मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय १९

3
काशीखण्डः · 19

तिष्ठन्नेकेन पादेन कोयं भ्रमति सत्तमौ

शिवशर्मोवाच

तिष्ठन्नेकेन पादेन कोयं भ्रमति सत्तमौ ॥

अनेकरशनाव्यग्र हस्ताग्रो व्यग्रलोचनः

॥१॥

त्रिलोकीमंडपस्तंभ सन्निभोभाभिरावृतः ॥

अतुलं ज्योतिषां राशिं तुलया तुलयन्निव

॥२॥

सूत्रधार इव व्योम व्यायामपरिमापकः ॥

त्रैविक्रमोंघ्रिदंडो वा प्रोद्दंडो गगनांगणे

॥३॥

अथवांबरकासारसारयूपस्वरूपधृक् ॥

कोयं कथय तं देवौ कृपया परया मम

॥४॥

निशम्येति वचस्तस्य वयस्यस्य विमानगौ ॥

प्रणयादाहतुस्तस्मै ध्रुवां ध्रुवकथां गणौ

॥५॥

गणावूचतुः

मनोः स्वायंभुवस्यासीदुत्तानचरणः सुतः ॥

तस्य क्षितिपतेर्विप्र द्वौ सुतौ संबभूवतुः

॥६॥

सुरुच्यामुत्तमो ज्येष्ठः सुनीत्यां तु ध्रुवो परः ॥

मध्ये सभं नरपतेरुपविष्टस्य चैकदा

॥७॥

सुनीत्या राजसेवायै नियुक्तोऽलंकृतोर्भकः ॥

ध्रुवो धात्रेयिकापुत्रैः समं विनयतत्परः

॥८॥

स गत्वोत्तानचरणं क्षोणीशं प्रणनाम ह ॥

दृष्ट्वोत्तमं तदुत्संगे निविष्टं जनकस्य वै

॥९॥

प्रोच्चसिंहासनस्थस्य नृपतेर्बाल्यचापलात् ॥

आरोढुकामस्त्वभवत्सौनीतेयस्तदा ध्रुवः

॥१०॥

आरुरुक्षुमवेक्ष्यामुं सुरुचिर्धुवमब्रवीत् ॥

दौर्भगेय किमारोढुमिच्छेरंकं महीपतेः

॥११॥

बालबालिशबुद्धित्वादभाग्या जठरोद्भव ॥

अस्मिन्सिंहासने स्थातुं न त्वया सुकृतं कृतम्

॥१२॥

यदि स्यात्सुकृतं तत्किं दुर्भगोदरगोऽभवः ॥

अनेनैवानुमानेन बुध्यस्व स्वाल्पपुण्यताम्

॥१३॥

भूत्वा राजकुमारोपि नालंकुर्या ममोदरम् ॥

सुकुक्षिजममुं पश्य त्वमुत्तममनुत्तमम्

॥१४॥

अधिजानुधराजानेर्मानेन परिबृंहितम् ॥

प्रांशोः सिंहासनस्यास्य रुचिश्चेदधिरोहणे

॥१५॥

कुक्षिं हित्वा किमवसः सुरुचेश्च सुरोचिषम् ॥

मध्ये भूपसभं बालस्तयेति परिभर्त्सितः

॥१६॥

पतन्निपीतबाष्पांबुर्धैर्यात्किंचिन्न चोक्तवान् ॥

उचिताऽनुचितं किंचिन्नोचिवान्सोपि पार्थिवः

॥१७॥

नियंत्रितो महिष्याश्च तस्याः सौभाग्यगौरवात् ॥

विमृज्य च सभालोकं शोकं संमृज्य चेष्टितैः

॥१८॥

शैशवैः स शिशुर्नत्वा नृपं स्वसदनं ययौ ॥

सुनीतिर्नीतिनिलयमवलोक्याथ बालकम्

॥१९॥

सुखलक्ष्म्यैवचाज्ञासीद्ध्रुवं समवमानितम् ॥

अभिसृत्य च तं बालं मूर्ध्न्युपाघ्राय सा सकृत्

॥२०॥

किंचित्परिम्लानमिव ससांत्वं परिषस्वजे ॥

अथ दृष्ट्वा सुनीतिं स रहोंतः पुरवासिनीम्

॥२१॥

दीर्घं निःश्वस्य बहुशो मातुरग्रे रुरोद ह ॥

सांत्वयित्वाश्रुनयना वदनं परिमार्ज्य च

॥२२॥

दुकूलांचल संपर्कैर्मृदुलैर्मृदुपाणिना ॥

पप्रच्छ तनयं माता वद रोदनकारणम् ॥

विद्यमाने नरपतौ शिशो केनापमानितः

॥२३॥

अपोथसमुपस्पृश्य तांबूलं परिगृह्य च ॥

मात्रा पृष्टः सोपरोधं ध्रुवस्तां पर्यभाषत

॥२४॥

संपृच्छे जननि त्वाहं सम्यक्शंस ममाग्रतः ॥

भार्यात्वेपि च सामान्ये कथं सा सुरुचिः प्रिया

॥२५॥

कथं न भवती मातः प्रिया क्षितिपतेरसि ॥

कथमुत्तमतां प्राप्त उत्तमः सुरुचेः सुतः

॥२६॥

कुमारत्वेपि सामान्ये कथं त्वहमनुत्तमः ॥

कथं त्वं मंदभाग्यासि सुकुक्षिः सुरुचिः कथम्

॥२७॥

कथं नृपासनं योग्यमुत्तमस्य कथं न मे ॥

कथं मे सुकृतं तुच्छमुत्तमस्योत्तमं कथम्

॥२८॥

इति श्रुत्वा वचस्तस्य सुनीतिर्नीतिमच्छिशोः ॥

किंचिदुच्छ्वस्य शनकैः शिशुकोपोपशांतये

॥२९॥

स्वभावमधुरां वाणीं वक्तुं समुपचक्रमे ॥

सापत्नं प्रतिघं त्यक्त्वा राजनीतिविदांवरा

॥३०॥

सुनीतिरुवाच

अयि तात महाबुद्धे विशुद्धेनांतरात्मना ॥

निवेदयामि ते सर्वं माऽपमाने मतिं कृथाः

॥३१॥

तया यदुक्तं तत्सर्वं तथ्यमेव न चान्यथा ॥

सापत्युर्महिषीराज्ञो राज्ञीनामति वल्लभा

॥३२॥

तया जन्मांतरे तात यत्पुण्यं समुपार्जितम् ॥

तत्पुण्योपचयाद्राजा सुरुच्यां सुरुचिर्भृशम्

॥३३॥

मादृश्यो मंदभाग्यायाः प्रमदासु प्रतिष्ठिताः ॥

केवलं राजपत्नीत्ववादस्तासु न तद्रुचिः

॥३४॥

महा सुकृतसंभारैरुत्तमश्चोत्तमोदरे ॥

उवास तस्याः पुण्या या नृपसिंहासनोचितः

॥३५॥

आतपत्रं च चंद्राभं शुभे चापि च चामरे ॥

भद्रासनं तथोच्चं च सिंधुराश्च मदोद्धुराः

॥३६॥

तुरंगमाश्च तुरगास्त्वनाधिव्याधिजीवितम् ॥

निःसपत्नं शुभं राज्यं प्राज्यं हरिहरार्चनम्

॥३७॥

विपुलं च कलाज्ञानमधीतमपराजितम् ॥

तथा जयोरिषड्वर्गे स्वभावात्सात्त्विकी मतिः

॥३८॥

दृष्टिः कारुण्यसंपूर्णा वाणी मधुरभाषिणी ॥

अनालस्यं च कार्येषु तथा गुरुजने नतिः

॥३९॥

सर्वत्र शुचिता तात सा परोपकृतिः सदा ॥

और्जस्वला मनोवृत्तिः सदैवादीनवादिता

॥४०॥

सदोजिरे च पांडित्यं प्रागल्भ्यं चरणांगणे ॥

आर्जवं बंधुवर्गेषु काठिन्यं क्रयविक्रये

॥४१॥

मार्दवं स्त्रीप्रयोगेषु वत्सलत्वं प्रजासु च ॥

ब्राह्मणेभ्यो भयं नित्यं वृद्धवृत्त्युपजीवनम्

॥४२॥

वासो भागीरथीतीरे तीर्थे वा मरणं रणे ॥

अपराङ्मुखताऽर्थिभ्यः प्रत्यर्थिभ्यो विशेषतः

॥४३॥

भोगः परिजनैः सार्धं दानावंध्यदिनागमः ॥

विद्याव्यसनिता नित्यं नित्यं पित्रोरुपस्थितिः

॥४४॥

यशसः संचयो नित्यं नित्यं धर्मस्य संचयः ॥

स्वर्गापवर्गयोः सिद्धिः सदा शीलस्य मंडनम्

॥४५॥

सद्भिश्च संगतिर्नित्यं मैत्री च पितृमित्रकैः ॥

इतिहासपुराणानामुत्कंठा श्रवणे सदा

॥४६॥

विपद्यपि परं धैर्यं स्थैर्यं संपत्समागमे ॥

गांभीर्यं वाग्विलासेषु औदार्यं पात्रपाणिषु

॥४७॥

देहे परैका कृशता तपोभिर्नियमैर्यमैः ॥

एतैर्मनोरथफलैः फलत्येव तपोद्रुमाः

॥४८॥

तस्मादल्पतपस्त्वाद्वै त्वं चाहं च महामते ॥

प्राप्यापि राजसांनिध्यं राजलक्ष्म्या न भाजनम्

॥४९॥

मानापमानयोस्तस्मात्स्वकृतं कारणं परम् ॥

स्रष्टापि नापमार्ष्टुं तत्परीष्टे स्वकृतां कृतिम् ॥

मा शोचस्त्वमतः पुत्र दिष्टमिष्टं समर्पयेत्

॥५०॥

इत्याकर्ण्य सुनीत्यास्तन्महावाक्यं सुनीतिमत् ॥

सौनीते यो ध्रुवोवाचमाददे वक्तुमुत्तरम्

॥५१॥

ध्रुव उवाच

जनयित्रि सुनीते मे शृणु वाक्यमनाकुलम् ॥

मा बाल इति मत्वा मामवमंस्थास्तपस्विनि

॥५२॥

यद्यहं मानवे वंशे जातोस्म्यत्यंत पावने ॥

उत्तानपादतनयस्त्वदीयोदर संभवः

॥५३॥

तप एव हि चेन्मातः कारणं सर्वसंपदाम् ॥

तत्तदासादितं विद्विपदमन्यैर्दुरासदम्

॥५४॥

एकमेव हि साहाय्यं कुरु मातरतंद्रिता ॥

अनुज्ञा दानमात्रं च आशीर्भिरभिनंदय

॥५५॥

सापि ज्ञात्वा महावीर्यं कुमारं कुक्षिसंभवम् ॥

महत्योत्साहसं पत्त्या राजमानमुवाच तम्

॥५६॥

अनुज्ञातुं न शक्ताऽहं त्वामुत्तानशयांगज ॥

साष्टैकवर्षदेशीयन्तथापि कथयाम्यहम्

॥५७॥

सपत्नीवाक्यभल्लीभिर्भिन्ने महति मे हृदि ॥

तव बाष्पौघवारीणि न तिष्ठंति करोमि किम्

॥५८॥

तानि मन्येऽत्र मार्गेण स्रवंत्यविरतं शिशो ॥

स्रवंतीश्च चिकीर्षंति प्रतिकूल जलाः किल

॥५९॥

त्वदेकतनया तात त्वदाधारैकजीविता ॥

त्वमंगयष्टिरसि मे त्वन्मुखासक्तलोचना

॥६०॥

लब्धोसि कतिभिः कष्टैरिष्टाः संप्रार्थ्य देवताः ॥

त्वन्मुखेंदूदये तात मन्मनः क्षीरनीरधिः

॥६१॥

आनन्दपयसापूर्य कुचावुद्वेलितो भवेत् ॥

त्वदंगसंगसंभूत सुखसन्दोह शीतला

॥६२॥

सुखंशये सुशयने प्रावृत्य पुलकांबरम् ॥

अपोऽथ समुपस्पृश्य तांबूलं परिगृह्य च

॥६३॥

त्वदास्यस्यौष्ठपुटक दुग्धवार्धि विवर्धिताम् ॥

सुधासुधांशुवदनधयत्यपि धिनोमि न

॥६४॥

त्वदीयः शीतलालापः प्राप श्रुतिपथं यदा ॥

सपत्नीवाक्यदवथुस्तदैवत्यात्स वेपथुः

॥६५॥

यदंग निद्रासिचिरं ध्यायंत्यस्मि तदेत्यहम् ॥

कदा निद्रा दरिद्रोसौ भवितार्कोदयेऽब्जवत्

॥६६॥

यदोपेया गृहान्वत्स खेलित्वा बालखेलनैः ॥

तदानर्घ्यार्घ्यमुत्स्रष्टुं स्तनौस्यातामिवोन्मुखौ

॥६७॥

यदा सौधाद्विनिर्यायाः पद्मरेखांकितं पदम् ॥

प्राणानां ते यियासूनां तदा तदवलंबनम्

॥६८॥

यदायदा बहिर्यासि पुत्र त्रिचतुरं पदम् ॥

तदातदा मम प्राणः कंठप्राघुणिकी भवेत्

॥६९॥

चित्रं पुत्र त्वरयति यातुं मे मानसांडजः ॥

सुधाधाराधर इव बहिश्चिरयति त्वयि

॥७०॥

अथ तिष्ठंतु कठिनाः प्राणाः कंठाटवीतटे ॥

तपस्यंतोतिसंतप्तास्तपसे त्वयि यास्यति

॥७१॥

इत्यनुज्ञामनुप्राप्य जननी चरणांबुजौ ॥

क्षणं मौलिजजंबाल जडौ कृत्वा ध्रुवो ययौ

॥७२॥

तयापि धैर्यसूत्रेण सुनीत्या परिगुंफ्य च ॥

नेत्रेंदीवरजामाला ध्रुवस्योपायनीकृता

॥७३॥

मात्रातन्मार्गरक्षार्थं तदा तदनुगीकृताः ॥

परैरवार्यप्रसराः स्वाशीर्वादाः परःशताः

॥७४॥

स्वसौधात्स विनिर्गत्य बालोऽबालपराक्रमः ॥

अनुकूलेन मरुता दर्शिताध्वाऽविशद्वनम्

॥७५॥

समरुत्तरुशाखाग्र प्रसारणमिषेण सः ॥

कृताहूतिरिव प्रेम्णा वनेन वनमाविशत्

॥७६॥

समातृदैवतोभिज्ञः केवलं राजवर्त्मनि ॥

न वेद काननाध्वानं क्षणं दध्यौ नृपात्मजः

॥७७॥

यावदुन्मील्य नयने पुरः पश्यति स ध्रुवः ॥

तावद्ददर्श सप्तर्षीनतर्कित गतीन्वने

॥७८॥

वालिशेष्वसहायेषु भवेद्भाग्यं सहायकृत् ॥

अरण्यान्यां रणे गेहे ततो भाग्यं हि कारणम्

॥७९॥

क्व राजतनयो बालो गहनं क्व च तद्वनम् ॥

बलात्स्वसात्प्रत्कुर्वत्यै नमस्ते भवितव्य ते

॥८०॥

यत्र यस्य हि यद्भाव्यं शुभं वाऽशुभमेव च ॥

आकृष्यभाविनी रज्जुस्तत्र तस्य हि दापयेत

॥८१॥

अन्यथा विदधात्येष मानवो बुद्धिवैभवात् ॥

भगवत्या भवित्र्याऽसौ विदध्याद्विधिरन्यथा

॥८२॥

नवयो न च वै चित्र्यं न चित्रं विदधेहितम् ॥

न बलं नोद्यमः पुंसां कारणं प्राक्कृतं कृतम्

॥८३॥

अथ दृष्ट्वा स सप्तर्षीन्सप्तसप्त्यतितेजसः ॥

भाग्यसूत्रैरिवाकृष्योपनीतान्प्रमुमोद ह

॥८४॥

तिलकांकित सद्भालान्कुशोपग्रहितांगुलीन् ॥

कृष्णाजिनोपविष्टांश्च यज्ञसूत्रैरलंकृतान्

॥८५॥

साक्षसूत्रकरान्किंचिद्विनिमीलितलो चनान् ॥

सुधौतसूक्ष्मकाषायवासः प्रावरणान्वितान

॥८६॥

अकांडेपि महाभागान्मिलितान्सप्तनीरधीन् ॥

चित्रं विपद्विनिर्मग्नानुद्दिधीर्षूनिव प्रजाः

॥८७॥

उपगम्य विनम्रः स प्रबद्धकरसंपुटः ॥

ध्रुवो विज्ञापयांचक्रे प्रणम्य ललितं वचः

॥८८॥

ध्रुव उवाच

अवैत मां मुनिवराः सुनीत्युदरसंभवम् ॥

उत्तानपादतनयं ध्रुवं निर्विण्णमानसम्

॥८९॥

इदं वनमनुप्राप्तं सनाथं युष्मदंघ्रिभिः ॥

प्रायोनभिज्ञं सर्वत्र महर्द्ध्युषितमानसम्

॥९०॥

ते दृष्ट्वोर्जस्वलं बालं स्वभाव मधुराकृतिम् ॥

अनर्घ्यनयनेपथ्यं मृदुगंभीरभाषिणम्

॥९१॥

उपोपवेश्य शिशुकं प्रोचुर्वै विस्मिता भृशम् ॥

अहोबालविशालाक्ष महाराज कुमारक

॥९२॥

विचार्यापि न जानीमो वद निर्वेदकारणम् ॥

अद्य ते ह्यर्थचिंता नो क्वापमानः प्रसूर्गृहे

॥९३॥

नीरुक्छरीरसंपत्तिर्निवेदे किं नु कारणम् ॥

अनवाप्ताभिलाषाणां वैराग्यं जायते नृणाम्

॥९४॥

सप्तद्वीपपतेराज्ञः कुमारस्त्वं तथा कथम् ॥

स्वभावभिन्नप्रकृतौ लोकेस्मिन्न मनोगतम्

॥९५॥

अवगंतुं हि शक्येत यूनो वृद्धस्य वा शिशोः ॥

इति श्रुत्वा वचस्तेषां सहजप्रेमनिर्भरम्

॥९६॥

वाचं जग्राह स तदा शिशुः प्रांशुमनोरथः ॥

ध्रुव उवाच ॥

प्रेषितो राजसेवार्थं जनन्याऽहं मुनीश्वराः

॥९७॥

राजांकमारुरुक्षुर्हि सुरुच्या परिभर्त्सितः ॥

उत्तमं चोत्तमीकृत्य मां च मन्मातरं तथा

॥९८॥

धिक्कृत्य प्रशशंस स्वं निर्वेदे कारणं त्विदम् ॥

निशम्येति शिशोर्वाक्यं परस्परमवेक्ष्य ते

॥९९॥

क्षात्रमेव शशंसुस्तदहो बालेपि न क्षमा

॥१००॥

ऋषय ऊचुः

किमस्माभिरहो कार्यं कस्तवास्ति मनोरथः ॥

ज्ञातो भवतु तावत्स नः श्रवो गोचरी कुरु

॥१॥

ध्रुव उवाच

मुनयो मम यो बंधुरुत्तमश्चोत्तमोत्तमः ॥

पित्रा दत्तं च सोऽध्यास्तां तद्भद्रासनमुत्तमम्

॥२॥

भवत्कृतं हि साहाय्यमेतदिच्छामि सुव्रताः ॥

प्रायो जाने न बालत्वादुपदेशस्तदुच्यताम्

॥३॥

अनन्यनृपभुक्तं यद्यदन्येभ्यः समुच्छ्रितम् ॥

इंद्रादिदुरवापं यत्कथं लभ्यं दुरासदम्

॥४॥

पित्रोत्सृष्टं न कांक्षामि कांक्षामि स्वभुजाजितम् ॥

मनोरथपथातीतं भवेद्यत्पितुरप्यहो

॥५॥

पितृसंपत्तिभोक्तारः प्रायशो न यशोधनाः ॥

नरोत्तमास्तु ते ज्ञेया ये पित्राधिक्यदर्शिनः

॥६॥

उपार्जितं हि पित्रा ये नाशयंति यशःश्रुतम् ॥

धनं निधनमेवास्तु तेषां दुर्वृत्तचेतसाम्

॥७॥

इति श्रुत्वा वचस्तस्य मुनयः सुनयोर्जितम् ॥

यथार्थमेव प्रत्यूचुर्मरीच्याद्यास्तथा ध्रुवम्

॥८॥

मरीचिरुवाच

अनर्चिताच्युतपदः पदमापद्यते कथम् ॥

यथातथात्वमात्थांग नातथ्यं कथयाम्यहम्

॥९॥

अत्रिरुवाच

अनास्वादितगोविंदपदांबुजरजोरसः ॥

मनोरथपथातीतं स्फीतं नाकलयेत्पदम्

॥११०॥

अंगिरा उवाच

अदवीयः पदं तस्य सर्वासां संपदामिह ॥

कमलाकांतकांतांघ्रि कमले यः सुशीलयेत्

॥११॥

पुलस्त्य उवाच

यस्य स्मरणमात्रेण महापातकसंततिः ॥

परमांतमवाप्नोति स विष्णुः सर्वदो ध्रुव

॥१२॥

पुलह उवाच

यदाहुः परमं ब्रह्म प्रधान पुरुषात्परम् ॥

यन्मायया ततं सर्वं सर्वं दास्यति सोच्युतः

॥१३॥

क्रतुरुवाच

यो यज्ञपुरुषो विष्णुर्वेदवेद्यो जनार्दनः ॥

अंतरात्माऽस्य जगतः तुष्टः किं न यच्छति

॥१४॥

वसिष्ठ उवाच

यद्भ्रूनर्तनवर्तिन्यः सिद्धयोऽष्टौ नृपात्मज ॥

तमाराध्य हृषीकेशमपवर्गोप्यदूरतः

॥१५॥

ध्रुव उवाच

सत्यमुक्तं मुनीशाना विष्णोराराधनं प्रति ॥

कथं वा भगवानीज्यः सविधिश्चोपदिश्यताम्

॥१६॥

मुनय ऊचुः

तिष्ठता गच्छता वापि स्वपता जाग्रता तथा ॥

शयानेनोपविष्टेन जप्यो नारायणः सदा

॥१७॥

द्वादशाक्षरमंत्रेण वासुदेवात्मकेन च ॥

ध्यायंश्चतुर्भुजं विष्णुं जप्त्वा सिद्धिं न को गतः

॥१८॥

अतसीपुष्पसंकाशं पीतवाससमच्युतम् ॥

क्षणं सर्वात्मकं पश्यन्को न सिध्यति भूतले

॥१९॥

पुत्रान्कलत्रमित्राणि राज्यं स्वर्गापवर्गकम् ॥

वासुदेवं जपन्मर्त्यः सर्वं प्राप्नोत्यसंशयम्

॥१२०॥

वासुदेव जपासक्तानपिपापकृतो जनान् ॥

नोपस्पृशंति वै विघ्ना यमदूताश्च दारुणाः

॥२१॥

पितामहेन तेप्येष महामंत्र उपासितः ॥

मनुना राज्यकामेन वैष्णवेन महर्द्धिना

॥२२॥

त्वमप्येतेन मंत्रेण वासुदेवपरो भव ॥

यथाभिलषितामृद्धिं क्षिप्रमाप्नुहि सत्तम

॥२३॥

इत्युक्त्वांऽतर्हिताः सर्वे महात्मानो मुनीश्वराः ॥

वासुदेवमना भूत्वा ध्रुवोपि तपसे गतः

॥१२४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यां संहितायां चतुर्थे काशीखंडे पूवार्द्धे ध्रुवलोकवर्णने धुवोपदेशोनामैकोनविंशतितमोऽध्यायः ॥ १९ ॥