मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ४१

3
काशीखण्डः · 41

उषित्वैवं गृहे विप्रो द्वितीयादाश्रमात्परम्

स्कंद उवाच

उषित्वैवं गृहे विप्रो द्वितीयादाश्रमात्परम् ॥

वलीपलितसंयुक्तस्तृतीयाश्रममाविशेत्

॥१॥

अपत्यापत्यमालोक्य ग्राम्याहारान्विसृज्य च ॥

पत्नीं पुत्रेषु संत्यज्य पत्न्या वा वनमाविशेत्

॥२॥

वसानश्चर्मचीराणि साग्निर्मुन्यन्नवर्तनः ॥

जटी सायंप्रगे स्नायी श्मश्रुलोनखलोमभृत्

॥३॥

शाकमूलफलैर्वापि पंचयज्ञन्न हापयेत् ॥

अम्मूलफलभिक्षाभिरर्चयेद्भिक्षुकातिथीन्

॥४॥

अनादाता च दाता च दांतः स्वाध्यायतत्परः ॥

वैतानिकं च जुहुयादग्निहोत्रं यथाविधि

॥५॥

मुन्यन्नैः स्वयमानीतैः पुरोडाशांश्च निर्वपेत् ॥

स्वयंकृतं च लवणं खादेत्स्नेहं फलोद्रवम्

॥६॥

वर्जयेच्छेलुशिग्रू च कवकं पललं मधु ॥

मुन्यन्नमाश्विनेमासि त्यजेद्यत्पूर्वसंचितम्

॥७॥

ग्राम्याणि फलमूलानि फालजान्नं च संत्यजेत् ॥

दंतोलूखलको वा स्यादश्मकुट्टोथ वा भवेत्

॥८॥

सद्यः प्रक्षालको वा स्यादथवा माससंचयी ॥

त्रिषड्द्वादशमासान्नफलमूलादिसंग्रही

॥९॥

नक्ताश्ये कांतराशी वा षष्ठकालाशनोपि वा ॥

चांद्रायणव्रती वा स्यात्पक्षभुग्वाथ मासभुक्

॥१०॥

वैखानस मतस्थस्तु फलमूलाशनोपि वा ॥

तपसा शोषयेद्देहं पितॄन्देवांश्च तर्पयेत्

॥११॥

अग्निमात्मनि चाधाय विचरेदनिकेतनः ॥

भिक्षयेत्प्राणयात्रार्थं तापसान्वनवासिनः

॥१२॥

ग्रामादानीय वाश्नीयादष्टौ ग्रासान्वसन्वने ॥

इत्थं वनाश्रमी विप्रो ब्रह्मलोके महीयते

॥१३॥

अतिवाह्यायुषोभागं तृतीयमिति कानने ॥

आयुषस्तु तुरीयांशे त्यक्त्वा संगान्परिव्रजेत्

॥१४॥

ऋणत्रयमसंशोध्य त्वनुत्पाद्य सुतानपि ॥

तथा यज्ञाननिष्ट्वा च मोक्षमिच्छन्व्रजत्यधः

॥१५॥

मनागपि न भूतानां यस्मादुत्पद्यते भयम् ॥

सर्वभूतानि तस्येह प्रयच्छंत्यभयं सदा

॥१५॥

एक एव चरेन्नित्यमनग्निरनिकेतनः ॥

सिद्ध्यर्थमसहायः स्याद्ग्राममन्नार्थमाश्रयेत्

॥१७॥

जीवितं मरणं वाथ नाभिकांक्षेत्क्वचिद्यतिः ॥

कालमेव प्रतीक्षेत निर्देशं भृतको यथा

॥१८॥

सर्वत्र ममता शून्यः सर्वत्र समतायुतः ॥

वृक्षमूलनिकेतश्च मुमुक्षुरिह शस्यते

॥१९॥

ध्यानं शौचं तथा भिक्षा नित्यमेकांतशीलता ॥

यतेश्चत्वारिकर्माणि पंचमं नोपपद्यते

॥२०॥

वार्षिकांश्चतुरोमासान्विहरेन्न यतिः क्वचित् ॥

बीजांकुराणां जंतूनां हिंसा तत्र यतो भवेत्

॥२१॥

गच्छेत्परिहरन्जन्तून्पिबेत्कं वस्त्रशोधितम् ॥

वाचं वदेदनुद्वेगां न क्रुध्येत्केनचित्क्वचित्

॥२२॥

चरेदात्मसहायश्च निरपेक्षो निराश्रयः ॥

नित्यमध्यात्मनिरतो नीचकेश नखो वशी

॥२३॥

कुसुंभवासा दंडाढ्यो भिक्षाशी ख्यातिवर्जितः ॥

अलाबुदारुमृद्वेणु पात्रं शस्तं न पंचमम्

॥२४॥

न ग्राह्यं तैजसं पात्रं भिक्षुकेण कदाचन ॥

वराटके संगृहीते तत्रतत्र दिनेदिने

॥२५॥

गोसहस्रवधं पापं श्रुतिरेषा सनातनी ॥

हृदि सस्नेह भावेन चेद्द्रक्षेत्स्त्रियमेकदा

॥२६॥

कोटिद्वयं ब्रह्मकल्पं कुंभीपाकी न संशयः ॥

एककालं चरेद्भैक्षं न कुर्यात्तत्र विस्तरम्

॥२७॥

विधूमेसन्न मुसले व्यंगारे भुक्तवज्जने ॥

वृत्ते शरावसंपाते भिक्षां नित्यं चरेद्यतिः

॥२८॥

अल्पाहारो रहःस्थायी त्त्विंद्रियार्थेष्वलोलुपः ॥

रागद्वेषविर्निर्मुक्तो भिक्षुर्मोक्षाय कल्पते

॥२९॥

आश्रमे तु यतिर्यस्य मुहूर्तमपि विश्रमेत् ॥

किं तस्यानेकतंत्रेण कृतकृत्यः स जायते

॥३०॥

संचितं यद्ग्रहस्थेन पापमामरणांतिकम् ॥

निर्धक्ष्यति हि तत्सर्वमेकरात्रोषितो यतिः

॥३१॥

दृष्ट्वा जराभिभवनमसह्यं रोगपीडितम् ॥

देहत्यागं पुनर्गर्भं गर्भक्लेशं च दारुणम्

॥३२॥

नानायोनि निवासं च वियोगं च प्रियैः सह ॥

अप्रियैः सह संयोगमधर्माद्दुःखसंभवम्

॥३३॥

पुनर्निरयसंवासंनानानरकयातनाः ॥

कर्मदोषसमुद्भूता नृणांगतिरनेकधा

॥३४॥

देहेष्वनित्यतां दृष्ट्वा नित्यता परमात्मनः ॥

कुर्वीत मुक्तये यत्नं यत्रयत्राश्रमे रतः

॥३५॥

करपात्रीति विख्याता भिक्षापात्रविवर्जिता ॥

तेषां शतगुणं पुण्यं भवत्येव दिनेदिने

॥३६॥

आश्रमांश्चतुरस्त्वेवं क्रमादासेव्य पंडितः ॥

निर्द्वंद्वस्त्यक्तसंगश्च ब्रह्मभूयाय कल्पते

॥३७॥

असंयतः कुबुद्धीनामात्मा बंधाय कल्पते ॥

धीमद्भिः संयतः सोपि पदं दद्यादनामयम्

॥३८॥

श्रुति स्मृति पुराणं च विद्योपनिषदस्तथा ॥

श्लोकाः मंत्राणि भाष्याणि यच्चान्यद्वाङ्मयं क्वचित्

॥३९॥

वेदानुवचनं ज्ञात्वा ब्रह्मचर्य तपो दमः ॥

श्रद्धोपवासः स्वातंत्र्यमात्मनोज्ञानहेतवः

॥४०॥

स हि सर्वैर्विजिज्ञास्य आत्मैवाश्रमवर्तिभिः ॥

श्रोतव्यस्त्वथ मंतव्यो द्रष्टव्यश्च प्रयत्नतः

॥४१॥

आत्मज्ञानेन मुक्तिः स्यात्तच्च योगादृते नहि ॥

स च योगश्चिरं कालमभ्यासादेव सिध्यति

॥४२॥

नारण्यसंश्रयाद्योगो न नानाग्रंथ चिंतनात् ॥

न दानैर्न व्रतैर्वापि न तपोभिर्न वा मखैः

॥४३॥

न च पद्मासनाद्योगो न वा घ्राणाग्रवीक्षणात् ॥

न शौचे न न मौनेन न मंत्राराधनैरपि

॥४४॥

अभियोगात्सदाभ्यासात्तत्रैव च विनिश्चयात् ॥

पुनःपुनरनिर्वेदात्सिध्येद्योगो न चान्यथा

॥४५॥

आत्मक्रीडस्य सततं सदात्ममिथुनस्य च ॥

आत्मन्येव सु तृप्तस्य योगसिद्धिर्न दूरतः

॥४६॥

अत्रात्मव्यतिरेकेण द्वितीयं यो न पश्यति ॥

आत्मारामः स योगींद्रो ब्रह्मीभूतो भवेदिह

॥४७॥

संयोगस्त्वात्ममनसोर्योग इत्युच्यते बुधैः ॥

प्राणापानसमायोगो योग इत्यपि कैश्चन

॥४८॥

विषयेंद्रिय संयोगो योग इत्यप्यपंडितैः ॥

विषयासक्तचित्तानां ज्ञानं मोक्षश्च दूरतः

॥४९॥

दुर्निवारा मनोवृत्तिर्यावत्सा न निवर्तते ॥

किं वदंत्यपियोगस्य तावन्नेदीयसी कुतः

॥५०॥

वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञे परमात्मनि ॥

एकीकृत्य विमुच्येत योगयुक्तः स उच्यते

॥५१॥

बहिर्मुखानि सर्वाणि कृत्वा खान्यंतराणि वै ॥

मनस्येवेंद्रियग्रामं मनश्चात्मनि योजयेत्

॥५२॥

सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ॥

एतद्ध्यानं च योगश्च शेषोन्यो ग्रंथविस्तरः

॥५३॥

यन्नास्ति सर्वलोकेषु तदस्तीति विरुध्यते ॥

कथ्यमानं तदन्यस्य हृदयेनावतिष्ठते

॥५४॥

स्वसंवेद्यं हि तद्ब्रह्म कुमारी स्त्री सुखं यथा ॥

अयोगी नैव तद्वेत्ति जात्यंध इव वर्तिकाम्

॥५५॥

नित्याभ्यसनशीलस्य स्वसंवेद्यं हि तद्भवेत् ॥

तत्सूक्ष्मत्वादनिर्देश्यं परं ब्रह्म सनातनम्

॥५६॥

क्षणमप्येकमुदकं यथा न स्थिरतामियात् ॥

वाताहतं यथा चित्तं तस्मात्तस्य न विश्वसेत्

॥५७॥

अतोऽनिलं निरुंधीत चित्तस्य स्थैर्य हेतवे ॥

मरुन्निरोधनार्थाय षडंगं योगमभ्यसेत्

॥५८॥

आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ॥

ध्यानं समाधिरेतानि योगांगानि भवंति षट्

॥५९॥

आसनानीह तावंति यावंत्यो जीवयो नयः ॥

सिद्धासनमिदं प्रोक्तं योगिनो योगसिद्धिदम्

॥६०॥

एतदभ्यसनान्नित्यं वर्ष्मदार्ढ्यमवाप्नुयात्

॥६१॥

दक्षिणं चरणं न्यस्य वामोरूपरि योगवित् ॥

याम्योरूपरि वामं च पद्मासनमिदं विदुः

॥६२॥

कराभ्यां धारयेत्पश्चादंगुष्ठौ दृढबंधवित् ॥

भवेत्पद्मासनादस्मादभ्यासाद्दृढविग्रहः

॥६३॥

अथवा ह्यासने यस्मिन्सुखमस्योपजायते ॥

स्वस्तिकादौ तदध्यास्य योगं युंजीत योगवित्

॥६४॥

न तोयवह्निसामीप्ये न जीर्णारण्यगोष्ठयोः ॥

न दंशमशकाकीर्णे न चैत्ये न च चत्वरे

॥६९॥

केशभस्मतुषांगार कीकसादि प्रदूषिते ॥

नाभ्यसेत्पूतिगंधादौ न स्थाने जनसंकुले

॥६६॥

सर्वबाधाविरहिते सर्वेंद्रियसुखावहे ॥

मनःप्रसादजनने स्रग्धूपामोदमोदिते

॥६७॥

नातितृप्तः क्षुधार्तो न न विण्मूत्रप्रबाधितः ॥

नाध्वखिन्नो न चिंतार्तो योगं युंजीत योगवित्

॥६८॥

ऊरुस्थोत्तानचरणः सव्येन्यस्योत्तरं करम् ॥

उत्तानं किंचिदुन्नम्य वक्त्रं विष्टभ्य चोरसा

॥६९॥

निमीलिताक्षः सत्त्वस्थो दंतैर्दंतान्न संस्पृशेत् ॥

तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः

॥७०॥

सन्नियम्येंद्रियग्रामं नातिनीचोच्छ्रितासनः ॥

मध्यमं चोत्तमं चाथ प्राणायाममुपक्रमेत्

॥७१॥

चलेऽनिले चलं सर्वं निश्चले तत्र निश्चलम् ॥

स्थाणुत्वमाप्नुयाद्योगी ततोऽनिलनिरुंधनात्

॥७२॥

यावद्देहे स्थितः प्राणो जीवितं तावदुच्यते ॥

निर्गते तत्र मरणं ततः प्राणं निरुंधयेत्

॥७३॥

यावद्बद्धो मरुद्देहे यावच्चेतो निराश्रयम् ॥

यावद्दृष्टिर्भुवोर्मध्ये तावत्कालभयं कुतः

॥७४॥

कालसाध्वसतोब्रह्मा प्राणायामं सदाचरेत् ॥

योगिनः सिद्धिमापन्नाः सम्यक्प्राणनियंत्रणात्

॥७५॥

मंदो द्वादशमात्रस्तु मात्रा लघ्वक्षरा मता ॥

मध्यमो द्विगुणः पूर्वादुत्तमस्त्रिगुणस्ततः

॥७६॥

स्वेदं कंपं विषादं च जनयेत्क्रमशस्त्वसौ ॥

प्रथमेन जयेत्स्वेदं द्वितीयेन तु वेपथुम्

॥७७॥

विषादं हि तृतीयेन सिद्धः प्राणोथ योगिनः ॥

भवेत्क्रमात्सन्निरुद्धः सिद्धः प्राणोथ योगिना ॥

क्रमेण सेव्यमानोसौ नयते यत्र चेच्छति

॥७८॥

हठान्निरुद्धप्राणोयं रोमकूपेषु निःसरेत् ॥

देहंविदारयत्येष कुष्ठादिजनयत्यपि

॥७९॥

तत्प्रत्याययितव्योसौ क्रमेणारण्यहस्तिवत् ॥

वन्यो गजो गजारिर्वा क्रमेण मृदुतामियात्

॥८०॥

करोति शास्तृनिर्देशं न च तं परिलंघयेत् ॥

तथा प्राणो हदिस्थोयं योगिनाक्रमयोगतः ॥

गृहीतः सेव्यमानस्तु विश्रंभमुपगच्छति

॥८१॥

षट्त्रिंशदंगुलो हंसः प्रयाणं कुरुते बहिः ॥

सव्यापसव्यमार्गेण प्रयाणात्प्राण उच्यते

॥८२॥

शुद्धिमेति यदा सर्वं नाडीचक्र मनाकुलम् ॥

तदैव जायते योगी क्षमः प्राणनिरोधने

॥८३॥

दृढासनो यथाशक्ति प्राणं चंद्रेण पूरयेत् ॥

रेचयेदथ सूर्येण प्राणायामोयमुच्यते

॥८४॥

स्रवत्पीयूषधारौघं ध्यायंश्चंद्रसमन्वितम् ॥

प्राणायामेन योगींद्रः सुखमाप्नोति तत्क्षणात्

॥८५॥

रविणा प्राणमाकृष्य पूरयेदौदरीं दरीम् ॥

कुंभयित्वा शनैः पश्चाद्योगी चंद्रेण रेचयेत्

॥८६॥

ज्वलज्वलनपुंजाभं शीलयन्नुष्मगुं हृदि ॥

अनेन याम्यायामेन योगींद्रः शर्मभाग्भवेत्

॥८७॥

इत्थं मासत्रयाभ्यासादुभयायामसेवनात् ॥

शुद्धनाडीगणो योगी सिद्धप्राणोभिधीयते

॥८८॥

यथेष्टं धारणं वायोरनलस्य प्रदीपनम् ॥

नादाभिव्यक्तिरारोग्यं भवेन्नाडीविशोधनात्

॥८९॥

प्राणोदेहगतोवायुरायामस्तन्निबंधनम् ॥

एकश्वासमयी मात्रा प्राणायामो निरुच्यते

॥९०॥

प्राणायामेऽधमे घर्मः कंपो भवति मध्यमे ॥

उत्तिष्ठेदुत्तमे देहो बद्धपद्मासनो मुहुः

॥९१॥

प्राणायामैर्दहेद्दोषान्प्रत्याहारेण पातकम् ॥

मनोधैर्यं धारणया ध्यानेनेश्वरदर्शनम्

॥९२॥

समाधिना लभेन्मोक्षं त्यक्त्वा धर्मं शुभाशुभम् ॥

आसनेन वपुर्दार्ढ्यं षडंगमिति कीर्तितम्

॥९३॥

प्राणायामद्विषट्केन प्रत्याहार उदाहृतः ॥

प्रत्याहारैर्द्वादशभिर्धारणा परिकीर्तिता

॥९४॥

भवेदीश्वरसंगत्यै ध्यानं द्वादशधारणम् ॥

ध्यानद्वादशकेनैव समाधिरभिधीयते

॥९५॥

समाधेः परतो ज्योतिरनंतं स्वप्रकाशकम् ॥

तस्मिन्दृष्टे क्रियाकांडं यातायातं निवर्तते

॥९६॥

पवने व्योमसंप्राप्ते ध्वनिरुत्पद्यते महान् ॥

घंटादीनां प्रवाद्यानां ततः सिद्धिरदूरतः

॥९७॥

प्राणायामेन युक्तेन सर्वव्याधिक्षयोभवेत् ॥

अयुक्ताभ्यासयोगेन सर्वव्याधिसमुद्भवः

॥९८॥

हिक्का श्वासश्च कासश्च शिरः कर्णाक्षिवेदनाः ॥

. भवंति विविधा दोषाः पवनस्य व्यतिक्रमात्

॥९९॥

युक्तं युक्तं त्यजेद्वायुं युक्तंयुक्तं च पूरयेत् ॥

युक्तंयुक्तं च बध्नीयादित्थं सिध्यति योगवित्

॥१००॥

इंद्रियाणां हि चरतां विषयेषु यदृच्छया ॥

यत्प्रत्याहरणं युक्त्या प्रत्याहारः स उच्यते

॥१॥

प्रत्याहरति यः खानि कूर्मोंगानीव सर्वतः ॥

प्रत्याहृति विधानेन स स्याद्विगतकल्मषः

॥२॥

नाभिदेशे वसेद्भानुस्तालुदेशे च चंद्रमाः ॥

वर्षत्यधोमुखश्चंद्रो ग्रसेदूर्ध्वमुखो रविः

॥३॥

करणं तच्च कर्तव्यं येन सा प्राप्यते सुधा ॥

ऊर्ध्वनाभिरधस्तालुरूर्ध्वं भानुरधःशशी ॥

करणं विपरीताख्यमभ्यासादेव जायते

॥४॥

काकचंचुवदास्येन शीतलं शीतलं पिबेत् ॥

प्राणं प्राणविधानज्ञो योगी भवति निर्जरः

॥५॥

रसनां तालुविवरे निधायोर्ध्वमुखोऽमृतम् ॥

धयन्निजर्रतां गच्छेदाषण्मासान्न संशयः

॥६॥

ऊर्ध्वजिह्वः स्थिरो भूत्वा सोमपानं करोति यः ॥

मासार्धेन न संदेहो मृत्युं जयति योगवित्

॥७॥

संपीड्य रसनाग्रेण राजदंतबिलं महत् ॥

ध्यात्वा सुधामयीं देवीं षण्मासेन कविर्भवेत्

॥८॥

अमृतापूर्णदेहस्य योगिनो द्वित्रिवत्सरात् ॥

ऊर्ध्वं प्रवर्तते रेतो ह्यणिमादिगुणोदयम्

॥९॥

नित्यं सोमकलापूर्णं शरीरं यस्य योगिनः ॥

तक्षकेणापि दष्टस्य विषं तस्य न सर्पति

॥११०॥

आसनेन समायुक्तः प्राणायामेन संयुतः ॥

प्रत्याहारेण संपन्नो धारणामथ चाभ्यसेत्

॥११॥

हृदये पंचभूतानां धारणां यः पृथक्पृथक् ॥

मनसो निश्चलत्वेन धारणा साभिधीयते

॥१२॥

हरितालनिभां भूमिं स लकारां सवेधसम् ॥

चतुष्कोणां हृदि ध्यायेदेषा स्यात्क्षितिधारणा

॥१३॥

कंठेंऽबुतत्त्वमर्धेंदुनिभं विष्णुसमन्वितम् ॥

वकारबीजं कुंदाभं ध्यायन्नंबुजयेदिति

॥१४॥

तालुस्थमिंद्रगोपाभं त्रिकोणं रेफसंयुतम् ॥

रुद्रेणाधिष्ठितं तेजो ध्यात्वा वह्निं जयेदिति

॥१५॥

वायुतत्त्वं भ्रुवोर्मध्ये वृत्तमंजनसन्निभम् ॥

यंबीजमीशदैवत्यं ध्यायन्वायुं जयेदिति

॥१६॥

आकाशं च मरीचिवारिसदृशं यद्ब्रह्मरंध्रस्थितं यन्नाथेन सदाशिवेन सहितं शांतं हकाराक्षरम् ॥

प्राणं तत्र विनीय पंचघटिकं चिंतान्वितं धारयेदेषा मोक्षकपाटपाटनपटुः प्रोक्ता नभोधारणा

॥१७॥

स्तंभनीप्लावनीचैव दहनीभ्रामणी तथा ॥

शमनी च भवंत्येता भूतानां पंच धारणाः

॥१८॥

ध्यै चिंतायां स्मृतो धातुश्चिंता तत्त्वे सुनिश्चला ॥

एतद्ध्यानमिह प्रोक्तं सगुणं निर्गुणं द्विधा

॥१९॥

सगुणं वणर्भेदेन निर्गुणं केवलं मतम् ॥

समंत्रं सगुणं विद्धि निर्गुणं मंत्रवर्जितम्

॥१२०॥

अंतश्चेतो बहिश्चक्षुरवस्थाप्य सुखासनम् ॥

समत्वं च शरीरस्य ध्यानमुद्रातिसिद्धिदा

॥२१॥

नाश्वमेधेन तत्पुण्यं न च वै राजसूयतः ॥

यत्पुण्यमेकध्यानेन लभेद्योगी स्थिरासनः

॥२२॥

शब्दादीनां च तन्मात्रा यावत्कर्णादिषु स्थिता ॥

तावदेव स्मृतं ध्यानं स्यात्समाधिरतः परम्

॥२३॥

धारणा पंचनाडीका ध्यानं स्यात्षष्टिनाडिकम् ॥

दिनद्वाशकेन स्यात्समाधिरिह भण्यते

॥२४॥

जलसैंधवयोः साम्यं यथा भवति योगतः ॥

तथात्ममनसोरैक्यं समाधिरिह भण्यते

॥२५॥

यदा संक्षीयते प्राणो मानसं च प्रलीयते ॥

तदा समरसत्वं यत्स समाधिरिहोच्यते

॥२६॥

यत्समत्वं द्वयोरत्र जीवात्मपरमात्मनोः ॥

सनष्टसर्वसंकल्पः समाधिरभिधीयते

॥२७॥

नात्मानं न परं वेत्ति न शीतं नोष्ममेव च ॥

समाधियुक्तो योगींद्रो न सुखं न सुखेतरत्

॥२८॥

काल्यते नैव कालेन लिप्यते नैव कर्मणा ॥

भिद्यते न च शस्त्रास्त्रै योगी युक्तः समाधिना

॥२९॥

युक्ताहारविहारश्च युक्तचेष्टो हि कर्मसु ॥

युक्तनिद्रावबोधश्च योगी तत्त्वं प्रपश्यति

॥१३०॥

तत्त्वविज्ञानमानंदं ब्रह्म ब्रह्मविदो विदुः ॥

हेतुदृष्टांत रहितं वाङ्मनोभ्यामगोचरम्

॥३१॥

तत्र योगी निरालंबे निरातंके निरामये ॥

षडंगयोगविधिना परेब्रह्मणि लीयते

॥३२॥

यथा घृते घृतं क्षिप्तं घृतमेव हि तद्भवेत् ॥

क्षीरेक्षीरं तथा योगी तत्र तन्मयतां व्रजेत्

॥३३॥

अनसंजातपानीयैर्विदध्यादंगमर्दनम् ॥

त्यजेत्कदुष्णं लवणं क्षीरभोजी सदा भवेत्

॥३४॥

ब्रह्मचारी जितक्रोधो जितलोभो विमत्सरः ॥

अब्दमित्थं सदाभ्यासात्स योगीति निगद्यते

॥३५॥

महामुद्रां नभोमुद्रामुड्डीयानं जलंधरम् ॥

मूलबंधं तु यो वेत्ति स योगी योगसिद्धिभाक्

॥३६॥

शोधनं नाडीजालस्य घटनं चंद्रसूर्ययोः ॥

रसानां शोषणं सम्यङ्महामुद्राभिधीयते

॥३७॥

योनिं वामांघ्रिणाऽऽपीड्य कृत्वा वक्षस्थले हनुम् ॥

हस्ताभ्यां प्रसृतं पादं धारयेद्दक्षिणं चिरम्

॥३८॥

प्राणेन कुक्षिमापूर्य चिरं संरेचयेच्छनैः ॥

एषा प्रोक्ता महामुद्रा महाघौघविनाशिनी

॥३९॥

चंद्रांगे तु समभ्यस्य सूर्यांगे पुनरभ्यसेत् ॥

यावत्तुल्या भवेत्संख्या ततो मुद्रां विसर्जयेत्

॥१४०॥

न हि पथ्यमपथ्यं वा रसाः सर्वेपि नीरसाः ॥

अपि घोरं विषं पीतं पीयूषमिवजीर्यति

॥४१॥

क्षयकुष्ठगुदावर्त गुल्माजीर्णपुरोगमाः ॥

तस्य दोषाः क्षयं यांति महामुद्रां च योभ्यसेत्

॥४२॥

कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ॥

भ्रुवोरंतर्गता दृष्टिर्मुद्रा भवति खेचरी

॥४३॥

न पीड्यते शरौघेण न च लिप्येत कर्मणा ॥

बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम्

॥४४॥

चित्तं चरति खे यस्मा जिह्वा चरति खे गता ॥

तेनैषा खेचरी नाम मुद्रा सिद्धैर्निषेविता

॥४५॥

यावद्बिंदुः स्थितो देहे तावन्मुत्युभयं कुतः ॥

यावद्बद्धा नभोमुद्रा तावद्बिंदुर्न गच्छति

॥४६॥

उड्डीनं कुरुते यस्मादहोरात्रं महाखगः ॥

उडीयानं ततः प्रोक्तं तत्र बंधो विधीयते

॥४७॥

जठरे पश्चिमं तानं नाभेरूर्ध्वं च धारयेत् ॥

उङ्डीयानो ह्ययं बंधो मृत्योरपि भयं त्यजेत्

॥४८॥

बध्नाति हि शिराजालमधोगामि नभोजलम् ॥

एष जालंधरो बंधः कंठे दुःखौघनाशनः

॥४९॥

जालंधरे कृते बंधे कंठसकोचलक्षणे ॥

न पीयूषं पतत्यग्नौ न च वायुः प्रधावति

॥१५०॥

पार्ष्णिभागेन संपीड्य योनिमाकुंचयेद्गुदम् ॥

अपानमूर्ध्वमाकृष्य मूलबंधो विधीयते

॥५१॥

अपानप्राणयोरैक्ये क्षयो मूत्रपुरीषयोः ॥

युवा भवति वृद्धोपि सततं मूलबंधनात्

॥५२॥

प्राणापानवशो जीवः ऊर्द्ध्वाधः परिधावति ॥

वामदक्षिणमार्गेण चंचलो न स्थितिं लभेत्

॥५३॥

गुणबद्धो यथा पक्षी गतोप्याकृष्यते पुनः ॥

गुणैर्बद्धस्तथा जीवः प्राणायामेन कृष्यते

॥५४॥

अपानः कर्षति प्राणं प्राणोपानं च कर्षति ॥

ऊर्ध्वाधः संस्थितावेतौ संयोजयति योगवित्

॥५५॥

हकारेण बहिर्याति सकारेण विशेत्पुनः ॥

हंसहंसेत्यतो मंत्रं जीवो जपति सर्वदा

॥५६॥

षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः ॥

एतत्संख्यान्वितं मंत्रं जीवो जपति सर्वदा

॥५७॥

अजपा नाम गायत्री योगिनां मोक्षदायिनी ॥

अस्याः संकल्पमात्रेण नरः पापैः प्रमुच्यते

॥५८॥

अंतराया भवंतीह योगिनो योगहानिदाः ॥

श्रूयते दूरगा वार्ता दूरस्थं दृश्यते पुरः

॥५९॥

योजनानां शतं यातुं शक्तिःस्यान्निमिषार्धतः ॥

अचिंतितानि शास्त्राणि कंठपाठी भवंति हि

॥१६०॥

धारणाश क्तिरत्युग्रा महाभारो लघुर्भवेत् ॥

क्षणं कृशः क्षणं स्थूलः क्षणमल्पः क्षणं महान्

॥६१॥

परकायं प्रविशति तिरश्चां वेत्ति भाषितम् ॥

दिव्यगंधं तनौ धत्ते दिव्यां वाणीं प्रवक्ति च

॥६२॥

प्रार्थ्यते दिव्यकन्याभिर्दिव्यं धारयते वपुः ॥

इत्यादयोंतरायाः स्युर्योगसंसिद्धिसूचकाः

॥६३॥

यद्येभिरंतरायैर्न क्षिप्यतेऽस्येह मानसम् ॥

तदग्रे तत्समाप्नोति पदं ब्रह्मादि दुर्लभम्

॥६४॥

यत्प्राप्य न निवर्तेत यत्प्राप्य न च शोचति ॥

तल्लभ्यते षडंगेन योगेन कलशोद्भव

॥६५॥

एकेन जन्मना योगः कथमित्थं प्रसिध्यति ॥

ऋते च योगसंसिद्धेः कथं मुक्तिरिहाप्यते

॥६६॥

उभे एव हि निर्वाणवर्त्मनी किल कुंभज ॥

किं वा काश्यां तनुत्यागः किं वा योगोयमीदृशः

॥६७॥

चंचलेंद्रियवृत्तित्वात्कलिकल्मषजृंभणात् ॥

अल्पायुषां तथा नृणां क्वेह योग महोदयः

॥६८॥

अतएव हि जंतूनां महोदयपदप्रदः ॥

सदैव स दयावार्धिः काश्यां विश्वेश्वरः स्थितः

॥६९॥

काश्यां सुखेन कैवल्यं यथालभ्येत जंतुभिः ॥

योगयुक्त्याद्युपायैश्च न तथान्यत्र कुत्रचित्

॥१७०॥

काश्यां स्वदेहसंयोगः सम्यग्योग उदाहृतः ॥

मुच्यते नेह योगेन क्षिप्रमन्येन केनचित्

॥७१॥

विश्वेश्वरो विशालाक्षी द्युनदीकालभैरवः ॥

श्रीमान्ढुंढिर्दंडपाणिः षडंगो योग एष वै

॥७२॥

एतत्षडंगयो योगं नित्यं काश्यां निषेवते ॥

संप्राप्य योगनिद्रां स दीर्घाममृतमश्नुते

॥७३॥

ओंकारः कृत्तिवासाश्च केदारश्च त्रिविष्टपः ॥

वीरेश्वरोथविश्वेशः षडंगोयमिहापरः

॥७४॥

पादोदकासिसंभेद ज्ञानोदमणिकर्णिकाः ॥

षडंगोयं महायोगो ब्रह्मधर्मह्रदावपि

॥७५॥

षडंगसेवनादस्माद्वाराणस्यां नरोत्तम ॥

न जातु जायते जंतुर्जननी जठरे पुनः

॥७६॥

गंगास्नानं महामुद्रा महापातकनाशनी ॥

एतन्मुद्राकृताभ्यासोप्यमृतत्वमवाप्नुयात्

॥७७॥

काशीवीथिषु संचारो मुद्रा भवति खेचरी ॥

खेचरो जायते नूनं खेचर्या मुद्रयानया

॥७८॥

उड्डीय सर्वतो देशाद्यानं वाराणसीं प्रति ॥

उङ्डीयानो महाबंध एष मुक्त्यै प्रकल्पते

॥७९॥

जलस्य धारणं मूर्ध्नि विश्वेश स्नानजन्मनः ॥

एष जालंधरो बंधः समस्तसुरदुर्लभः

॥१८०॥

वृतो विघ्नशतेनापि यन्न काशीं त्यजेत्सुधीः ॥

मूलबंधः स्मृतो ह्येष दुःखमूलनिकृंतनः

॥८१॥

इति योगः समाख्यातो मया ते द्विविधो मुने ॥

सषडंगः समुद्रश्च मुक्तये शंभुभाषितः

॥८२॥

यावन्नेंद्रिय वैक्लव्यं यावद्व्याधिर्न बाधते ॥

यावत्कालविलंबोस्ति तावद्योगरतो भवेत्

॥८३॥

उभयोर्योगयोर्मध्ये काशीयोगोयमुत्तमः ॥

काशीयोगं समभ्यस्य प्राप्नुयाद्योगमुत्तमम्

॥८४॥

आधिव्याधिसहायिन्या जरया मृत्युलिंगया ॥

कालं निकटतो ज्ञात्वा काशीनाथं समाश्रयेत

॥८५॥

काशीनाथं समाश्रित्य कुतः कालभयं नृणाम् ॥

क्रुद्धोपि जीवहृत्कालस्तच्च काश्यां सुमंगलम्

॥८६॥

आतिथ्येनेहसियथा प्रतीक्षेतातिथिं कृती ॥

काश्यां कालं तथायांतं भाग्यवान्संप्रतीक्षते

॥८७॥

कलिः कालः कृतंकर्म त्रिकंटकमितीरितम् ॥

एतत्त्रयं न प्रभवेदानंदवनवासिनाम्

॥८८॥

अन्यत्रातर्कितः कालः कलयिष्यत्यसंशयम् ॥

कालादभयमिच्छेच्चेत्ततः काशीं समाश्रयेत्

॥८९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे योगाख्यानं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥