मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ४२

3
काशीखण्डः · 42

कथं निकटतः कालो ज्ञायते हरनंदन

अगस्तिरुवाच

कथं निकटतः कालो ज्ञायते हरनंदन ॥

तानि चिह्नानि कतिचिद्ब्रूहि मे परिपृच्छतः

॥१॥

कुमार उवाच

वदामि कालचिह्नानि जायंते यानि देहिनाम् ॥

मृत्यौ निकटमापन्ने मुने तानि निशामय

॥२॥

याम्यनासापुटे यस्य वायुर्वाति दिवानिशम् ॥

अखंडमेव तस्यायुः क्षयत्यब्दत्रयेण हि

॥३॥

अहोरात्रं त्र्यहोरात्रं रविर्वहति संततम् ॥

अब्दमेकं च तस्येह जीवनावधिरुच्यते

॥४॥

वहेन्नासापुटयुगे दशाहानि निरंतरम् ॥

वातश्चेत्सह संक्रांतिस्तया जीवेद्दिनत्रयम्

॥५॥

नासावर्त्म द्वयं हित्वा मातरिश्वा मुखाद्वहेत् ॥

शंसेद्दिनद्वयादर्वाक्प्रयाणं तस्य चाध्वनि

॥६॥

अकस्मादेवयत्काले मृत्युः सन्निहितो भवेत् ॥

चिंतनीयः प्रयत्नेन स कालो मृत्युभीरुणा

॥७॥

सूर्ये सप्तमराशिस्थे जन्मर्क्षस्थे निशाकरे ॥

पौष्णः स कालो द्रष्टव्यो यदा याम्ये रविर्वहेत्

॥८॥

अकस्माद्वीक्षते यस्तु पुरुषं कृष्णपिंगलम् ॥

तस्मिन्नेव क्षणेऽरूपं स जीवेद्वत्सरद्वयम्

॥९॥

यस्य बीजं मलं मूत्रं क्षुतं मूत्रं मलं तु वा ॥

इहैकदा पतेद्यस्य अब्दं तस्यायुरिष्यते

॥१०॥

इंद्रनीलनिभं व्योम्नि नागवृंदं य ईक्षते ॥

इतस्ततः प्रसृमरं षण्मासं न स जीवति

॥१॥

व्यभ्रेह्नि वारिपूर्णास्यः पृष्ठीकृत्य दिवाकरम् ॥

फूत्कृत्याश्विंद्रचापं न पश्येत्षण्मासजीवितः

॥१२॥

अरुंधतीं ध्रुवं चैव विष्णोस्त्रीणिपदानि च ॥

आसन्नमृत्युर्नोपश्येच्चतुर्थं मातृमंडलम्

॥१३॥

अरुंधती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते ॥

विष्णोः पदानि भ्रूमध्ये नेत्रयोर्मातृमंडलम्

॥१४॥

वेत्ति नीलादिवर्णस्य कटम्लादिरसस्यहि ॥

अकस्मादन्यथाभावं षण्मासेन स मृत्युभाक्

॥१५॥

षण्मासमृत्योर्मर्त्यस्य कंठोष्ठरसना रदाः ॥

शुष्यंति सततं तद्वद्विच्छायास्तालुपंचमाः

॥१६॥

रेतः करजनेत्रांता नीलिमानं भजंति चेत् ॥

तर्हि कीनाशनगरीं षष्ठेमासि व्रजेन्नरः

॥१७॥

संप्रवृत्ते निधुवने मध्येंते क्षौति चेन्नरः ॥

निश्चितं पंचमे मासि धर्मराजातिथिर्भवेत्

॥१६॥

द्रुतमारुह्यशरठस्त्रिवर्णो यस्य मस्तके ॥

प्रयाति याति तस्यायुः षण्मासेन परिक्षयम्

॥१९॥

सुस्नातस्यापि यस्याशु हृदयं परिशुष्यति ॥

चरणौ च करौ वापि त्रिमासं तस्य जीवितम्

॥२०॥

प्रतिबिंबं भवेद्यस्य पदखंडपदाकृति ॥

पांसौ वा कर्दमे वापि पंचमासान्स जीवति

॥२१॥

छाया प्रकंपते यस्य देहबंधेपि निश्चले ॥

कृतांतदूता बध्नंति चतुर्थे मासि तं नरम्

॥२२॥

निजस्य प्रतिबिंबस्य नीराज्यमुकुरादिषु ॥

उत्तमांगं न यः पश्येत्समासेन विनश्यति

॥२३॥

मतिर्भ्रश्येत्स्खलेद्वाणी धनुरैद्रं निरक्षितै ॥

रात्रौ चंद्रद्वयं चापि दिवा द्वौ च दिवाकरौ

॥२४॥

दिवा च तारकाचक्रं रात्रौ व्योमवितारकम् ॥

युगपच्च चतुर्दिक्षु शाक्रं कोदंडमंडलम्

॥२५॥

भूरुहे भूधराग्रे च गंधर्वनगरालयम् ॥

दिवापिशाच नृत्यं च एते पंचत्वहेतवः

॥२६॥

सर्वेष्वेतेषु चिह्नेषु यद्येकमपि वीक्षते ॥

तदा मासावधिं मृत्युः प्रतीक्षेत न चाधिकम्

॥२७॥

करावरुद्ध श्रवणः शृणोति न यदा ध्वनिम् ॥

स्थूलः कृशः कृशस्थूलस्तदामासान्निवर्तते

॥२८॥

यः पश्येदात्मनश्छायां दक्षिणाशा समाश्रिताम् ॥

दिनानि पंच जीवित्वा पंचत्वमुपयाति सः

॥२९॥

प्रोह्यते भक्ष्यते वापि पिशाचासुरवायसैः ॥

भूतैः प्रेतैः श्वभिर्गृध्रैर्गोमायुखरसूकरैः

॥३०॥

रासभैः करभैः कीशैः श्वेनैरश्वतरैर्बकैः ॥

स्वप्ने स जीवितं त्यक्त्वा वर्षांते यममीक्षते

॥३१॥

गंधपुष्पांशुकैः शोणैः स्वां तनुं भूषितां नरः ॥

यः पश्येत्स्वप्नसमये सोऽष्टौ मासाननित्यहो

॥३२॥

पांसुराशि च वल्मीकं यूपदंडमथापि वा ॥

योधिरोहति वै स्वप्ने स षष्ठे मासि नश्यति

॥३३॥

रासभारूढमात्मानं तैलाभ्यक्तं च मुंडितम् ॥

नीयमानं यमाशां यः स्वप्ने पश्येत्स्वपूर्वजान्

॥३४॥

स्वमौलौ स्वतनौ वापि यः पश्येत्स्वप्नगो नरः ॥

तृणानि शुष्ककाष्ठानि षष्ठे मासि न तिष्ठति

॥३५॥

लोहदंडधरं कृष्णं पुरुषं कृष्णवाससम् ॥

स्वयं योग्रे स्थितं पश्येत्स त्रीन्मासान्न लंघयेत्

॥३६॥

काली कुमारी यं स्वप्ने बद्नीयाद्बाहु पाशकैः ॥

स मासेन समीक्षेत नगरींशमनोषिताम्

॥३७॥

नरो यो वानरारूढो यायात्प्राचीदिशं स्वपन् ॥

दिनैः स पंचभिरेव पश्येत्संयमिनीं पुरीम्

॥३८॥

कृपणोपि वदान्यः स्याद्वदान्यः कृपणो यदि ॥

प्रकृतेर्विकृतिश्चेत्स्यात्तदा पंचत्वमृच्छति

॥३९॥

एतानि कालचिह्नानि संत्यन्यानि बहून्यपि ॥

ज्ञात्वाभ्यसेन्नरो योगमथवाकाशिकां श्रयेत्

॥४०॥

न कालवंचनोपायं मुनेन्यमवयाम्यहम् ॥

विना मृत्युजयं काशीनाथं गर्भावरोधकम्

॥४१॥

तावद्गर्जंति पापानि तावद्गर्जेद्यमो नृपः ॥

यावद्विश्वेशशरणं नरो न निरतो व्रजेत्

॥४२॥

प्राप्तविश्वेश्वरावासः पीतोत्तरवहापयाः ॥

स्पृष्ट विश्वेशसल्लिंगः कश्च याति न वंद्यताम्

॥४३॥

करिष्येत्कुपितःकालः किंकाशीवासिनां नृणाम् ॥

काले शिवः स्वयं कर्णे यत्र मंत्रोपदेशकः

॥४४॥

यथा प्रयाति शिशुता कौमारं च यथा गतम् ॥

सत्वरं गत्वरं तद्वद्यौवनं चापि वार्धकम

॥४५॥

यावन्नहि जराक्रांतिर्यावन्नेंद्रियवैक्लवम् ॥

तावत्सर्वं फल्गुरूपं हित्वा काशीं श्रयेत्सुधीः

॥४६॥

अन्यानि काललक्ष्माणि तिष्ठंतु कलशोद्भव ॥

जरैव प्रथमं लक्ष्म चित्रं तत्रापि भीर्नहि

॥४७॥

पराभूतो हि जरया सर्वैश्च परिभूयते ॥

हृततारुण्यमाणिक्यो धनहीनः पुमानिव

॥४८॥

सुतावाक्यं न कुर्वंति पत्नी प्रेमापि मुंचति ॥

बांधवा नैव मन्यंते जरसाश्लेषितं नरम्

॥४९॥

आश्लिष्टं जरया दृष्ट्वा परयोषिद्विशंकिता ॥

भवेत्पराङ्मुखी नित्यं प्रणयिन्यपि कामिनी

॥५०॥

न जरा सदृशो व्याधिर्न दुःखं जरया समम् ॥

कारयित्र्यपमानस्य जरैव मरणं नृणाम्

॥५१॥

न जीयते तथा कालस्तपसा योगयुक्तिभिः ॥

यथा चिरेणकालेन काशीवासाद्विजीयते

॥५२॥

विनायज्ञैर्विनादानैर्विना व्रतजपादिभिः ॥

विनातिपुण्यसंभारैः कः काशीं प्राप्तुमीहते

॥५३॥

काशीप्राप्तिरयं योगःकाथीप्राप्तिरिदं तपः ॥

काशीप्राप्तिरिदं दानं काशीप्राप्तिः शिवैकता

॥५४॥

कः कलिकोथवा कालः का जरा किं च दुष्कृतम् ॥

का रुजः केंतराया वा श्रिता वाराणसी यदि

॥५५॥

कलिस्तानेव बाधेत कालस्तांश्च जिघांसति

॥५६॥

एनांसि तांश्च बाधंते ये न काशीं समाश्रिताः ॥

काशीसमाश्रिता यैश्च यैश्च विश्वेश्वरोर्चितः ॥

तारकं ज्ञानमासाद्य ते मुक्ताः कर्मपाशतः

॥५७॥

धनिनो न तथा सौख्यं प्राप्नुवंति नराः क्वचित् ॥

यथा निधनतः काश्यां लभते सुखमव्ययम्

॥५८॥

वरं काशीसमावासी नासीनो द्युसदां पदम् ॥

दुःखांतं लभते पूर्वः सुखांतं लभते परः

॥५९॥

स्थितोपि भगवनीशो मंदरं चारुकंदरम् ॥

काशीं विना रतिं नाऽऽप दिवोदासनृपोषिताम्

॥६०॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे कालवंचनोपायोनाम द्विचत्वारिंशोध्यायः ॥ ४२ ॥