मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ३९

3
काशीखण्डः · 39

शृण्वगस्त्य महाभाग कथां पापप्रणाशिनीम्

स्कंद उवाच

शृण्वगस्त्य महाभाग कथां पापप्रणाशिनीम् ॥

नैःश्रेयस्याः श्रियोहेतुमविमुक्त समाश्रयाम्

॥१॥

परं ब्रह्म यदाम्नातं निष्प्रपंचं निरात्मकम् ॥

निर्विकल्पं निराकारमव्यक्तं स्थूलसूक्ष्मवत्

॥२॥

तदेतत्क्षेत्रमापूर्य स्थितं सर्वगमप्यहो ॥

किमन्यत्र न शक्तोसौ जंतून्मोचयितुं भवात्

॥३॥

भवो ध्रुवं यदत्रैव मोचयेत्तं निशामय ॥

महत्या योगयुक्त्या वा महादानैरकामिकैः

॥४॥

सुमहद्भिस्तपोभिर्वा शिवोन्यत्र विमोचयेत् ॥

योगयुक्तिं न महतीं न दानानि महांति च

॥५॥

न तपांस्यतिदीर्घाणि काश्यां मुक्त्यै शिवोर्थयेत् ॥

वियुनक्ति न यत्काश्या उपसर्गे महत्यपि

॥६॥

अयमेव महायोग उपयोगस्त्विहा परः ॥

नियमेन तु विश्वेशे पुष्पं पत्रं फलं जलम्

॥७॥

यद्दत्तं सुमनोवृत्त्या महादानं तदत्र वै ॥

मुक्तिमंडपिकायां च क्षणं यत्स्थिरमास्यते

॥८॥

स्नात्वा गंगामृते शुद्धे तप एतदिहोत्तमम् ॥

सत्कृत्य भिक्षवे भिक्षा यत्काश्यां परिदीयते ॥

तुला पुरुष एतस्याः कलां नार्हति षोडशीम्

॥९॥

हृदि संचिंत्य विश्वेशं क्षणं यद्विनिमील्यते ॥

देवस्य दक्षिणे भागे महायोगोयमुत्तमः

॥१०॥

इदमेव तपोत्युग्रं यदिंद्रिय विलोलताम् ॥

निषिध्य स्थीयते काश्यां क्षुत्तापाद्यवमन्य च

॥११॥

मासि मासि यदाप्येत व्रताच्चांद्रायणात्फलम् ॥

अन्यत्र तदिहाप्येत भूतायां नक्तभोजनात्

॥१२॥

मासोपवासादन्यत्र यत्फलं समुपार्ज्यते ॥

श्रद्धयैकोपवासेन तत्काश्यां स्यादसंशयम्

॥१३॥

चातुर्मास्य व्रतात्प्रोक्तं यदन्यत्र महाफलम् ॥

एकादश्युपवासेन तत्काश्यां स्यादसंशयम्

॥१४॥

षण्मासान्न परित्यागाद्यदन्यत्र फलं लभेत् ॥

शिवरात्र्युपवासेन तत्काश्यां जायते ध्रुवम्

॥१५॥

वर्षं कृत्वोपवासानि लभेदन्यत्र यद्व्रती ॥

तत्फलं स्यात्त्रिरात्रेण काश्यामविकलं मुने

॥१६॥

मासिमासि कुशाग्रांबु पानादन्यत्र यत्फलम् ॥

काश्यामुत्तरवाहिन्यामेकेन चुलुकेन तत्

॥१७॥

अनंतो महिमा काश्याः कस्तं वर्णयितुं प्रभुः ॥

विपत्तिमिच्छतो जंतोर्यत्रकर्णे जपः शिवः

॥१८॥

शंभुस्तत्किंचिदाचष्टे म्रियमाणस्य जन्मिनः ॥

कर्णेऽक्षरं यदाकर्ण्य मृतोप्यमृततां व्रजेत्

॥१९॥

स्मारं स्मारं स्मररिपोः पुरीं त्वमिव शंकरः ॥

अदुनोन्मंदरं यातो बहुशस्तदवाप्तये

॥२०॥

अगस्त्य उवाच

स्वकार्यनिपुणैः स्वामिन्गीर्वाणैरतिदारुणैः ॥

त्याजितोहं पुरीं काशीं हरो त्याक्षीत्कुतः प्रभुः

॥२१॥

पराधीनोहमिव किं देवदेवः पिनाकवान् ॥

काशिकां सोऽत्यजत्कस्मान्निर्वाणमणिराशिकाम्

॥२२॥

स्कंद उवाच

मित्रावरुणसंभूत कथयामि कथामिमाम् ॥

तत्याज च यथा स्थाणुः काशीं विध्युपरोधतः

॥२३॥

प्रार्थितस्त्वं यथा लेखैः परोपकृतये मुने ॥

द्रुहिणेन तथा रुद्रः स्वरक्षण विचक्षणः

॥२४॥

अगस्त्य उवाच

कथं स भगवान्रुद्रो द्रुहिणेन कृपांबुधिः ॥

प्रार्थितोभूत्किमर्थं च तन्मे ब्रूहि षडानन

॥२५॥

स्कंद उवाच

पाद्मेकल्पे पुरावृत्ते मनोः स्वायंभुवेंतरे ॥

अनावृष्टिरभूद्विप्र सर्वभूतप्रकंपिनी

॥२६॥

तया तु षष्टिहायिन्या पीडिताः प्राणिनोऽखिलाः ॥

केचिदंबुधितीरेषु गिरिद्रोणीषु केचन

॥२७॥

महानिम्नेषु कच्छेषु मुनिवृत्त्या जनाः स्थिताः ॥

अरण्यान्यवनिर्जाता ग्रामखर्वट वर्जिता

॥२८॥

क्रव्यादा एव सर्वेषु नगरेषु पुरेषु च ॥

आसन्नभ्रंलिहो वृक्षाः सर्वत्र क्षोणिमंडले

॥२९॥

चौरा एव महाचौरैरुल्लुठ्यंत इतस्ततः ॥

मांसवृत्त्योपजीवंति प्राणिनः प्राणरक्षिणः

॥३०॥

अराजके समुत्पन्ने लोकेऽत्याहितशंसिनि ॥

प्रयत्नो विफलस्त्वासीत्सृष्टेः सृष्टिकृतस्तदा

॥३१॥

चिंतामवाप महती जगद्योनिः प्रजाक्षयात् ॥

प्रजासु क्षीयमाणासु क्षीणा यज्ञादिकाः क्रियाः

॥३२॥

तासु क्षीणासु संक्षीणाः सर्वे यज्ञभुजोऽभवन् ॥

ततश्चिंतयता स्रष्ट्रा दृष्टो राजर्षिसत्तमः

॥३३॥

अविमुक्ते महाक्षेत्रे तपस्यन्निश्चलेंद्रियः ॥

मनोरन्वयजो वीरः क्षात्रो धर्म इवोदितः

॥३४॥

रिपुंजय इति ख्यातो राजा परपुरंजयः ॥

अथ ब्रह्मा तमासाद्य बहुगौरवपूर्वकम्

॥३५॥

उवाच वचनं राजन्रिपुंजय महामते ॥

इलां पालय भूपाल ससमुद्राद्रिकाननाम्

॥३६॥

नागकन्यां नागराजः पत्न्यर्थं ते प्रदास्यति ॥

अनंगमोहिनीं नाम्ना वासुकिः शीलभूषणाम्

॥३७॥

दिवोपि देवा दास्यंति रत्नानि कुसुमानि च ॥

प्रजापालनसंतुष्टा महाराज प्रतिक्षणम्

॥३८॥

दिवोदास इति ख्यातमतो नाम त्वमाप्स्यसि ॥

मत्प्रभावाच्च नृपते दिव्यं सामर्थ्यमस्तु ते

॥३९॥

परमेष्ठिवचः श्रुत्वा ततोसौ राजसत्तमः ॥

वेधसं बहुशः स्तुत्वा वाक्यं चेदमुवाच ह

॥४०॥

राजोवाच

पितामह महाप्राज्ञ जनाकीर्णे महीतले ॥

कथं नान्ये च राजानो मां कथं कथ्यते त्वया

॥४१॥

ब्रह्मोवाच

त्वयि राज्यं प्रकुर्वाणे देवो वृष्टिं विधास्यति ॥

पापनिष्ठे च वै राज्ञि न देवो वर्षते पुनः

॥४२॥

राजोवाच

पितामह महामान्य त्रिलोकी करणक्षम ॥

महाप्रसाद इत्याज्ञां त्वदीयां मूर्ध्न्युपाददे

॥४३॥

किंचिद्विज्ञप्तुकामोहं तन्मदर्थं करोषि चेत् ॥

ततः करोम्यहं राज्यं पृथिव्यामसपत्नवत्

॥४४॥

ब्रह्मोवाच

अविलंबेन तद्ब्रूहि कृतं मन्यस्व पार्थिव ॥

यत्ते हृदि महाबाहो तवादेयं न किंचन

॥४५॥

राजोवाच

यद्यहं पृथिवीनाथः सर्वलोकपितामह ॥

तदादिविष(प?)दो देवा दिवि तिष्ठंतु मा भुवि

॥४६॥

देवेषु दिवितिष्ठत्सु मयि तिष्ठति भूतले ॥

असपत्नेन राज्येन प्रजासौख्यमवाप्स्यति

॥४७॥

तथेति विश्वसृक्प्रोक्तो दिवोदासो नरेश्वरः ॥

पटहं घोषयांचक्रे दिवं देवा व्रजंत्विति

॥४८॥

मा गच्छंत्विह वै नागा नराः स्वस्था भवंत्वितः ॥

मयि प्रशासति क्षोणीं सुराः स्वस्था भवंत्विति

॥४९॥

एतस्मिन्नंतरे ब्रह्मा विश्वेशं प्रणिपत्य ह ॥

यावद्विज्ञप्तुकामोभूत्तावदीशोब्रवीद्विधिम्

॥५०॥

लोकेश्वर समायाहि मंदरो नाम भूधरः ॥

कुशद्वीपादिहागत्य तपस्तप्येत दुष्करम्

॥५१॥

यावस्तस्मै वरं दातुं बहुकालं तपस्यते ॥

इत्युक्त्वा पार्वतीनाथो नंदिभृंगिपुरोगमः

॥५२॥

जगाम वृषमारुह्य मंदरो यत्र तिष्ठति ॥

उवाच च प्रसन्नात्मा देवदेवो वृषध्वज

॥५३॥

उत्तिष्ठोत्तिष्ठ भद्रं ते वरं ब्रूहि धरोत्तम ॥

सोथ श्रुत्वा महेशानं देवदेवं त्रिलोचनम्

॥५४॥

प्रणम्य बहुशो भूमावद्रिरेतद्व्यजिज्ञपत् ॥

लीलाविग्रहभृच्छंभो प्रणतैक कृपानिधे

॥५५॥

सर्वज्ञोपि कथं नाम न वेत्थ मम वांछितम् ॥

शरणागतसंत्राण सर्ववृत्तांतकोविद

॥५६॥

सर्वेषां हृदयानंद शर्वसर्वगसर्वकृत् ॥

यदि देयो वरो मह्यं स्वभावादृषदात्मने

॥५७॥

याचकायातिशोच्याय प्रणतार्तिप्रभंजक ॥

ततोऽविमुक्तक्षेत्रस्य साम्यं ह्यभिलषाम्यहम्

॥५८॥

कुशद्वीप उमा सार्धं नाथाद्य सपरिच्छदः ॥

मन्मौलौ विहितावासः प्रयात्वेष वरो मम

॥५९॥

सर्वेषां सर्वदः शंभुः क्षणं यावद्विचिंतयेत् ॥

विज्ञातावसरो ब्रह्मा तावच्छंभुं व्यजिज्ञपत् ॥

प्रणम्याग्रेसरो भूत्वा मौलौ बद्धकरद्वयः

॥६०॥

ब्रह्मोवाच

विश्वेश जगतांनाथ पत्या व्यापारितोस्म्यहम् ॥

कृतप्रसादेन विभो सृष्टिं कर्तुं चतुर्विधाम्

॥६१॥

प्रयत्नेन मया सृष्टा सा सृष्टिस्त्वदनुज्ञया ॥

अवृष्ट्या षष्टिहायिन्या तत्र नष्टाऽप्रजा भुवि

॥६२॥

अराजकं महच्चासीद्दुरवस्थमभूज्जगत् ॥

ततो रिपुंजयो नाम राजर्षिर्मनुवंशजः

॥६३॥

मयाभिषिक्तो राजर्षिः प्रजाः पातुं नरेश्वरः ॥

चकार समयं सोपि महावीर्यो महातपाः

॥६४॥

तवाज्ञया चेत्स्थास्यंति सर्वे दिविषदो दिवि ॥

नागलोके तथा नागास्ततो राज्यं करोम्यहम्

॥६५॥

तथेति च मया प्रोक्तं प्रमाणीक्रियतां तु तत् ॥

मंदराय वरो दत्तो भवेदेवं कृपानिधे

॥६६॥

तस्य राज्ञः प्रजास्त्रातुं भूयाच्चैष मनोरथः ॥

मम नाडीद्वयं राज्यं तस्यापि च शतक्रतोः

॥६७॥

मर्त्यानां गणना क्वेह निमेषार्ध निमेषिणाम् ॥

देवोपि निर्मलं मत्वा मंदरं चारुकंदरम्

॥६८॥

विधेश्च गौरवं रक्षंस्तथोरी कृतवान्हरः ॥

जंबूद्वीपे यथा काशी निर्वाणपददा सदा

॥६९॥

तथा बहुतिथं कालं द्वीपोभूत्सोपि मंदरः ॥

यियासुना च देवेन मंदरं चित्रकंदरम्

॥७०॥

निजमूर्तिमयं लिंगमविज्ञातं विधेरपि ॥

स्थापितं सर्वसिद्धीनां स्थापकेभ्यः समर्पितुम्

॥७१॥

विपन्नानां च जंतूनां दातुं नैःश्रेयसीं श्रियम् ॥

सर्वेषामिह संस्थानां क्षेत्रं चैवाभिरक्षितुम्

॥७२॥

मंदराद्रिगतेनापि क्षेत्रं नैतत्पिनाकिना ॥

विमुक्तं लिंगरूपेण अविमुक्तमतः स्मृतम्

॥७३॥

पुरा नंदवनं नाम क्षेत्रमेतत्प्रकीर्तितम् ॥

अविमुक्तं तदारभ्य नामास्य प्रथितं भुवि

॥७४॥

नामाविमुक्तमभवदुभयोः क्षेत्रलिंगयोः ॥

एतद्द्वयं समासाद्य न भूयो गर्भभाग्भवेत्

॥७५॥

अविमुक्तेश्वरं लिंगं दृष्ट्वा क्षेत्रेऽविमुक्तके ॥

विमुक्त एव भवति सर्वस्मात्कर्मबंधनात्

॥७६॥

अर्चंति विश्वे विश्वेशं विश्वेशोर्चति विश्वकृत् ॥

अविमुक्तेश्वरं लिंगं भुविमुक्तिप्रदायकम्

॥७७॥

पुरा न स्थापितं लिंगं कस्यचित्केनचित्क्वचित् ॥

किमाकृति भवेल्लिंगं नैतद्वेत्त्यपि कश्चन

॥७८॥

आकारमविमुक्तस्य दृष्ट्वा ब्रह्माच्युतादयः ॥

लिंगं संस्थापयामासुर्वसिष्ठाद्यास्तथषर्यः

॥७९॥

आदिलिंगमिदं प्रोक्तमविमुक्तेश्वरं महत् ॥

ततो लिंगांतराण्यत्र जातानि क्षितिमंडले

॥८०॥

अविमुक्तेश नामापि श्रुत्वा जन्मार्जितादघात् ॥

क्षणान्मुक्तो भवेन्मर्त्यो नात्र कार्या विचारणा

॥८१॥

अविमुक्तेश्वरं लिंगं स्मृत्वा दूरगतोपि च ॥

जन्मद्वयकृतात्पापात्क्षणादेव विमुच्यते

॥८२॥

अविमुक्ते महाक्षेत्रेऽविमुक्तमवलोक्य च ॥

त्रिजन्मजनितं पापं हित्वा पुण्यमयो भवेत्

॥८३॥

यत्कृतं ज्ञानविभ्रंशादेनः पंचसु जन्मसु ॥

अविमुक्तेश संस्पर्शात्तत्क्षयेदेव नान्यथा

॥८४॥

अर्चयित्वा महालिंगमविमुक्तेश्वरं नरः ॥

कृतकृत्यो भवेदत्र न च स्याज्जन्मभाक्कुतः

॥८५॥

स्तुत्वा नत्वार्चयित्वा च यथाशक्ति यथामति ॥

अविमुक्ते विमुक्तेशं स्तूयते नम्यतेऽर्च्यते

॥८६॥

अनादिमदिदं लिंगं स्वयं विश्वेश्वरार्चितम् ॥

काश्यां प्रयत्नतः सेव्यमविमुक्तं विमुक्तये

॥८७॥

संति लिंगान्यनेकानि पुण्येष्वायतनेषु च ॥

आयांति तानि लिंगानि माघीं प्राप्य चतुदर्शीम्

॥८८॥

कृष्णायां माघभूतायामविमुक्तेश जागरात् ॥

सदा विगतनिद्रस्य योगिनो गतिभाग्भवेत्

॥८९॥

नानायतनलिंगानि चतुर्वर्गप्रदान्यपि ॥

माघकृष्णचतुर्दश्यामविमुक्तमुपासते

॥९०॥

किं बिभेति नरो धीरः कृतादघशिलोच्चयात् ॥

अविमुक्तेश लिंगस्य भक्ति वज्रधरो यदि

॥९१॥

क्वाविमुक्तं महालिंगं चतुर्वर्गफलोदयम् ॥

क्व पापि पापशैलोऽल्पो यःक्षयेन्नामसंभृतः

॥९२॥

अविमुक्ते महाक्षेत्रे विश्वेशसमधिष्ठिते ॥

यैर्न दृष्टं विमूढास्तेऽविमुक्तं लिंगमुत्तमम्

॥९३॥

द्रष्टारमविमुक्तस्य दृष्ट्वा दंडधरो यमः ॥

दूरादेव प्रणमति प्रबद्धकरसंपुटः

॥९४॥

धन्यं तन्नेत्रनिर्माणं कृतकृत्यौ तु तौ करौ ॥

अविमुक्तेश्वरं येन याभ्यामैक्षिष्ट यः स्पृशेत्

॥९५॥

त्रिसंध्यमविमुक्तेशं यो जपेन्नियतः शुचिः ॥

दूरदेशविपन्नोपि काशीमृतफलं लभेत्

॥९६॥

अविमुक्तं महालिंगं दृष्ट्वा ग्रामांतरं व्रजेत् ॥

लब्धाशुकार्यसंसिद्धिं क्षेमेण प्रविशेद्गृहम्

॥९७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशी खंडे पूर्वार्द्धे अविमुक्तेशाविर्भावोनामैकोनचत्वारिंशोध्यायः ॥ ३९ ॥