मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — काशीखण्डः, अध्याय ८४

3
काशीखण्डः · 84

वीरेश्वराख्यानम्

स्कंद उवाच

आकर्णय क्षोणिसुर यथा स्थाणुरचीकरत् ॥

गंगावरणयोः पुण्यात्संभेदात्तीर्थभूमिकाम्

॥१॥

संगमे तत्र निष्णातः संगमेशं समर्च्य च ॥

नरो न जातु जननी गर्भसंगमवाप्नुयात्

॥२॥

तत्र पादोदकं तीर्थं यत्र देवेन शार्ङ्गिणा ॥

आदौ पादौ क्षलितौ तु मंदराच्चागतेन यत्

॥३॥

विप्णुपादोदके तीर्थे वारिकार्यं करोति यः ॥

व्यतीपातेन नियतं भूयः सांसारिकी गतिः

॥४॥

कृतपादोदक स्नानः कृतकेशवपूजनः ॥

वीतसंसारवसतिः काश्यामासीन्नरोत्तमः

॥५॥

काश्यां सा भूमिरुद्दिष्टा श्वेतद्वीप इति द्विजैः ॥

तत्र पुण्यार्जनं कृत्वा श्वेतद्वीपाधिपो भवेत्

॥६॥

ततः पादोदकात्तीर्थात्तीर्थं क्षीराब्धिसंज्ञकम् ॥

तत्रार्जित महापुण्यो वसेत्क्षीराब्धिरोधसि

॥७॥

क्षीरोदाद्दक्षिणेभागे तीर्थं शंखाख्यनुत्तमम् ॥

तत्र स्नातो भवेन्नूनं नाशंखादिनिधेः पतिः

॥८॥

अर्वाक्च शंखतीर्थाद्वै चक्रतीर्थमनुत्तमम् ॥

संसारचक्रे न पतेत्तत्तीर्थजलमज्जनात्

॥९॥

गदातीर्थं तदग्रे तु संसारगदनाशनम् ॥

तत्र श्राद्धादिकरणात्पश्येद्देवं गदाधरम्

॥१०॥

पद्माकृत्पद्मतीर्थं च तदग्रे पितृतृप्तिकृत् ॥

तत्र स्नानादिकरणात्प्राप्नुयादघसंक्षयम्

॥११॥

ततस्तीर्थं महालक्ष्म्या महापुण्यफलप्रदम् ॥

तत्राभ्यर्च्य महालक्ष्मीं निर्वाणकमलां लभेत्

॥१२॥

ततो गारुत्मतं तीर्थं संसारगरनाशनम् ॥

कृतोदकक्रियस्तत्र वैकुंठे वसतिं लभेत्

॥१३॥

ततो नारदतीर्थं च ब्रह्मविद्यैककारणम् ॥

तत्र स्नानेन मुक्तः स्याद्दृष्ट्वा नारदकेशवम्

॥१४॥

प्रह्लादतीर्थं तद्याम्ये महाभक्तिफलप्रदम् ॥

तत्र वै स्नानमात्रेण विष्णोः प्रियतरो भवेत्

॥१५॥

अंबरीषं ततस्तीर्थं महापातकनाशनम् ॥

तत्र वै शुभकर्माणो जना नो गर्भभाजनम्

॥१६॥

आदित्यकेशवं नाम तदग्रे तीर्थमुत्तमम् ॥

कृताभिषेकस्तत्रापि लभेत्स्वर्गाभिषेचनम्

॥१७॥

दत्तात्रेयस्य तत्रास्ति तीर्थं त्रैलोक्यपावनम् ॥

योगसिद्धिं लभे तत्र स्नानमात्रेण भावतः

॥१८॥

तदग्रे भार्गवं तीर्थं महाज्ञानसमर्पकम् ॥

तत्र स्नानविधानेन भवेद्भार्गव लोकभाक्

॥१९॥

ततो वामनतीर्थं च विष्णुसान्निध्यहेतुकम् ॥

तत्र श्राद्धविधानेन मुच्यते पितृजादृणात्

॥२०॥

नरनारायणाख्यं हि ततस्तीर्थं शुभप्रदम् ॥

तत्तीर्थमज्जनात्पुंसां गर्भवासः सुदुर्लभः

॥२१॥

यज्ञवाराहतीर्थं च ततो दक्षिणतः शुभम् ॥

यत्र स्नातस्य वै पुंसां राजसूयफलं ध्रुवम्

॥२२॥

विदारनारसिंहाख्यं तीर्थं तत्रास्ति पावनम् ॥

यत्रैकस्नानतो नश्येदघ जन्मशतार्जितम्

॥२३॥

गोपीगोविंदतीर्थं च ततो वैष्णवलोकदम् ॥

यस्मिन्स्नातो नरो विद्वान्न विंद्याद्गर्भवेदनम्

॥२४॥

लक्ष्मीनृसिंहतीर्थं च गोपीगोविंद दक्षिणे ॥

निर्वाणलक्ष्म्या यत्रत्यो व्रियते तु नरोत्तमः

॥२५॥

तद्दक्षिणायां काष्ठायां शेषतीर्थमनुत्तमम् ॥

महापापौघ शेषोपि न तिष्ठेद्यन्निमज्जनात्

॥२६॥

शंखमाधवतीर्थं च तद्याम्यां दिशि चोत्तमम् ॥

तत्तीर्थसेवनान्नृणां कुतः पापभयं महत्

॥२७॥

ततोपि पावनतरं तीर्थं तत्क्षणसिद्धिदम् ॥

नीलग्रीवाख्यमतुलं तत्स्नायी सर्वदा शुचिः

॥२८॥

तत्रोद्दालकतीर्थं च सर्वाघौघ विनाशनम् ॥

ददाति महतीमृद्धिं स्नानमात्रेण तन्नृणाम्

॥२९॥

ततः सांख्याख्य तीर्थं च सांख्येश्वर समीपतः ॥

तत्तीर्थसेवनात्पुंसां सांख्ययोगः प्रसीदति

॥३०॥

स्वर्लोकाद्यत्र संलीनः स्वयं देव उमापतिः ॥

अतः स्वर्लीनतीर्थं च स्वर्लीनेश्वर सन्निधौ

॥३१॥

तत्र स्नानेन दानेन श्रद्धया द्विजभोजनैः ॥

जपहोमार्चनैः पुंसामक्षयं सर्वमेव हि

॥३२॥

महिषासुरतीर्थं च तत्समीपेति पावनम् ॥

यत्र तप्त्वा स दैत्येंद्रो विजिग्ये सकलान्सुरान्

॥३३॥

तत्तीर्थसेवकोद्यापि नारिभिः परिभूयते ॥

न पातकैर्महद्भिश्च प्रार्थितं च फलं लभेत्

॥३४॥

बाणतीर्थं च तस्यारात्तत्सहस्रभुजप्रदम् ॥

तत्र स्नातो नरो भक्तिं प्राप्नुयाच्छांभवीं स्थिराम्

॥३५॥

गोप्रतारेश्वरं नाम तदग्रे तीर्थमुत्तमम् ॥

अपुत्रोपि तरेद्यत्र स्नातो वैतरणीं सुखम्

॥३६॥

तीर्थं हिरण्यगर्भाख्यं तद्याम्ये सर्वपापहृत् ॥

तत्र स्नातो हिरण्येन मुच्यते न कदाचन

॥३७॥

ततः प्रणवतीर्थं च सर्वतीर्थोत्तमोत्तमम् ॥

जीवन्मुक्तो भवेत्तत्र स्नानमात्रेण मानवः

॥३८॥

ततः पिशंगिला तीर्थं दर्शनादपि पापहृत् ॥

मुने ममाधिष्ठानं वै तदगस्तेऽति सिद्धिदम्

॥३९॥

स्नात्वा पिशंगिला तीर्थे दत्त्वा दानं च किंचन ॥

किं शोचति कृतात्पापादन्यत्रापि मृतो यदि

॥४०॥

यो वै पिशंगिला तीर्थे स्नात्वा मामर्चयिष्यति ॥

भविष्यति स मे मित्त्रं मित्रतेजः समप्रभम्

॥४१॥

ततस्त्रैविष्टपीदृष्टि निर्मलीकृत पुष्कलम् ॥

तीर्थं पिलिपिलाख्यं वै मनोमलविनाशनम्

॥४२॥

तत्र श्राद्धादिकरणाद्दीनानाथ प्रतर्पणात् ॥

महतीं श्रियमाप्नोति मानवोतीव निश्चलाम्

॥४३॥

ततो नागेश्वरं तीर्थं महाघपरिशोधनम् ॥

तत्तीर्थमज्जनादेव भवेत्सर्वाघसंक्षयः

॥४४॥

तद्दक्षिणे महापुण्यं कर्णादित्याख्यमुत्तमम् ॥

तीर्थं यत्राप्लुतो मर्त्यो भास्करीं श्रियमावहेत्

॥४५॥

ततो भैरवतीर्थं च महाघौघक्षयप्रदम् ॥

चतुरर्थोदयकरं सर्वविघ्ननिवारणम्

॥४६॥

भौमाष्टम्यां तत्र नरः स्नात्वा संतर्पयेत्पितॄन् ॥

दृष्ट्वा च भैरवं कालं कलिं कालं च संजयेत्

॥४७॥

तीर्थं खर्वनृसिंहाख्यं तीर्थाद्भरवतः पुरः ॥

तत्र स्नातस्य वै पुंसः कुतोघजनितं भयम्

॥४८॥

मृकंडस्य मुनेस्तीर्थं तद्याम्यामतिनिर्मलम ॥

तत्र स्नानेन मर्त्यानां नापायमरणं क्वचित्

॥४९॥

ततः पंचनदाख्यं वै सर्वतीर्थनिषेवितम् ॥

तीर्थं यत्र नरः स्नात्वा न संसारी पुनर्भवेत्

॥५०॥

ब्रह्मांडोदरवर्तीनि यानि तीर्थानि सर्वतः ॥

ऊर्जे यत्र समायांति स्वाघौघ परिनुत्तये

॥५१॥

सर्वदा यत्र सर्वाणि दशम्यादिदिनत्रयम् ॥

तिष्ठंति तीर्थवर्याणि निजनैर्मल्यहेतवे

॥५२॥

भूरिशः सर्वतीर्थानि मध्य काशि पदेपदे ॥

परं पांचनदः कैश्चिन्महिमानापि कुत्रचित्

॥५३॥

अप्येकं कार्तिकस्याहस्तत्र वै सफलीकृतम् ॥

जपहोमार्चनादानैः कृतकृत्यास्त एव हि

॥५४॥

सर्वाण्यपि च तीर्थानि युगपत्तुलितान्यपि ॥

नाधिजन्मुः पंचनद्याः कलाया अपि तुल्यताम्

॥५५॥

स्नात्वा पांचनदे तीर्थे दृष्ट्वा वै बिंदुमाधवम् ॥

न जातु जायते धीमाञ्जननी जठराजिरे

॥५६॥

ततो ज्ञानहदं तीर्थं जडानामपि जाड्यहृत् ॥

तत्र स्नातो नरो जातु ज्ञानभ्रंशं न चाप्नुयात्

॥५७॥

तत्र ज्ञानह्रदे स्नात्वा दृष्ट्वा ज्ञानेश्वरं नरः ॥

ज्ञानं तदधिगच्छेद्वै येन नो बाध्यते पुनः

॥५८॥

ततोस्ति मंगलं तीर्थं सर्वामंगलनाशनम् ॥

तत्रावगाहनं कृत्वा भवेन्मंगलभाजनम्

॥५९॥

अमंगलानि नश्येयुर्भवेयुर्मंगलानि च ॥

स्नातुर्वै मंगले तीर्थे नमस्कर्तुश्च मंगलम्

॥६०॥

मयूखमालिनस्तीर्थं तदग्रे मलनाशनम् ॥

तत्राप्लुतो गभस्तीशं विलोक्य विमलो भवेत्

॥६१॥

मखतीर्थं तु तत्रैव मखैश्वर समीपतः ॥

मखजं पुण्यमाप्नोति तत्र स्नातो नरोत्तमः

॥६२॥

तत्पार्श्वे बिंदुतीर्थं च परमज्ञानकारणम् ॥

तत्र श्राद्धादिकं कृत्वा लभेत्सुकृतमुत्तमम्

॥६३॥

पिप्पलादस्य च मुनेस्तीर्थं तद्याम्यदिक्स्थितम् ॥

स्नात्वा शनेर्दिने तत्र दृष्ट्वावै पिप्पलेश्वरम्

॥६४॥

पिप्पलं तत्र सेवित्वा अश्वत्थ इति मंत्रतः ॥

शनिपीडां न लभते दुःस्वप्नं चापि नाशयेत्

॥६५॥

ततस्ताम्रवराहाख्यं तीर्थं चैवातिपावनम् ॥

यत्र स्नानेन दानेन न मज्जेदघसागरे

॥६६॥

तदग्रे कालगंगा च कलिकल्मषनाशिनी ॥

तस्यां स्नात्वा नरो धीमांस्तत्क्षणान्निरघो भवेत्

॥६७॥

इंद्रद्युम्नं महातीर्थमिंद्रद्युम्नेश्वराग्रतः ॥

तोयकृत्यं तत्र कृत्वा लोकमैंद्रमवाप्नुयात

॥६८॥

ततस्तु रामतीर्थं च वीररामेश्वराग्रतः ॥

तत्तीर्थस्नानमात्रेण वैष्णवं लोकमाप्नुयात्

॥६९॥

तत ऐक्ष्वाकवं तीर्थं सर्वाघौघविनाशनम् ॥

तत्र स्नानेन पूतात्मा जायते मनुजोत्तमः

॥७०॥

मरुत्ततीर्थं तत्प्रांते मरुत्तेश्वरसन्निधो ॥

तत्र स्नात्वा तमर्च्येशं महदैश्वर्यमाप्नुयात्

॥७१॥

मैत्रावरुणतीर्थं च ततः पातकनाशनम् ॥

तत्र पिंडप्रदानेन पितॄणां भवति प्रियः

॥७२॥

ततोग्नितीर्थविमलमग्नीश पुरतो महत् ॥

अग्निलोकमवाप्नोति तत्तीर्थपरिमज्जनात्

॥७३॥

अंगारतीर्थं तत्रैव अंगारेश्वरसन्निधौ ॥

तत्रांगार चतुर्थ्यां नु स्नात्वा निष्पापतामियात्

॥७४॥

ततो वै कलितीर्थं च कलशेश्वरसन्निधौ ॥

स्नात्वा तल्लिंगमभ्यर्च्य कलिकालान्न बिभ्यति

॥७५॥

चंद्रतीर्थं च तत्रैव चंद्रेश्वरसमीपतः ॥

तत्र स्नात्वार्च्य चंद्रेशं चंद्रलोकमवाप्नुयात्

॥७६॥

तदग्रे वीरतीर्थं च वीरेश्वर समीपतः ॥

यदुक्तं प्राक्तवपुरस्तीर्थानामुत्तमं परम्

॥७७॥

विघ्नेशतीर्थं च ततः सर्वविघ्नविघातकृत् ॥

जातुचित्तत्र संस्नातो न विघ्नैरभिभूयते

॥७८॥

हरिश्चंद्रस्य राजर्षस्ततस्तीर्थमनुत्तमम् ॥

यत्र स्नातो नरो जातु न सत्याच्चयवते कचित्

॥७९॥

हरिश्चंद्रस्य तीर्थे तु यच्छ्रेयः समुपार्जितम् ॥

तदक्षयफलं वीर इह लोके परत्र च

॥८०॥

ततः पर्वततीर्थं च पर्वतेश समीपतः ॥

सर्वपर्वफलं तस्य स्नात्वा पर्वण्यपर्वणि

॥८१॥

कंबलाश्वतरं तीर्थं तत्र सर्वविषापहम् ॥

तत्र स्नातो भवेन्मर्त्यो गीतविद्याविशारदः

॥८२॥

ततः सारस्वतं तीर्थं सर्वविद्योपपादकम् ॥

तिष्ठेयुः पितरस्तत्र सह देवर्षिमानवैः

॥८३॥

उमातीर्थं तु तत्रैव सर्वशक्तिसमन्वितम् ॥

औमेयलोकप्राप्त्यै स्यात्स्नानमात्रेण निश्चितम्

॥८४॥

ततस्त्रिलोकी विख्यातं त्रिलोक्युद्धरणक्षमम् ॥

तीर्थं श्रेष्ठतरं वीर यदाख्या मणिकर्णिका

॥८५॥

चक्रपुष्करिणीतीर्थं तदादौ विष्णुना कृतम् ॥

तदाख्या कर्णनादेव सर्वैः पापैः प्रमुच्यते

॥८६॥

स्वर्गौकसस्त्रिसंध्यं वै जपंति मणिकर्णिकाम् ॥

यन्नामग्रहणं पुंसां श्रेयसं परमाय हि

॥८७॥

यैः श्रुता यैः स्मृता वीर यैर्दृष्टा मणिकर्णिका ॥

त एव कृतिनो लोके कृतकृत्यास्त एव हि

॥८८॥

त्रिलोके ये जपंतीह मानवा मणिकर्णिकाम् ॥

जपामि तानहं वीर त्रिकालं पुण्यकर्मणः

॥८९॥

इष्टं तेन महायज्ञैः सहस्रशतदक्षिणैः ॥

पंचाक्षरी महाविद्या येनोक्ता मणिकर्णिका

॥९०॥

महादानानि दत्तानि तेन वै पुण्यकर्मणा ॥

येनाहमर्चितो वीर संप्राप्य मणिकर्णिकाम्

॥९१॥

मणिकर्ण्यंबुभिर्येन तर्पिताः प्रपितामहाः ॥

तेन श्राद्धानि दत्तानि गयायां मधुपायसैः

॥९२॥

मणिकर्णीजलं येन संपीतं शुद्धबुद्धिना ॥

किं तस्य सोमपानैस्तैः पुनरावृत्तिलक्षणैः

॥९३॥

ते स्नाताः सर्वतीर्थेषु महापर्वसुभूरिशः ॥

तथा च सर्वावभृथैर्यैः स्नाता मणिकर्णिका

॥९४॥

तैः सुराः पूजिताः सर्वे ब्रह्मविष्णुमुखा मखैः ॥

यैः स्वर्णकुसुमैरत्नैरर्चिता मणिकर्णिका

॥९५॥

अहं तेनोमया सार्धं दीक्षां संप्राप्य शांभवीम् ॥

अर्चितः प्रत्यहं येन पूजिता णिकर्णिका

॥९६॥

तपांसि तेन तप्तानि शीर्णपर्णादिना चिरम् ॥

सेविता श्रद्धया येन श्रीमती मणिकर्णिका

॥९७॥

दत्त्वा दानानि भूरीणि मखानिष्ट्वा तु भूरिशः ॥

चिरं तप्त्वाप्यरण्येषु स्वर्गैश्वर्यान्महीं पुनः

॥९८॥

विपुलेत्र महीपृष्ठे पंचक्रोश्यां मनोहरा ॥

संश्रिता मणिकर्णीयैस्ते याताश्चानिवर्तकाः

॥९९॥

दानानां च व्रतानां च क्रतूनां तपसामपि ॥

इदमेव फलं मन्ये यदाप्या मणिकर्णिका

॥१००॥

मोक्षलक्ष्मीरियं साक्षाच्छ्रीमती मणिकर्णिका ॥

प्रायोस्या महिमानं वै नवेद्म्यहमपि स्फुटम्

॥१॥

अवाच्यां मणिकर्ण्याश्च तीर्थं पाशुपतं परम् ॥

तीर्थं तु रुद्रवासाख्यं विश्वतीर्थमतः परम्

॥२॥

मुक्तितीर्थं ततो रम्यमविमुक्तमथोत्तमम् ॥

तीर्थं च तारकं स्कांदं ढुंढेस्तीर्थं ततोपि च

॥३॥

भवानेयमथैशानं ज्ञानतीर्थमथोत्तमम् ॥

नंदितीर्थं विष्णुतीर्थं तीर्थं पैतामहं ततः

॥४॥

नाभितीर्थमिदं चैव ब्रह्मनालमतः परम् ॥

ततो भागीरथं तीर्थं यत्तवाग्रे पुराकथि

॥५॥

तीर्थात्युत्तरवाहिन्यां स्वर्धुन्यां काशिसन्निधौ ॥

संत्यनेकानि पुण्यानि मयोक्तान्यल्पशः पुनः

॥६॥

तत्रापि नितरां श्रेष्ठा पंचतीर्थी(?) नृपांगज ॥

यस्यां स्तात्वा नरो भूयो गर्भवासं न संस्मरेत्

॥७॥

प्रथमं चासिसंभेदं तीर्थानां प्रवरं परम् ॥

ततो दशाश्वमेधाख्यं सर्वतीर्थनिषेवितम्

॥८॥

ततः पादोदकं तीर्थमादिकेशवसन्निधौ ॥

ततः पंचनदं पुण्यं स्नानमात्रादघौघहृत्

॥९॥

एतेषामपि तीर्थानां चतुर्णामपि सत्तम ॥

पंचमं मणिकर्ण्याख्यं मनावेयवशुद्धिदम्

॥११०॥

अहं स्नाम्यत्र सततमुमया सह पर्वसु ॥

ब्रह्मणा विष्णुना सार्धं सहेंद्रादिसुरर्षिभिः

॥११॥

अतएवात्र गीयेत गाथेयं श्रुतिसंमता ॥

नागलोककृतावासैः स्वर्गौकोभिश्च संततम्

॥१२॥

सत्यं सत्यं पुनः सत्यं सत्यपूर्वमिदं वचः ॥

मणिकर्णी समं तीर्थं नास्ति ब्रह्मांडगोलके

॥१३॥

पंचतीर्थ्यां नरः स्नात्वा न देहं पांचभौतिकम् ॥

गृह्णाति जातुचित्काश्यां पंचास्योवाथ जायते

॥१४॥

इति दत्त्वा वरान्देवो वीरस्यांतर्दधे हरः ॥

स च वीरोपि वीरेशं प्रार्च्य प्राप्तः समीहितम्

॥१५॥

स्कंद उवाच

तीर्थाध्यायमिमं पुण्यमगस्ते यो निशामयेत् ॥

तस्याघसंक्षयं यायादपि जन्मशतार्जितम्

॥१६॥

इति वीरेश्वराख्यानं तीर्थाख्यानप्रसंगतः ॥

कथितं ते पुरागस्ते कामेशं कथयाम्यतः

॥११७॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे वीरेश्वराख्यानं नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥