मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ३१

3
काशीखण्डः · 31

सर्वज्ञ हृदयानंद स्कंदस्कंदित तारक

अगस्त्य उवाच

सर्वज्ञ हृदयानंद स्कंदस्कंदित तारक ॥

न तृप्तिमधिगच्छामि शृण्वन्वाराणसीकथाम्

॥१॥

अनुग्रहो यदि मयि योग्योस्मि श्रवणे यदि ॥

तदा कथय मे नाथ काश्यां भैरव संकथाम्

॥२॥

कोसौ भैरवनामात्र काशिपुर्यां व्यवस्थितः ॥

किं रूपमस्य किं कर्म कानि नामानि चास्य वै

॥३॥

कथमाराधितश्चैव सिद्धिदः साधकस्य वै ॥

आराधितः कुत्र काले क्षिप्रं सिद्ध्यति भैरवः

॥४॥

स्कंद उवाच

वाराणस्यां महाभाग यथा ते प्रेम वर्तते ॥

तथा न कस्यचिन्मन्ये ततो वक्ष्याम्यशेषतः

॥५॥

प्रादुर्भावं भैरवस्य महापातकनाशनम् ॥

यच्छ्रुत्वा काशिवासस्य फलं निर्विघ्रमाप्नुयात्

॥६॥

पाणिभ्यां परितः प्रपीड्य सुदृढं निश्चोत्य निश्चोत्य च ब्रह्मांडं सकलं पचेलिमरसालोच्चैः फलाभं मुहुः ॥

पायंपायमपायतस्त्रिजगतीमुन्मत्तवत्तै रसैर्नृत्यंस्तांडवडंबरेण विधिनापायान्महाभैरवः

॥७॥

कुंभयोने न वेत्त्येव महिमानं महेशितुः ॥

चतुर्भजोपि वैकुंठश्चतुर्वक्त्रोपि विश्वकृत्

॥८॥

न चित्रमत्र भूदेव भवमाया दुरत्यया ॥

तया संमोहिताः सर्वे नावयंत्यपि तं परम्

॥९॥

वेदयेद्यदिचात्मानं स एव परमेश्वरः ॥

तदा विंदंति ब्रह्माद्याः स्वेच्छयैव न तं विदुः

॥१०॥

स सर्वगोपि नेक्ष्येत स्वात्मारामो महेश्वरः ॥

देववद्बुध्यते मूढैरतीतो यो मनोगिराम्

॥११॥

पुरा पितामहं विप्र मेरुशृंगे महर्षयः ॥

प्रोचुः प्रणम्य लोकेशं किमेकं तत्त्वमव्ययम्

॥१२॥

समा यया महेशस्य मोहितो लोकसंभवः ॥

अविज्ञाय परं भावमात्मानं प्राह वर्पिणम्

॥१३॥

जगद्योनिरहं धाता स्वयंभूरेक ईश्वरः ॥

अनादिमदहं ब्रह्म मामनर्च्य न मु च्यते

॥१४॥

प्रवर्तको हि जगतामहमेको निवर्तकः ॥

नान्यो मदधिकः सत्यं कश्चित्कोपि सुरोत्तमाः

॥१५॥

तस्यैवं ब्रुवतो धातुः क्रतुर्नारायणांशजः ॥

प्रोवाच प्रहसन्वाक्यं रोषताम्रविलोचनः

॥१६॥

अविज्ञाय परं तत्त्वं किमेतत्प्रतिपाद्यते ॥

अज्ञानं योगयुक्तस्य न चैतदुचितं तव

॥१७॥

अहं कर्ता हि लोकानां यज्ञो नारायणः परः ॥

न मामनादृत्य विधे जीवनं जगतामज

॥१८॥

अहमेव परं ज्योतिरहमेव परा गतिः ॥

मत्प्रेरितेन भवता सृष्टिरेषा विधीयते

॥१९॥

एवं विप्र कृतौ मोहात्परस्परजयैषिणौ ॥

पप्रच्छतुः प्रमाणज्ञानागमांश्चतुरोपि तौ

॥२०॥

विधिक्रतू ऊचतुः

वेदाः प्रमाणं सर्वत्र प्रतिष्ठां परमामिताः ॥

यूयमेव न संदेहः किं तत्त्वं प्रतितिष्ठत

॥२१॥

श्रुतय ऊचुः

यदि मान्या वयं देवौ सृष्टिस्थितिकरौ विभू ॥

तदा प्रमाणं वक्ष्यामो भवत्संदेहभेदकम्

॥२२॥

श्रुत्युक्तमिदमाकर्ण्य प्रोचतुस्तौ श्रुतीः प्रति ॥

युष्मदुक्तं प्रमाणं नौ किं तत्त्वं सम्यगुच्यताम्

॥२३॥

ऋगुवाच

यदंतःस्थानि भूतानि यतः सर्वं प्रवर्तते ॥

यदाहुस्तत्परं तत्त्वं स रुद्रस्त्वेक एव हि

॥२४॥

यजुरुवाच

यो यज्ञैरखिलैरीशो योगेन च समिज्यते ॥

येन प्रमाणं हि वयं स एकः सर्वदृक्छिवः

॥२५॥

सामोवाच

येनेदं भ्रश्यते विश्वं योगिभिर्यो विचिंत्यते ॥

यद्भासा भासते विश्वं स एकस्त्र्यंबकः परः

॥२६॥

अथर्वोवाच

यं प्रपश्यंति देवेशं भक्त्यानुग्रहिणो जनाः ॥

तमाहुरेकं कैवल्यं शंकरं दुःखतस्करम्

॥२७॥

श्रुतीरितं निशम्येत्थं तावतीव विमोहितौ ॥

स्मित्वाहतुः क्रतु विधीमोहाध्येनांकितौ मुने

॥२८॥

कथं प्रमथनाथोसौ रममाणो निरंतरम् ॥

दिगंबरः पितृवने शिवया धूलिधूसरः

॥२९॥

विटंकवेशो जटिलो वृषगोव्यालभूषणः ॥

परं ब्रह्मत्वमापन्नः क्व च तत्संगवर्जितम्

॥३०॥

तदुदीरितमाकर्ण्य प्रणवात्मा सनातनः ॥

अमूर्तो मूर्तिमान्भूत्वा हसमान उवाच तौ

॥३१॥

प्रणव उवाच

न ह्येष भगवाञ्छक्त्या स्वात्मनो व्यतिरिक्तया ॥

कदाचिद्रमते रुद्रो लीलारूपधरो हरः

॥३२॥

असौ हि भगवानीशः स्वयंज्योतिः सनातनः ॥

आनंदरूपा तस्यैषा शक्तिर्नागंतुकी शिवा

॥३३॥

इत्येवमुक्तेपि तदा मखमूर्तेरजस्य हि ॥

नाज्ञानमगमन्नाशं श्रीकंठस्यैव मायया

॥३४॥

प्रादुरासीत्ततो ज्योतिरुभयोरंतरे महत् ॥

पूरयन्निजया भासा द्यावाभूम्योर्यदंतरम्

॥३५॥

ज्योतिर्मंडलमध्यस्थो ददृशे पुरुषाकृतिः ॥

प्रजज्वालाथ कोपेन ब्रह्मणः पंचमं शिरः

॥३६॥

आवयोरंतरं कोसौ बिभृयात्पुरुषाकृतिम् ॥

विधिः संभावयेद्यावत्तावत्स हि विलोकितः

॥३७॥

स्रष्टा क्षणेन च महान्पुरुषो नीललोहितः ॥

त्रिशूलपाणिर्भालाक्षो नागोडुपविभूषणः

॥३८॥

हिरण्यगर्भस्तं प्राह जाने त्वां चंद्रशेखरम् ॥

भालस्थलान्ममपुरा रुद्रः प्रादुरभूद्भवान्

॥३९॥

रोदनाद्रुद्रनामापि योजितोसि मया पुरा ॥

मामेव शरणं याहि पुत्र रक्षां करोमि ते

॥४०॥

अथेश्वरः पद्मयोनेः श्रुत्वा गर्ववतीं गिरम् ॥

सकोपतः समुत्पाद्य पुरुषं भैरवाकृतिम्

॥४१॥

प्राह पंकजजन्मासौ शास्यस्ते कालभैरव ॥

कालवद्राजसे साक्षात्कालराजस्ततो भवान्

॥४२॥

विश्वं भर्तुं समर्थोऽसि भरणाद्भैरवः स्मृतः ॥

त्वत्तो भेष्यति कालोपि ततस्त्वं कालभैरवः

॥४३॥

आमर्दयिष्यति भवांस्तुष्टो दुष्टात्मनो यतः ॥

आमर्दक इति ख्याति ततः सर्वत्र यास्यति

॥४४॥

यतः पापानि भक्तानां भक्षयिष्यति तत्क्षणात् ॥

पापभक्षण इत्येव तव नाम भविष्यति

॥४५॥

या मे मुक्तिपुरी काशी सर्वाभ्योपि गरीयसी ॥

आधिपत्यं च तस्यास्ते कालराज सदैव हि

॥४६॥

तत्र ये पापकर्तारस्तेषां शास्ता त्वमेव हि ॥

शुभाशुभं न तत्कर्म चित्रगुप्तो लिखिष्यति

॥४७॥

एतान्वरान्प्रगृह्याऽथ तत्क्षणात्कालभैरवः ॥

वामांगुलिनखाग्रेण चकर्त च शिरो विधेः

॥४८॥

यदंगमपराध्नोति कार्यं तस्यैव शासनम् ॥

अतो येन कृता निंदा तच्छिन्नं पचमं शिरः

॥४९॥

यज्ञमूर्तिधरो विष्णुस्ततस्तुष्टाव शंकरम् ॥

भीतो हिरण्यगर्भोपि जजाप शतरुद्रियम्

॥५०॥

आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः ॥

प्राह स्वां मूर्तिमपरां भैरवं तं कपर्दिनम्

॥५१॥

मान्योऽध्वरोसौ भवता तथा शतधृतिस्त्वयम् ॥

कपालं वैधसं चापि नीललोहित धारय

॥५२॥

ब्रह्महत्यापनोदाय व्रतं लोकाय दर्शयन् ॥

चर त्वं सततं भिक्षां कापालव्रतमास्थितः ॥

इत्युक्त्वांऽतर्हितो देवस्तेजोरूपस्तदा शिवः

॥५३॥

उत्पाद्य कन्यामेकां तु ब्रह्महत्येति विश्रुताम् ॥

रक्तांबरधरां रक्तां रक्तस्रग्गंधलेपनाम्

॥५४॥

दंष्टाकरालवदनां ललज्जिह्वातिभीषणाम् ॥

अंतरिक्षैकपादाग्रां पिबंतीं रुधिरं बहु

॥५५॥

कर्त्रीं कर्परहस्ताग्रां स्फुरत्पिंगोग्रतारकाम् ॥

गर्जयंतीं महावेगां भैरवस्यापिभीषणाम्

॥५६॥

यावद्वाराणसीं दिव्यां पुरीमेष गमिष्यति ॥

तावत्त्वं भीषणे कालमनुगच्छोग्ररूपिणि

॥५७॥

सर्वत्र ते प्रवेशोस्ति त्यक्त्वा वाराणसीं पुरीम् ॥

नियोज्यतामिति शिवोप्यंतर्धानं गतस्ततः

॥५८॥

तत्सान्निध्याद्भैरवोपि कालोभूत्कालकालतः ॥

स देवदेववाक्येन बिभ्रत्कापालिकं व्रतम्

॥५९॥

कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ॥

नात्याक्षीच्चापि तं देवं ब्रह्महत्या सुदारुणा

॥६०॥

सत्यलोकेपि वैकुंठे महेंद्रादि पुरीष्वपि ॥

त्रिजगत्पतिरुग्रोपि व्रती त्रिजगतीश्वरः

॥६१॥

प्रतितीर्थं भ्रमन्नापि विमुक्तो ब्रह्महत्यया

॥६२॥

अनेनैवानुमानेन महिमा त्ववगम्यताम् ॥

ब्रह्महत्यापनोदिन्याः काश्याः कलशसंभव

॥६३॥

संति तीर्थान्यनेकानि बहून्यायतनानि च ॥

अधि त्रिलोकिनो काश्याः कलामर्हंति षोडशीम्

॥६४॥

तावद्गर्जंति पापानि ब्रहत्यादिकान्यलम् ॥

यावन्नाम न शृण्वंति काश्याः पापाचलाशनेः

॥६५॥

प्रमथैः सेव्यमानोऽयं त्रिलोकीं विचरन्हरः ॥

कापालिको ययौ देवो नारायणनिकेतनम्

॥६६॥

अथायांतं महाकालं त्रिनेत्रं सर्पकुंडलम् ॥

महादेवांशसंभूतं भैरवं भीषणाकृतिम्

॥६७॥

पपात दंडवद्भूमौ दृष्ट्वा तं गरुडध्वजः ॥

देवाश्च मुनयश्चैव देवनार्यः समंततः

॥६८॥

निपेतुः प्रणिपत्यैनं प्रणतः कमलापतिः ॥

शिरस्यंजलिमारोप्य स्तुत्वा बहुविधैः स्तवैः

॥६९॥

क्षीरोदमथनो तां प्राह पद्मालयां हरिः ॥

प्रिये पश्याऽब्जनयने धन्याऽसि सुभगेनघे

॥७०॥

धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम् ॥

अयं धाता विधाता च लोकानां प्रभुरीश्वरः

॥७१॥

अनादिः शरणः शांतः परः षड्विंशसंमितः ॥

सर्वज्ञः सर्वयोगीशः सर्वभूतैकनायकः

॥७२॥

सर्वभूतांतरात्माऽयं सर्वेषां सर्वदः सदा ॥

यं विनिद्रा विनिःश्वासाः शांता ध्यानपरायणाः

॥७३॥

धिया पश्यंति हृदये सोयमद्य समीक्ष्यताम् ॥

यं विदुर्वेदतत्त्वज्ञा योगिनो यतमानसाः

॥७४॥

अरूपो रूपवान्भूत्वा सोयमायाति सर्वगः ॥

अहो विचित्रं देवस्य चेष्टितं परमेष्ठिनः

॥७४॥

यस्याख्यां ब्रुवतां नित्यं न देहः सोपि देहधृक् ॥

यं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि

॥७६॥

सोयमायाति भगवांस्त्र्यंबकः शशिभूषणः ॥

पुंडरीकदलायामे धन्येमेऽद्य विलोचने

॥७७॥

धिग्धिक्पदं तु देवानां परं दृष्ट्वाऽत्र शंकरम् ॥

लभ्यते यन्न निर्वाणं सर्वदुःखांतकृत्तु यत्

॥७८॥

देवत्वादशुभं किंचिद्देवलोके न विद्यते ॥

दृष्ट्वापि सर्वदेवेशं यन्मुक्तिं न लभामहे

॥७९॥

एवमुक्त्वा हृषीकेशः संप्रहृष्टतनूरुहः ॥

प्रणिपत्य महादेवमिदमाह वृषध्वजम्

॥८०॥

किमिदं देवदेवेन सर्वज्ञेन त्वया विभो ॥

क्रियते जगतां धात्रा सर्वपापहराऽव्यय

॥८१॥

क्रीडेयं तव देवेश त्रिलोचन महामते ॥

किं कारणं विरूपाक्ष चेष्टितं ते स्मरार्दन

॥८२॥

किमर्थं भगवत्र्छंभो भिक्षां चरसि शक्तिप ॥

संशयो मे जगन्नाथ नतत्रैलोक्यराज्यद

॥८३॥

एवमुक्तस्ततः शंभुर्विष्णुमेतदुदाहरत् ॥

ब्रह्मणस्तु शिरश्छिन्नमंगु्ल्यग्रनखेन ह

॥८४॥

तदघप्रतिघं विष्णो चराम्येतद्व्रतं शुभम् ॥

एवमुक्तो महेशेन पुंडरीकविलोचनः

॥८५॥

स्मित्वा किंचिन्नतशिराः पुनरेवं व्यजिज्ञपत् ॥

यथेच्छसि तथा क्रीड सर्वविष्टपनायक

॥८६॥

मायया मां महादेव नच्छादयितुमर्हसि ॥

नाभीकमलकोशात्तु कोटिशः कमलासनान्

॥८७॥

कल्पे कल्पे सृजामीश त्वन्नियोगबलाद्विभो ॥

त्यज मायामिमां देव दुस्तरामकृतात्मभिः

॥८८॥

मदाद्यो महादेव मायया तव मोहिताः ॥

यथावदवगच्छामि चेष्टितं ते शिवापते

॥८९॥

संहारकाले संप्राप्ते सदेवानखिलान्मुनीन् ॥

लोकान्वर्णाश्रमवतो हरिष्यसि यदा हर

॥९०॥

तदा क्व ते महादेव पाप ब्रह्मवधादिकम् ॥

पारतंत्र्यं न ते शंभो स्वैरं क्रीडेत्ततो भवान्

॥९१॥

अतीतब्रह्मणामस्थ्नां स्रक्कंठे तव भासते ॥

तदातदा क्वानुगता ब्रह्महत्या तवानघ

॥९२॥

कृत्वापि सुमहत्पापं त्वां यः स्मरति भावतः ॥

आधारं जगतामीशं तस्य पापं विलीयते

॥९३॥

यथा तमो न तिष्ठेत संनिधावंशुमालिनः ॥

तथा न भवभक्तस्य पापं तस्य व्रजेत्क्षयम्

॥९४॥

यश्चिंतयति पुण्यात्मा तव पादांबुजद्वयम् ॥

ब्रह्महत्यादिकमपि पापं तस्य व्रजेत्क्षयम्

॥९५॥

तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते ॥

अप्यद्रिकूटतुलितं नैनस्तमनुबाधते

॥९६॥

रजसा तमसा विवर्धितं क्व नु पापं परितापदायकम् ॥

क्व च ते शिव नाम मंगलं जनजीवातु जगद्रुजापहम्

॥९७॥

यदि जातुचिदंधकद्विषस्तवनामौष्ठपुटाद्विनिःसृतम् ॥

शिवशंकर चंद्रशेखरेत्यसकृत्तस्य न संसृतिः पुनः

॥९८॥

परमात्मन्परंधाम स्वेच्छा विधृत विग्रह ॥

कुतूहलं तवेशेदं क्व पराधीनतेश्वरे

॥९९॥

अद्य धन्योस्मि देवेश यं न पश्यति योगिनः ॥

पश्यामि तं जगन्मूलं परमेश्वरमक्षयम्

॥१००॥

अद्य मे परमो लाभस्त्वद्य मे मंगलं परम् ॥

त्वद्दृष्ट्यमृततृप्तस्य तृणं स्वर्गापवर्गदम्

॥१॥

इत्थं वदति गोविंदे विमला पद्मया तया ॥

मनोरथवती नाम भिक्षापात्रे समर्पिता

॥२॥

भिक्षाटनाय देवोपि निरगात्परया मुदा ॥

दृष्ट्वाऽनुयायिनीं तां तु समाहूय जनार्दनः ॥

संप्रार्थयद्ब्रह्महत्यां विमुंच त्वं त्रिशूलिनम्

॥३॥

ब्रह्महत्योवाच

अनेनापि मिषेणाऽहं संसेव्यामुं वृषध्वजम् ॥

आत्मानं पावयिष्यामि क्व पुनर्भवदर्शनम्

॥४॥

सा तत्याज न तत्पार्श्वं व्याहृतापि मुरारिणा ॥

तमूचेऽथ हरिं शंभुः स्मेरास्यो वचनं शुभम्

॥५॥

त्वद्वाक्पीयूषपानेन तृप्तोस्मि बहुमानद ॥

वरं वृणीष्व गोविंद वरदोऽस्मि तवानघ

॥६॥

न माद्यंति यथा भैक्षैर्भिक्षवोप्यतिसंस्कृतैः ॥

यथामानसुधापानैर्नुन्न भिक्षाटनज्वराः

॥७॥

महाविष्णुरुवाच

एष एव वरः श्लाघ्यो यदहं देवताधिपम् ॥

पश्यामि त्वां देवदेवं मनोरथपथातिगम्

॥८॥

अनभ्रेयं सुधावृष्टिरनायासो महोत्सवः ॥

अयत्नो निधिलाभो यद्वीक्षणं हरते सताम्

॥९॥

अवियोगोऽस्तु मे देव त्वदंघ्रियुगलेन वै ॥

एष एव वरः शंभो नान्यं कंचिद्वरं वृणे

॥११०॥

ईश्वर उवाच

एवं भवतु तेऽनंत यत्त्वयोक्तं महामते ॥

सर्वेषामपि देवानां वरदस्त्वं भविष्यसि

॥११॥

अनुगृह्येति दैत्यारिं केंद्रादि भुवने चरन् ॥

भेजे विमुक्तिजननीं नाम्ना वाराणसीं पुरीम्

॥१२॥

यत्र स्थितानां जंतूनां कलां नार्हंति षोडशीम् ॥

अपि ब्रह्मादि देवानां पदानि विपदां पदम्

॥१३॥

वरं वाराणसी वासी जटी मुंडी दिगंबरः ॥

नान्यत्रच्छत्रसंछन्न वसुधामंडलेश्वरः

॥१४॥

वरं वाराणसी भिक्षा न लक्षाधिपतान्यतः ॥

लक्षाधीशो विशेद्गर्भं तद्भिक्षाशी न गर्भभाक्

॥१५॥

भिक्षापि यत्र भिक्षुभ्यो दत्तामलकसंमिता ॥

सुमेरुणापि तुलिता वाराणस्यां गुरुर्भवेत्

॥१६॥

वर्षाशनं हि यो दद्यात्काश्यां सीदत्कुटुंबिने ॥

यावंत्यब्दानि तावंति युगानि स दिवीज्यते

॥१७॥

वाराणस्यां वर्षभोज्यं यो दद्यान्निरुपायिने ॥

स कदाचित्तृट्क्षुधा नो दुःखं भुंक्ते नरर्षभः

॥१८॥

वाराणस्यां निवसतां यत्पुण्यमुपजायते ॥

तदेव संवासयितुः फलं त्वविकलं भवेत्

॥१९॥

ब्रह्महत्यादि पापानि यस्या नाम्नोपि कीर्तनात् ॥

त्यजंति पापिनं काशी सा केनेहोपमीयते

॥१२०॥

क्षेत्रे प्रविष्टमात्रेऽथ भैरवे भीषणाकृतौ ॥

हाहेत्युक्त्वा ब्रह्महत्या पातालतलमाविशत्

॥२१॥

कपालब्रह्मणो रुद्रः सर्वेषामेव पश्यताम् ॥

हस्तात्पतितमालोक्य ननर्त परया मुदा

॥२२॥

विधेः कपालं नामुंचत्करमत्यंतदुःसहम् ॥

हरस्य भ्रमतः क्वापि तत्काश्यां क्षणतोऽपतत्

॥२३॥

शूलिनो ब्रह्मणो हत्या नापैति स्म च या क्वचित् ॥

सा काश्यां क्षणतो नष्टा कथं काशी न दुर्लभा

॥२४॥

अतः प्रदक्षिणीकार्या पूजनीया पुरी त्वियम्

॥२५॥

वाराणसीति काशीति महामंत्रमिमं जपम् ॥

यावज्जीवं त्रिसंध्यं तु जंतुर्जातु न जायते

॥२६॥

अविमुक्तं महाक्षेत्रं स्मरन्प्राणांस्तु यस्त्वजेत् ॥

दूरदेशांतरस्थोपि सोपि जातु न जायते

॥२७॥

आनंदकानने यस्य चित्तं संस्मरते सदा ॥

तत्क्षेत्रनामश्रवणान्न स भूयोऽभिजायते

॥२८॥

रुद्रावासे वसेन्नित्यं नरो नियतमानसः ॥

एनसामपि संभारं कृत्वा कालाद्विमुच्यते

॥२९॥

महाश्मशानमासाद्य यदि देवाद्विपद्यते ॥

पुनः श्मशानशयनं न क्वापि लभते पुमान्

॥१३०॥

कपालमोचनं काश्यां ये स्मरिष्यंति मानवाः ॥

तेषां विनंक्ष्यति क्षिप्रमिहान्यत्रापि पातकम्

॥३१॥

आगत्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ॥

तर्पयित्वा पितॄन्देवान्मुच्यते ब्रह्महत्यया

॥३२॥

अशाश्वतमिदं ज्ञात्वा वाराणस्यां वसंति ये ॥

देहांते तत्परं ज्ञानं तेषां दास्यति शंकरः

॥३३॥

इयं काशीपुरी विप्र साक्षाद्रुद्रतनुः परा ॥

अनिर्वाच्या परानंदा दुष्प्राप्येशविरोधिभिः

॥३४॥

अस्यास्तत्त्वमहं जाने शिवभक्तिपरोपि वा ॥

मुच्यंते जंतवोऽत्रैव यथा योगेन योगिनः

॥३५॥

परंपदमियं काशी परानंद इयं पुरी ॥

इयमेव परं ज्ञानं सेव्याऽसौ मोक्षकांक्षिभिः

॥३६॥

अत्रोषित्वापीशभक्तान्विरुणद्धि तु यः कुधीः ॥

पुर्यैद्रुह्यति वा मूढस्तस्यान्यत्रात्र नो गतिः

॥३७॥

कपालमोचनं तीर्थं पुरस्कृत्वा तु भैरवः ॥

तत्रैव तस्थौ भक्तानां भक्षयन्नघसंततिम्

॥३८॥

पापभक्षणमासाद्य कृत्वापापशतान्यपि ॥

कुतो बिभेति पापेभ्यः कालभैरवसेवकः

॥३९॥

आमर्दयति पापानि दुष्टानां च मनोरथान् ॥

आमर्दक इति ख्यातस्ततोऽसौ कालभैरवः

॥४०॥

कलिकालं कलयति सदा काशी निवासिनाम् ॥

अतः ख्यातिं परां प्राप्तः कालभैरवसंज्ञिताम्

॥४१॥

सदैव यस्य भक्तेभ्यो यमदूताः सुदारुणाः ॥

परमां भीरुतां प्राप्तास्ततोसौ भैरवः स्मृतः

॥४२॥

मार्गशीर्षासिताष्टम्यां कालभैरवसंनिधौ ॥

उपोष्य जागरं कुर्वन्महापापैः प्रमुच्यते

॥४३॥

यत्किंचिदशुभं कर्म कृतं मानुषबुद्धितः ॥

तत्सर्वं विलयं याति कालभैरव दर्शनात्

॥४४॥

अनेकजन्मनियुतैर्यत्कृतं जंतुभिस्त्वघम् ॥

तत्सर्वं विलयत्याशु कालभैरव दर्शनात्

॥४५॥

कृत्वा च विविधां पूजां महासंभारविस्तरैः ॥

नरो मार्गासिताष्टम्यां वार्षिकं विघ्नमुत्सृजेत्

॥४६॥

अष्टम्यां च चतुर्दश्यां रविभूमिजवासरे ॥

यात्रां च भैरवीं कृत्वा कृतैः पापैः प्रमुच्यते

॥४७॥

कालभैरव भक्तानां सदा काशीनिवासिनाम् ॥

विघ्नं यः कुरुते मूढः स दुर्गतिमवाप्नुयात्

॥४८॥

विश्वेश्वरेपि ये भक्ता नो भक्ताः कालभैरवे ॥

काश्यां ते विघ्नसंघातं लभंते तु पदे पदे

॥४९॥

तीर्थे कालोदके स्नात्वा कृत्वा तर्पणमत्वरः ॥

विलोक्य कालराजं च निरयादुद्धरेत्पितॄन्

॥१५०॥

अष्टौ प्रदक्षिणीकृत्य प्रत्यहं पापभक्षणम् ॥

नरो न पापैर्लिप्येत मनोवाक्कायसंभवैः

॥५१॥

तस्मिन्नामर्दके पीठे जप्त्वास्वाभीष्टदेवताम् ॥

षण्मासं सिद्धिमाप्नोति साधको भैरवाज्ञया

॥५२॥

वाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ॥

तस्य पापानि वर्धंते शुक्लपक्षे यथा शशी

॥५३॥

यं यं संचितयेत्कामं पापभक्षणसेवया ॥

बलिपूजोपहारैश्च तं तं स समवाप्नुयात्

॥५४॥

कालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ॥

भजेत्तस्यक्षयेत्पुण्यं कृष्णपक्षे यथा शशी

॥५५॥

श्रुत्वाध्यायमिमं पुण्यं ब्रह्महत्यापनोदकम् ॥

भैरवोत्पत्तिसंज्ञं च सर्वपापैः प्रमुच्यते

॥५६॥

बंधनागारसंस्थोपि प्राप्तोपि विपदं पराम् ॥

प्रादुर्भावं भैरवस्य श्रुत्वा मुच्येत संकटात्

॥५७॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे भैरवप्रादुर्भावोनामेकत्रिंशोध्यायः ॥ ३१ ॥