने
॥४५॥शैलेश्वरं ये द्रक्ष्यंति वरणायाः सुरोधसि ॥
तेषां काश्यां निवसतां दुःखं नाभिभविष्यति
॥४६॥उमयापि वरो दत्तस्तत्र लिंगे घटोद्भव ॥
शैलेश्वरस्य ये भक्तास्ते मे पुत्रा न संशयः
॥४७॥स्कंद उवाव ॥
इति शैलेश्वरं लिंगं कथितं ते महामुने ॥
इदानीं कथयिष्यामि रत्नेश्वरसमुद्भवम्
॥४८॥श्रुत्वा शैलेश माहात्म्यं श्रद्धया परया नरः ॥
पापकंचुकमुत्सृज्य शिवलोकमवाप्नुयात्
॥१४९॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशाखंडे उत्तरार्धे शैलेशादि लिंगनिर्णयोनाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥