क्षेत्ररहस्यकथनम्
अगस्त्य उवाच
दृष्ट्वा भूदेवताः शंभुं किमाचख्युः षडानन ॥
कानिकानि च लिंगानि तत्र तान्यपिचक्ष्व मे
॥१॥ज्येष्ठस्थाने महापुण्ये देवदेवस्य वल्लभे ॥
आश्चर्यं किमभूत्तत्र तदाचक्ष्व षडानन
॥२॥स्कंद उवाच
शृण्वगस्त्य यथा पृच्छि भवता तद्ब्रवीम्यहम् ॥
मंदराद्रिं यदा देवो गतवान्ब्रह्मगौरवात्
॥३॥तदा निराश्रया विप्राः क्षेत्रसंन्यासिनोनघाः ॥
उपाकृताश्चाविरतं महाक्षेत्रप्रतिग्रहात्
॥४॥खातंखातं च दंडाग्रैर्भूमिं कंदादिवृत्तयः ॥
चक्रुः पुष्करिणीं रम्यां दंडखाताभिधां मुने
॥५॥तत्तीर्थं परितः स्थाप्य महालिंगान्यनेकशः ॥
महेशाराधनपरास्तपश्चक्रुः प्रयत्नतः
॥६॥विभूतिधारिणो नित्यं नित्यरुद्राक्षधारिणः ॥
लिंगपूजारता नित्यं शतरुद्रियजापिनः
॥७॥ते श्रुत्वा देवदेवस्य पुनरागमनं मुने ॥
तपःकृशा अतितरामासुरानंद मेदुराः
॥८॥द्विजाः पंचसहस्राणि चरतो विपुलं तपः ॥
दंडखातान्महातीर्थादाजग्मुर्देवदर्शने
॥९॥तीर्थान्मंदाकिनी नाम्नो द्विजाः पाशुपतव्रताः ॥
शिवैकाराधनपराः समेता अयुतोन्मिताः
॥१०॥हंसतीर्थात्परिप्राप्ता अयुतं त्रिशतोत्तरम् ॥
शतदुर्वाससस्तीर्थादेकादश शताधिकम्
॥११॥मत्स्योदर्याः परापेतुः सहस्राणि षडेव हि ॥
कपालमोचनात्सप्त शतान्यभ्यागता द्विजाः
॥१२॥ऋणमोचनतस्तीर्थात्सहस्रं द्विशताधिकम् ॥
वैतरण्या अपि मुने द्विजानामयुतार्धकम्
॥१३॥ततः पृथूदकात्कुंडात्पृथुना परिखानितात् ॥
अयासिषुर्द्विजानां च शतान्येव त्रयोदश
॥१४॥तथैवाप्सरसः कुंडान्मेनकाख्याच्छतद्वयम् ॥
उर्वशीकुंडतः प्राप्ताः सहस्रं द्विशताधिकम्
॥१५॥तथैरावतकुंडाच्च ब्राह्मणास्त्रिशतानि च ॥
गंधर्वाप्सरसः सप्त शतानि द्विशतानि च
॥१६॥वृषेशतीर्थादाजग्मुर्नवतिः सशतत्रया ॥
यक्षिणीकुंडतः प्राप्ताः सहस्रं त्रिशतोत्तरम्
॥१७॥लक्ष्मीतीर्थात्परं जग्मुः षोडशैव शतानि च ॥
पिशाचमोचनात्सप्त सहस्राणि द्विजोत्तमाः
॥१८॥पितृकुंडाच्छतंसाग्रं ध्रुवतीर्थाच्छतानि षट् ॥
मानसाख्याच्च सरसो द्विशती सशतत्रया
॥१९॥ब्राह्मणा वासुकिहृदात्सहस्राणि दशैव तु ॥
तथैवाष्टशतं द्रष्टुं जानकीकुंडतो द्विजाः
॥२०॥काशीनाथमनुप्राप्ताः परमानंददायिनम् ॥
तथा गौतमकुंडाच्च शतानिनव चागताः
॥२१॥तीर्थाद्दुर्गतिसंहर्तुर्बाह्मणाः प्रतिपेदिरे ॥
एकादशशतान्येव द्रष्टुं देवमुमापतिम्
॥२२॥असीसंभेदमारभ्य गंगातीरस्थिता द्विजाः ॥
आसंगमेश्वरात्तत्र परिप्राप्ता घटोद्भव
॥२३॥अष्टादशसहस्राणि तथा पंचशतान्यपि ॥
ब्राह्मणाः पंचपंचाशद्गंगातीरात्समागताः
॥२४॥सार्द्रदूर्वाक्षतकरैः सपुष्पफलपाणिभिः ॥
सुगंधमाल्यहस्तैश्च ब्राह्मणैर्जयवादिभिः
॥२५॥स्तुतो मंगलसूक्तैश्च प्रणतश्च पुनःपुनः ॥
तेभ्यो दत्ताभयः शंभुः पप्रच्छ कुशलं मुदा
॥२६॥ततस्ते ब्राह्मणाः प्रोचुः प्रबद्धकरसंपुटाः ॥
क्षेत्रे निवसतां नाथ सदानः कुशलोदयः
॥२७॥विशेषतः कृतोऽस्माभिः साक्षान्नयनगोचरः ॥
त्वं यत्स्वरूपं श्रुतयो न विदुः परमार्थतः
॥२८॥सदैवाकुशलं तेषां ये त्वत्क्षेत्रपराङ्मुखाः ॥
चतुर्दशापि वै लोकास्तेषां नित्यं पराङ्मुखाः
॥२९॥येषां हृदि सदैवास्ते काशीत्वाशीविषां गद ॥
संसाराशीविषविषं न तेषां प्रभवेत्क्वचित्
॥३०॥गर्भरक्षामणिर्मंत्रः काशीवर्णद्वयात्मकः ॥
यस्य कंठे सदा तिष्ठेत्तस्याकुशलता कुतः
॥३१॥सुधां पिबति यो नित्यं काशीवर्णद्वयात्मिकाम् ॥
स नैर्जरीं दशां हित्वा सुधैव परिजायते
॥३२॥श्रुतं कर्णामृतं येन काशीत्यक्षरयुग्मकम् ॥
न समाकणर्यत्येव स पुनर्गर्भजां कथाम्
॥३३॥काशी रजोपि यन्मूर्ध्नि पतेदप्यनिलाहतम् ॥
चंद्रशेखरतन्मूर्धा भवेच्चंद्रकलांकितः
॥३४॥प्रसंगतोपि यन्नेत्रपथमानंदकाननम् ॥
यातं तेत्र न जायंते नेक्षेरन्पितृकान(व?)नम्
॥३५॥गच्छता तिष्ठता वापि स्वपता जाग्रताथवा ॥
काशीत्येष महामंत्रो येन जप्तः सनिर्भयः
॥३६॥येन बीजाक्षरयुगं काशीति हृदि धारितम् ॥
अबीजानि भवंत्येव कर्मबीजानि तस्य वै
॥३७॥काशी काशीति काशीति जपतो यस्य संस्थितिः ॥
अन्यत्रापि सतस्तस्य पुरो मुक्तिः प्रकाशते
॥३८॥क्षेममूर्तिरियं काशी क्षेममूर्तिर्भवान्भव ॥
क्षेममूर्तिस्त्रिपथगा नान्यत्क्षेमत्रयं क्वचित्
॥३९॥ब्राह्मणानामिति वचः क्षेत्रभक्तिविबृंहितम् ॥
निशम्य गिरिजाकांतस्तुतोष नितरां हरः
॥४०॥प्रोवाच च प्रसन्नात्मा धन्या यूयं द्विजर्षभाः ॥
येषामिहेदृशी भक्तिर्मम क्षेत्रेतिपावने
॥४१॥जाने सत्त्वमया जाताः क्षेत्रस्यास्य निषेवणात् ॥
नीरजस्का वितमसः संसारार्णवपारगाः
॥४२॥वाराणस्यास्तु ये भक्तास्ते भक्ता मम निश्चितम् ॥
जीवन्मुक्ता हि ते नूनं मोक्षलक्ष्म्या कटाक्षिताः
॥४३॥यैश्च काशीस्थितो जंतुरल्पकोपि विरोधितः ॥
तैर्वै विश्वंभरा सर्वा मया सह विरोधिता
॥४४॥वाराणस्याः स्तुतिमपि यो निशम्यानुमोदते ॥
अपि ब्रह्मांडमखिलं ध्रुवं तेनानुमोदितम्
॥४५॥निवसंति हि ये मर्त्या अस्मिन्नानंदकानने ॥
ममांतःकरणे ते वै निवसेयुरकल्मषाः
॥४६॥निवसंति मम क्षेत्रे मम भक्तिं प्रकुर्वते ॥
मम लिंगधरा ये तु तानेवोपदिशाम्यहम्
॥४७॥निवसंति मम क्षेत्रे मम भक्तिं न कुर्वते ॥
मम लिंगधरा ये नो न तानुपदिशाम्यहम्
॥४८॥काशी निर्वाणनगरी येषां चित्ते प्रकाशते ॥
ते मत्पुरः प्रकाशंते नैःश्रेयस्या श्रिया वृताः
॥४९॥मोक्षलक्ष्मीरियं काशी न येभ्यः परिरोचते ॥
स्वर्लक्ष्मीं कांक्षमाणेभ्यः पतितास्ते न संशयः
॥५०॥काथीं संकाक्षमाणानां पुरुषार्थचतुष्टयम् ॥
पुरः किंकरवत्तिष्ठेन्ममानुग्रहतो द्विजाः
॥५१॥आनंदकानने ह्यत्र ज्वलद्दावानलोस्म्यहम् ॥
कर्मबीजानि जंतूनां ज्वालये न प्ररोहये
॥५२॥वस्तव्यं सततं काश्यां यष्टव्योहं प्रयत्नतः ॥
जेतव्यौ कलिकालौ च रंतव्या मुक्तिरंगना
॥५३॥प्राप्यापि काशीं दुर्बुद्धिर्यो न मां परिसेवते ॥
तस्य हस्तगताप्याशु कैवल्यश्रीः प्रणश्यति
॥५४॥धन्या मद्भक्तिलक्ष्माणो ब्राह्मणाः काशिवासिनः ॥
यूयं यच्चेतसो वृत्तेर्न दूरेहं न काशिका
॥५५॥दातव्यो वो वरः कोत्र व्रियतां मे यथारुचि ॥
प्रेयांसो मे यतो यूयं क्षेत्रसंन्यासकारिणः
॥५६॥इति पीत्वा महेशानमुखक्षीराब्धिजां सुधाम् ॥
परितृप्ता द्विजाः सर्वे वव्रुर्वरमनुत्तमम्
॥५७॥ब्राह्मणा ऊचुः
उमापते महेशान सर्वज्ञ वर एष नः ॥
काशी कदापि न त्याज्या भवता भवतापहृत्
॥५८॥वचनाद्ब्राह्मणानां तु शापो मा प्रभवत्विह ॥
कदाचिदपि केषांचित्काश्यां मोक्षांतरायकः
॥५९॥तव पादाबुंजद्वंद्वे निर्द्वंद्वा भक्तिरस्तु नः ॥
आ कलेवरपातं च काशीवासोस्तु नोनिशम्
॥६०॥किमन्येन वरेणेश देय एष वरो हि नः ॥
अवधेह्यंधकध्वंसिन्वरमन्यं वृणीमहे
॥६१॥तव प्रतिनिधी कृत्यास्माभिस्त्वद्भक्तिभावितैः ॥
प्रतिष्ठितेषु लिंगेषु सान्निध्यं भवतोऽस्त्विह
॥६२॥श्रुत्वेति तेषां वाक्यानि तथास्त्विति पिनाकिना ॥
प्रोचेऽन्योपि वरो दत्तो ज्ञानं वश्च भविष्यति
॥६३॥पुनः प्रोवाच देवेशो निशामयत भो द्विजाः ॥
हितं वः कथयाम्यत्र तदनुष्ठीयतां ध्रुवम्
॥६४॥सेव्योत्तरवहा नित्यं लिंगमर्च्यं प्रयत्नतः ॥
दमो दानं दया नित्यं कर्तव्यं मुक्तिकांक्षिभिः
॥६५॥इदमेव रहस्यं च कथितं क्षेत्रवासिनाम् ॥
मतिः परहिता कार्या वाच्यं नोद्वेगकृद्वचः
॥६६॥मनसापि न कर्तव्यमेनोत्र विजिगीषुणा ॥
अत्रत्यमक्षयं यस्मात्सुकृतं सुकृतेतरम्
॥६७॥अन्यत्र यत्कृतं पापं तत्काश्यां परिणश्यति ॥
वाराणस्यां कृतं पापमंतर्गेहे प्रणश्यति
॥६८॥अंतर्गेहे कृतं पापं पैशाच्यनरकावहम् ॥
पिशाचनरकप्राप्तिर्गच्छत्येव बहिर्यदि
॥६९॥न कल्पकोटिभिः काश्यां कृतं कर्म प्रमृज्यते ॥
किंतु रुद्रपिशाचत्वं जायतेऽत्रायुतत्रयम्. ॥
वाराणस्यां स्थितो यो वै पातकेषु रतः सदा ॥
योनिं प्राप्यापि पैशाचीं वर्षाणामयुतत्रयम्
॥७१॥पुनरत्रैव निवसञ्ज्ञानं प्राप्स्यत्यनुत्तमम् ॥
तेन ज्ञानेथ संप्राप्ते(?) मोक्षमाप्स्यत्यनुत्तमम्
॥७२॥(संप्रांते) दुष्कृतानि विधायेह बहिः पंचत्वमागताः ॥
तेषां गतिं प्रवक्ष्यामि शृणुत द्विजसत्तमाः
॥७३॥यामाख्या मे गणाः संति घोरा विकृतमूर्त्तयः ॥
मूषायां ते धमंत्यादौ क्षेत्रदुष्कृतकारिणः
॥७४॥नयंत्यनूपप्रायां च ततः प्राचीं दुरासदाम् ॥
वर्षाकाले दुराचारान्पातयंति महाजले
॥७५॥जलौकाभिः सपक्षाभिर्दंदशूकैर्जलोद्भवैः ॥
दुर्निवारैश्च मशकैर्दश्यंते ते दिवानिशम्
॥७६॥ततो यामैर्हिमर्तौ ते नीयंतेऽद्रौ हिमालये ॥
अशनावरणैर्हीनाः क्लेश्यंते ते दिवानिशम्
॥७७॥मरुस्थले ततो ग्रीष्मे वारिवृक्षविवर्जिते ॥
दिवाकरकरैस्तीव्रैस्ताप्यंते ते पिपासिताः
॥७८॥क्लेशितास्ते गणैरुग्रैर्यातनाभिः समंततः ॥
इत्थं कालमसंख्यातमानीयंते ततस्त्विह
॥७९॥निवेदयंति ते यामाः कालराजांतिके ततः ॥
कालराजोपि तान्द्रष्ट्वा कर्मसंस्मार्य दुष्कृतम्
॥८०॥विवस्त्रान्क्षुत्तृषार्तांश्च लग्नपृष्ठोदरत्वचः ॥
अन्यै रुद्रपिशाचैश्च सहसंयोजयत्यपि
॥८१॥ततो रुद्रपिशाचास्ते भैरवानुचराः सदा ॥
सहंते क्लममत्यर्थं क्षुत्तृष्णोग्रत्वसंभवम्
॥८२॥आहारं रुधिरोन्मिश्रं ते लभंते कदाचन ॥
एवं त्र्ययुतसंख्याकं कालं तत्रातिदुःखिताः
॥८३॥श्मशानस्तंभमभितो नीयंते कंठपाशिताः ॥
पिपासिता अपि न तेंऽबुस्पर्शमपि चाप्नुयुः
॥८४॥अथ संक्षीणपापास्ते कालभैरवदर्शनात् ॥
इहैव देहिनो भूत्वा मुच्यंते ते ममाज्ञया
॥८५॥तस्मान्न कामयेतात्र वाङ्मनःकर्मणाप्यघह(?)म् ॥
शुचौ पथि सदा स्थेयं महालाभमभीप्सुभिः
॥८६॥नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी ॥
ममानुग्रहमासाद्य गच्छत्येव परां गतिम्
॥८७॥अनाशनं यः कुरुते मद्भक्त इह सुव्रतः ॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि
॥८८॥अशाश्वतमिदं ज्ञात्वा मानुष्यं बहुकिल्विषम् ॥
अविमुक्तं सदा सेव्यं संसारभयमोचकम्
॥८९॥नान्यत्पश्यामि जंतूनां मुक्त्वा वाराणसीं पुरीम् ॥
सर्वपापप्रशमनीं प्रायश्चित्तं कलौ युगे
॥९०॥जन्मांतरसहस्रेषु यत्पापं समुपार्जितम् ॥
अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम्
॥९१॥जन्मांतरसहस्रेषु युंजन्योगी यदाप्नुयात् ॥
तदिहैव परो मोक्षो मरणादधि गम्यते
॥९२॥तिर्यग्योनिगताः सत्त्वा ये विमुक्तकृतालयाः ॥
कालेन निधनं प्राप्तास्तेपि यांति परां गतिम्
॥९३॥अविमुक्तं न सेवंते ये मूढास्तमसावृताः ॥
विण्मूत्ररेतसां मध्ये ते वसंति पुनः पुनः
॥९४॥अविमुक्तं समासाद्य यो लिंगं स्थापयेत्सुधीः ॥
कल्पकोटिशतैर्वापि नास्ति तस्य पुनर्भवः
॥९५॥ग्रहनक्षत्रताराणां कालेन पतनं ध्रुवम् ॥
अविमुक्ते मृतानां तु पतनं नैव विद्यते
॥९६॥ब्रह्महत्यां नरः कृत्वा पश्चात्संयतमानसः ॥
प्राणांस्त्यजति यः काश्यां स मुक्तो नात्र संशयः
॥९७॥स्त्रियः पतिव्रता याश्च मम भक्तिसमाहिताः ॥
अविमुक्ते मृता विप्रा यांति ताः परमां गतिम्
॥९८॥अत्रोत्क्रमणकालेहं स्वयमेव द्विजोत्तमाः ॥
दिशामि तारकं ब्रह्म देही स्याद्येन तन्मयः
॥९९॥मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः ॥
यथा मोक्षमिहाप्नोति न तथान्यत्रकुत्रचित्
॥१००॥मरणं निश्चितं ज्ञात्वा गतिं चासुखरूपिणीम् ॥
चलमागंतुकं सर्वं ततः काशीं समाश्रयेत्
॥१॥काशी समाश्रिता यैस्तु मनोवाक्कायकर्मभिः ॥
तानत्र निर्मलधियो निवार्णश्रीः समाश्रयेत्
॥२॥काशीस्थितैकमपि यः प्रीणयेन्न्यायजैर्धनैः ॥
तेन त्रैलोक्यमखिलं प्रीणितं तु मया सह
॥३॥यः प्रीणयति पुण्यात्मा निर्वाणनगरी नरम् ॥
पुमर्थेन स्थितेर्नित्यं ब्राह्मणाः प्रीणयामि तम्
॥४॥दिवोदासोपि राजर्षिः काशीं धर्मेण पालयन् ॥
सदेहो मत्पदं प्राप्तो यतो न पुनरागतिः
॥५॥अत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना ॥
अतो विमुक्तमासाद्य नान्यद्गच्छेत्तपोवनम्
॥६॥मोक्षं सुदुर्लभं ज्ञात्वा संसारं चातिभीषणम् ॥
अश्मना चरणौ हत्वा कालमत्र प्रतीक्षयेत्
॥७॥अविमुक्तं परित्यज्य यदा यास्यंति दुर्धियः ॥
हसिष्यंति तदा भूतान्यन्योन्यकरताडनैः
॥८॥प्राप्य वाराणसीं पुण्यां सिद्धिक्षेत्रमनुत्तमम् ॥
परिनिष्क्रांतुमन्यत्र कस्य जंतोर्मतिर्भवेत्
॥९॥महादानेन चान्यत्र यत्फलं लभ्यते नरैः ॥
अविमुक्ते तु काकिण्यां दत्तायां तदवाप्यते
॥११०॥एकं समर्चयेल्लिंगं तपस्तप्येत चापरः ॥
तयोर्मध्ये तु स श्रेष्ठो यो लिंगं पूजयेदिह
॥११॥तीर्थांतरे गवां कोटिं विधिवद्यः प्रयच्छति ॥
एकाहं यो वसेत्काश्यां काशीवासी तयोर्वरः
॥१२॥अन्यत्र ब्राह्मणानां तु कोटिं संभोज्य यत्फलम् ॥
वाराणस्यां तु चैकेन भोजितेन तदाप्यते
॥१३॥सन्निहत्यां कुरुक्षेत्रे राहुग्रस्ते दिवाकरे ॥
तुलापुरुषदानेन काशीभिक्षा समा भवेत्
॥१४॥ममेह परमं ज्योतिरापातालाद्व्यवस्थितम् ॥
अतीत्य सप्तलोकादीननंतं लिंगरूपधृक्
॥१५॥पृथिव्यंतेपि ये लिंगमविमुक्तं स्मरंति मे ॥
कलुषैस्ते विमुच्यंते महद्भिरिति निश्चितम्
॥१६॥अस्मिन्क्षेत्रे तु ये नाहं दृष्टः स्पृष्टः समर्चितः ॥
संप्राप्य तारकं ज्ञानं न स भूयोभिजायते
॥१७॥यो मामिह समभ्यर्च्य म्रियतेन्यत्रकुत्रचित् ॥
जन्मांतरेपि मां प्राप्य स विमुक्तो भविष्यति
॥१८॥इत्युक्त्वा क्षेत्रमाहात्म्यं द्विजानामग्रतो हरः ॥
पश्यतामेव तेषां तु तत्रैवांतर्हितोभवत्
॥१९॥तेपि साक्षाद्विरूपाक्षं प्रत्यक्षीकृत्य वाडवाः ॥
प्रहृष्टमनसोऽत्यंतं प्रययुः स्वस्वमाश्रयम्
॥१२०॥शंभोर्वाक्यं विनिश्चित्य सर्वज्ञस्य कृपानिधेः ॥
त्यक्त्वा कार्यांतरं विप्रा लिंगान्येव समर्चिषुः
॥२१॥स्कंद उवाच
पठित्वा पाठयित्वा च रहस्याख्यानमुत्तमम् ॥
श्रद्धालुः पातकैर्मुक्तः शिवलोके महीयते
॥१२२॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्द्धे क्षेत्ररहस्यकथनंनाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥