मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ९४

3
काशीखण्डः · 94

उत्तरार्धेऽमृतेशादिलिंगप्रादुर्भावः

स्कंद उवाच

अन्यान्यपि च लिंगानि कथयामि महामुने ॥

अमृतेशमुखादीनि यन्नामाप्यमृतप्रदम्

॥१॥

पुरा सनारु नामासीन्मुनिरत्र गृहाश्रमी ॥

ब्रह्मयज्ञरतो नित्यं नित्यं चातिथिदैवतः

॥२॥

लिंगपूजारतो नित्यं नित्यं तीर्थाप्रतिग्रही ॥

तस्यर्षेरभवत्पुत्रः सनारोरुपजंघनिः

॥३॥

स कदाचिद्गतोरण्यं तत्र दष्टः पृदाकुना ॥

अथ तत्स वयोभिश्च स आनीतः स्वमाश्रमम्

॥४॥

सनारुणा समुच्छ्वस्य नीतः स उपजंघनिः ॥

महाश्मशानभूभागं स्वर्गद्वारसमीपतः

॥५॥

तत्रासीच्छ्रीफलाकारं लिंगमेकं सुगुप्तवत् ॥

निधाय तत्र तं यावच्छवं संचिंतयेत्सुधीः

॥६॥

सर्पदष्टस्य संस्कारः कथं भवति चेति वै ॥

तावत्स जीवन्नुत्तस्थौ सुप्तवच्चौपजंघनिः

॥७॥

अथ तं वीक्ष्य स मुनिः सनारुरुपजंघनिम् ॥

पुनः प्राणितसंपन्नं विस्मयं प्राप्तवान्परम्

॥८॥

प्राणितव्येऽत्र को हेतुर्मच्छिशोरुपजंघनेः ॥

क्षेत्राद्बहिरहिर्यं हि दष्टा नैषीत्परासु ताम्

॥९॥

इति यावत्स संधत्ते धियं तज्जीवितैकिकाम् ॥

तावत्पिपीलिका त्वेका मृतं क्वापि पिपीलिकम्

॥१०॥

आनिनाय च तत्रैव सोप्य नन्निर्गतस्ततः ॥

अथ विज्ञाय स मुनिस्तत्त्वं जीवितसूचितम्

॥११॥

मृदु हस्ततलेनैव यावत्खनति वै मुनिः ॥

तावच्छ्रीफलमात्रं हि लिंगं तेन समीक्षितम्

॥१२॥

सनारुणाथ तल्लिंगं तेन तत्र समर्चितम् ॥

चिरकालीन लिंगस्य कृतं नामापि सान्वयम्

॥१३॥

अमृतेश्वरनामेदं लिंगमानंदकानने ॥

एतल्लिंगस्य संस्पर्शादमृतत्वं लभेद्ध्रुवम्

॥१४॥

अमृतेशं समभ्यर्च्य जीवत्पुत्रः स वै मुनिः ॥

स्वास्पदं समनुप्राप्तो दृष्टआश्चर्यवज्जनैः

॥१५॥

तदाप्रभृति तल्लिंगममृतेशं मुनीश्वर ॥

काश्यां सिद्धिप्रदं नृणां कलौ गुप्तं भवेत्पुनः

॥१६॥

अमृतेश्वर संस्पर्शान्मृता जीवंति तत्क्षणात् ॥

अमृतत्वं भजंतेऽत्र जीवंतः स्पर्शमात्रतः

॥३७॥

अमृतेश समं लिंगं नास्ति क्वापि महीतले ॥

तल्लिंगं शंभुना तिष्ये कृतं गुप्तं प्रयत्नतः

॥१८॥

अमृतेश्वर नामापि ये काश्यां परिगृह्णते ॥

न तेषामुपसर्गोत्थं भयं क्वापि भविष्यति

॥१९॥

मुनेऽन्यच्च महालिंगं करुणेश्वरसंज्ञितम् ॥

मोक्षद्वार समीपे तु मोक्षद्वारेश्वराग्रतः

॥२०॥

दर्शनात्तस्य लिंगस्य महाकारुणिकस्य वै ॥

न क्षेत्रान्निर्गमो जातु बहिर्भवति कस्यचित्

॥२१॥

स्नातव्यं मणिकर्ण्यां च द्रष्टव्यः करुणेश्वरः ॥

क्षेत्रोपसर्गजा भीतिर्हातव्या परया मुदा

॥२२॥

सोमवासरमासाद्य एकभक्तव्रतं चरेत् ॥

यष्टव्यः करुणापुष्पैर्व्रतिना करुणेश्वरः

॥२३॥

तेन व्रतेन संतुष्टः करुणेशः कदाचन ॥

न तं क्षेत्राद्बहिः कुर्यात्तस्मात्कार्यं व्रतं त्विदम्

॥२४॥

तत्पत्रैस्तत्फलैर्वापि संपूज्यः करुणेश्वरः ॥

यो न जानाति तल्लिंगं सम्यग्ज्ञानविवर्जितः

॥२५॥

तेनार्च्यः करुणावृक्षो देवेशः प्रीयतामिति ॥

यो वर्षं सोमवारस्य व्रतं कुर्यादिति द्विजः

॥२६॥

प्रसन्नः करुणेशोत्र तस्य दास्यति वांछितम् ॥

द्रष्टव्यः करुणेशोत्र काश्यां यत्नेन मानवैः

॥२७॥

इति ते करुणेशस्य महिमोक्तो महत्तरः ॥

यं श्रुत्वा नोपसर्गोत्थं भयं काश्यां भविष्यति

॥२८॥

मोक्षद्वारेश्वरं चैव स्वर्गद्वोरेश्वरं तथा ॥

उभौ काश्यां नरो दृष्ट्वा स्वर्गं मोक्षं च विंदति

॥२९॥

ज्योतीरूपेश्वरं लिंगं काश्यामन्यत्प्रकाशते ॥

तस्य संपूजनाद्भक्ता ज्योतीरूपा भवंति हि

॥३०॥

चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं परम् ॥

समभ्यर्च्याप्नुयान्मर्त्यो ज्योतीरूपं न संशयः

॥३१॥

यदा भागीरथी गंगा तत्र प्राप्ता सरिद्वरा ॥

तदारभ्यार्चयेन्नित्यं तल्लिंगं स्वर्धुनी मुदा

॥३२॥

पुरा विष्णौ तपत्यत्र तल्लिंगं स्वयमेव हि ॥

तत्राविरासीत्तेजस्वि तेन क्षेत्रमिदं शुभम्

॥३३॥

चक्रपुष्करिणी तीरे ज्योतीरूपेश्वरं तदा ॥

दूरस्थोपीह यो ध्यायेत्तस्य सिद्धिरदूरतः

॥३४॥

एतेष्वपि च लिंगेषु चतुर्दशसु सत्तम ॥

लिंगाष्टकं महावीर्यं कर्मबीजदवानलम्

॥३५॥

ओंकारादीनि लिंगानि यान्युक्तानि चतुर्दश ॥

तथा दक्षेश्वरादीनि लिंगान्यष्टौ महांति च

॥३६॥

शैलैशादीनि लिंगानि तथा यानि चतुर्दश ॥

पुनः षट्त्रिंशदेतानि क्षेत्रसंसिद्धि हेतवे

॥३७॥

षदत्रिंशत्तत्त्वरूपोसौ लिगेष्वेषु सदाशिवः ॥

अस्मिन्क्षेत्रे वसन्नित्यं तारकं ज्ञानमादिशेत्

॥३८॥

क्षेत्रस्य तत्त्वमेतद्धि षट्त्रिंशल्लिंगरूप्यहो ॥

एतेषां भजनात्पुंसां न भवेद्दुर्गतिः क्वचित्

॥३९॥

मुने रहस्यभूतानि र्लिगान्येतानि निश्चितम् ॥

एतल्लिंगप्रभावाच्च मुक्तिरत्र सुनिश्चिता

॥४०॥

मोक्षक्षेत्रमिंदं काशी लिंगैरेतैर्मेहामते ॥

एतान्यन्यानि सिद्धानि संभवंति युगेयुगे

॥४१॥

आनंदकाननं शंभोः क्षेत्रमेतदनादिमत् ॥

अत्र संस्थितिमापन्ना मुक्ता एव न संशयः

॥४२॥

योगसिद्धिरिहास्त्येव तपःसिद्धिरिहैव हि ॥

व्रतसिद्धिर्मंत्रसिद्धिस्तीर्थसिद्धिः सुनिश्चितम्

॥४३॥

सिद्ध्यष्टकं तु यत्प्रोक्तमणिमादि महत्तरम् ॥

तज्जन्मभूमिरेषैव शंभोरानंदवाटिका

॥४४॥

निर्वाणलक्ष्म्याः सदनमेतदानंदकाननम् ॥

एतत्प्राप्य न मोक्तव्यं पुण्यैः संसारभीरुणा

॥४५॥

अयमेव महालाभ इदमेव परं तपः ॥

एतदेव महत्पुण्यं लब्धा वाराणसीह यत्

॥४६॥

अवश्यं जन्मिनो मृत्युर्यत्र कुत्र भविष्यति ॥

कर्मानुसारिणी लभ्या गतिः पश्चाच्छुभाशुभा

॥४७॥

मृत्युं विज्ञाय नियतं गतिकर्मानुसारिणीम् ॥

अवश्यं काशिका सेव्या सर्वकर्मनिवारिणी

॥४८॥

मानुष्यं प्राप्य यं मूढा निमेषमितजीवितम् ॥

न सेवंते पुरीं काशीं ते मुष्टा मंदबुद्धयः

॥४९॥

दुर्लभं जन्म मानुष्यं दुर्लभा काशिकापुरी ॥

उभयोः संगमासाद्य मुक्ता एव न संशयः

॥५०॥

क्व च तादृक्तपांसीह क्व तादृग्योग उत्तमः ॥

यादृग्भिः प्राप्यते मुक्तिः काश्यां मोक्षोत्तमोत्तमः

॥५१॥

सत्यं सत्यं पुनः सत्यं सत्यपूर्वं पुनःपुनः ॥

न काशी सदृशी मुक्त्यै भूमिरन्या महीतले

॥५२॥

विश्वेशो मुक्तिदो नित्यं मुक्त्यै चोत्तरवाहिनी ॥

आनंदकानने मुक्तिर्मुक्तिर्नान्यत्र कुत्रचित्

॥५३॥

एक एव हि विश्वेशो मुक्तिदो नान्य एव हि ॥

स एव काशीं प्रापय्य मुक्तिं यच्छति नान्यतः

॥५४॥

सायुज्यमुक्तिरत्रैव सान्निध्यादिरथान्यतः ॥

सुलभा सापि नो नूनं काश्यां मोक्षोस्ति हेलया

॥५५॥

स्कंद उवाच

शृण्वगस्त्य महाभाग भविष्यं कथयाम्यहम् ॥

कृष्णद्वैपायनो व्यासोऽकथयद्यन्महद्वचः ॥

निश्चिकेतुमनाः पश्चाद्यत्करिष्यति तच्छृणु

॥५६॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धेऽमृतेशादिलिंगप्रादुर्भावोनाम चतुर्नवतितमोऽध्यायः ॥ ९४ ॥